न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥
न हि यस्मात् देहभृता, देहं बिभर्तीति देहभृत् , देहात्माभिमानवान् देहभृत् उच्यते, न विवेकी ; स हि ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यादिना कर्तृत्वाधिकारात् निवर्तितः । अतः तेन देहभृता अज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माणि अशेषतः निःशेषेण । तस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसंन्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेण । तस्मात् परमार्थदर्शिनैव अदेहभृता देहात्मभावरहितेन अशेषकर्मसंन्यासः शक्यते कर्तुम् ॥ ११ ॥