विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेषे कर्माधिकारः स्यात् इति आशङ्क्य आह -
न हीति ।
कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं तस्मात् इति यावत् । ज्ञानवतः देहधारणेऽपि तदभिमानित्वाभावः अतःशब्दार्थः ।
अज्ञस्य सर्वकर्मत्यागायोगम् उक्तं हेतूकृत्य फलितमाह -
तस्मादिति ।
कर्मानुष्ठायिनः त्यागित्वोक्तिः अयुक्ता इति आशङ्क्य आह -
कर्म्यपीति ।
कर्मिणापि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थम् इत्यर्थः ।
कस्य तर्हि सर्वकर्मत्यागः सम्भवति ? इति आशङ्क्य विवेकवैराग्यादिमतः देहाभिमानहीनस्य इत्युक्तं निगमयति -
तस्मादिति
॥ ११ ॥