श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी त्यागीत्यभिधीयते ॥ ११ ॥
हि यस्मात् देहभृता, देहं बिभर्तीति देहभृत् , देहात्माभिमानवान् देहभृत् उच्यते, विवेकी ; हि वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यादिना कर्तृत्वाधिकारात् निवर्तितःअतः तेन देहभृता अज्ञेन शक्यं त्यक्तुं संन्यसितुं कर्माणि अशेषतः निःशेषेणतस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसंन्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेणतस्मात् परमार्थदर्शिनैव अदेहभृता देहात्मभावरहितेन अशेषकर्मसंन्यासः शक्यते कर्तुम् ॥ ११ ॥

विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेषे कर्माधिकारः स्यात् इति आशङ्क्य आह -

न हीति ।

कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं तस्मात् इति यावत् । ज्ञानवतः देहधारणेऽपि तदभिमानित्वाभावः अतःशब्दार्थः ।

अज्ञस्य सर्वकर्मत्यागायोगम् उक्तं हेतूकृत्य फलितमाह -

तस्मादिति ।

कर्मानुष्ठायिनः त्यागित्वोक्तिः अयुक्ता इति आशङ्क्य आह -

कर्म्यपीति ।

कर्मिणापि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थम् इत्यर्थः ।

कस्य तर्हि सर्वकर्मत्यागः सम्भवति ? इति आशङ्क्य विवेकवैराग्यादिमतः देहाभिमानहीनस्य इत्युक्तं निगमयति -

तस्मादिति

॥ ११ ॥