अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः

श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः

शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः

१३. सूक्ष्मशरीरम् – २४. साक्षिस्वरूपम्

१३. सूक्ष्मशरीरम्

निग­द्य­तेऽ­न्तः­क­रणं मनो धीः
अह­ङ्कृ­ति­श्चि­त्त­मिति स्ववृत्तिभिः ।
मनस्तु सङ्क­ल्प­वि­क­ल्प­ना­दिभिः
बुद्धिः पदा­र्था­ध्य­व­सा­य­ध­र्मतः ॥९५॥

९५

अत्रा­भि­मा­ना­द­ह­मि­त्य­ह­ङ्कृतिः
स्वार्था­नु­स­न्धा­न­गु­णेन चित्तम् ॥९६॥

९६

अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धीः बुद्धिः, अहङ्कृतिः अहङ्कारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः । नाम­च­तु­ष्ट­य­नि­मि­त्त­वृ­त्ती­राह सङ्क­ल्प­वि­क­ल्प­ना­दिभिः मन इति, सङ्कल्पः सम्य­क्त्व­बुद्धिः विकल्पना विविधं कल्पना संशय इति यावत् । पदार्थाध्यवसायः पदार्थनिर्णयः तद्रूपधर्मतः वृत्तितः बुद्धिरुच्यते । अत्र शरीरादौ अभिमानात् अहमित्यध्यासात् अहङ्कृतिः अहङ्कार इति च उच्यते । स्वार्था­नु­स­न्धा­न­गु­णेन स्मर­ण­वृ­त्त्ये­त्यर्थः चित्तमिति कथ्यते ॥९६॥

एवं सत्त्वांशोपेतैः प्रत्येकं पञ्चभिः भूतैः क्रमेण जायमानानि ज्ञाने­न्द्रि­याणि प्रत्येकं तैरेव रजोगुणोपेतैः उत्पद्यमानानि कर्मे­न्द्रि­याणि, सत्वप्रधानानां तेषां सम­ष्टि­का­र्य­म­न्तः­क­रणं च निरूप्य इदानीं रजों­शो­पे­त­भू­त­प­ञ्च­क­स­म­ष्टि­कार्यं सूक्ष्मशरीरघटकं प्राणमाह प्राणापानेति −

प्राणा­पा­न­व्या­नो­दा­न­स­माना भवत्यसौ प्राणः ।
स्वयमेव वृत्ति­भे­दा­द्वि­कृ­ते­र्भे­दा­त्सु­व­र्ण­स­लि­ल­मिव ॥९७॥

९७

यथा एकमेव सुवर्णं कटकं केयूरं कुण्ड­ल­मि­त्या­दि­वि­कृ­ति­भे­देन भवति, यथा च विकृतेर्भेदेन एकमेव जलं नदी कुल्या तटा­क­मि­त्या­दि­रीत्या भेदेन भवति तथा असौ शरी­रा­न्त­स्स­ञ्चारी प्राणः स्वयमेव वृत्तिभेदात् प्राण­ना­पा­न­न­व्या­न­न­स­मा­न­नो­दा­न­न­रू­प­वृ­त्ति­भे­दात् प्राणा­पा­न­व्या­नो­दा­न­स­माना इति भेदेन भवति । सुवर्णसहितं सलिलं सुवर्णसलिलमिति विग्रहः । प्रत्येकमर्थो बोद्धव्यः । यथा विकृतेर्भेदात् एकमेव सुवर्णं भिन्नत्वेन व्यवह्रियते, यथा च विकृतेर्भेदादेव एकमेव जलं तर­ङ्ग­फे­न­बु­द्बु­दा­दि­भे­देन व्यवह्रियते तद्वदित्यर्थः । तत्र प्राणनं मुखनासिकाभ्यां निष्क्र­म­ण­प्र­वे­श­नम् , अपाननं मलादीनाम् अधोनयनं, व्याननम् अशि­त­पी­ता­न्न­र­सादेः नाडीमुखेषु वितननं, ऊर्ध्वं नयनम् उदाननं वमनकाले, भुक्त­स्या­न्न­र­सादेः पाकार्थं जाठराग्नेः समुन्नयनं समाननम् इति वृत्तयः पञ्च प्राणस्य ॥९७॥

इदानीं ज्ञाने­न्द्रि­या­दीनि यत्क­थ­ना­र्थ­म­भि­हि­तानि तत्सूक्ष्मशरीरं विशिष्टमाह वागादीति −

वागादिपञ्च श्रवणादिपञ्च
प्राणा­दि­प­ञ्चा­भ्र­मु­खानि पञ्च ।
बुद्ध्या­द्य­वि­द्याऽपि च कामकर्मणी
पुर्यष्टकं सूक्ष्म­श­री­र­माहुः ॥९८॥

९८

वागादिपञ्च कर्मे­न्द्रि­याणि, श्रवणादिपञ्च ज्ञाने­न्द्रि­याणि, प्राणादिपञ्च प्राणपञ्चकम् , अभ्रमुखाणि पञ्च आका­शा­दि­सू­क्ष्म­भू­त­प­ञ्च­कम् । बुद्ध्यादि अन्तः­क­र­ण­च­तु­ष्ट­यम् , अविद्या अध्यासः, कामकर्मणी, कामः इच्छा, कर्म धर्माधर्माख्यम् । एतत्सर्वं मिलितं पदा­र्था­ष्ट­क­स­मु­दा­यो­पेतं पुर्यष्टकं सूक्ष्म­श­री­र­माहुः वेदान्तिन इति शेषः । १. वागादिपञ्चकम् , २. श्रवणादिपञ्चकम् , ३. प्राणपञ्चकम् , ४. भूतपञ्चकम् , ५. बुद्ध्या­दि­च­तु­ष्ट­यम् , ६. अविद्या, ७. कामः, ८. कर्म ॥९८॥

अस्या­प्य­ने­क-प­दा­र्थ­स­ङ्घा­त­रू­प­त्वात् संहतानां गृहवत् परार्थत्वात् अनात्मत्वं स्पष्टं कथयति इदमिति −

इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वप­ञ्ची­कृ­त­भू­त­स­म्भ­वम् ।
सवासनं कर्मफलानुभावकं
स्वाज्ञा­न­तोऽ­ना­दि­रु­पा­धि­रा­त्मनः ॥९९॥

९९

सूक्ष्मसंज्ञितं सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य सञ्जातेति सूक्ष्म­सं­ज्ञि­तम् , इदं शरीरम् । तस्य जन्यत्वादपि नित्या­त्म­रू­पत्वं नेत्याह अप­ञ्ची­कृ­त­भू­त­स­म्भ­वम् । अपञ्चीकृतानि यानि भूतानि गगनादीनि पृथ्व्यन्तानि तेभ्यः सम्भवः उत्पत्तिः यस्य तत् , इदं सूक्ष्म­सं­ज्ञि­तत्वे हेतुः । लिङ्गं लिगि इत्यस्माद्धातोः ज्ञापकमात्मन इत्यर्थः । वागादीनां करणानां जडानाम् अधि­ष्ठा­ता­र­म­न्तरा तत्तत्कार्ये प्रवृ­त्त्य­नु­प­पत्तेः, अचेतनं चेतनाधिष्ठितं कार्यं करोतीति व्याप्तेः रथादौ दृष्टत्वात् । बहि­र­न्तः­क­र­ण­घ­टि­तम् इदं शरीरमेव लिङ्ग­मि­त्यु­च्यते इत्यर्थः ।

तुरवधारणे, सुषुप्तौ ज्ञानस्य सर्व­म­त­सि­द्ध­त्वा­भा­वात् जागरे स्वप्ने च मनोमूलकतयैव ज्ञानस्य जायमानत्वात् मनसोऽपि जडस्य आत्म­प्र­ति­फ­ल­न­म­न्तरा इत­र­प्र­का­श­क­त्वा­स­म्भ­वा­दा­त्म­प्र­ति­बि­म्ब­ग्रा­हि­त्वेन आत्म­ज्ञा­प­क­म­नो­घ­टि­त­त्वाच्च अस्य शरीरस्य लिङ्गत्वमित्यपि बोध्यम् । नेदं स्थूलकारणयोः सम्भवतीति च । आत्मनः निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशित्वेन बहुत्वादामोक्षं स्थायि­त्वा­स­म्भ­वात् पूर्व­पू­र्व­सं­स्का­राणां जनि­ष्य­मा­णा­नु­भ­व­ज­न्य­सं­स्का­राणां च आमोक्षं स्थायि­लि­ङ्ग­श­री­र­मे­वा­श्रय इत्याह सवासनमिति । वासनाभिः अनु­भ­व­ज­न्य­सं­स्कारैः सह वर्तत इति सवासनम् । भोग­हे­तु­त्व­म­प्य­स्यै­वे­त्याह, कर्मफलानुभावकं कर्मणः पुण्यस्य पापस्य च क्रमेण फले ये सुखदुःखे तदनुभवः भोगः तज्जनकम् । सुषुप्तौ सवासनस्य लिङ्गशरीरस्य विलीनत्वादेव कर्म­ज­सु­ख­दुः­खा­नु­भ­वा­भावः । जाग्र­त्स्व­प्न­योस्तु तथाविधस्य लिङ्गशरीरस्य सत्वात्तदनुभवः इत्य­न्व­य­व्य­ति­रे­काभ्यां भोगहेतुत्वं तस्य ज्ञेयम् । आत्मनः अनादिरुपाधिः इदं लिङ्गशरीरं, सूक्ष्म­भू­त­ज­न्य­मपि महाप्रलयादावपि अभि­व्य­क्त्य­न­भि­व्य­क्ति­भ्या­मे­क­मे­वाऽऽ­वि­दे­ह­कै­व­ल्य­म­व­ति­ष्ठत इति स्थूल­श­री­र­व­त्सा­दित्वं नास्ति । ननु अवि­द्या­श­ब्दि­ता­ध्या­स­का­म­क­र्मणां भिन्न­भि­न्ना­ना­मेव तदा तदा जायमानत्वात् तद्घ­टि­त­लि­ङ्ग­श­री­रस्य कथमेकस्यैव स्थिरत्वं सम्भवतीति चेत् । तेषां तथात्वेऽपि वागा­दी­न्द्रि­याणां बाह्यानाम् अन्तःकरणस्य च बुद्ध्या­दे­र­भि­न्ना­ना­मेव आमोक्षं स्थितेरेकत्वं मन्तव्यम् । न च वागादावपि भेदो वक्तव्यः, गौरवात् । कर्म­प्र­ति­ब­न्धा­न्मू­क­त्वा­द्यु­प­पा­द­न­स­म्भ­वात् । सर्व­क­र्म­सं­स्का­रा­स्प­दस्य अन्तःकरणस्य भेदस्य सुतरां वक्तु­म­श­क्य­त्वात् । तत्रापि भेदे कृत­हा­ना­कृ­ता­भ्या­ग­मा­पत्तेः । पूर्व­कृ­त­क­र्मा­द्या­श्र­यस्य अन्तःकरणस्य नष्टत्वात् , नूतनान्तःकरणे कर्म­वा­स­ना­द्य­भा­वात् संसा­रा­नु­प­प­त्तिश्च । बालकस्य स्तन्यपाने प्रवृ­त्ति­र्न­स्यात् । आत्मनः निर्धर्मकत्वात् अविद्याया एकत्वात् सुख­दुः­खा­दि­स­ङ्क­र­प्र­स­ङ्गात् । सुषुप्तौ भोग­स्मृ­त्या­द्यु­त्प­त्ति­प्र­स­ङ्गात् , अतो गौर­वा­दु­क्त­दो­षाच्च वागादीनां बुद्धेश्च आवि­दे­ह­कै­व­ल्य­म­भि­न्ना­ना­मेव स्थितिरिति मन्तव्यम् । यद्यपि तेषां प्राग­भा­वा­प्र­ति­यो­गि­त्व­रू­पा­ना­दि­त्वम् अविद्याया इव न सम्भवति, तथापि सकृ­दु­त्प­न्ना­नाम् अभिन्नानामेव स्थितिरिति तात्पर्येण अनादित्वमुक्तम् । वस्तुतः आत्मनः एकत्वेऽपि ज्ञानिष्वपि वर्तमानस्य ब्रह्मवित् ब्रह्मविद्वरः ब्रह्म­वि­द्व­री­यान् ब्रह्म­वि­द्व­रिष्ठः इति भूमि­का­भे­द­व्य­व­हा­रस्य अन्तःकरणभेदेनैव उपपादनीयत्वात् याव­त्का­र्य­म­व­स्था­यि­भे­द­हे­तो­रु­पा­धिता इति लक्षणं लिङ्गशरीरस्य निष्प्र­त्यू­ह­मिति उपाधित्वं तस्य । ननु असङ्गत्वेन केना­प्य­नु­प­धी­य­मा­नस्य आत्मनः कथं लिङ्गेन सोपा­धि­क­त्व­मि­त्यत आह स्वाज्ञानतः, स्वस्वरूपस्य इदा­नी­म­ज्ञा­त­त्वात् तन्मूलकः कल्पितः उपाधिरित्यर्थः ॥९९॥

अस्य सूक्ष्मशरीरस्य असा­धा­र­णी­म­व­स्था­माह स्वप्न इति −

स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्र­त्का­ली­न­ना­ना­वि­ध­वा­स­नाभिः ।
कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयञ्ज्योतिरयं परात्मा ॥१००॥

१००

अस्य सूक्ष्मशरीरस्य, विभक्त्यवस्था भेदकावस्था स्वप्नो भवति । जागरस्य स्थूल­सा­धा­र­ण­त्वात् सुषुप्तावस्यैव लीनत्वात् स्वप्न एव सूक्ष्मस्य प्राधान्यमिति भावः । तत्र हेतुं सङ्गृह्णाति स्वमा­त्रे­त्या­दिना । स्वमेव स्वमात्रं तस्य शेषः अवशिष्टत्वम् अभिमन्यमानेन स्वेनैव केवलमित्यर्थः । तदा स्थूलदेहे अभिमानाभावात् सूक्ष्म­दे­ह­स्यै­क­स्यैव विशे­ष­तोऽ­भि­म­न्य­मा­न­त्व­मिति । यत्र स्वप्ने स्वमा­त्र­प­रि­शे­षेण स्थूलाभिमानं परित्यज्य सूक्ष्म­श­री­र­मा­त्र­वि­ष­य­केण अभिमानेन विभाति प्रकाशते, आत्मा इति शेषः । सङ्गृहीतमर्थं स्वमात्रशेषत्वं विवृणोति स्वप्ने­त्वि­त्या­दिना । स्वप्ने तु स्वप्नावस्थायां बुद्धिः अन्तःकरणं, स्वयमेव कार­का­न्त­र­नि­र­पेक्षं, जाग्र­त्का­ली­न­ना­ना­वि­ध­वा­स­नाभिः जाग्रदवस्थायां जातैः बहुविधैः संस्कारैः, कर्त्रादिभावं कर्तृत्वं कर्मत्वं क्रियात्वं करणत्वम् अधिकरणत्वं सक­ल­क्रि­या­का­र­क­भा­व­मिति यावत् । प्रतिपद्य प्राप्य, राजते प्रकाशते । ननु जडस्य अन्तःकरणस्य कथमीदृशी शक्तिः ? शरी­रा­न्त­र्ग­त­ना­डीषु हिताभिधानासु यदा मनः सञ्चरति तदा स्वप्न इति श्रुत्या प्रतीतेः तत्र प्रकाशस्य दूरापास्तत्वात् इति चेत्तत्राह यत्र स्वयं ज्योतिरयं परात्मा इति ।

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ (क.उ. ५.१५)

यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (भ.गी. १५.१२)

इति श्रुति­स्मृ­तिभ्यां जेगीयमानमहिम्नः पराप्रकाश्यस्य ज्योतीरूपस्य चैतन्यज्योतिषः परमात्मनः सम्बन्धात् अन्तःकरणस्य इयं शक्तिः जाग्र­त्का­लि­क­वा­स­ना­स­ह­कृ­तस्य । ननु ‘सत्यं ज्ञानं’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘प्रज्ञानं ब्रह्म’(ऐ.उ. ३.३) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इत्या­दि­श्रु­तिभ्यः आत्मनः सार्व­दि­क­चै­त­न्य­ज्यो­ती­रू­प­त्वेन स्वयं ज्योतिष्ट्वस्य सर्वदा सत्त्वेन किं विशेषतः यत्र स्वयञ्ज्योतिरयं परात्मा इति स्वप्न एव तदुच्यते इति चेच्छृणु तत्र कारणम् । बृह­दा­र­ण्य­क­ग­त­ज्यो­ति­र्ब्रा­ह्म­णस्य आमूलचूडं परिशीलनेन इदं स्पष्टं सुज्ञानम् । तत्र हि ‘किं ज्योतिरयं पुरुषः’(बृ.उ. ४.३.२) इति जनकेन पृष्टो भगवान् याज्ञवल्क्यः आदौ सर्व­लो­क­प्र­सिद्धं सूर्यं, तस्मिन्नस्तमिते चन्द्रमसं तस्मिन्नस्तं याते अग्निं, तस्मिन् शान्ते वाचं, शान्तायां च तस्यामात्मानं ज्योतिरुवाच, ‘शान्तायां वाचि किं ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीति आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति’(बृ.उ ४.३.६) इत्यन्तेन । यद्यपीदं ज्योतिष्ट्वं सदातनं, तथापि जाग्रति कर­णा­द्य­नु­ग्रा­ह­का­णा­मि­त­रे­षा­मा­दि­त्या­दीनां बाह्यानां ज्योतिषां सत्त्व­द­शा­या­मा­न्त­र­बा­ह्य­का­र्य­क­र­ण­स­ङ्घा­त­व्य­व­हा­रस्य सङ्कुलतायां च न विविक्तं दर्शयितुं शक्यते । सुषुप्तौ विविक्तत्वेऽपि प्रका­श्य­व­स्तु­नोऽ­भा­वात् तदा सर्वस्य दृश्यस्य लीनत्वात् । यद्यप्यस्ति अज्ञानं तथापि तद् अभावरूपत्वेन चर्चास्पदम्, अतः जाग्रत्काल इव यत्र व्यवहारः सर्वो वर्तते अपि तु बाह्यज्योतींषि न सन्ति स्थूलशरीरं नास्ति बाह्यकरणानां चोप­र­त­व्या­पा­रत्वं तदा मनः एकमेव आत्म­ज्यो­तिः­प्र­ति­फ­ल­न­म­हिम्ना जाग्र­द्वा­स­ना­वि­शिष्टं सर्वाकारतां भजते इति विविक्ते तस्मिन्काले स्वय­ञ्ज्यो­ति­ष्ट्व­मु­प­दि­श्य­मानं सुग्रहं भव­ती­त्य­भि­प्रा­येण ‘अत्रायं पुरुषः स्वयं ज्योतिः (बृ.उ. ४.३.९.१४) इत्युक्तिः । यथा सर्वदापि सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हि­ता­बा­धि­त­ब्र­ह्म­रू­पेण जगतः सत्त्वेपि सृष्टेः प्राक् ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.१) इति श्रोतृ­बु­ध्या­रो­हाय छान्दोग्ये उपदिष्टं तद्वत् स्वप्ने मनसः जाग्र­त्सं­स्का­र­यु­क्त­स्यापि जडस्य पर­प्र­का­श्य­त्व­नि­य­मात् चैत­न्य­ज्यो­ति­स्स्व­रू­प­प­र­मा­त्म­प्र­ति­फ­ल­न­व­शा­देव सूर्य­च­न्द्रा­दि­प्र­का­श­क­रू­पेण घट­प­टा­दि­प्र­का­श्य­रू­पेण परि­ण­म­मा­न­त्व­यो­ग्यता । अत एव अन्धादयोऽपि स्वप्ने पदार्थान् पश्यन्ति । तेषां जागरे चक्षुरभावात् कथं दर्शनम् ? मन एव चक्ष्रूरूपेण आत्मशक्त्या परिणमत इत्येव वक्तव्यम् । एवं चक्षु­रा­दि­त्या­दि­ज्यो­ति­र­भा­व­द­शायां प्रति­भा­स­मा­न­स­क­ल­प­दा­र्थ­भा­स­क­त्वम् आत्मन एवेति श्रोतृबुद्धौ स्फुटमारोहयितुं शक्यत्वात् यत्र स्वयं ज्योतिरयं परात्मा इति श्रुत्य­नु­सा­रे­णोक्तं मूले ॥१००॥

आलोकदानेन सक­ल­प्रा­णि­प्रे­र­कोऽपि सूर्यः यथा तत्कर्मभिः न सज्यते एवमात्मापि बुद्धि­कृ­त­क­र्म­णे­त्य­स­ङ्ग­त्व­मपि प्रसङ्गादाह ज्योति­ष्ट्व­स्वा­भा­व्यात् धीमा­त्र­को­पा­धि­रिति −

धीमा­त्र­को­पा­धि­र­शे­ष­साक्षी
न लिप्यते तत्कृतकर्मलेपैः ।
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किञ्चिदुपाधिना कृतैः ॥१०१॥

१०१

धीरेव धीमात्रं स्वार्थे कप्रत्ययः, धीमात्रकम् उपाधिर्यस्य स्वप्ने धीमात्रकोपाधिः तत्कृतकर्मलेपैः तया धिया कृतानि यानि कर्माणि तेषां लेपैः सम्बन्धैः न लिप्यते विशिष्टो न भवति । तत्र हेतुः अशेषसाक्षीति, अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् , कर्तुरेव कर्मलेपात् , न हि लोकेऽपि वादि­प्र­ति­वा­दि­क­र्मभिः सम्बध्यते साक्षी, तद्वदित्यर्थः । ‘असङ्गोह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो न हि सज्जते’(बृ.उ. ३.९.२६) इत्या­दि­श्रु­त्य­नु­सा­रे­णा­स­ङ्ग­त्वाच्च । बुद्ध्या वागादिना वा केनाप्युपाधिना क्रिय­मा­ण­क­र्म­ले­पोऽ­प्यस्य नास्तीत्याह यस्मादसङ्ग इति । तत एव अस­ङ्ग­त्व­रू­प­का­र­णा­देव उपाधिना कृतैः शरीरेण वा वाचा वा मनसा वा केनाप्युपाधिना कृतैः कर्मभिः समी­ची­ना­स­मी­ची­न­क­र्मभिः किञ्चिदपि न लिप्यते न सम्बद्धो भवति ॥१०१॥

सङ्ग­स्तू­पा­धि­क­ल्पितः, वास्त­वि­क­म­स­ङ्ग­त्व­मि­त्यु­प­पा­द­यति −

सर्व­व्या­पृ­ति­क­रणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥१०२॥

१०२

चिदात्मनः ज्ञानस्वरूपस्य, पुंसः पुरुषस्यात्मनः, इदं लिङ्गं बुध्यादिघटितं लिङ्गशरीरं, तक्ष्णः त्वष्टुः वास्यादिकमिव तक्ष­ण­क­र­ण­द्र­व्य­वि­शे­षा­दि­क­मिव सर्व­व्या­पृ­ति­क­रणं सक­ल­व्या­पा­रा­सा­धा­र­ण­का­रणं तक्ष्णोऽपि तक्षणकरणसत्व एव दार्वा­दि­त­क्ष­ण­सा­मर्थ्यं न स्वाभाविकं, तथात्मनोऽपि आज्ञा­नि­क­लि­ङ्ग­श­री­र­स­म्बन्ध एव सकलोव्यवहारः । अत एव सुषुप्तौ न व्यवहारः लिङ्ग­श­री­र­स­म्ब­न्धस्य तदा अभावात् तेनैव लिङ्ग­श­री­र­सत्त्वे व्यापृतिः तदभावे तदभाव इति लोकसिद्धहेतुनैव । अयम् आत्मा, असङ्गः वास्त­वि­क­स­क­ल­व्य­व­हा­र­स­ङ्ग­हीनः भवतीत्यर्थः ॥१०२॥

ननु अहं­प्र­ती­ति­वि­ष­य­स्यै­वा­त्म­त्वात् अहमन्धः अहं बधिरः अहं मूकः अहमुच्छ्वसिमि क्षुत्पि­पा­सा­पी­डि­तोऽस्मि अहं करोमि सुखी दुःखीत्यादि बहु­त­र­ध­र्म­स­म्ब­न्धात् अस­ङ्ग­त्व­म­नु­प­प­न्न­मा­त्मन इति चेत् , तेषां सर्वेषां धर्माणां तत्त­दु­पा­धि­ग­त­त्वा­दा­त्मनः कोऽपि धर्मः सांसारिकः नास्तीति वक्तु­मु­पा­धि­ध­र्मान् विभजते अन्ध­त्वे­त्या­दिना −

अन्ध­त्व­म­न्द­त्व­प­टु­त्व­धर्माः
सौगु­ण्य­वै­गु­ण्य­व­शाद्धि चक्षुषः ।
बाधि­र्य­मू­क­त्व­मु­खा­स्त­थैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥१०३॥

१०३

आदौ बहि­रि­न्द्रि­य­ध­र्मा­नाह । चक्षुषः सौगुण्यवशात् पटुत्वं, वैगु­ण्य­व­शा­द­न्धत्वं मन्दत्वम् । एवं श्रोत्र­वै­गु­ण्यात् बाधिर्यं मन्दत्वम् । तत्सौगुण्यात् पटुत्वम् । वागि­न्द्रि­य­वै­गुण्ये मूकत्वं, तत्सौगुण्ये पटुत्वम् । एवं त्वग्घ्रा­ण­र­स­न­रू­पेषु ज्ञाने­न्द्रि­येषु पाणिपादादिषु कर्मेन्द्रियेषु च वेदितव्यम् । एतत्सर्वं नात्मनः । तत्र हेतुमाह वेत्तुरिति । चक्षुरादौ मन्द­त्व­प­टु­त्वा­दिकं वर्तमानं साक्षिणाऽऽत्मना वेद्यत इति न वेद्यस्य वेत्तृधर्मत्वं सम्भवतीति भावः । तुरवधारणे नैवेत्यर्थः ॥१०३॥

उच्छ्वा­स­क्षु­त्पि­पा­सादेः प्राणधर्मत्वमाह उच्छ्वासेति −

उच्छ्वा­स­नि­श्वा­स­वि­जृ­म्भ­ण­क्षुत्
प्रस्प­न्द­ना­द्यु­त्क्र­म­णा­दिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे ॥१०४॥

१०४

प्राणा­दी­त्या­दि­प­देन अपानादीनां नागादीनां च परिग्रहः । उच्छ्वासः प्राणस्य, निश्वासः अपानस्य, विजृम्भणं देवदत्तस्य, क्षुतं कृकरस्य, प्रस्पन्दनं प्रकर्षेण चलनं व्यानस्य धनञ्जयस्य वा । आदिपदेन उन्मीलनपरिग्रहः । तत्तु कूर्मस्य, उत्क्र­म­ण­मु­दा­नस्य, आदिपदेन वमनं तदपि तस्यैव । एतानि कर्माणि प्राणादीनां तज्ज्ञाः वदन्ति । इदमिदं कर्म अस्येति विशेषज्ञाः इत्यर्थः । एवमशनापिपासे क्षुत् पिपासा च प्राणस्य धर्मौ । अत एव निद्रायां क्षुत्पि­पा­सा­द्य­भावः तदा प्राणे अभिमानाभावात् ॥१०४॥

यद्ये­व­म­न्ध­त्वा­दी­ना­मा­ना­त्म­च­क्षु­रा­दि­ध­र्मत्वं, कुतो वा अयमात्मा स्वात्मानं तद्धर्मवन्तं जानातीति शङ्कायामाह अन्तःकरणमिति −

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥१०५॥

१०५

अन्तःकरणं मनः, एतेषु चक्षुरादिषु ज्ञाने­न्द्रि­येषु वागा­दि­क­र्मे­न्द्रि­येषु प्राणादिषु, वर्ष्मणि स्थूलशरीरे च, आभासतेजसा चित्प्र­ति­फ­ल­न­प्र­यो­ज्य­ते­जसा जीवेनेत्यर्थः । अहमित्यभिमानेन अज्ञा­न­प्र­यो­ज्येन तादा­त्म्या­भि­मा­नेन तिष्ठति । यतः विवेकशून्यम् आत्मा­ना­त्म­वि­वे­क­शू­न्यम् अन्तःकरणं स्वप्रतिबिम्बं गृहीत्वा चेतनीभूय चक्षुरादिकं शरीरान्तम् अहमित्यभिमन्यते । अतः तद्वशः आत्मापि तद्धर्मान् अन्धत्वादीन् स्वस्मि­न्क­ल्प­यित्वा अहमन्ध इत्यादिरीत्या व्यवहरतीत्यर्थः । सुषु­प्ता­व­न्तः­क­रणे आत्मप्रतिफलनमपि नास्ति अहमन्ध इत्यादि व्यवहारोऽपि नास्ति । एवं स्वप्ने प्रति­फ­ल­न­स­त्त्वेऽपि चक्षुरादौ आभासतेजसा अन्तःकरणं न तिष्ठति स्वप्ने बाह्यकरणगणस्य लयादित्यपि वेदितव्यम् । तेनैव स्वप्नेऽपि अन्ध­त्वा­दि­व्य­व­हारः जाग्रतीव नास्तीति भावः ॥१०५॥

एवं बाह्यः सर्वः संसारः अन्तःकरणमूलकः आत्मन इत्युक्त्वा कर्तृ­त्व­सु­ख­दुः­खा­दि­कम् आन्तरं तस्यैवेत्याह अहङ्कार इति −

अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽ­भि­मा­न्य­यम् ।
सत्त्वा­दि­गु­ण­यो­गे­ना­व­स्था­त्रि­त­य­म­श्नुते ॥१०६॥

१०६

एवं चित्प्र­ति­बि­म्ब­वि­शि­ष्ट­म­न्तः­क­र­ण­मेव चक्षुरादौ शरीरे च अहमित्यभिमानेन वर्तमानम् अहङ्कार इति विज्ञेयम् । स इति विधे­य­प्रा­धा­न्या­न्नि­र्देशः । अयमेव कर्ता भोक्ता इत्यभिमानी ।
अस्य सत्त्व­र­ज­स्त­मो­रू­प­गु­ण­त्र­य­म­य­प्र­कृ­ति­का­र्य­त्वात् सत्त्वा­दि­गु­ण­यो­गेन अवस्थात्रितयं जाग्र­त्स्व­प्न­सु­षु­प्ति­रू­पा­व­स्था­त्र­यम् अयम् अश्नुते प्राप्नोति रजोगुणयोगेन जागरः, सत्त्वयोगेन स्वप्नः, तमसा सुषुप्तिरिति भेदः । सर्वदा गुणत्रयसत्वेऽपि तदा तदा तस्य औत्कट्यं ज्ञेयम् ॥१०६॥

एवं कर्तृ­त्व­भो­क्तृत्वे आन्तरे तद्ध­र्मा­वि­त्युक्त्वा सुखदुःखयोरपि तद्धर्मत्वमाह विषयाणामिति −

विष­या­णा­मा­नु­कूल्ये सुखी दुःखी विपर्यये ।
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥

१०७

विषयाणां शब्दादीनाम् आनुकूल्ये स्वकी­ये­च्छा­नु­सा­रेण सम्प्राप्तौ सुखी, अहं सुखीति प्रतीतिः । विपर्यये प्रातिकूल्येन स्वेच्छाविरोधेन प्रसक्तौ दुःखी, अहं दुःखीत्यभिमानः । अतः सुखं दुःखं च तद्धर्मः तदि­च्छा­नु­रो­धि­त्वा­त्तयोः, सदा सर्वदा आनन्दस्य आनन्दस्वरूपस्य ‘आनन्दो ब्रह्म’(तै.उ. ३.६) , ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) , ‘रसो वै सः’(तै.उ. २.८) , ‘यदेष आकाशः’(तै.उ. २.७) इत्या­दि­श्रु­तिभ्यः, आत्मनः न धर्म इत्यनुषज्यते । युज्यते चैतत् विचार्यमाणे कालान्तरे यः शब्दः सुखमजीजनत् स एव कालान्तरे दुःखं जनयतीति प्रसिद्धं लोके । तत्र मनोभेदं विना नान्यस्य हेतुत्वं सुवचं विष­य­स्यै­क­रू­प­त्वात् कालस्य च । तेनैव शब्देन पुरु­षा­न्त­र­सु­खो­त्प­त्ते­र्द­र्श­नात् तस्मिन्नेव कालेऽ­हे­तु­त्वा­यो­गात् । मनस्तु पूर्वमिमं शब्दमनुकूलं व्यजानात् इदानीं तु प्रतिकूलं मन्यते इति तस्यैव सुखं दुःखं च धर्म इति ॥१०७॥

इदानीं श्रुतिप्रसिद्धं सदा­न­न्द­त्व­मा­त्मनः युक्त्या प्रतिपादयति आत्मा­र्थ­त्वे­नेति −

आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥१०८॥

१०८

हि यस्मात्कारणात् विषयः स्वतः विषयत्वेन हेतुना न प्रियः प्रीतिगोचरः किन्तु आत्मार्थत्वेन आत्मनः सुखं दुःखनिवृत्तिं वा जनयतीति प्रेयान् प्रेमविषयः । यदि स्वत एव विषयत्वेन शब्दादिरूपत्वेन प्रेयान् स्यात् कदापि प्रेयस्त्वं न व्यभिचरेत् । त्यजन्ति पूर्वमिष्टत्वेन ज्ञातमपि शब्दादिकं पुत्र­मि­त्र­क­ल­त्रा­दिकं च । शरीरमपि दण्डयन्ति प्राणं निरुन्धन्ति मनश्च लयमापादयन्ति किमन्यत् , आनन्दमयकोशत्वेन प्रसिद्धम् अज्ञानमपि भञ्जयन्ति । तत्र कारणमितरत्र आन­न्द­रू­प­त्वा­भावः आन­न्द­प्र­यो­ज­क­त्व­स्या­प्य­नि­य­त­त्वम् । आत्मनस्तु आनन्दरूपत्वस्य स्वतः­सि­द्ध­त्वात् सर्वदा प्रियतमत्वम् , उक्तं हि –

मा न भूवं हि भूयासमिति प्रेमा­त्म­नी­क्ष्यते (पं.द. १.८)

इति । कदापि मा भूवमिति न, अपि तु सर्वदा भूयासमिति तदर्थः । तत्तु आत्मनः एकस्यैव युज्यते । स्थूलं स्वप्ने न भासते, सूक्ष्मं सुषुप्तौ न, कारणं न समाधौ । शब्दादिविषयाश्च न सुषु­प्ति­स­माध्योः । यदा स्थितिस्तेषां जागरस्वप्नयोः तदापि नैयत्येन आन­न्द­ज­न­क­त्वा­भावः । इद­मु­प­पा­दि­त­म­ध­स्तात् । अतः सर्वावस्थासु अनुवर्तमानः विषयाद्यभावेऽपि सक­ल­प्रा­णि­सि­द्ध­तया सुषुप्तौ, ज्ञान्यनुभवेन समाधौ च आनन्दरूपत्वेन अनुभवगोचरः आत्मा स्वत एव निरुपाधिकतया सर्वेषां प्राणिनां प्रियतमो मतः, हि यस्मात् ॥१०८॥

तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।
यत्सुषुप्तौ निर्विषय आत्मा­न­न्दोऽ­नु­भू­यते ।
श्रुतिः प्रत्य­क्ष­मै­ति­ह्य­म­नु­मानं च जाग्रति ॥१०९॥

१०९

ततः सर्वदा सर्व­प्रा­णि­प्रि­य­त­म­त्वात् आत्मा सदानन्दः सर्व­दा­प्या­न­न्द­स्व­रूपः । अस्य दुःखम् आनन्दस्वरूपस्य, कदाचन कदापि नास्तीत्यर्थः । तत्रानुभवं प्रमाणयति यदिति । यस्मात्सुषुप्तौ अवस्थायां, निर्विषयः आन­न्द­हे­तु­त्वे­ना­भि­मत शब्द­स्प­र्श­रू­प­र­स­ग­न्धा­दि­स­क­ल­वि­ष­य­स­म्ब­न्ध­नि­र्मुक्तः, आत्मानन्दः स्वरूपानन्दः स्वभावसिद्धः अनुभूयते, सर्वैरपीति शेषः । अस्यानुभवस्य देहा­त्मा­नु­भ­व­वन्न भ्रान्तित्वं वक्तव्यमित्याह श्रुतिरिति । ‘एषोऽस्य परम आनन्दः’(बृ.उ. ४.३.३२) , ‘एषास्य परमा सम्पत्’(बृ.उ. ४.३.३२) इति सौषु­प्ता­न­न्द­स्यैव अज्ञा­नि­प­र­मा­न­न्द­त्व­स­ङ्की­र्त­नात् । युक्तं ह्येतत् वैषिकानन्दः सामयः अयं निरामय इति । अत एव किल सार्वभौमोऽपि सहस्रशः विषयान् लब्धुं भोक्तुं समर्थोऽपि निद्रां विना जीवितुं न प्रभवति । तत्र कारणं स्वरूपानन्दस्य दुःखालिप्तत्वम् । तदुक्तम् − ‘को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’(तै.उ. २.७) इति । आकाश आका­श­व­न्नि­र्लिप्त इत्यर्थः । सुषुप्तौ यद्यपि तमसा आव्रियते सुखम् , अथापि जाग्र­त्स्व­प्न­सु­खा­पे­क्षया तस्य परमत्वे, किं वक्तव्यं तस्मिन् तमस्यपि ज्ञानेन नाश्यमाने आवरणनिवृत्त्या मिहिकाविगमे भ्राजमानः सूर्य इव स्वयं प्रकाशमानः आत्मानन्दः ईदृगिति । एवं श्रुतिः प्रत्यक्षं साक्षि­प्र­त्यक्षं सर्वजनसिद्धम् , ऐतिह्यम् अभियुक्तानां वचनम् , अनुमानम् आत्मा सदानन्दस्वरूपः सदा निर­ति­श­य­प्रे­मा­स्प­द­त्वात् यन्नैवं तन्नैवं, यथा शब्दादिः इत्यादि च जाग्रति प्रमाणानि आत्मनः, सदानन्दत्वविषये ॥१०९॥

एवमियता प्रबन्धेन अनात्मनः स्थूलदेहं शब्दादिविषयान् सूक्ष्मदेहं च विभज्य तद्धर्मांश्च निर्ध­र्म­का­स­ङ्गा­त्म­त­त्व­प्र­ति­प­त्त्यर्थं विविच्य इदा­नी­मु­क्ता­ना­म­ना­त्मनां हेतुं कारणदेहं निरूपयितुमारभते अव्यक्तेति −

१४. कारणशरीरम्

अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ॥११०॥

११०

अव्यक्तमिति नाम यस्याः, तस्याः प्रत्यक्षतः अनुपलम्भात् । तत्र हेतुः रूपादिरहितत्वम् । परमेशस्य परमेश्वरस्य ब्रह्मणः, शक्तिः अचि­न्त्या­द्भु­त­शक्तिः न विद्यते आदिः यस्याः अनादिः, सा च सा अविद्या च । वस्तुतः न विद्यते इत्यविद्या अनाद्यविद्या । त्रयो गुणाः सत्वरजस्तमांसि यस्य तथाविधः आत्मा स्वरूपं यस्याः त्रिगुणात्मिका । यद्वा त्रयो गुणाः त्रिगुणाः त एव आत्मा यस्याः गुण­त्र­य­स्व­रू­पे­त्यर्थः । परा हिर­ण्य­ग­र्भा­दि­स्व­का­र्येभ्यः परा उत्कृष्टा तत्कारणत्वात् । अव्यक्तनामत्वे हेतुमाह कार्यानुमेया रूपाद्यभावेन प्रत्य­क्ष­गो­च­र­त्वा­भा­वेऽपि शब्दादिभिः गगनादिकमिव कार्य­लि­ङ्गे­ना­नु­मेया । एत­च्छ­क्त्य­न­ङ्गी­कारे निर्गुणस्य ब्रह्मणः स्रष्टृ­त्वा­यो­गात् निष्कारणं कार्यो­त्प­त्त्य­यो­गात् खादि­स­क­ल­वि­का­र­हे­तु­त्वेन श्रुत्या प्रती­य­मा­ने­क्ष­ण­स­ङ्क­ल्पा­दि­प­रि­णा­मि­त्वेन मायायाः सिद्धिरिति भावः । अशब्दशरणाः अन्यथान्यथा जगदुत्पत्तिं तर्कयन्ति तदसङ्गतमिति सूचयति सुधियेति । सुष्ठुता च धियि श्रुत्य­नु­सा­रित्वं, तत्सूचितं परमेशशक्तिपदेन । तेन साङ्ख्यै­रु­च्य­मानं जडं स्वतन्त्रं प्रधानं सत्यं जग­न्मू­ल­मि­त्या­दि­क­म­पास्तं वेदितव्यम् ।
अत्र श्रुतिरप्यस्ति ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ. ४.१०) , ‘जीवेशावभासेन करोति माया चाविद्या च स्वयमेव भवति’(नृ.उ.ता. ९.३) , ‘इन्द्रो मायाभिः पुरुरूप ईयते’(ऋ.सं. ६.४७.१८) इत्याद्या । तथा च सुष्ठु शोभना श्रुत्यनुसारिणी धीः यस्य स सुधीः । तेन सुधिया कार्यानुमेया माया यया इदं सर्वं जगत् मह­त्त­त्वा­दि­ब्र­ह्मा­ण्डान्तं प्रसूयते ‘तत्कारणं नाम शरीरमात्मनः’(श्लो. १२२) इति व्यवहितेन सम्बन्धः ॥११०॥

तस्याः स्वरूपमाह सन्नापीति −

सन्ना­प्य­स­न्ना­प्यु­भ­या­त्मिका नो
भिन्ना­प्य­भि­न्ना­प्यु­भ­या­त्मिका नो ।
साङ्गा­प्य­न­ङ्गा­प्यु­भ­या­त्मिका नो
महा­द्भु­ताऽ­नि­र्व­च­नी­य­रूपा ॥१११॥

१११

लोके तावत् अबाधितस्य सत्त्वं बाध्यमानस्य असत्यत्वं प्रसिद्धं यथा ऋतस्यानृतस्य च । कदापि कस्यापि अप्रतीयमानस्य असत्त्वं शश­वि­षा­ण­ग­ग­न­कु­सु­मादेः । इयं तु माया ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे.उ. १.१०)

तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ (वि.पु. ५.१७.१५)

‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।’(भ.गी. ७.१४) इत्यादि श्रुति­स्मृ­तिभ्यः ज्ञान­बा­ध्य­त्वे­ना­व­ग­म्यते । अतः तस्याः आत्मवत्सत्त्वं दुर्वचम् ।‘नाभावो विद्यते सतः’(भ.गी. ७.१४) इति गीतायाश्च अस्याः ज्ञानानन्तरम् अभा­वा­व­श्य­म्भा­वात् न सत्त्वम् । ज्ञानात्प्राक् कार्यरूपेण प्रतीयमानत्वेन तत्परिणामित्वेन अनुमिति विषयत्वेन च न शश­वि­षा­ण­व­द­सत्त्वं सुवचम् । सत्त्वा­स­त्त्वयोः व्याप्य­वृ­त्ति­त्वेन कालभेदेन एकत्र स्वीक­र्तु­म­नु­चि­त­त्वेन नोभयात्मकत्वं तस्याः । एकैकरूपत्वाभावे उभयात्मकत्वस्य अत्य­न्ता­स­म्भ­वाच्च । यथा स्वाप्नि­क­प­दा­र्था­ना­मै­न्द्र­जा­लि­क­प­दा­र्थानां च दृष्ट­न­ष्ट­स्व­रू­प­त्वा­न्मि­थ्यात्वं सद­स­द्वि­ल­क्ष­ण­त्व­रूपं तथा अस्या अपीति भावः । उक्तं हि –

नासतो विद्यते भावः नाभावो विद्यते सतः ।
उभयोरपि दृष्टो­न्त­स्त्व­न­यो­स्त­त्त्व­द­र्शिभिः ॥ (भ.गी. २.१६)

इति गीतायाम् । यद्यपि लौकिकाः पूर्वमुत्पत्तेः अत्यन्तमसतः घटादेर्भावम् , उत्पत्त्यनन्तरं सत्त्वेन अभ्युपगतस्य तस्य नाशे अभावं चाङ्गीकुर्वन्ति तदसङ्गतमिति सर्वज्ञेन भगवतैवोक्तम् अनयोरुभयोः अन्तः निर्णयः तत्त्वदर्शिभिः दृष्ट इति कथयता । इत्थं च इयं माया सत् सद्वस्त्वपि न, असद्वस्त्वपि न उभयात्मिका सदसदात्मिका नो । अपि तु सत्त्वा­स­त्त्वाभ्यां निर्व­क्तु­म­श­क्य­त्वात् अनिर्वचनीयरूपा । यथा सत्त्वेन वा असत्त्वेन वा निर्वक्तुमशक्या एवं ब्रह्मणो भिन्नत्वेन अभिन्नत्वेन च अनि­र्व­च­नी­ये­त्याह । ब्रह्म­णोऽ­त्य­न्त­भि­न्नत्वे अद्वै­त­बो­ध­क­श्रु­ति­वि­रो­धात् लोकेऽपि शक्तेः शक्ति­म­तोऽ­त्य­न्त­भे­दा­भा­वाच्च । एवमभिन्नत्वे तस्याः बाधायोगात् ब्रह्मणः काल­त्र­या­बा­ध्य­त्वात् । भिन्नाभिन्नत्वे विरुद्धे अतः भिन्नापि न अभिन्नापि न उभयात्मिकापि नो भवतीत्यर्थः । एवमनादित्वेन साङ्गा सावयवा न भवति सावयवत्वे जन्यत्वापत्तेः । निरवयवत्वे परिणामासम्भवात् तदपि वक्तुमशक्यम् । अतः अनङ्गा अनवयवापि न । उभयात्मिकापि नो साव­य­व­त्व­नि­र­व­य­व­त्वयोः एकत्र विरोधादेव । अतः सत्त्वा­स­त्त्वाभ्यां भिन्न­त्वा­भि­न्न­त्वाभ्यां साङ्ग­त्वा­न­ङ्ग­त्वाभ्यां निर्वक्तुमशक्यं रूपं यस्याः सा अनिर्वचनीयरूपा महाद्भुता अत्य­न्ता­श्च­र्य­रूपा ॥१११॥

अस्याः अत्य­न्त­नि­वृ­त्ति­हे­तु­स­त्त्वाच्च नासत्त्वमित्याह शुद्धाद्वयेति −

शुद्धा­द्व­य­ब्र­ह्म­वि­बो­ध­नाश्या
सर्पभ्रमो रज्जुविवेकतो यथा ।
रज­स्त­म­स्स­त्त्व­मिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११२॥

११२

शुद्धं निर्गुणम् अद्वयं सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­शून्यं यद्ब्रह्म तस्य विबोधः अभेदेन साक्षात्कारः तेन नाश्या तज्ज­न्य­ध्वं­स­प्र­ति­यो­गिनी । तत्र दृष्टान्तमाह सर्पभ्रमः रज्वां जातः अयं सर्प इति भ्रमः, रज्जुविवेकतो यथा कल्पि­त­स­र्पा­धि­ष्ठा­न­भू­त­र­ज्जु­सा­क्षा­त्का­रे­णेव नायं सर्पः किन्तु रज्जु­रि­त्या­का­रेण । तेन निर्गुणे अद्वितीये कल्पितायाः मायायाः अधि­ष्ठा­न­त­त्त्व­सा­क्षा­त्का­र­बा­ध्य­त्व­मु­क्तम् ।
यदुक्तं पूर्वं ‘कार्यानुमेया सुधियैव माया’(श्लो. ११०) इति तद्विशदयति तद्ध­र्म­गु­ण­का­र्य­प्र­ति­पा­द­न­मु­खेन रज इत्यादिना । तदीयाः तस्याः इमे तदीयाः मायासम्बन्धिनः गुणाः धर्माः रजः तमः सत्वमिति तेषा­म­प्र­त्य­क्ष­त्वात् कार्यमुखेन प्रसिद्धिमाह प्रथितैरिति प्रसिद्धैः तत्त­द्गु­ण­कार्यैः वक्ष्यमाणैः ॥११२॥

क्रमेण रज­स्त­म­स्स­त्व­गु­णानां कार्याणि विवक्षन् आदौ रजो­गु­ण­का­र्या­ण्याह विक्षेपेति −

विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥११३॥

११३

मायायां सन्ति तिस्रः शक्तयः । विक्षेपशक्तिः आवरणशक्तिः ज्ञान­श­क्ति­श्चेति तत्राद्ययोः बन्धकर्तृत्वं, तृतीया मोक्षहेतुः । तत्र विक्षेपशक्तिः रजसः रजोगुणस्य, क्रियात्मिका कार्यरूपा । यदा उद्रिच्यते रजः तदा विक्षेपाः बहुधा भवन्तीति ज्ञेयमित्यर्थः । यतः रजः­का­र्य­भू­त­वि­क्षे­प­श­क्ते­स्स­का­शात् पुराणी अनादिकालसिद्धा प्रवृत्तिः संसारहेतुभूता प्रवृत्तिः प्रसृता विस्तृता, सा जीवीया वा प्रप­ञ्च­सृ­ष्टि­हे­तु­भूता ईश्वरीया वा भवतु प्रप­ञ्च­सृ­ष्टे­रपि विक्षे­प­श­क्ति­का­र्य­त्वात् । तत्रेश्वरस्य शुद्ध­स­त्त्व­प्र­धा­न­मा­यो­प­हि­त­त्वात् तस्याः स्वाधीनत्वाच्च न बन्धस्य प्रसक्तिरिति । जीवस्य तु मलि­न­स­त्त्व-प्र­धा­ना­वि­द्यो­पा­धि­क­त्वात् ज्ञानशक्तेः रजस्तमोभ्यां प्रति­ह­न्य­मा­न­त्वात् उपाध्यधीनत्वं तत्कृतबन्धवत्वं चेति । रागादय इत्यादिकं जीवविषये ज्ञेयम् । अस्याः रजः­का­र्य­वि­क्षे­प­शक्तेः सकाशात् रागादयः राग­द्वे­षा­दि­दोषाः प्रवृत्तिहेतवः नित्यं जीवस्य प्रभवन्ति । ततः ये मनसो विकाराः दुःखादयः, दुःख­ह­र्ष­त­र्षा­म­र्षा­दयः मनस एव न तु कदाचिदपि निर्वि­का­र­स्या­त्मनः इति बोधयितुं मनस इत्युक्तं, ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिः ह्रीर्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । तत्ता­दा­त्म्या­ध्या­सात् जीवे कल्प्यन्ते, न वस्तुतः तत्र सन्ति । ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६.११) , ‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ. ३.८.११) , ‘निष्कलं निष्क्रियं शान्तम्’(श्वे.उ. ६.१९) इत्यादिश्रुतेः ॥११३॥

इदानीं रागादय इत्यत्र आदिपदग्राह्यान् रजः­का­र्य­वि­क्षे­प­श­क्ति­का­र्य­त्वेन राजसान् धर्मान् तेषां घोरत्वेन दुःखहेतुत्वं तेषां सन्त­त­प्र­वृ­त्ति­हे­तु­त्वेन तन्मूलस्य रजसः बन्धकत्वं चाह काम इति −

कामः क्रोधो लोभ­द­म्भा­भ्य­सूया-
हङ्का­रे­र्ष्या­म­त्स­रा­द्यास्तु घोराः ।
धर्मा एते राजसाः पुम्प्रवृत्ति-
र्यस्मा­दे­त­त्त­द्रजो बन्धहेतुः ॥११४॥

११४

कामः विषयेच्छा, क्रोधः तदभिघाते जाय­मा­न­मा­न­स­वृत्तिः कोपाख्या । लोभः अर्थस्य प्राप्तौ तत्संरक्षणमतिः । दम्भः धर्मध्वजित्वम् । अभ्यसूया परोत्कर्षासहनम् । अहङ्कारः स्वोत्कृ­ष्ट­त्व­ज्ञा­नम् । ईर्ष्या गुणेषु दोषाविष्करणम् । मत्सरः अक्षी­य­मा­ण­व­स्त्व­प­रि­त्या­गेच्छा । यथा राजकीयोदपानात् मोदकम्पाः इति वृत्तिः । आदिपदेन मद­द­र्पा­दि­प­रि­ग्रहः । एते लोकद्वयेऽपि भयहेतवः अत एव घोरा इत्युक्तम् । यस्मा­त्का­म­क्रो­धा­दि­वि­शिष्टः पुमान् न प्रवृ­त्ते­र्वि­र­मति कदाचिदपि, सर्वदापि यत्कि­ञ्चि­त्कु­र्वाण एवावतिष्ठते । अतः एते धर्मा राजसाः । रजः कर्मणि भारत सञ्जयति (१४.९) इत्यु­क्त­त्वा­द्गी­तायां सर्वदा यत्कि­ञ्चि­त्क­र्म­हे­तू­ना­मे­तेषां राजसत्वम् । ‘प्रव­र्त­ना­ल­क्षणा दोषाः’(१.१.१८) इति न्यायसूत्रम् । सर्वतो निवृत्तौ हि सुखम् । अत्र कस्यापि निवृ­त्ति­प्र­यो­ज­क­त्वा­भा­वाच्च ।

लोभः प्रवृ­त्ति­रा­रम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥

इत्यपि गीता (१४.१२) । यस्मात् पुम्प्रवृत्तिः एतत् सर्व­ज­ना­नु­भ­व­सिद्धं तत् मायागुणत्वेन कथितं रजः बन्धहेतुः । कार्य­क­र­ण­स­ङ्घा­ता­ध्या­स­स्यैव बन्धकत्वात् अध्यासं विना कर्मासम्भवात् रजसः बन्धहेतुत्वं विज्ञेयम् । ‘न ह्यन­ध्य­स्ता­त्म­भा­वेन देहेन कश्चि­द्व्या­प्रि­यते’ इत्य­ध्या­स­भा­ष्यात् ॥ ११४ ॥

इदानीं तमसः शक्तिम् आवृतिं विक्षे­प­श­क्ति­प्र­स­र­हेतुं सक­ल­सं­सा­रा­दि­का­रणं निरूपयति एषेति −

एषावृतिर्नाम तमोगुणस्य
शक्तिर्यया वस्त्व­व­भा­स­तेऽ­न्यथा ।
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रसरस्य हेतुः ॥११५॥

११५

यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु अन्तः­क­र­ण­दे­हा­दि­रू­पेण भासते एषा आवृतिः आवरणं नाम तमोगुणस्य शक्तिः । पुरुषस्य संसृतेः दुःख­ज­न्म­ज­रा­म­र­णा­दि­रू­पायाः, निदानम् आदिकारणम् । भ्रान्त्या किला­ना­त्म­ध­र्मान् असंसारिणि मन्यते । अतः अय­था­व­स्त्व­व­भा­स­रू­प­भ्रा­न्ति­हे­त्वा­व­र­ण­श­क्ति­रेव संसारनिदानम् । एतस्याः अभावे विक्षे­प­श­क्ति­र­कि­ञ्चि­त्क­रे­त्याह विक्षेपशक्तेः प्रसरस्य हेतुरिति । आवृते रज्जुस्वरूपे सर्परूपविक्षेप उत्पद्य भयादिकं जनयति नान्यथेति भावः । अत एव ज्ञानिनां भग्नावरणत्वात् प्रार­ब्ध­क­र्मा­त्म­क­वि­क्षे­प­स­त्त्वेऽपि बन्धाभावः । इदं तावत् ‘कबलितदिननाथे’(श्लो. १४५) इति श्लोके स्पष्टं ज्ञास्यते । लोकेऽपि क्वचिद्वस्तुनि संशयो वा विपर्ययो वा यस्य तस्यैव विक्षे­प­क्षो­भ्य­मा­ण­त्वम् । यस्य निष्कृष्टं ज्ञानं तस्य विक्षेपः नैव भवति । अतः तमोगुणशक्तिः स्वरूपमावृत्य अन्यथा तद्व­स्त्व­व­भा­स­यन्ती विक्षे­प­ज­न­न­द्वारा बन्धहेतुरिति भावः ॥११५॥

बन्ध­हे­तु­श­क्ति­द्व­य­मध्ये अस्याः प्राबल्यमाह प्रज्ञावानपीति −

प्रज्ञावानपि पण्डितोऽपि चतु­रोऽ­प्य­त्य­न्त­सू­क्ष्मा­र्थ­दृक्
व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् ।
भ्रान्त्या­रो­पि­त­मेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्ति­र्म­ह­त्या­वृतिः ॥११६॥

११६

प्रज्ञावान् ‘प्रज्ञा त्रैकालिकी मता’ इति मानात् कालत्रयेऽपि निश्च­ल­बु­द्धि­मा­नि­त्यर्थः । सोऽपि पण्डीतोऽपि, शास्त्र­ज­न्य­ज्ञानं परोक्षं पण्डा, साऽस्य सञ्जातेति पण्डितः तथाविधोऽपि, चतुरोऽपि ऊहापोह विचक्षणोऽपि । अत्य­न्त­सू­क्ष्मा­र्थ­दृक् प्रज्ञा­पा­ण्डि­त्य­चा­तु­र्या­णाम् अत्यन्त सूक्ष्मा­र्थ­दृक्त्वे हेतुत्वं ज्ञेयम् । सर्वदा निश्चलबुद्धिमता शास्त्र­सा­हा­य्येन ऊहापोहकौशलेन च अत्य­न्त­सू­क्ष्मान् पदार्थानपि ग्रहीतुं शक्यत्वात् । एतादृगपि पुरुषः तमसा व्यालीढः विशेषेण आ समन्तात् लीढः आवृतस्वरूपः इत्यर्थः । पटुचक्षुरपि गाढान्धकारे किं कुर्यादिति भावः । बहुधा सम्बोधितोऽपि स्फुटं न वेत्ति ‘श्रुण्वन्तोपि बहवो यं न विद्युः’(क.उ. २.७) ‘नायमात्मा बलहीनेन लभ्यः’(मु.उ ३.२.४) ‘न मेधया न बहुना श्रुतेन’(क.उ. १.२.२३) , ‘आश्च­र्य­व­त्प­श्यति कश्चिदेनम्’(भ.गी. २.२९) इत्यादि श्रुतेः । भ्रान्त्या अत­स्मिं­स्त­द्बुध्या आरोपितमेव स्थूलादि देहं साधु कलयति अबाधितं जानाति । आलम्बते तद्गुणान् पूजावमानादीन् दृढ­त्वा­रो­ग­त्वा­दीन् कर्तृत्वादीन् सूक्ष्म­दे­ह­ग­तांश्च । इदं तावदनुभवसिद्धं किल लोके यत् श्रुत्या आचार्यैश्च आत्मव्यतिरिक्तं सर्वं मिथ्ये­त्यु­च्य­मा­नेऽपि न भ्रान्ति­र्ज­नानां नष्टेति । हन्त कष्टम् । असौ दुरन्ततमसः दुष्टः अन्तः पर्यवसानं यस्य दुरन्तं तच्च तत्तमश्च तस्य अन­र्थ­प­र्य­व­सा­यिनः तमोगुणस्य आवृतिः महती शक्तिः सत्त्वोत्कर्षं विना दुर्निरसा । विक्षे­प­श­क्त्य­पे­क्षया प्रबला, अत्यन्तं मोहहेतुत्वादिति भावः । आवृतिः आवरणम् नाम ॥११६॥

श्रव­ण­म­न­न­नि­दि­ध्या­स­न­ज­न्य­ज्ञा­न­ना­श्यत्वं तस्याः वक्तुं तत्त्रि­त­य­नि­र­स्य­दो­ष­हे­तु­रियं प्रत्य­ग­भि­न्न­ब्र­ह्मणि असम्भावनाम् अनात्मनि शरीरादौ विप­री­ता­त्म­त्व­भा­वनां श्रुत्या­चा­र्यो­क्तार्थे संश­यां­श्चो­त्पाद्य बहुधा मनः विक्षिपन्ती पुमांसम् अभा­स­मा­न­स्व­स्व­रूपं कुर्वती नाशयतीत्याह अभावनेति −

अभावना वा विपरीतभावना
सम्भावना विप्र­ति­प­त्ति­रस्याः ।
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥

११७

अभावना शास्त्रे­णो­च्य­मानं जीवब्रह्मैक्यं प्रप­ञ्च­मि­थ्यात्वं च न सम्भवतीति भावना । नास्तीति भावना वा नास्तिक्यमिति यावत् । विपरीतभावना शरीरादौ आत्मत्वभावना । विप्र­ति­प­त्तिः­वि­रु­द्ध­प्र­ति­पत्तिः । सम्भावना संश­य­भा­व­ने­त्यर्थः । एक­ध­र्मि­वि­शे­ष्य­क­वि­रु­द्ध­ना­ना­ध­र्म­प्र­का­र­क­ज्ञानं संशय इति तल्लक्षणात् । एतत्त्रयम् अस्याः­आ­व­र­ण­शक्तेः संसर्गयुक्तं सम्बन्धयुक्तं नरम् । ध्रुवं न विमुञ्चति नैव विमु­ञ्च­ती­त्यर्थः । तादृशं पुमांसं विक्षेपशक्तिः अजस्रं सर्वदा क्षपयति, ‘अज्ञ­श्चा­श्र­द्ध­धा­नश्च संशयात्मा विनश्यति’(४.४०) इति गीतोक्तेः ॥११७॥

इदानीं तमोगुणकार्याणि विशदयति अज्ञानेति −

अज्ञानमालस्य जड­त्व­नि­द्रा­प्र­मा­द­मू­ढ­त्व­मु­खा­स्त­मो­गुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किञ्चि­न्नि­द्रा­लु­व­त्स्त­म्भ­व­देव तिष्ठति ॥११८॥

११८

अज्ञानम् उक्त­स्या­प्य­र्थ­स्या­प्र­ति­पत्तिः, गीतोऽक्तम् ‘एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोन्यथा’(१३.११) इति अमानित्वादिकं वा । आलस्यम् अनुद्यमः, जडत्वं कार्य­क­र­णे­ष्व­पा­ट­वम् । निद्रा प्रसिद्धा, ‘अभा­व­प्र­त्य­या­ल­म्बना वृत्तिर्निद्रा’(यो.सू. १.१०) इति सूत्रिता । यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्त­मोऽ­भा­व­प्र­त्ययः तं विषयीकुर्वती वृत्तिर्निद्रा । प्रमादः कर्तव्यं कर्म कर्तुं शक्तावपि अकरणं तस्य, अजागरूकता, ‘प्रमा­दोऽ­न­व­धा­नता’(अ.को.श्लो. २३३) इति कोशात् । मूढत्वं यथावस्थितविषये अय­था­व­त्प्र­ति­पत्तिः । आल­स्य­ज­ड­त्व­नि­द्रा­प्र­मा­द­मू­ढ­त्वानि मुखानि येषां ते संशयादीनां ते तमोगुणाः तमःकार्याणि । तदुपपादयति, एतैः अज्ञानादिभिः धर्मैः प्रयुक्तः विशिष्टः किञ्चिदपि न हि वेत्ति जानाति । निद्रालुवत् यथा सुप्तो न किञ्चिद्वेत्ति तथा स्तम्भवदेव तिष्ठति । श्रेयसे किमपि न चेष्टत इत्यर्थः । प्राप्त­ज्ञा­य­मा­न­ता­कस्य अज्ञानं प्रमादः, प्राप्त­क­र्त­व्य­ता­कस्य अकरणमालस्यम् इति वा भेदः ॥११८॥

एवं राजसानां तामसानाञ्च धर्माणामत्यन्तं श्रेयो­वि­घा­त­क­त्व­क­थ­नेन सत्वं गुणं सम्यगाश्रित्य तयोर्द्वयोरपि गुणयोरत्यन्तं परित्यागः कार्य इत्युक्तं भवति । अधर्मोऽपि जिज्ञास्यः परिहारायेति न्यायेनैव तेषामेवं विवरणम् । इदा­नी­मु­पा­दे­य­त्वाय सत्वकार्याणि वक्तुं सत्वस्वभावं वर्णयति सत्त्वमिति −

सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥

११९

तथा­पी­त्यु­त्त­रत्र सत्त्वात् आदौ यद्यपीति पठितव्यम् । यद्यपि जलवत् यथा जलं स्वभावतो निर्मलं तथा सत्वं गुणः विशुद्धं निर्मल एव । तथापि ताभ्यां रजस्तमोभ्यां मिलित्वा सरणाय संसाराय कल्पते प्रभवति । तस्य विशुद्धिं स्पष्टयति यत्रेति । आत्मबिम्बः आत्मैव बिम्बः मुखादिवत् । यथा निर्मले जले साभ्रनक्षत्र आकाशः प्रतिफलितः स्पष्टं भासते यथा वा निर्मले दर्पणे मुखं तथा शुद्धे सत्त्वे प्रति­बि­म्बि­त­स्स­न्नात्मा अर्कवत् सूर्यवत् निर्मलदर्पणे प्रति­बि­म्बि­त­सूर्य इव वा अखिलं जडं सर्वमनात्मानं, प्रकाशयति ज्ञातस्वरूपं करोति । ‘सत्त्वात् सञ्जायते ज्ञानम्’(भ.गी. १४.१७) इति स्मृतेः ।

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥ (भ.गी. १४.११)

इति च ॥११९॥

रजस्तमसोः सत्वेऽपि ताभ्या­म­न­भि­भू­य­मा­नस्य सत्त्वस्य गुणानाह मिश्रस्येति −

मिश्रस्य सत्त्वस्य भवन्ति धर्मा-
स्त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च
दैवी च सम्प­त्ति­र­स­न्नि­वृत्तिः ॥१२०॥

१२०

मिश्रस्य सर्वात्मना तमश्शून्यस्य ईषद्रजोमिश्रस्य सत्वस्य इत्यर्थः । ताभ्याम् अभिभूयमानत्वे वक्ष्य­मा­ण­गु­ण­स­त्वा­नु­प­पत्तेः । तुशब्दः इतरगुणद्वयस्य ताभ्या­म­भि­भू­य­मा­न­स­त्वस्य च व्यावर्तकः । अमानिता आद्या येषाम् अदम्भित्वादीनां ते, ते कथिता गीतायाम् –

अमा­नि­त्व­म­द­म्भि­त्व­म­हिंसा क्षान्ति­रा­र्ज­वम् ।
आचार्योपासनं शौचं स्थैर्य­मा­त्म­वि­नि­ग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्म­मृ­त्यु­ज­रा­व्या­धि­दुः­ख­दो­षा­नु­द­र्श­नम् ॥
अस­क्ति­र­न­भि­ष्वङ्गः पुत्र­दा­र­गृ­हा­दिषु ।
नित्यं च सम­चि­त­त्त्व­मि­ष्टा­नि­ष्टो­प­प­त्तिषु ॥
मयि चानन्ययोगेन भक्ति­र­व्य­भि­चा­रिणी ।
विवि­क्त­दे­श­से­वि­त्व­म­र­ति­र्ज­ज­न­सं­सदि ॥
अध्या­त्म­ज्ञा­न­नि­त्यत्वं तत्त्व­ज्ञा­ना­र्थ­द­र्श­नम् ॥ (१३.७-११) इति ।

तत्र अमानित्वं, विद्य­मा­नै­र­वि­द्य­मा­नैर्वा गुणैः आत्मनः श्लाघा­रू­प­स­म्मानं मानित्वं, तद्रा­हि­त्य­म­मा­नि­त्वम् । ख्याति­ला­भ­पू­जार्थं स्वधर्मप्रकटनं दम्भः तद्रहितत्वम् अदम्भित्वम् । त्रिकरण्या परपीडावर्जनम् अहिंसा । परै­र­भि­भू­य­मा­न­स्यापि तान्प्र­त्य­वि­कृ­त­चि­त्तत्त्वं क्षान्तिः । मनो­वा­क्का­या­ना­मै­क­रू­प्य­मा­र्ज­वम् । प्रणि­पा­त­प­रि­प्र­श्न­से­वा­दिभिः आचा­र्या­नु­व­र्त­नम् आचार्योपासनम् । बाह्यमलानां मृज्ज­ला­भ्या­म­न्त­र्म­लानां रागादीनां मैत्र्या­दि­वा­स­नया विष­य­दो­ष­द­र्श­ना­भ्या­सेन च प्रक्षालनया बहि­र­न्त­श्शु­चि­त्वम् । स्थैर्यं मुक्ति­सा­ध­न­प्र­वृ­त्तस्य विघ्नसम्भवेऽपि तदपरित्यागेन पुनः­पु­न­र्य­त्ना­धि­क्यम् । आत्मविनिग्रहः आत्मनः देहेन्द्रियादेः मोक्ष­सा­ध­न­प्रा­ति­कू­ल्य­स्व­भा­व­नि­रो­ध­नेन तदनुकूलतया व्यवस्थापनम् । इन्द्रियार्थेषु शब्द­स्प­र्श­रू­पा­दिषु दृष्टा­नु­श्र­वि­केषु वैराग्यम् । अनहङ्कारः अहमेव सर्वोत्कृष्ट इति गर्वराहित्यम् । जन्म­मृ­त्यु­ज­रेति, गर्भ­वा­स­यो­नि­द्वारा निस्सरणं जन्म, मृत्युः सर्व­म­र्म­च्छे­द­न­रूपः, जरा बुद्धि­ब­ल­ते­जो­ना­श­स­र्व­प­रि­भ­व­रूपा । व्याधयो ज्वरादयः । दुःखानि अनि­ष्ट­सं­यो­गे­ष्ट­वि­यो­ग­ज­न्या­न्या­ध्या­त्मि­का­दीनि । दोषास्तु वात­पि­त्त­श्ले­ष्माणः मल­मू­त्र­दु­र्ग­न्ध­रू­पाश्च तेषामनुदर्शनं पुनःपुनरालोचनम् । असक्तिः पुत्रादिषु प्रीतित्यागः । तेष्वनभिष्वङ्गः तेषां सुखे दुःखे अहमेव सुखी दुःखी­त्य­ध्या­सा­भावः । इष्टा­नि­ष्ट­यो­रु­प­प­त्तिषु प्राप्तिषु । नित्यं सर्वदा समचित्तत्वं हर्षविषाद शुन्यत्वम् । अनन्ययोगेन अपृथक्समाधिना अहमेव भगवान्वासुदेव इति निश्चयेन अत एव स्वात्मभूते मयि अव्यभिचारिणी ऐकान्तिकी भक्तिः । विविक्तः शुद्धः चित्तप्रसादको यो देशः तत्सेवित्वम् जनानां वैषयिकाणां संसदि रत्यभावः । आत्मानमधिकृत्य प्रवृत्तम् आत्मा­ना­त्म­वि­वे­क­ज्ञा­नम् अध्यात्मज्ञानं तस्मि­न्नि­त्यत्वं तत्रैव निष्ठा । त्वम्प­दा­र्थ­शो­ध­नै­क­प­र­त्व­मिति यावत् । पदा­र्थ­वि­वे­क­प­रस्य वाक्या­र्थ­ज्ञा­ना­धि­ग­म­नात् । तत्त्वज्ञानस्य वाक्या­र्थ­ज्ञा­न­रू­पस्य योऽर्थः फलं मोक्षः तस्य दर्शनमालोचनम् । तत्त्व­ज्ञा­न­फ­ला­लो­चने हि तत्साधने प्रवृत्तिः स्यादिति भावः । अत्र यद्यपि यमघटकीभूतायाः अहिंसायाः नियमघटकस्य शौचस्य च घटनमस्ति तथापि उत्तरत्र नियमा यमाद्या इत्यत्र तदु­भ­या­ति­रि­क्त­स्यैव ग्रहणं सम्भवतीति बोध्यम् । नियमाः ‘शौच­स­न्तो­ष­त­प­स्स्वा­ध्या­ये­श्व­र­प्र­णि­धा­नानि नियमाः’(यो.सू. २.३२) इति सूत्रानुसारेण शौचादयः जन्महेतून् काम्य­ध­र्मा­न्नि­वर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमा इत्युच्यन्ते । तत्र शौचं पूर्वं निरुक्तम् । सन्तोषः यथा­ला­भ­प­रि­तुष्टिः । तपः कायशोषणं तदुक्तं योगयाज्ञवल्क्ये –

विधिनोक्तेन मार्गेण कृच्छ्र­चा­न्द्रा­य­णा­दिभिः ।
शरीरशोषणं प्राहुः तापसाःतप उत्तमम् ॥ (२.२,३) इति ।

स्वाध्यायः प्रण­व­गा­य­त्री­प्र­भृ­तीनां मन्त्राणां जपः । ईश्वरप्रणिधानम् अभि­हि­ता­ना­म­न­भि­हि­तानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदुक्तम् –

कामतोऽकामतो वापि यत्करोमि शुभाशुभम् ।
तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहम् ॥

इति । फलाभिसन्धेः उप­घा­त­क­त्व­म­भि­हितं महद्भिः –

अपि प्रयत्नसम्पन्नं कामेनोपहतं तपः ।
न तुष्टये महेशस्य श्वलीढमिव पायसम् ॥ इति ।

एतानि पञ्च नियमाः । यमाः ‘अहिं­सा­स­त्या­स्ते­य­ब्र­ह्म­च­र्या­प­रि­ग्रहाः यमाः’(यो.सू. २.३०) इति सूत्रानुसारेण अहिंसादयः पञ्च । तत्र अहिंसा विवृता । सत्यं सर्वदा अनृतानभिभाषणम् । अस्तेयं परस्वानपहारः । ब्रह्म­च­र्य­म­ष्ट­वि­ध­मै­थु­न­त्यागः । अपरिग्रहः शरी­र­स्थि­ति­मा­त्र­हे­तु­व्य­ति­रि­क्त­भो­ग­सा­ध­ना­स्वी­कारः । यमा आद्या येषाम् आस­न­प्रा­णा­या­म­प्र­त्या­हा­र­धा­र­णा­ध्या­न­स­मा­धीनां तेऽपि समाध्यन्तानि योगाङ्गानि आदिपदेन गृह्यन्ते । श्रद्धा सर्व­श्रे­यो­नि­दा­नम् आस्तिक्यबुद्धिः । भक्तिः सा परापरभेदेन द्विविधा । अपरैव साध­न­भ­क्ति­रि­त्यु­च्यते । ‘भक्त्या सञ्जातया भक्त्या बिभ्र­त्यु­त्पु­लकां तनुम्’(११.३.३१) इति भागवतोक्तेः ।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्य­मा­त्म­नि­वे­द­नम् ॥ (भाग. ७.५.२३)

इति नवविधा भक्तिः पर­म­प्रे­म­ल­क्ष­णायाः परभक्तेस्साधनम् । मुमुक्षुता स्वस्व­रू­प­सा­क्षा­त्का­रेण आविद्यकानाम् अह­ङ्का­रा­दि-दे­हा­न्तानां बन्धानां निवृत्तीच्छा । दैवीसम्पत्तिः सापि गीतासु षोडशाध्याये ‘अभयं सत्त्व­सं­शुद्धिः’(१६.१-३) इत्यादिना कथिता ।

अभयं सत्व­सं­शु­द्धि-र्ज्ञा­न­यो­ग­व्य­व­स्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।
अहिंसा सत्य­म­क्रो­ध­स्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।
तेजः क्षमा धृति­श्शौ­च­म­द्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ (१६.१-३) इति

तत्राभयं नाम इष्टा­नि­ष्ट­सं­यो­ग­वि­यो­ग­हे­तु­द­र्श­न­जन्यं यद्दुःखभयं तद्राहित्यं, यद्वा शास्त्रो­प­दि­ष्टार्थे सन्देहं विना­नु­ष्ठा­न­नि­ष्ठ­त्वम् । सत्व­स्या­न्तः­क­र­णस्य सम्यक्छुद्धिः निर्मलता सत्वसंशुद्धिः । शुद्धेः सम्यक्त्वं नाम भग­व­त्त­त्त्व­स्फू­र्ति­यो­ग्य­त्वम् । शास्त्रा­चा­र्यो­प­दे­शा­भ्या­मा­त्म­त­त्त्वा­व­गतिः ज्ञानम् । अवगतस्यार्थस्य चित्तैकाग्रतया स्वानु­भ­वा­रू­ढ­त्वा­पा­दनं योगः । तयो­र्वि­शे­षे­णा­व­स्थितिः सदा तन्निष्ठता ज्ञान­यो­ग­व्य­व­स्थितिः । यथाधिकारं स्वद्रव्यस्य पात्रे प्रतिपादनं दानम् । बाह्ये­न्द्रि­य­सं­यमो दमः । श्रौतः अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सादिः, स्मार्तश्च देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञ इति चतुर्विधो यज्ञो यज्ञः, ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । स्वाध्यायो ब्रह्मयज्ञः अदृ­ष्टा­र्थ­मृ­ग्वे­दा­द्य­ध्य­य­न­रूपः । तपः शारीरादिभेदेन त्रिविधम् ।

देव­द्वि­ज­गु­रु­प्रा­ज्ञ­पू­जनं शौचमार्जवं ।
ब्रह्म­च­र्य­म­हिंसा च शारीरं तप उच्यते ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्या­या­भ्य­सनं चैव वाड्मयं तप उच्यते ॥
मनःप्रसादः सौम्यत्वं मौन­मा­त्म­वि­नि­ग्रहः ।
भाव­सं­शु­द्धि­रि­त्ये­त­त्तपो मानसमुच्यते ॥ (भ.गी. १७.१४-१६) इति ।

अवक्रत्वम् आर्जवं मनो­वा­क्का­य­वृ­त्ती­ना­मै­क­रू­प्य­मिति यावत् । पर­पी­डा­व­र्ज­न­म­हिंसा । यथादृष्टवचनं सत्यम् । परैराक्रोशे ताडने वा कृते सति सद्यःप्राप्तस्य क्रोधस्य तत्का­ल­मु­प­श­म­न­म­क्रोधः । दानस्य प्रागुक्तेः त्यागो दुःख­स­ङ्ग­प­रि­त्यागः । शान्ति­र­न्त­रि­न्द्रि­यो­प­रतिः । परदोषप्रकाशनं पैशुनम् । तदभावोऽपैशुनम् । दुःखितेषु भूतेषु तदी­य­दुः­खा­स­हि­ष्णुत्वं दया । अलोलुत्वम् अलोलुप्त्वम् इन्द्रियाणां विष­य­स­न्नि­धा­नेऽ­प्य­वि­क्रि­य­त्व­मिति यावत् । पवर्णलोप आर्षः । अलोलुप्त्वमिति वा पाठः । मृदुत्वं मार्दवं साधु­ज­न­सं­श्ले­षा­र्ह­ते­त्यर्थः । अकार्यकरणे लज्जा ह्रीः । वृथा­चे­ष्टा­रा­हि­त्यम् अचापलम् । प्रागल्भ्यं तेजः स्त्रीबा­ल­का­दि­मू­ढ­जनैः अन­भि­भ­व­नी­य­त्व­मि­त्यर्थः । सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्रोधा­नु­त्पत्तिः क्षमा । उत्पन्नस्य क्रोधस्य सद्यश्शमनमक्रोध इति ततो भेदः । दुःखादिभिः सीदतः चित्तस्य स्थिरीकरणं धृतिः । बाह्या­न्त­र­शुद्धिः शौचम् । परजिघांसया शस्त्रा­द्य­ग्र­ह­णम् अद्रोहः । आत्मनि पूज्य­त्वा­ति­श­य­भा­वना अतिमानिता तदभावो नातिमानिता । तया च तत्कार्यं पूज्येषु नम्र­त्व­मु­प­ल­क्ष्यते । त एते षड्विं­श­ति­र­भ­या­दयो धर्माः देव­यो­ग्य­सा­त्त्वि­क­शु­भ­वा­स­ना­रू­प­स­म्पत्तिं शरीरारम्भकाले पुण्यकर्मभिः अभि­व्य­क्ता­म­भि­लक्ष्य जातस्य पुरुषस्य भवन्ति निष्पद्यन्ते । ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) ‘पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति’(बृ.उ. ३.२.१३) श्रुतेरिति भावः । असन्निवृत्तिः असतः ब्रह्म­व्य­ति­रि­क्तात् निवृत्तिः । यद्वा ‘नाविरतो दुश्चरितात्’(क.उ. २.२४) इति श्रुतेः अवृजिनत्वमर्थः ॥१२०॥

एवं रजस्तमसोः सत्त्वेऽपि ताभ्या­म­न­भि­भ­व­नी­य­स­त्त्व­ध­र्मा­नुक्त्वा ताभ्यां सुत­रा­म­सं­स्पृ­श्य­मा­न­स­त्व­ध­र्मा­नाह विशुद्धेति −

विशु­द्ध­स­त्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ॥१२१॥

१२१

विशुद्धत्वं च रज­स्त­मोऽ­श­ब­लि­त­त्वम् । केवलसत्वस्य गुणाः कार्यभूतधर्माः, प्रसादः मनोनैर्मल्यम् । आवरकस्य तमसः विक्षेपकस्य रजसश्च अभावात् अप्रतिबन्धं स्वात्मानुभूतिः । यदा तमसाव्रियते आत्मतत्वं तदा तस्य स्पष्टमभानात् अन्नमयादीनां भानम् । केवलसत्वे तु स्वस्वरूपं निष्प्रत्यूहम् अनुभूयत इति भावः । अत एव परमा निरतिशया प्रकृष्टा शान्तिः । वक्ष्यते चोत्तरत्र –

कस्तां परा­न­न्द­र­सा­नु­भू­तिम् उत्सृज्य शून्येषु रमेत विद्वान् ।
चन्द्रे महाह्लादिनि दीप्यमाने चित्रे­न्दु­मा­लो­क­यितुं क इच्छेत् ॥
(श्लो. ५२३)

इति । पूर्वं साधकदशायां प्रयत्नेन सम्पाद्यमाना शान्तिः आत्मदर्शने स्वभावभूता भवतीति भावः । अत एव फल्गु­प्र­प­ञ्च­स­ञ्चा­रा­भा­वात् मनसः तृप्तिः अलम्बुद्धिः निरङ्कुशा । प्रहर्षः साधनानधीनः स्वयं सर्वदा स्फुरन्नानन्दः । यद्वा कृतं कृत्यं प्रापणीयं प्राप्तम् इत्येवं स्वात्मानं धन्यं मत्वा हृष्यतीति प्रकृष्टो हर्षः । यया सदानन्दरसं समृच्छति सम्यगश्नुते सा परमात्मनिष्ठा परमात्मन्येव नितरां स्थितिः । स्वरू­पा­न­न्द­वि­लो­क­नेन मनो व्युत्था­तु­म­शक्तं लीनं निर्वि­क­ल्प­क­स­मा­धि­म­नु­भ­व­तीति भावः ॥१२१॥

इदानीं गुणत्रयमयस्य माया­वि­द्या­दि­श­ब्दै­र­भि­हि­तस्य अव्यक्तस्य कार्यानुमेयस्य स्थूल­सू­क्ष्मा­दि­स­क­ल­का­र्य­हे­तु­त्वात् ज्ञान­ना­श्य­त्वाच्च शीर्यत इति व्युत्पत्त्या कारणशरीरत्वं च वदन् ‘अव्यक्तनाम्नि’(श्लो. ११०) इत्यादिना उपक्रान्तां मायामुपसंहरति अव्यक्तमेतदिति −

अव्य­क्त­मे­त­त्त्रि­गु­णै­र्नि­रुक्तं
तत्कारणं नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृत्तिः ॥१२२॥

१२२

अव्यक्तं स्वस्वरूपतः साक्षादस्पष्टम् । एतत्त्रिगुणैः त्रयश्च ते गुणाश्च त्रिगुणाः एते च ते त्रिगुणाश्च एतत्त्रिगुणाः, काम­क्रो­धा­ज्ञा­ना­ल­स्या­मा­नि­त्वा­दि­भि­र्ध­र्मै­र­नु­मेयैः रज­स्त­म­स्स­त्व­गुणैः, निरुक्तं त्रिगुणात्मिका कार्यानुमेया इति पूर्वं कथितं कृत­नि­र्व­च­न­मि­त्यर्थः । तत् अव्यक्तम् अवि­द्या­दि­श­ब्द­वा­च्यम् आत्मनः कारणं नाम शरीरम् । शास्त्रे कारणशरीरमिति प्रसि­द्ध­मि­त्यर्थः । अस्या­सा­धा­र­णी­म­व­स्था­माह सुषुप्तिरिति । एतस्य कारणशरीरस्य अव्यक्तस्य । प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृ­त्ति­रिति सुषु­प्ते­र्वि­शे­ष­णम् । सर्वाणि च तानीन्द्रियाणि च सर्वेन्द्रियाणि तानि च बुद्धिश्च सर्वे­न्द्रि­य­बु­द्धयः तासां वृत्तयः सर्वे­न्द्रि­य­बु­द्धि­वृ­त्तयः प्रलीना यस्यां सुषुप्तौ सा प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृत्तिः । एतेन सर्वे­न्द्रि­य­वृ­त्ति­मत्या जाग्रदवस्थायाः केव­ल­बु­द्धि­वृ­त्ति­म­त्याः­स्व­प्ना­व­स्था­याश्च व्यावृत्तिः कृता । विभक्त्यवस्था विभाजकावस्था । अज्ञानस्य अवस्थात्रये सत्वेऽपि इतरावस्थयोः स्वेत­र­सा­धा­र­ण­त्वात् स्वमात्रस्य सुषु­प्ति­र­सा­धा­र­ण्य­व­स्थेति भावः ॥१२२॥

अन्तिमपादार्थम् अनुभवेन स्पष्टयति सर्वेति −

सर्व­प्र­का­र­प्र­मि­ति­प्र­शान्तिः
बीजा­त्म­ना­व­स्थि­ति­रेव बुद्धेः ।
सुषु­प्ति­र­त्रास्य किल प्रतीतिः
किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥१२३॥

१२३

सर्वे प्रकाराः प्रत्य­क्ष­त्वा­नु­मि­ति­त्वा­दयः यासां प्रमितीनां तासां प्रकर्षेण शान्तिः प्रशान्तिः उपरमः यत्र सुषुप्तौ सा सर्व­प्र­का­र­प्र­मि­ति­प्र­शान्तिः । तर्हि परदिने व्यवहारः कथमिति चेत् तत्राह बीजात्मनेति । बुद्धे­र­न्तः­क­र­णस्य बीजात्मना संस्कारात्मना कार­णा­ज्ञा­ना­त्म­ने­त्यर्थः । अवस्थितिरेव न स्वका­र्य­वृ­त्त्या­त्म­ना­व­स्थितिः तदेत्येवकारेण प्रतीयते । सैव सुषुप्तिः । तदा सर्व­प्र­का­र­ज्ञा­ना­भावे सर्वानुभवं प्रमाणयति । अत्र सुषुप्तिविषये । अस्य सुप्त­प्र­बु­द्धस्य जीवस्य किञ्चिन्न वेद्मीति जानामीति प्रतीतिः । किल प्रसिद्धा इत्यर्थः । यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा किञ्चिन्न वेद्मीति प्रतीतिर्न स्यात् । जाग्र­त्स्व­प्न­यो­स्त­था­प्र­ती­ते­र­भा­वा­दिति भावः । अनुभवे विवदमानं प्रत्याह जग­त्प्र­सि­द्धे­रिति । तथा च सर्व­प्र­सि­द्ध­प्र­तीतौ विवादोऽसङ्गत इत्यभिप्रायः ॥१२३॥

इदा­नी­मा­त्मा­ना­त्म­वि­वे­च­नार्थं प्रति­पि­पा­द­यि­षि­त­म­ना­त्मा­न­मु­प­सं­ह­रति देहेति −

देहे­न्द्रि­य­प्रा­ण­म­नोऽ­ह­मा­दयः
सर्वे विकारा विषयाः सुखादयः ।
व्योमा­दि­भू­ता­न्य­खिलं च विश्वं
अव्य­क्त­प­र्य­न्त­मिदं ह्यनात्मा ॥१२४॥

१२४

देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहे­न्द्रि­य­प्रा­ण­म­नो­हमः आदयः येषां बुद्ध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः । विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः । सुखादयः सुखम् आदिर्येषां दुःख­मो­ह­स­ङ्क­ल्पा­दि­वृ­त्तीनां भयान्तानां मनःपरिणामानां ते सुखादयः । व्योम आकाशम् आदि येषां तानि पृथिव्यन्तानि भूतानि । किं बहुना इदं परिदृश्यमानम् अव्य­क्त­प­र्य­न्तम् अखिलं समस्तं, विश्वं जगत् , अनात्मा । एतेन ‘कोसावनात्मा’(श्लो. ५१) इत्यस्य उत्तरं दत्तम् ॥१२४॥

अन्ति­म­का­र्य­प्र­भृति आदि­म­प­रि­णा­म्यु­पा­दा­न­प­र्यन्तं सर्वम् अना­त्मे­त्यु­क्तम् । तद्वैपरीत्येन आदि­म­प­रि­णा­म्यु­पा­दा­नात् अन्ति­म­का­र्य­प­र्यन्तं सर्वं तथेति दार्ढ्यार्थं वदन् तस्य मिथ्यात्वमपि कथयति मायेति −

माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् ।
अस­दि­द­म­ना­त्म­तत्त्वं विद्धि त्वं मरु­म­री­चि­का­क­ल्पम् ॥१२५॥

१२५

माया मूलप्रकृतिः, महत् महत्तत्त्वं ‘तदैक्षत’(छा.उ. ६.२.३) इति श्रुतिसिद्धम् ईक्षणं तदादि यस्य देहपर्यन्तस्य मायाकार्यस्य तन्महदादि । अहङ्कारः ईश्वरसङ्कल्पः ‘सोऽकामयत’(तै.उ. २.६) इति श्रुतिसिद्धः । ततः पञ्च सूक्ष्मभूतानि, ततः पञ्चीकृतानि स्थूलभूतानि, ततः ब्रह्माण्डं, तत्र चतुर्दशभुवनानि तद­न्त­र्व­र्ति­स्थू­ल­दे­हा­दयः एतत्सर्वं देहपर्यन्तं मायाकार्यं त्वम् इदं मायां मायाकार्यं च अनात्मतत्त्वम् आत्म­व्य­ति­रि­क्त­प­दार्थं कोऽसावनात्मेति प्रश्नो­त्त­र­वि­ष­यम् असत् सद्रू­पा­त्म­भि­न्नम् । अत एव पूर्वो­क्त­शु­द्धा­द्व­य­ब्र­ह्म­वि­बो­ध­ना­श्य­त्वा­दि­हे­तुना मरुमरीचिकाकल्पं मृग­तृ­ष्णि­का­स­दृशं दृष्ट­न­ष्ट­स्व­रू­प­त्वेन मिथ्याभूतं विद्धि जानीहि । घर्मकाले मरुभूमौ मिहिरमरीचयः पतिताः महा­वा­रि­प्र­वा­ह­बुद्धिं जनयन्ति । वस्तुतस्तु विशेषदर्शने तत्र जलं किञ्चिदपि नास्ति । तथा ब्रह्मज्ञानात् प्राक् माया तत्कार्यं च भासते । तत्साक्षात्कारे च प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यतीति दृष्ट­न­ष्ट­स्व­रू­पत्वं तेषां, ततो मरु­म­री­चि­का­व­न्मि­थ्या­त्वम् । मरुषु मरीचिकाः मरुमरीचिकाः । उक्तार्थमिदं पदम् ॥१२५॥

एवमनात्मानं निरवशेषमुक्त्वा ‘परमः क आत्मा’(श्लो. ५१) इति प्रश्नस्य उत्तरं वक्तुमारभते अथेति −

१५. परमात्मा

अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः ।
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥१२६॥

१२६

अथशब्दः अना­त्म­प्र­ति­पा­द­ना­न­न्त­र्या­र्थकः । यत्प­र­मा­त्म­स्व­रूपं विज्ञाय साक्षात्कृत्य, नरः विद्याधिकारी पुरुषः, बन्धात् अहङ्कारादि देहान्ताद् बन्धात् मुक्तः त्यक्त­त­त्ता­दा­त्म्या­ध्यासः कैवल्यं सर्वो­पा­धि­स­म्ब­न्ध­वि­नि­र्मु­क्त­त्वेन केवलदृग्रूपत्वं निर्भे­द­स­च्चि­दा­न­न्द­रू­पत्वं च अश्नुते प्राप्नोति । तत् परमात्मनः स्वरूपं याथात्म्यं ते तव सम्प्रवक्ष्यामि सम्यक् स्पष्टं प्रकर्षेण विस्तरेण वक्ष्यामि कथ­यि­ष्या­मी­त्यर्थः ॥१२६॥

आत्मानं वक्तुं प्रक्रमते अस्तीति −

अस्ति कश्चित् स्वयं नित्यम् अहं­प्र­त्य­य­ल­म्बनः ।
अव­स्था­त्र­य­साक्षी सन् पञ्चकोशविलक्षणः ॥१२७॥

१२७

स्वयं, सत्ता­स्फू­र्ति­वि­षये परानपेक्षः, अहं­प्र­त्य­य­ल­म्बनः अह­मा­का­र­वृ­त्ति­म­न्म­न­स्ता­दा­त्म्या­प­न्न­तया अहं वृत्तेराश्रयः । अहंप्रत्ययः अहंवृत्तिः लम्बनं बिम्बग्राहिणी यस्य सः अहं­प्र­त्य­य­ल­म्बनः अहंवृत्तिविषय इत्यप्यर्थः । अव­स्था­त्र­य­साक्षी सन् जाग्र­त्स्व­प्न­सु­षु­प्ति­रू­पा­व­स्था­त्र­य­सा­क्षा­द्द्द्रष्टा सन् । पञ्चकोशविलक्षणः अन्न­म­य­प्रा­ण­म­य­म­नो­म­य­वि­ज्ञा­न­म­या­न­न्द­म­य­व्य­ति­रिक्तः । स नित्यं सर्वदा कश्चिदस्ति स एव आत्मेति शेषः । अत्र काल­त्र­या­बा­ध्य­त्व­रू­प­स­द्रू­प­त्व­मु­क्तम् ॥१२७॥

अव­स्था­त्र­य­सा­क्षि­त्व­मु­प­पा­द­यति य इत्यादिना −

यो विजानाति सकलं जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।
बुद्धि­त­द्वृ­त्ति­स­द्भा­व­म­भा­व­म­ह­मि­त्य­यम् ॥१२८॥

१२८

इदमिदं पश्या­म्य­नु­मि­नोमि शब्दात् प्रत्येमि स्मरा­मी­त्या­दि­प्र­का­रेण जाग्र­त्स्व­प्नयोः बुद्धि­त­द्वृ­त्ति­स­द्भा­वम् । न किञ्चि­द­वे­दि­ष­मिति सुषु­प्त्य­न­न्त­र­का­लि­क­स्मृ­त्य­नु­सा­रेण सुषुप्तौ बुद्धि­त­द्वृ­त्त्य­भावं च यो विजानाति सकलं जाग्रद्भावान् स्वाप्न­प­दा­र्थान् सुषु­प्ता­व­ज्ञा­नञ्च अहमहमिदं जानामि अज्ञासिषं ज्ञास्या­मी­त्य­नु­भ­वात् । अयमात्मा इत्यन्वयः ॥१२८॥

इतरावेद्यत्वेन सर्व­द्र­ष्टृ­त्वेन च ज्ञान­स्व­रू­प­त्व­माह यः पश्यतीत्यादिना −

यः पश्यति स्वयं सर्वं यं न पश्यति किञ्चन ।
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥१२९॥

१२९

यः पश्यति स्वयं सर्वं ‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ. ३.७.२३) इति श्रुतेः । यं न पश्यति किञ्चन ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः’(के.उ. १.३) ‘न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः’(मु.उ १.३.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) इत्या­दि­श्रु­तिभ्यः । यः बुद्ध्यादि जडं चेतयति स्वप्रतिफलनेन चेतनवत् करोति । तत् बुद्ध्यादि यं न चेतयति स्वतः चेतनत्वात् । जडं हि स्वकार्यार्थं चेतनमपेक्षते न चेतनस्य पराकाङ्क्षा । अयमात्मा इत्यन्वयः ॥१२९॥

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन ।
अभारूपमिदं सर्वं यं भान्त­म­नु­भा­त्य­यम् ॥१३०॥

१३०

सर्वोपादानतया येन सर्वान्तरेण इदं विश्वं जगत् व्याप्तं विशेषेणाप्तं सम्बद्धम् । किञ्चन किमपि वस्तु यमात्मानं न व्याप्प्नोति अस्य सर्वस्य बाह्यत्वाद् ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’(भ.गी. १०.४२) ‘विकारावर्ति च तथाहि स्थितिमाह’(ब्र.सू. ४.४.१९) ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.उ. ३.१२.६) इति स्मृति­सू­त्र­श्रु­तिभ्यः, ‘ज्याया­न्पृ­थिव्याः ज्याया­न­न्त­रि­क्षा­ज्ज्या­या­नेभ्यो लोकेभ्यः’(छा.उ. ३.१४.३) इत्यादि श्रुतेश्च । अभारूपम् अप्रकाशरूपं जडमित्यर्थः । इदं सर्वं चिद्रूपं यं भान्तमनुभाति ‘तमेव भान्तमनुभाति सर्वं’(क.उ. ५.१५) इति श्रुतेः अयमात्मा इत्यन्वयः । अत्र ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति श्रुत्यु­क्त­मा­नन्त्यं देश­प­रि­च्छे­द­शू­न्य­त्व­क­थ­नेन कथितं बोध्यम् ॥१३०॥

यश्चेतयति बुद्ध्यादि इत्युक्तं विवृणोति यस्येत्यादिना −

यस्य सन्निधिमात्रेण देहे­न्द्रि­य­म­नो­धियः ।
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥१३१॥

१३१

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥
(के.उ. १.१)

इति पृष्ट्वा श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुः (के.उ. १.२) इत्यु­त्त­रि­त­म­र्थ­माह − यस्य आत्मनः सन्निधिमात्रेण अभि­मा­न­रू­प­स­म्ब­न्ध­व­शात् । देहे­न्द्रि­य­म­नो­धियः, अत्र देहशब्देन वाक्पा­णि­पा­दा­दीनि कर्मेन्द्रियाणि गृह्यन्ते । इन्द्रियपदेन श्रोत्रादीनि ज्ञाने­न्द्रि­याणि मनः अन्तःकरणम् । धीः कर्त्री न बुद्धिः । स्वकीयेषु विषयेषु वचनादानगमनादिषु श्रव­ण­द­र्श­न­स्प­र्श­ना­दिषु सङ्क­ल्प­न­वि­क­ल्प­ना­दिषु लौकि­क­वै­दि­क­का­र्येषु च प्रेरिता इव स्पष्टं जडानां स्वतो व्यापाराभावात् । वर्तन्ते स आत्मा इत्यन्वयः ॥१३१॥

अह­ङ्का­रा­दि­दे­हान्ता विषयाश्च सुखादयः ।
वेद्यन्ते घटवद् येन नित्य­बो­ध­स्व­रू­पिणा ॥१३२॥

१३२

दृश्यस्य द्रष्टृ­ध­र्म­त्वा­भा­वात् अह­ङ्का­रा­दि­दे­हान्ताः पञ्चकोशाः । विषयाः शब्दादयः, सुखा­द­यः­त­त्प्र­यो­ज्याश्च । नित्य­बो­ध­स्व­रू­पिणा स्वत­स्सि­द्ध­ज्ञा­न­स्व­रू­पेण येन घटवत् घट इव वेद्यन्ते ज्ञायन्ते । स आत्मा इत्यन्वयः । तेन सुखादीनां दृश्यत्वात् द्रष्टृधर्मत्वं नास्ती­त्य­स­ङ्ग­त्व­मु­क्त­मा­त्मनः ।

अह­ङ्का­रा­दि­दे­हा­न्तानां पञ्चानां कोशानां वेद्यत्वकथनेन सूत्र­स्था­नी­य­प्र­थ­म­श्लो­कोक्तं पञ्च­को­श­वि­ल­क्ष­णत्वं सङ्ग्रहेण कथितम् । इदमुत्तरत्र स्पष्टयिष्यते ‘देहोयमन्नभवन’(श्लो. १५६) इत्यादिना ॥१३२॥

एषोन्तरात्मा पुरुषः पुराणो
निर­न्त­रा­ख­ण्ड­सु­खा­नु­भूतिः ।
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति ॥१३३॥

१३३

येन इषिताः सन्निधिमात्रेण प्रेरिताः । वाक्चासवश्च वागसवः । इदं सर्वस्य कार्य­क­र­ण­स­ङ्घा­त­स्यो­प­ल­क्षणं । वाक् असव इति भिन्नं वा पदम् । वागिन्न्द्रियं प्राणाश्चरन्ति शब्दो­च्चा­र­णो­च्छ्वा­स­नि­श्वा­सा­दीनि कर्माणि स्वकीयानि कुर्वन्ति । एषः अन्तरात्मा लोकसिद्धानां श्रुत्यापि ब्रह्म­प्र­ति­प­त्ति­हे­तु­त्वेन अन्न­म­या­द्या­न­न्द­म­या­न्तानां कोशानां कल्पितानां बाह्यानां कल्प­ना­धि­ष्ठा­न­त्वेन सर्वानुगततया भूच्छि­द्र­स­र्प­द­ण्ड­ज­ल­धा­रा­दि­ष्विव रज्जुर्भासमानः अन्तरात्मा । पुरुषः पूर्णः पुरि शरीरे शेत इति वा पुरुषः । पुराणः पुरापि नव एव सनातनः । निर­न्त­रा­ख­ण्ड­सु­खा­नु­भूतिः निरन्तरं निरवधिकम् अत एव अखण्डम् अपरिच्छिन्नं यत्सुखम् आनन्दः या च निरन्तरा अखण्डा च अनुभूतिः ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ.उ. ३.४.१) इति श्रुतेः तत्स्वरूपः । सदैकरूपः निर्विकार इत्यर्थः । प्रतिबोधमात्रः बोधे बोधे प्रतिबोधं, मीयत इति मात्रः सक­ल­बु­द्धि­वृ­त्तिषु अनुगततया काष्ठा­दि­ष्वि­वाग्निः ज्ञात इत्यर्थः । ‘प्रतिबोधविदितं मतम्’(के.उ. २.४) इति श्रुतेः । ज्ञानस्वरूपत्वं निर­न्त­रा­ख­ण्ड­सु­खा­नु­भू­ति­रि­त्य­त्रो­क्तम् । गुरू­प­दे­श­ज­न्य­बोधो वा प्रतिबोधः तत्र विषय इत्यर्थः गुरुणा प्रतिबोधित इति प्रसिद्धेः । सुप्तप्रतिबुद्ध इति प्रसिद्धेः अवि­द्या­स्वा­प­ना­शकः महा­वा­क्य­ज­न्या­ख­ण्डा­का­र­वृ­त्ति­रू­प­बोधः प्रतिबोधः तत्र विषय इति वाऽर्थः ॥१३३॥

सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते । (तै.आ. ३.१२.७)

इत्या­दि­श्रु­त्य­नु­सा­रेण ‘अवस्थितेरिति काशकृत्स्नः’(ब्र.सू. १.४.२२) इति सूत्रानुसारेण च परमात्मन एव जीव­भा­वे­ना­व­ति­ष्ठ­मा­न­त्वात् शोधि­त­त्व­म्प­दा­र्थ­त्वेन आत्मानमभिधाय तत्पदार्थत्वेन ‘अनश्नन्नन्यो अभिचाकशीति’(मु.उ. ३.१.१) इत्यादि श्रुत्य­भि­प्रे­त­म­र्थ­माह अत्रैवेत्यादिना −

अत्रैव सत्त्वात्मनि धीगुहायाम्
अव्याकृताकाश उरुप्रकाशः ।
आकाश उच्चै­र­वि­व­त्प्र­का­शते
स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४॥

१३४

अत्रैव साधकशरीर एव सत्त्वम् आत्मा यस्याः धीगुहायाः सा सत्त्वात्मा सत्त्वप्रधाना या धीः सैव गुहा । गूहू संवरणे इति धातुना, विज्ञा­न­म­य­को­श­त्वेन आत्मानं संवृणोतीति तस्यां धीगुहायाम् । उपादानत्वेन अनुस्यूतः यः अव्याकृताकाशः माया तस्मिन् अव्याकृताकाशे । उरुप्रकाशः उरुः अधिकः प्रकाशः ज्ञानरूपतया सर्वा­व­भा­स­क­त्वात् ‘तद्देवा ज्योतिषां ज्योतिः’(बृ.उ. ४.४.१६) इति श्रुतेः । आकाशः परमात्मा स्वतेजसा सूर्या­दि­स­क­ल­ज्यो­ति­र­व­भा­स­क­ज्ञा­न­रू­प­प्र­का­शेन ‘येन सूर्यस्तपति तेजसेद्धः’(कृ.य. ३.९.५५) इति श्रुतेः । इदं विश्वं दृश्यं सर्वम् । प्रकाशयन् स्फोरयन् रविवत् सूर्यवत् । उच्चैः प्रकाशते सर्वोत्कर्षेण भासते । उच्चैरविवदिति वाऽन्वयः आका­श­म­ध्य­व­र्ति­सूर्य इव इत्यर्थः । एतेन “पूर्वश्लोके (१३३) ‘एषोन्तरात्मा पुरुष’ इत्यत्र कथितः पुरि शरीरे शेत इत्यर्थः” अत्रेति स्थूलशरीरे धीगुहायामिति सूक्ष्मशरीरे अव्याकृताकाश इति कारणशरीरे प्रकाशत इति कथनात् विवृतः । सक­ल­दि­ग­व­स्थि­त­व­स्तु­भा­स­कत्वं गग­न­त­ल­म­ध्य­व­र्ति­रवेः प्रसिद्धम् । तद्वत् सर्वान्तर आत्मा सकलवस्त्ववभासक इति भावः ॥१३४॥

ज्ञाता मनोऽ­ह­ङ्कृ­ति­वि­क्रि­याणां
देहे­न्द्रि­य­प्रा­ण­कृ­त­क्रि­या­णाम् ।
अयोऽ­ग्नि­व­त्ता­न­नु­व­र्त­मानो
न चेष्टते नो विकरोति किञ्चन ॥१३५॥

१३५

मनोऽ­ह­ङ्कृ­ति­वि­क्रि­याणां मनश्च अहङ्कृतिश्च मनोऽहङ्कृती तयोर्विक्रियाः तासां ज्ञाता काम­स­ङ्क­ल्पा­दीनां मनोविक्रियाणां गर्वदर्पादीनाम् अह­ङ्का­र­वि­का­रा­णाम् आन्तराणां ज्ञाता । तथा बाह्यानां देहे­न्द्रि­य­प्रा­ण­कृ­त­क्रि­याणां देहश्च इन्द्रियाणि च प्राणश्च देहे­न्द्रि­य­प्राणाः तैः कृताः क्रियाः । देहशब्देन कर्मे­न्द्रि­याणां विवक्षितत्वात् वचनादीनां चक्षु­रा­दि­ज्ञा­ने­न्द्रि­य­व्या­पा­राणां दर्श­न­श्र­व­णा­दीनां प्राणव्यापारस्य उच्छ्वा­स­निः­श्वा­सा­देश्च ज्ञाता इत्यर्थः । सक­ला­न्त­र­बा­ह्य­वि­का­र­सा­क्षि­ण­स्तस्य निर्विकारत्वमाह अयोऽ­ग्नि­व­दि­त्या­दिना । अग्नि­रि­वा­ग्नि­वत् यथाग्निः दीर्घं वा वर्तुलं वा अयः अनुवर्तमानः तथा तथा व्यवह्रियते न वस्तुतः दीर्घ­व­र्तु­ल­ता­दि­भाक् एवं तान् मनो­ह­ङ्कृ­ति­दे­हे­न्द्रि­य­प्रा­णान् अनुवर्तमानः व्यापित्वेन स्वच्छत्वेन च सर्वत्र प्रति­बि­म्ब­मा­नोऽपि तत्त­द्व्या­पा­र­त्वेन व्यव­ह्रि­य­मा­णोऽपि वस्तुतः न चेष्टते । स्वयं न विक्रियते । न विकरोति किञ्चनकुत्रापि विक्रियां नोत्पादयति च । सूर्यस्येव सान्नि­ध्य­मा­त्रात् जड­प्र­वृ­त्ति­हे­तु­त्व­मा­त्मनः न तु किञ्चि­द्व्या­पा­र­वत इति भावः ॥१३५॥

तमेवार्थं सहेतुकं विशदयति न जायत इति −

न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम् ॥१३६॥

१३६

जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते नश्यतीति जन­न­स्थि­ति­वि­प­रि­णा­म­वृ­ध्य­प­क्ष­य­वि­नाशाः शरीरादेः दृष्टाः षड् विकाराः । अयं परमात्मा नित्यः उत्प­त्ति­वि­ना­शा­दि­शून्यः । अतः न जायते नोत्पद्यते, नो म्रियते न नश्यति अतः आद्य­न्त­वि­का­र­शू­न्य­त्वात् न वर्धते न वृद्धि­रू­प­वि­का­र­वा­न्भ­वति । एवं न क्षीयते अप­क्ष­य­रू­प­वि­क्रि­या­वान्न भवति । उत्पत्तेः अभा­वा­त्त­द­न­न्त­र­का­लि­क­स्थि­ति­रपि नैवास्ति । नित्यत्वेन निरवयवत्वात् विपरिणामो नास्तीति भावः । स्वयं विक्रियावत एव अन्यत्र विकारहेतुत्वात् सर्व­वि­ध­वि­का­र­शून्यः नो विकरोतीति पूर्वश्लोकार्थः । सहेतुकतया कथितोऽत्रेति मन्तव्यम् । अन्यत्र विक्रियां नोत्पा­द­य­ती­त्यर्थः । अमुष्मिन्वपुषि शरीरे विलीयमानेऽपि नश्यत्यपि कुम्भे नश्यत्यम्बरमिव आकाशमिव स्वयं न लीयते स्वतः परतो वा विकारो नास्तीति भावः ॥१३६॥

सम्य­ग्ज्ञा­नार्थं विज्ञा­ना­त्म­प­र­मा­त्मनोः स्वरू­प­मे­की­कृ­त्याह प्रकृतीति −

प्रकृ­ति­वि­कृ­ति­भिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भास­य­न्नि­र्वि­शेषः ।
विलसति परमात्मा जाग्र­दा­दि­ष्व­वस्था-
स्वहमहमिति साक्षा­त्सा­क्षि­रू­पेण बुद्धेः ॥१३७॥

१३७

प्रकृतिरविद्या, विकृतयः आकाशादयः तद्भिन्नः कार्य­का­र­ण­व्य­ति­रिक्त इत्यर्थः । शुद्धबोधस्वभावः शुद्धः निर्विषयः यः बोधः ज्ञानं तदेव स्वभावः स्वरूपं यस्य सः केवलदृग्रूप इत्यर्थः । इदं प्रत्य­क्षा­दि­प्र­मेयं सत् तेजआदि मूर्तम् , असत् अमूर्तम् आकाशवाय्वादिकम् अशेषं समस्तं भासयन् प्रकाशयन् निर्विशेषः निर्धर्मकः । परमात्मा जाग्रदादिषु जाग्र­त्स्व­प्न­सु­षु­प्त्या­दिषु अवस्थासु बुद्धेः साक्षिरूपेण सुषुप्तावपि बीजात्मना बुद्धेः सत्त्वात् । अहमहमिति साक्षात् प्रत्यक्तया विलसति प्रकाशते ॥१३७॥

अभेदेन परमात्मविज्ञाने मनोनियमनं तद् द्वारा बुद्धिप्रसादं च हेतूकुर्वन् ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’(छा.उ. २.२३.१) इति श्रुत्यर्थं शिष्यं प्रत्युपदिशति नियमितेति −

नियमितमनसाऽमुं त्वं स्वमा­त्मा­न­मात्म-
न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनि­म­र­ण­त­र­ङ्गा­पा­र­सं­सा­र­सिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥१३८॥

१३८

त्वमात्मनि नियमितमनसा पञ्चभ्यः कोशेभ्यो व्यावर्तितं परमात्मन्येव श्रव­ण­म­न­न­नि­दि­ध्या­सनैः स्थापितं यन्मनः तेन करणेन ‘मन­सै­वे­द­मा­प्त­व्यम्’(क.उ. ४.११) इति श्रुतेः । बुद्धिप्रसादात् अस­म्भा­व­ना­सं­श­य­भा­व­ना­वि­प­री­त­भा­व­ना­रू­प­दो­ष­ना­शेन (श्लो. ११७) विशुद्धा सकलविधदोषशून्या या बुद्धिः तस्याः प्रसादात् अनुग्रहात् ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेश्च । स्वस्वरूपभूतम् आत्मनं परमात्मानं ‘स आत्मा तत्त्वमसि’(छा.उ. ६.८) इति श्रुतेः ‘असन्नेव स भवति’ ‘असद्ब्रह्मेति वेद चेत्’(तै.उ. २.६) इति श्रुतेश्च । परमात्मन एव मुख्यत्वात् । अयमहमिति साक्षाद्विद्धि अन्योऽ­सा­व­न्योऽ­हम् इत्येतावन्तं कालं स्थितां बुद्धिं विहाय अभेदेन साक्षा­त्कु­रु­ष्वे­त्यर्थः । तत्फलमाह जनि­म­र­ण­त­र­ङ्गा­पा­र­सं­सा­र­सिन्धुं प्रतरेति । ‘पुनरपि जननं पुनरपि मरणम्’ इति रीत्या ब्रह्म­ज्ञा­ना­लाभे अविरततया प्रस­ज्य­मा­न­ज­न्म­म­र­ण­रू­प­त­र­ङ्ग­वि­शिष्टः अपारः ब्रह्म­रू­प­पा­रा­ज्ञा­नात् अपारः यः संसारः स एव सिन्धुः समुद्रः तं, प्रतर प्रकर्षेण तर सद्यो­मु­क्ति­मा­प्नु­ही­त्यर्थः । सततमपि ब्रह्मरूपेण संस्थः कृतार्थो भव कर्त­व्या­न्त­र­र­हितो भवेत्यर्थः ।

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किञ्चि­त्क­र्त­व्यम् अस्ति चेन्न स तत्त्ववित् ॥ (जा.द.उ. १.२३)

इति प्रमाणात् ॥१३८॥

एतावता ग्रन्थेन ‘अस्ति कश्चित्स्वयं नित्यम्’(श्लो. १२७) इत्यारभ्य एकादशभिः श्लोकैः ‘परमः क आत्मा’ इत्यस्य प्रश्नस्य उत्तरमुक्त्वा ‘को नाम बन्धः’(श्लो. ५२) इति शिष्यस्य प्रथमप्रश्नस्य उत्तरमाह अत्रा­ना­त्म­नी­त्या­दिना द्वाभ्याम् −

१६. बन्धः

अत्रा­ना­त्म­न्य­ह­मिति मतिर्बन्ध एषोस्य पुंसः
प्राप्तोऽ­ज्ञा­ना­ज्ज­न­न­म­र­ण­क्ले­श­स­म्पा­त­हेतुः ।
येनैवायं वपु­रि­द­म­स­त्स­त्य­मि­त्या­त्म­बुध्या
पुष्य­त्यु­क्ष­त्य­वति विषयैस्तन्तुभिः कोशकृद्वत् ॥१३९॥

१३९

अत्र पूर्वोक्तरीत्या वस्तुतः परमात्मन एव स्वस्व­रू­प­त्वेऽपि, अज्ञानात् अना­दि­सि­द्धा­वि­द्या­व­शात् प्राप्तः अस्य पुंसः अनात्मनि देहादौ अहमितिमतिः अहं मनुष्यः अहं क्षुत्पि­पा­सा­दि­मान् इच्छामि करोमि भुञ्जे इत्याद्या या मतिः एष बन्ध इत्यन्वयः । तत्र हेतुः अज्ञा­ना­त्प्राप्त इति । भ्रमसामान्यस्य दोषजन्यत्वात् शरीरादौ आत्मत्वभ्रमे स्वरूपाज्ञानमेव दोषत्वेनापि कारणमिति भावः । अत्र प्रत्यक्षे देहादावनात्मनि इत्यप्यर्थः । साङ्ख्यादिमते मूला­ज्ञा­ना­न­ङ्गी­का­रेण बन्ध­मो­क्ष­व्य­व­स्थै­वा­नु­प­प­न्नेति ज्ञेयम् । आज्ञानिकत्वे बन्धस्य अज्ञानस्य ज्ञाना­न्नि­वृत्तौ तन्मूलकस्य बन्धस्यापि निवृत्तेः । अन्यथा बन्धस्य सत्यत्वात् ज्ञान­मा­त्र­नि­व­र्त्य­त्वस्य दुर्वचत्वात् दोषाभावे भ्रमस्य उत्प­त्तु­म­श­क्य­त्वाच्च । बन्धस्य कार्यमाह जन­न­म­र­ण­क्ले­श­स­म्पा­त­हे­तु­रिति । जननं च मरणं च जननमरणे ताभ्यां क्लेशः दुःखं तत्र सम्पातः सम्मग्नत्वं, तस्य हेतुः । जन­न­म­र­णे­त्यु­प­ल­क्षणं दुःखहेतूनां क्षुत्पि­पा­सा­दीनां सर्वेषां, यद्वा जननं च मरणं च क्लेशाश्च जननमरणक्लेशाः तेषां सम्पातः स्वधर्मत्वेन ज्ञानं तत्र हेतुरित्यर्थः । अधुना क्लेशपदेन अस्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­शानां परिग्रहः । पञ्चक्लेशमध्ये आदिमक्लेशस्यैव ‘अना­त्म­न्य­ह­मि­ति­म­ति­र्बन्ध’ इत्युक्तत्वात् । ‘अनि­त्या­शु­चि­दुः­खा­ना­त्मसु नित्य­शु­चि­सु­खा­त्म­त्व­ख्या­ति­र­विद्या’(२.५) इति योगसूत्रात् । तत्र देहे स्थूलेऽभिमानात् जननमरणसम्पातः आन­न्द­म­या­दा­व­भि­मा­नात् राग­द्वे­षा­भि­नि­वे­शानां सम्पातः इति सक­ल­वि­ध­दुः­ख­हे­तु­त्वम् आदिमक्लेशस्य कार्याविद्याया बन्धशब्दिताया इति बोध्यम् । येनैव अना­त्म­न्या­त्म­म­ति­रू­प­ब­न्धे­नैव अयं पुरुषः इदमसद्वपुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन । विषयैः बन्ध­कै­र­प्य­नु­कू­लै­रिव प्रतीयमानैः रसादिभिः पुष्यति वर्धयति उक्षति सिञ्चति अवति रक्षति । तत्रानुरूपः दृष्टान्तः तन्तुभिः कोशकृद्वदिति । यथा कोशकारः क्रिमिः स्वदे­ह­ग­त­ला­ला­व्य­येन तन्तून् कृत्वा तैः रक्षितो भवामीति भ्रान्त्या तन्मध्यलग्नः अन्यत्र गन्तुमशक्तः वृथा म्रियते एवं जीवोऽपि शरीरमात्मत्वेन मत्वा विषयैः पोषयन् तद्वशः जन्म­म­र­णा­दि­स­क­ल­वि­ध­दुः­ख­म­नु­भ­व­तीति भावः । उक्तं हि –

कोश­क्रि­मि­स्त­न्तु­भि­रा­त्म­दे­हम्
आवेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।
स्वयं विनि­र्ग­न्तु­म­शक्त एव सन्
तत­स्त­द­न्त­र्म्रि­यते च लग्नः ॥ (स.सं. ४४) इति ।

तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं तु तदुपचायकत्वमिति भेदः ॥१३९॥

अधि­ष्ठा­ना­रो­प्ययोः भेदग्रहे अध्यासासम्भवात् अज्ञानस्य मूलकारणस्य अविवेकद्वारा बन्धहेतुत्वं सदृष्टान्तं विशदयन् अध्यासं बन्धशब्दार्थमाह अतस्मिन्निति −

अत­स्मिं­स्त­द्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥१४०॥

१४०

तमसा अज्ञानेन विमूढस्य विवे­क­र­हि­त­चि­त्तस्य पुरुषस्य अत­स्मि­न्न­ना­त्मनि देहादौ तद्बुद्धिः आत्मबुद्धिः प्रभवति जायते । तद्यथा विवेकाभावात् स्फुरति भासमाने भुजगे सर्पे नेयं रज्जुरिति भेदज्ञानाभावात् , वै एव रज्जुधिषणा रज्जुरिति बुद्धिः जायते । ततः रज्जु­बु­ध्य­न­न्त­रम् उपादेयत्वधिया समादातुः भुजङ्गं स्वीकर्तुः अधिकः अनर्थव्रातः मर­ण­प­र्य­न्त­ब­हु­वि­ध­दुः­ख­स­मु­दायः निपतति प्राप्तो भवति । ततः तस्मात्कारणात् योऽसद्ग्राहः अन्य­था­व­र्त­मा­नस्य अन्यथाग्रहणं सः बन्धः भवति हि निश्चयः । सखे शृणु स्पष्टम् । तत्र रज्ज्वां भुज­ग­धि­ष­णा­म­दृ­ष्टा­न्त­यित्वा भुजगे रज्जुधिषणा अनात्मन्यध्यासे दृष्टान्तीकृता अत्य­न्ता­न­र्थ­क­र­त्व­द्यो­त­नाय ॥१४०॥

इदानीं ‘कथमेष आगत’(श्लो. ५२) इत्यस्य प्रश्नस्य उत्तरं वक्तुमारभते अखण्डेति −

अख­ण्ड­नि­त्या­द्व­य­बो­ध­शक्त्या
स्फुर­न्त­मा­त्मा­न­म­न­न्त­वै­भ­वम् ।
समा­वृ­णो­त्या­वृ­ति­श­क्ति­रेषा
तमोमयी राहु­रि­वा­र्क­बि­म्बम् ॥१४१॥

१४१

अज्ञानस्य द्वे शक्ती बन्धहेतुभूते आवरणशक्तिः विक्षे­प­श­क्ति­श्चेति । क्रमेण तयोः बन्ध­हे­तु­त्व­मु­प­पा­द­यति । अखण्डा अपरिच्छिन्ना अत एव नित्या उत्प­त्ति­ना­श­शून्या । अद्वया द्वितीयशून्या या बोधरूपा शक्तिः ‘स्वाभाविकी ज्ञानबलक्रिया च’(श्वे.उ. ६.८) इति श्रुतेः ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘सत्यं ज्ञानमनन्तम्’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इति श्रुतिभ्यश्च । तया शक्त्या स्फुरन्तं प्रकाशमानम् । अनन्तवैभवं विभोर्भावः वैभवं, तस्य गग­ना­दि­व­दा­पे­क्षि­कत्वं वारयति अनन्तेति । अनन्तं निरपेक्षं वैभवं यस्य इति निर­ति­श­य­म­ह­त्त्व­मु­क्तम् अतिपरिच्छिन्ने देहादौ अहं मतिः अत्य­न्त­म­यु­क्तेति बोधयितुम् । एतादृशे परि­च्छि­न्न­त्वा­नि­त्य­त्व­स­द्व­य­त्व­ज­ड­त्वा­दि­क­मा­रो­प्यते अज्ञानात् । तत्र हेतुं स्फुटयति − तमनन्तवैभवम् अख­ण्ड­नि­त्या­द्व­य­बो­ध­शक्त्या प्रकाशमानम् आत्मानं तमोमयी तमःप्रचुरा एषा विवे­कि­ज­न­प्र­त्यक्षा आवृतिशक्तिः । अर्कबिम्बं महता प्रकाशेन भासमानं सूर्यमण्डलं तमोमयो राहुरिव समावृणोति अभा­स­मा­न­स्वा­सा­धा­र­ण­ध­र्माणं करोति । यथा महा­प्र­का­श­वा­न­प्यर्कः राहुणावृतः न भासत इत्युच्यते तथा तत्ता­दृ­शोऽ­प्यात्मा आवृतिशक्त्या समावृतः अज्ञा­त­वा­स्त­व­रूपो भवतीति भावः ॥१४१॥

पूर्वार्धेन आवरणकार्यम् उत्तरार्धेन विक्षे­प­श­क्ति­कार्यं च क्रमेणाह तिरोभूत इत्यादिना −

तिरोभूते स्वात्म­न्य­म­ल­त­र­ते­जो­वति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति ।
ततः काम­क्रो­ध­प्र­भृ­ति­भि­रमुं बन्धकगुणैः
परं विक्षेपाख्या रजस उरु­श­क्ति­र्व्य­थ­यति ॥१४२॥

१४२

अमलतरतेजोवति अति­स्व­च्छ­प्र­का­श­वति स्वात्मनि स्वस्वरूपे परमात्मनि अज्ञा­न­ग­ता­व­र­ण­शक्त्या तिरोभूते न्यग्भूते स्पष्टमभासमाने सति, पुमान् जीवः मोहात् अविवेकात् , अनात्मानम् आत्मभिन्नं शरीरं देहम् अहमिति तादात्म्येन कलयति जानाति अभिमन्यते । ततः शरीरे तादा­त्म्या­भि­मा­ना­न­न्त­रम् अमुं पुरुषं विक्षेपाख्या विक्षेपनाम्नी रजसः रजोगुणस्य उरुशक्तिः प्रबला शक्तिः काम­क्रो­ध­प्र­भृ­तिभिः कामश्च क्रोधश्च कामक्रोधौ तौ प्रभृती आदी येषां लोभ­द­म्भा­भ्य­सू­या­ह­ङ्का­रेर्ष्या मत्सराद्यानां ते काम­क्रो­ध­प्र­भृ­तयः तैः बन्धकगुणैः अध्या­स­वृ­द्धि­हे­तु­भूतैः धर्मैः परमत्यन्तं व्यथयति शोचयति । दुःखजटिलं करोतीत्यर्थः । प्रसिद्धं हि शरीराभिमानवतः तदनुकूले वस्तुनि कामः तदलाभे क्रोधः तल्लाभे लोभः इत्यादि । उक्तं हि गीतायाम् –

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभ­स्त­स्मा­दे­त­त्रयं त्यजेत् इति ॥ (१६.२१) १४२ ॥

एवमज्ञानम् आव­र­ण­वि­क्षे­प­श­क्तिभ्यां सर्वा­न­र्थ­मू­ल­मि­त्युक्तं पुनर्विशदयति महामोहेत्यादिना −

महा­मो­ह­ग्रा­ह­ग्र­स­न­ग­लि­ता­त्मा­व­ग­मनो
धियो नानावस्थाः स्वय­म­भि­न­यं­स्त­द्गु­ण­तया ।
अपारे संसारे विषयविषपूरे जलनिधौ
निम­ज्यो­न्म­ज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥

१४३

महा­मो­ह­ग्रा­ह­ग्र­स­न­ग­लि­ता­त्मा­व­ग­मनः महांश्चासौ मोहश्च महामोहः दृढतराविवेकः स एव ग्राहः मकरः तस्य ग्रसनं तत्कर्तृकनिगरणं तेन गलितं नष्टम् आत्मावगमनम् आत्मनः अवगमनं सम्यग्ज्ञानं यस्य सः अन­व­बु­ध्य­मा­न­या­थात्म्य इत्यर्थः । धियः बुद्धेः नानावस्थाः बहुविधान् परिणामान् , तद्गुणतया तस्याः गुणाः यस्य सः तद्गुणः तदुपहिततया तदधीनतयेति यावत् उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् । प्रसिद्धं हि जले चलति तत्र भास­मा­न­सू­र्य­प्र­ति­बि­म्बोऽपि चलतीति । ‘समानस्सन् उभौ लोकौ अनुसञ्चरति’(ब्र.सू.भा. २.३.३०) , ‘सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः । स्वयमभिनयन् स्वस्मि­न्ना­रो­प­यन् । अपारे अनवधौ विषयविषपूरे विषया एव विषं विषयविषं तस्य पूरः प्रवाहः यत्र स विषयविषपूरः तस्मिन्संसारे जलनिधौ संसाररूपसमुद्रे । सप्तमी समा­ना­धि­क­र­ण­त्वा­र्थिका । कुमतिः कुत्सिता अब्रह्मगामिनी मतिः बुद्धिः यस्य सः कुमतिः अत एव कुत्सितगतिः कुत्सिता निन्दिता गतिरवगतिः नर­का­द्य­धो­लो­क­ग­तिर्वा यस्य स कुत्सितगतिः अयं पुमान् निमज्योन्मज्य अस्वतन्त्रः अधो गत्वा ऊर्ध्वमागत्य भ्रमति । अवशीकृतबुद्धेः इन्द्रियलौल्येन विषयाधीनतया भ्रान्तिपरम्परा न संसा­र­पा­र­ब्र­ह्म­प्रा­प्ति­रिति भावः ॥१४३॥

स्वकार्यस्यापि स्वतिरोधायकत्वं सदृष्टान्तमाह भान्विति −

भानु­प्र­भा­स­ञ्ज­नि­ता­भ्र­पङ्क्तिः
भानुं तिरोधाय यथा विजृम्भते ।
आत्मो­दि­ता­ह­ङ्कृ­ति­रा­त्म­तत्त्वं
तथा तिरोधाय विजृम्भते स्वयम् ॥१४४॥

१४४

भानोः सूर्यस्य प्रभया किरणैः सञ्जनिता समुत्पादिता अभ्रपङ्क्तिः आपः बिभ्रतीति अभ्राणि मेघाः तेषां पङ्क्तिः माला, ग्रीष्मे सूर्यकिरणैः आकृष्टा आप एव मेघात्मना भवन्तीति प्रसिद्धिः । सा मेघमाला स्वोत्पादकं भानुं सूर्यं तिरोधाय आवृत्य यथा विजृम्भते स्वयं पुरोभवति । तत्किरणेरैव जातत्वं तत्तिरोधाय स्वय­म­व­भा­स­मा­नत्वं चेति सर्वांशे दृष्टान्तः । तथा आत्मो­दि­ता­ह­ङ्कृतिः आत्मनः सकाशादुदिता उत्पन्ना याहङ्कृतिः देहा­दा­व­ह­म्प्र­त्ययः आत्मा­धी­न­स­त्ता­स्फू­र्ति­मा­नपि आत्मतत्त्वम् आत्मयाथात्म्यं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वत्वं तिरोधाय तदीयस्फुटभानं प्रतिबध्य स्वयं विजृम्भते पुरस्स्फूर्तिको भवतीत्यर्थः । अहङ्कृतिः बुद्धिर्वा तस्या अपि आत्मनः सका­शा­दु­त्प­न्न­त्वात् विज्ञा­न­म­य­को­श­त्वेन तदावरकत्वाच्च ॥१४४॥

इदा­नी­मा­व­र­ण­वि­क्षे­प­श­क्ति­कार्यं सदृष्टान्तमाह कबलितेति −

कबलितदिननाथे दुर्दिने सान्द्रमेघैः
व्यथयति हिम­झ­ञ्झा­वा­यु­रुग्रो यथैतान् ।
अवि­र­त­त­म­सा­त्म­न्या­वृते मूढबुद्धिं
क्षपयति बहु­दुः­खै­स्ती­व्र­वि­क्षे­प­शक्तिः ॥१४५॥

१४५

सान्द्रमेघैः सान्द्राः निविडाः ते च ते मेघाश्च सान्द्रमेघाः तैः निरन्तरमेघैः । कबलितदिननाथे कबलितः ग्रस्तः दिननाथः सूर्यः यस्मिन् तत् कबलितदिननाथं तस्मिन् । दुर्दिने ‘मेघ­च्छ­न्नेऽह्नि दुर्दिनम्’(अ.को. १.३.१०१) इति कोशात् । सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयङ्करः । हिमझञ्झावायुः ‘झञ्झावातः सवृष्टिकः’(अ.को. १.१.७२) इति कोशात् हिमसहितः सवृष्टिकवायुः यथा एतान् पथिकान् जनान् व्यथयति दुःखाकरोति । सूर्यातपो नास्ति मध्येमार्गं स्थितिः हिमवर्षसहितः महान् वायुश्चेति तदाऽध्वगानां पीडा दुर्वचा । एवम् अविरततमसा सान्द्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कबलिते स्फुटतया अप्रतीयमाने नष्टप्राये तीव्र­वि­क्षे­प­शक्तिः राजसी काम­क्रो­धा­दि­रू­पेण परिणममाना प्रब­ल­वि­क्षे­प­शक्तिः । मूढबुद्धिं तामस्या आवरणशक्त्या मूढा प्राप्त­ज्ञा­य­मा­न­ता­क­ज्ञा­ना­स­मर्था बुद्धिः यस्य स मूढबुद्धिः तं पुमांसम् । बहुदुःखैः बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्म­मृ­त्यु­ज­रा­रो­गा­दि­जन्यैः क्षपयति नाशयतीत्यर्थः । सन्त­त­दुः­ख­प­र­म्प­रा­म­ग्नस्य क्वान­न्द­रू­प­स्वा­त्म­ज्ञा­नम् । तदभावे स्वात्मा­द­र्श­नात् नष्ट इव भवत्यात्मेति भावः ॥१४५॥

कथमेष आगत इति प्रश्नो­त्त­र­मुक्तं स्फुट­ज्ञा­ना­र्थ­मु­प­सं­ह­रति एताभ्यामिति −

एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥१४६॥

१४६

एताभ्यां गुण­त्र­य­म­या­ज्ञा­न­ग­त­त­मो­र­ज­श्श­क्ति­भ्याम् आवृ­ति­वि­क्षे­प­रू­पाभ्यां पुंसः पुरुषस्य बन्धः अत­स्मि­न्त­द्बु­द्धि­रू­पा­ध्यासः समागतः । स्थिर­त­र­सा­ध­न­च­तु­ष्ट­य­पु­र­स्स­र­वे­दा­न्त­वि­चा­र­ज­न्य­स्वा­त्म­सा­क्षा­त्कारं विना दुर्निरसः प्राप्तः । याभ्यां पूर्वो­क्त­श­क्तिभ्यां विमोहितः ज्ञात­व्य­ज्ञा­न­शून्यः देहं स्थूलादिकम् आत्मानं मत्वा अहमिति विज्ञाय अयं पुमान् भ्रमति संसा­र­दी­र्घा­ट­व्याम् ॥१४६॥

मुमुक्षूणां सुखबोधार्थं समूलं समग्रं संसारं वृक्षत्वेन रूपयति बीजमित्यादिना −

बीजं संसृतिभूमिजस्य तु तमो देहा­त्म­धी­र­ङ्कुरः
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः ।
अग्रा­णी­न्द्रि­य­सं­ह­तिश्च विषयाः पुष्पाणि दुःखं फलं
नाना­क­र्म­स­मु­द्भवं बहुविधं भोक्तात्र जीवः खगः ॥१४७॥

१४७

संसृतिभूमिजस्य संसृतिरेव भूमिजः वृक्षः तस्य बीजं मूलकारणं तमः अज्ञानम् । तुरवधारणे । अज्ञानमेव मूलं नान्यदित्यर्थः । देहा­त्म­धी­र­ङ्कुरः अना­त्म­न्या­त्म­धियः अज्ञा­नै­क­नि­ब­न्ध­न­त्वात् । रागः पल्लवं किसलयः अङ्कु­रो­त्प­त्त्य­न­न्त­र­का­लि­क­त्वा­त्प­ल्ल­वस्य । शरी­रा­त्म­धी­स­म­न­न्तरं शरीरानुकूले आत्मा­नु­कू­ल­त्व­ज्ञा­नात् रागः इच्छा वैषयिकी । अम्बु जलं वृक्ष­वृ­द्धि­हेतुः कर्म तु कर्मैवेत्यर्थः । तुःपूर्ववत् । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । कर्म पुण्या­पु­ण्या­त्म­कम् । वपुःस्कन्धः यतश्शाखा उत्पद्यन्ते स मध्यभागः वृक्षस्य स्कन्ध इत्युच्यते । असवः पञ्च प्राणादयो वायवः स्कन्धतः प्रसृमरत्वात् शाखिकाः शाखा एव शाखिकाः । अग्रा­णी­न्द्रि­य­सं­हतिः इन्द्रियाणां संहतिः इन्द्रियसंहतिः इन्द्रियसमुदायः चक्षुरादीनां वागादीनां च इन्द्रियाणां प्राणा­धी­न­स्थि­ति­क­त्वात् । इदं तु इन्द्रि­य­प्रा­ण­सं­वा­द­श्रुतौ प्रसिद्धम् । अग्राणां शाखा­धी­न­स्थि­ति­कत्वं सिद्धमेव । विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः पुष्पाणि अग्रसम्बन्धात् कुसुमानि । दुःखं फलं विष­ये­न्द्रि­य­स­म्ब­न्धा­न­न्त­र­का­लि­क­त्वात् । शाखाग्रेषु पुष्पो­त्प­त्त्य­न­न्तरं हि फलं जायते । यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्मशब्देन पुण्या­पु­ण्य­रू­पस्य कर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च अथापि वैषयिकसुखमपि दुःखमित्येव परिगण्यते विवेकिभिः । तत्साधनार्थं तन्नाशे च दुःख­स्यै­वा­नु­भ­वात्

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (५.२२)

इति गीतायामुक्तेः । अत एव एक­विं­श­ति­दुः­ख­मध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरं सुखं दुःखं चेति दुःखत्वेन सुखमपि परिगणितं न्यायशास्त्रे । तच्च दुःखं नाना­क­र्म­स­मु­द्भवं नाना बहुविधानि यानि कर्माणि तेभ्यः समुद्भवो यस्य तत् नाना­क­र्म­स­मु­द्भवं । अतो हेतोः कर्मणः बहुविधत्वात् फलं स्वयमपि बहुविधम् अनेकप्रकारम् । अत्र वृक्षे खगः पक्षी जीवः भोक्ता दुःख­रू­प­फ­ला­नु­भ­वी­त्यर्थः । तथा च अज्ञानमूलकः दुःखैकफलकः अयं संसारवृक्षः विषवृक्षवद्धेय इति भावः । अनेन देहा­त्म­धी­रू­प­ब­न्धस्य राग­द्वे­षा­दि­दो­षो­त्पा­द­न­द्वारा धर्मा­ध­र्म­रू­प­क­र्म­हे­तु­तया, तेन च कर्मणा शरीरपरम्परया तत्राहमभिमानः इत्येवं रूढमूलतया स्थितिरिति ‘कथं प्रतिष्ठास्य’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं दत्तं भवति ॥१४७॥

इदानीं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं वक्तुं पूर्वोक्तं बन्धं सहेतुकं सफलमनुवदति अज्ञानेति −

अज्ञा­न­मू­लोऽ­य­म­ना­त्म­बन्धो
नैस­र्गि­को­ना­दि­र­नन्त ईरितः ।
जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुःख-
प्रवाहतापं जनयत्यमुष्य ॥१४८॥

१४८

अयं सर्व­लो­क­प्र­सिद्धः अनात्मबन्धः शरी­रा­द्य­ना­त्म­ता­दा­त्म्या­भि­मानः अज्ञानमूलः अज्ञानं स्वस्व­रू­पा­ज्ञानं मूलं हेतुर्यस्य सः । नैसर्गिकः पूर्व­पू­र्वा­ध्या­स­ज­न्य­सं­स्का­र­हे­तुकः । अनादिः अना­द्य­ज्ञा­न­का­र्य­त्वात् कस्मिन् समये उत्पन्न इति वक्तुं ज्ञातुं च अशक्यः । अनन्तः ज्ञानं विना अन्तः नाशः न विद्यते अस्येत्यनन्तः । ईरितः अभियुक्तैरिति शेषः । ‘नान्तो न चादिः’(भ.गी. १५.३) इति स्मृतिश्च । एतादृगयं बन्धः । अमुष्य जीवस्य जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुः­ख­प्र­वा­ह­तापं जन्म उत्पत्तिः शरीरस्य, अप्ययः मरणं, व्याधिः रोगः, जरा वार्धक्यम् आदिपदेन आधि­भौ­ति­का­धि­दै­वि­क­ता­प­प­रि­ग्रहः । तैर्जन्यानि यानि दुःखानि तेषां प्रवाहः परम्परा उपर्युपरि सन्निपातः तेन तापम् उद्वेगं जनयति उत्पादयति । पातमिति पाठे स्पष्टोऽर्थः प्रवाहपातमिति ॥१४८॥

अस्य पर­मे­श्व­रा­नु­ग्र­ह­ल­ब्ध­दृ­ढ­त­र­वि­वे­क­ज­न्य­स्व­स्व­रू­पा­नु­भ­व­म­न्तरा केना­प्य­नु­च्छे­द्य­त्व­माह नास्त्रैरिति −

१७. बन्धमोक्षोपायः

नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः ।
विवे­क­वि­ज्ञा­न­म­हा­सिना विना
धातुः प्रसादेन शितेन मञ्जुना ॥१४९॥

१४९

अयं बन्धः धातुः प्रसादेन पर­मे­श्व­र­स्या­नु­ग्र­हेण शितेन निशितेन तीक्ष्णेन दृढेनेति यावत् ‘यमेवैष वृणुते तेन लभ्यः’(क.उ. २.२२, मुं.उ. ३.२.३) इति श्रुतेः । मञ्जुना रमणीयेन, विवे­क­वि­ज्ञा­न­म­हा­सिना विवेकात् आत्मा­ना­त्म­वि­वे­च­नात् जातं यद्विज्ञानं ब्रह्म­सा­क्षा­त्कारः स एव महांश्चासौ असिश्च खड्गः तेन विना ।
अस्त्रैः आग्नेयादिभिः न च्छेत्तुं नाशयितुं शक्यः, शस्त्रैः लोहमयैः बाणादिभिः न च्छेत्तुं नाशयितुं शक्यः । एवम् अनिलेन वायुना न च्छेत्तुं नाशयितुं शक्यः । वह्निना अग्निना न दग्धुं शक्यः । न च कर्मकोटिभिः वेदोक्तैरपि कर्मणां कोटयः तैरपि न नाशयितुं शक्यः । अज्ञा­न­मू­ल­क­त्वात् ज्ञानैकनिवर्त्य इति भावः । तथा च अस्य बन्धस्य विमोक्षः ईश्व­र­प्र­सा­द­ज­नि­त­प­र­मा­त्मा­भे­द­सा­क्षा­त्का­रा­दि­त्युक्तं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरम् ॥१४९॥

‘न च कर्मकोटिभिः’(श्लो. १४९) इत्युक्तत्वात् कर्मणां वैदिकानां नित­रा­म­न­पे­क्षे­ति­श­ङ्कायां तेषां बुद्धि­शु­ध्य­र्थम् अपेक्षां वदन् तां बन्धो­च्छे­द­क­वि­ज्ञा­न­हे­तु­माह श्रुतीति −

श्रुति­प्र­मा­णै­क­मतेः स्वधर्मनिष्ठा तयै­वा­त्म­वि­शु­द्धि­रस्य ।
विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥

१५०

श्रुतिरेव प्रमाणं श्रुतिप्रमाणम् ,

तस्माच्छास्त्रं प्रमाणं ते कार्या­का­र्य­व्य­व­स्थितौ ।
ज्ञात्वा शास्त्र­वि­धा­नोक्तं कर्म कर्तुमिहार्हसि ॥ (१६.२४)

इति गीतावचनात् । तत्र श्रुतिप्रमाणे एका अनन्यसक्ता मुख्या मतिः बुद्धिः यस्य सः श्रुति­प्र­मा­णै­क­मतिः तस्य, स्वश्रेयसे कर्त­व्य­क­र्म­वि­षये श्रुत्ये­क­श­र­ण­स्ये­त्यर्थः । स्वधर्मनिष्ठा स्वस्य धर्मः स्ववर्णस्य आश्रमस्य च विहितः कर्मकलापः स्वधर्मः । तत्र निष्ठा नितरां स्थितिः ऐदम्पर्येण अनुष्ठानं स्वधर्मनिष्ठा तयैव स्वधर्मे अनन्यासक्ततया स्थित्यैव । अस्य साधकस्य जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षयः −

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
कषायपक्तिः कर्माणि ज्ञानं तु परमागतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥

इति प्रमाणानुसारेण विशुद्धा नष्टा राग­द्वे­षा­दि­स­क­ल­वि­ध­दोषा बुद्धिः यस्य तस्य विशुद्धबुद्धेः । परमात्मवेदनम् अभेदेन पर­मा­त्म­सा­क्षा­त्कारः । तेनैव परमात्मवेदनेनैव संसारसमूलनाशः समूलं नाशः समूलनाशः संसारस्य समूलनाशः संसारसमूलनाशः । अज्ञा­ना­दि­दुः­खा­न्तस्य बन्धस्य अत्यन्तमुच्छेद इत्यर्थः ॥१५०॥

‘विवे­क­वि­ज्ञा­न­म­हा­सिना’(श्लो. १४९) इत्यत्र विवेकजन्यं विज्ञानम् इत्युक्तम् ‘तयोर्विवेकः कथमेतदुच्यताम्’(श्लो. ५२) इति पूर्वं शिष्येण पृष्टं च । पूर्वं स्थूल­सू­क्ष्म­का­र­ण­श­री­राणां सामान्यतः कथनेन सङ्गृहीतं तद्विस्तरेण प्रपञ्चयितुं समारभते कोशैरित्यादिना −

कोशै­र­न्न­म­याद्यैः पञ्चभिरात्मा न संवृतो भाति ।
निज­श­क्ति­स­मु­त्प­न्नै­श्शै­व­ल­प­ट­लै­रि­वाम्बु वापीस्थम् ॥१५१॥

१५१

‘सलिल एको द्रष्टा’(बृ.उ. ४.३.३२) इत्यादि श्रुतिभिः निर्म­ल­ज­ल­व­त्स्व­च्छस्य आत्मनः स्फुटतया कुतो न भानमिति शङ्कायां तत्रापि तदेव जलं दृष्टान्तयन् स्फुटा­भा­न­हे­तु­माह कोशैरिति ।
निज­श­क्ति­स­मु­त्पन्नैः निजा स्वकीया स्वस्मि­न्क­ल्पिता अविद्या तया समुत्पन्नैः जातैः अन्नमयाद्यैः वक्ष्यमाणैः पञ्चभिः कोशैः असेः कोशवत्स्थितैः आवरकैः आनन्दमयान्तैः । स्वोप­ल­ब्धि­प्र­ति­ब­न्ध­को­प­ल­ब्धि­वि­षयैः संवृतः आवृतः आत्मा न भाति न विविक्ततया स्फुटं भासते । तत्र दृष्टान्तः निज­श­क्ति­स­मु­त्पन्नैः जल­ग­त­द्र­व­त्व­ध­र्म­स­मु­त्पन्नैः । शैवलपटलैः शैवालपङ्क्तिभिः । वापीस्थाम्ब्विव । यथा वापीगतं जलं तत एव जातैः शैवालैः संवृतम् आच्छादितं न स्फुटतया भाति तथा इत्यर्थः ॥१५१॥

दृष्टान्ते स्फुटभाने हेतुमाह तच्छैवालेति −

तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् ।
तृष्णासन्तापहरं सद्य­स्सौ­ख्य­प्रदं परं पुंसाम् ॥१५२॥

१५२

तत् आवरकं यच्छैवालं तस्यापनये सम्यगपसारणे शुद्धं निर्मलं सलिलं सम्यक् अप्रतिबन्धं प्रतीयते । ततः फलमाह तृष्णासन्तापहरं तृष्णाया यः सन्तापः दुःखं हरतीति हरं तस्य नाशकम् । पुंसः पुरुषस्य पातुः सद्य­स्सौ­ख्य­प्रदं दर्श­न­स्ना­न­पा­ना­दिना प्रकर्षेण सन्तोषदम् । परं श्रेष्ठं प्रतीयत इति पूर्वेणान्वयः ॥१५२॥

दार्ष्टान्तिके तदाह पञ्चानामपीति −

पञ्चानामपि कोशानाम् अपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥१५३॥

१५३

पञ्चानामपि अपिशब्दः कार्त्स्न्येन निषेधार्थः । कोशा­ना­मा­व­र­का­ना­म­न्न­म­या­द्या­न­न्द­म­या­न्तानां श्रुति­द­त्त­युक्त्या अपवादे निषेधे कृते सति । नित्यानन्दैकरसः उत्प­त्ति­ना­श­शू­न्य­दुः­खा­स­म्भि­न्ना­न­न्दै­क­स्व­भावः । प्रत्यग्रूपः सर्वान्तरः स्वयञ्ज्योतिः पराप्रकाश्यः केव­ल­ज्ञा­न­स्व­रूपः । परः सर्वोत्कृष्टः अयमात्मा । शुद्धः स्वाभा­वि­का­ग­न्तु­क­म­ला­सं­स्पृष्टः । विभाति विशेषेण भाति अना­त्मा­सं­सृ­ष्ट­तया भासत इत्यर्थः ॥१५३॥

यत एवं ततः −

आत्मा­ना­त्म­वि­वेकः कर्तव्यो बन्धमुक्तये विदुषा ।
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५४॥

१५४

विदुषा शास्त्र­ज­न्य­ज्ञा­न­वता पुरुषेण । बन्धमुक्तये अध्यासनिवृत्तये । आत्मा­ना­त्म­वि­वेकः आत्मा च अनात्मानश्च आत्मानात्मानः तेषां विवेकः असङ्कीर्णतया ज्ञानम् । कर्तव्यः यत्नात् सम्पादनीयम् । तेनैव आत्मा­ना­त्म­वि­वे­च­ने­नैव स्वं स्वस्वरूपं सच्चिदानन्दं कालत्रयाबाध्यं ज्ञानम् आनन्दं विज्ञाय साक्षात्कृत्य, उक्तं हि द्वितीयश्लोके ‘आत्मा­ना­त्म­वि­वे­चनं स्वनुभव’ इति, आनन्दी भवति आनन्दः अस्यास्तीति आनन्दी निर­ति­श­य­सा­र्व­दि­क­सु­ख­वा­न्भ­व­ती­त्यर्थः ॥१५४॥

विवेचनप्रकारं दृष्टान्तेन बुद्धावारोहयन् ब्रह्मात्मना संस्थि­ति­रू­प­मुक्त्यै विवे­च­ना­न­न्त­र­क­र्त­व्य­माह मुञ्जादिति −

मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्य­ञ्च­मा­त्मा­न­म­स­ङ्ग­म­क्रि­यम् ।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥

१५५

मुञ्जात् मुञ्जं तृणविशेषः तस्मात् । इषीकामिव तन्मध्यवर्ती मृणा­ल­त­न्तु­नि­भ­सू­क्ष्मांशः इषीका तामिव । सा सूक्ष्मा परितस्तृणावृता तस्याः पृथक्करणे अत्य­न्त­मै­काग्र्यं त्रोटनादिकं विना सम्पू­र्णे­षी­का­ग्र­हणे यत्नविशेषश्च अपेक्ष्यते तद्वत् –

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ (क.उ. १.३.१२)

इति श्रुत्या विहितकर्मभिः उपासनया च संस्कृतया बुध्या दृश्यवर्गात् अनात्मसमूहात् । प्रत्यञ्चं प्रातिलोम्येन अञ्चतीति प्रत्यङ् अस­ज्ज­ड­दुः­खा­ह­ङ्का­रा­दि­वि­ल­क्ष­ण­त्वेन सच्चि­त्सु­ख­रू­प­तया प्रकाशत इत्यर्थः । तम् असङ्गम् अद्वितीयतया सर्वसङ्गरहितम् । अक्रियम् अपरिच्छिन्नतया क्रियारहितम् । आत्मानं विविच्य पृथक्कृत्य तत्र प्रत्यगात्मनि सर्वं दृश्यवर्गं प्रविलाप्य प्रकर्षेण विलाप्य अपुनस्स्मरणं प्रत्य­गा­त्म­व्य­ति­रे­केण किमपि नास्तीति विनिश्चित्य । तदात्मना अधि­ष्ठा­न­भू­त­प्र­त्य­गा­त्मना यस्तिष्ठति सर्वदा वर्तते स मुक्तः सकलविधात् बन्धात् इति, ब्रह्मात्मना संस्थितिः आत्मा­ना­त्म­वि­वे­केन आत्मनि समा­रो­पि­ता­ना­त्म­बा­धेन लब्धव्या इति प्रप­ञ्च­प्र­वि­ला­पनं विवेकिना कर्त­व्य­मि­त्युक्तं भवति ॥१५५॥

इदानीं पञ्चसु कोशेषु अन्तिममपि प्रथमं स्थूलतया विवेकार्हम् अस्मा­ल्लो­का­त्प्रेत्य, ‘एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­म्क्रा­मति’(तै.उ. २.८) इति श्रुत्यु­क्त­क्र­मेण सर्वा­न्त­र­मा­त्मानं ग्राहयितुं विवेचयति देहोऽ­य­मि­त्या­दिना दशभिः श्लोकैः −

१८. अन्नमयकोशविवेकः

देहोऽ­य­म­न्न­भ­व­नोऽ­न्न­म­यस्तु कोशो
ह्यन्नेन जीवति विनश्यति तद्विहीनः ।
त्वक्च­र्म­मां­स­रु­धि­रा­स्थि­पु­री­ष­राशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५६॥

१५६

अन्ना­द्भ­व­न­मु­त्प­त्ति­र्यस्य स अन्नभवनः माता­पि­तृ­भु­क्ता­न्न­वि­का­राद्धि अस्यो­त्प­त्ति­रिति तथा । अयं देहः परिदृश्यमानः स्थूलदेहः अन्नमयस्तु कोशः, तुशब्दः इतरव्यावर्तकः । पञ्चानां कोशानां मध्ये स्थूलदेह एव अन्नमयःकोशःनेतर इत्यर्थः । ‘अन्नाद्वै प्रजाः प्रजायन्ते ।’ ‘अथो अन्ने­नै­व­जी­वन्ति’(तै.उ. २.२) इति श्रुतिः । न केवलमुत्पत्या अन्नविकारत्वम् उत्पत्यनन्तरमपि अन्नेन जीवति धृतप्राणो भवति । तद्विहीनः विनश्यति म्रियते उत्क्रा­न्त­प्राणो भवतीत्यर्थः । अतः अन्व­य­व्य­ति­रे­का­भ्याम् अन्ना­धी­न­स्थि­ति­कत्वं तस्य । हि निश्चयः । न केवलं परा­धी­नो­त्प­त्ति­स्थि­ति­क­त्वम् अनात्मत्वे हेतुः अशुद्धत्वं चेत्याह त्वगिति । त्वक्च­र्म­मां­स­रु­धि­रा­स्थि­पु­री­ष­राशिः स्पष्टम् । अयं देहः, नित्यशुद्धः ‘अजो नित्यः’(भ.गी. २.२०) , ‘शुद्ध­म­पा­प­वि­द्धम्’(ई.उ. ८) इत्यादि श्रुति­बो­धि­त­नि­त्य­शु­द्ध­त्वा­दि­ध­र्मकः स्वयमात्मा भवितुं नार्हति । देहो नात्मा अनित्यत्वात् अशुद्धत्वात् केशादिवत् ॥१५६॥

पूर्वं जनेरपि मृतेरथ नायमस्ति
जात­क्ष­ण­क्ष­ण­गु­णोऽ­नि­य­त­स्व­भावः ।
नैको जडश्च घट­व­त्प­रि­दृ­श्य­मानः
स्वात्मा कथं भवति भावविकारवेत्ता ॥१५७॥

१५७

जनेः उत्पत्तेः पूर्वं मरणस्य अथ अनन्तरम् अपिरुभयत्र सम्बध्यते ‘आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथा’(अला.शां. ३१) इति माण्डू­क्य­का­रि­कया अनिर्वचनीयः दृष्ट­न­ष्ट­स्व­रू­प­तया इत्यर्थः । तदेवोपपादयति जातक्षणक्षणगुण इति । क्षणे क्षणे गुणः क्षणक्षणगुणः जातः क्षणक्षणगुणः यस्य सः तथा प्रतिक्षणम् उप­च­या­प­च­य­रू­प­ध­र्म­वा­निति भावः । वायुसंयोगादिना आध्या­त्मि­क­वा­यु­स­ञ्चा­रेण अन्तःशोषादिना च । अत एव हि पुनःपुनराहरणं जलपानादिकं च । अत एव अनियतस्वभावः नियतः स्वभावः यस्य सः नियतस्वभावः, न नियतस्वभावः अनियतस्वभावः एकरूपतया न व्यवस्थित इत्यर्थः । नैकः एक­स्मि­न्ज­न्म­न्यपि बाल्ययौवनादिषु भिन्नत्वेन ज्ञाय­मा­न­श्चे­त्यर्थः । घट­व­त्प­रि­दृ­श्य­मानः । अत एव जडश्च परा­धी­न­स्फू­र्तिकः । एतादृशदेहः भावविकारवेत्ता इदानीं कृशः इदानीं स्थूलः इत्यादिना भावविकारवेत्ता ज्ञाता स्वात्मा कथं भवति स्वगतधर्मस्य स्वेना­ज्ञा­य­मा­न­त्वात् , न हि घट एव घटं पश्यति, अतो देहो नात्मा दृश्यत्वात् घटवदित्युक्तं भवति । आत्मा तु नित्यः निर्गुणः एकरूपः एकः द्रष्टा च ॥१५७॥

तत्रैव हेत्वन्तरमाह पाणीति −

पाणि­पा­दा­दि­मा­न्देहो नात्मा व्यङ्गेऽपि जीवनात् ।
तत्त­च्छ­क्ते­र­ना­शाच्च न नियम्यो नियामकः ॥१५८॥

१५८

पाणी च पादौ च तेषां समाहारः पाणिपादं तदादि यस्येतरस्य पक्ष­कु­क्ष्या­द्य­व­य­व­स­मु­दा­यस्य तदस्यास्तीति तद्वान् पाणिपादादिमान् । देहो नात्मा व्यङ्गेऽपि पाणि­पा­दा­दि­र­हि­तेऽपि जीवनात् आत्मकार्यस्य प्राणधारणस्य सत्त्वात् । जीवन्ति हि लोके कुणिखञ्जादयः । दारु­च­र्म­नि­र्मि­त­पा­णि­पा­दा­दिना आदा­न­ग­म­ना­दि­कार्यं कुर्वन्तीति तत्तच्छक्तेः पाणि­पा­दा­दि­शक्तेः अनाशाच्च । पाण्यादिमान् देहो नात्मा इत्यन्वयः । उक्तं च कठोपनिषदि –

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ ॥ (२.५.७) इति ।

सर्व­श­क्त्या­श्र­य­त्व­मा­त्मनः । न नियम्यः आत्मा, नियामकः सर्वेषां देहे­न्द्रि­या­दी­नाम् । देहस्तु नियम्यः जडत्वात् निय­म­क­त्वा­भा­व­वांश्च । ततः सावयवत्वात् नियम्यत्वाच्च निरवयवः नियामकः आत्मा नेति समुदायार्थः ॥१५८॥

देहस्य आत्म­भि­न्न­त्व­मु­प­पाद्य आत्मनः तद्विलक्षणत्वं विवे­क­दा­र्ढ्या­यो­प­दि­शति देहेति −

देह­त­द्ध­र्म­त­त्क­र्म­त­द­व­स्था­दि­सा­क्षिणः ।
सत एव स्वतस्सिद्धं तद्वै­ल­क्ष­ण्य­मा­त्मनः ॥१५९॥

१५९

तस्य देहस्य धर्माः रूप­स्प­र्श­ग­न्धा­दयः, तत्कर्माणि हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थ­क्रियाः गमनादयः, तदवस्थाः उप­वे­श­न­स्था­न­श­य­ना­दयः आदिपदेन स्थौल्य­का­र्श्यादि विकाराः । देहश्च तद्धर्माश्च तत्कर्माणि च तदवस्थादि च देह­त­द्ध­र्म­त­त्क­र्म­त­द­व­स्था­दीनि तेषां साक्षाद्द्रष्टा । तस्य सत एव सर्वावस्थासु बाल्यादिषु भिन्न­भि­न्न­का­लि­का­स्वपि अविकारितया काल­त्र­ये­प्य­बा­ध्य­तया वर्तमानस्यैव आत्मनः तद्वैलक्षण्यं तस्मा­द्वै­ल­क्षण्यं तद्वैलक्षण्यं देहा­दि­वि­ल­क्ष­णत्वं स्वतः साक्षित्वादेव हेत्वन्तरं विनैव सिद्धं निश्चितम् इत्यर्थः । आत्मा देहादिविलक्षणः तत्साक्षित्वात् यन्नैवं तन्नैवं यथा देहादि ॥१५९॥

एवं देहस्य अनित्यत्वात् दृश्यत्वात् च अना­त्म­त्व­मु­प­पा­दि­तम् । इदानीम् अशुद्धत्वेन तदुपपादयति शल्येति −

शल्यराशिः मांसलिप्तो मल­पू­र्णोऽ­ति­क­श्मलः ।
कथं भवेदयं वेत्ता स्वय­मे­त­द्वि­ल­क्षणः ॥१६०॥

१६०

शल्यानां कीकसानां राशिः यत्र स शल्यराशिः मांसलिप्तः मांसेन लिप्तः उपदिग्धः मलपूर्णः मलेन पुरीषेण पूर्णः दूषि­का­सि­ङ्घा­ण­पि­ञ्जू­षा­दिभिः सहितश्च । अत एवातिकश्मलः अत्यन्तं कश्मलः अतिकश्मलः । स्वेद­दु­र्ग­न्धा­दि­भू­यि­ष्ठ­तया बह्वशुद्धः अयं देहः एतद्विलक्षणः निर्मलः स्वयमात्मा कथं भवेत् इत्यन्वयः । अनुमानं तु पूर्वं दर्शितम् ॥१६०॥

एवं विवेकस्य फलमाह त्वगिति −

त्वङ्मां­स­मे­दोऽ­स्थि­पु­री­ष­राशा-
वहम्मतिं मूढजनः करोति ।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥१६१॥

१६१

मूढश्चासौ जनश्च मूढजनः विचारहीनः भ्रान्तबुद्धिः मनुष्यः त्वङ्मां­स­मे­दोऽ­स्थि­पु­री­ष­राशौ देहे अहं मतिम् अह­मि­ति­ता­दा­त्म्य­बुद्धिं करोति बध्नाति । विचारशीलः पुमांस्तु विलक्षणं देहविलक्षणं परमार्थभूतं कालत्रयेऽपि बाधायोग्यं निजस्वरूपं वास्तविकं स्वयाथात्म्यं परमात्मानमेव स्वात्मानं जानाति ॥१६१॥

तत्रापि −

देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदु­ष­स्त्व­हन्धीः ।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥१६२॥

१६२

जडस्य पामरस्य अहं देहः एव न तद्व्यतिरिक्तः कश्चित् इति बुद्धिः । विदुषस्तु शास्त्र­ज­न्य­प­रो­क्ष­ज्ञा­न­वतः देहे च जीवे च अहन्धीः लौकिकव्यवहारेषु देहे वैदिके स्वर्गा­र्थ­या­गा­दि­क­र­णार्थं देहव्यतिरिक्ते जीवे अहन्धीः । विवेकविज्ञानवतः विवे­का­द्वि­ज्ञानं विवेकविज्ञानम् आत्मा­ना­त्म­वि­वे­च­नात् आत्म­न्य­ना­त्म­प्र­वि­ला­प­नेन जातं तद्विज्ञानं साक्षात्कारः तदस्यास्तीति तद्वान् तस्य महान् परि­च्छे­द­त्र­य­शून्यः आत्मा यस्य सः महात्मा । पूर्वं परिच्छिन्नेषु अनात्मसु कोशेषु आत्मत्वधिया अल्प आसीत् इदानीं तु सम्यग्ज्ञानवान् स्वात्मानं त्रिवि­ध­प­रि­च्छे­द­शून्यं मनुते ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ७.२४.१) इति श्रुतेः । तादृशस्य सदात्मनि सदा सर्वदापि आत्मनि स्वविषये ब्रह्माहमित्येव मतिः अनुभव इत्यर्थः ॥१६२॥

तस्मात् −

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्तिं परमां भजस्व ॥१६३॥

१६३

मूढबुद्धे विवे­च­न­र­हि­ता­न्तः­क­रण, यद्वा मूढैः बुद्धे अहन्तया ज्ञाते अत्र त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशौ अत्र स्थूलदेहे आत्मबुद्धिम् अहमिति मतिं त्यज विसृज । ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) , ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इति श्रुत्या सर्वोपादानत्वेन कल्पि­त­स­क­ला­धि­ष्ठा­न­त्वेन सर्वस्य वस्तुनः वास्तविकरूपे निर्विकल्पे विवि­ध­क­ल्प­ना­शून्ये ब्रह्मणि परमात्मनि इदानीं देहे वर्तमानाम् आत्मबुद्धिम् अहमिति मतिं कुरुष्व अहमेव परं ब्रह्मेति जानीहि । तत्फलमाह − परमां मुक्तिसुखदां शान्तिं बुद्ध्यु­प­शान्तिं ब्रह्म संस्थामिति यावत् भजस्व प्राप्नुहि । ‘शान्तिं निर्वाणपरमां मत्सं­स्था­म­धि­ग­च्छति’(भ.गी. ६.१५) इति स्मृतेः ॥१६३॥

देहा­दा­व­भि­मा­न­त्यागं विना केव­ल­शा­स्त्र­ज­न्य­ज्ञा­नान्न मुक्तिरित्याह देहेन्द्रियेति −

देहे­न्द्रि­या­दा­व­सति भ्रमोदितां
विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदा­न्त­न­या­न्त­दर्शी ॥१६४॥

१६४

विद्वान् विवेचनकुशलः । असति मिथ्याभूते देहेन्द्रियादौ देहश्च इन्द्रियाणि च देहेन्द्रियाणि तानि आदीनि यस्य तत् प्राण­म­नो­बु­ध्यादि तस्मिन् , यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनिताम् अहन्ताम् आत्मबुद्धिं न जहाति न परित्यजति तावत् ताव­त्का­ल­प­र्यन्तं तस्य पुंसः विमु­क्ति­वा­र्तापि नास्ति कुतो विमुक्तिरिति भावः । एष पुमान् वेदा­न्त­न­या­न्त­द­र्श्य­प्यस्तु वेदान्ता एव नयः शास्त्रं तस्य अन्तः पारः तं द्रष्टुं शीलमस्यास्तीति दर्शी वेदा­न्त­न­या­न्त­दर्शी । सोऽपि अभिमानत्यागं विना न मुक्तिमर्हति । अतः निर­न्त­र­नि­दि­ध्या­स­नेन विपरीतभावना त्यक्तव्येति भावः ॥१६४॥

तस्याः त्यागे विचारं सुलभोपायमाह छायेति −

छायाशरीरे प्रति­बि­म्ब­गात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।
यथा­त्म­बु­द्धि­स्तव नास्ति काचित्
जीवच्छरीरे च तथैव मास्तु ॥१६५॥

१६५

यत् यस्मात्कारणात् छायाशरीरे शरीरच्छायायां प्रति­बि­म्ब­गात्रे दर्पणादौ प्रती­य­मा­न­गा­त्र­प्र­ति­बिम्बे स्वप्नदेहे स्वप्नावस्थायां दृश्यमानशरीरे हृदि मनसि कल्पिताङ्गे कल्पितं च तत् अङ्गं च कल्पिताङ्गं तस्मिन् जाग्रदवस्थायां मनःकल्पितदेहे यथा तव काचित् आत्मबुद्धिः अहमितिमतिः नास्ति न विद्यते । तथैव जीवच्छरीरे च प्राणा­न्ध­र­द्य­च्छ­रीरं तस्मिन्नपि मास्तु । द्रष्टुः स्वस्माद् भिन्नत्वेन प्रतीतेः सर्वत्र अविशिष्टत्वात् इति भावः ॥१६५॥

अन्न­म­य­को­श­मु­प­स­ञ्जि­हीर्षुः सर्वानर्थकरी देहा­त्म­धी­स्त्या­ज्ये­त्याह देहात्मधीरिति −

देहात्मधीरेव नृणामसद्धियां
जन्मा­दि­दुः­ख­प्र­भ­वस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥

१६६

यतः यस्मात् असत्सु ब्रह्म­भि­न्ने­ष्व­ना­त्मसु धीर्येषां ते असद्धियः तेषां नृणां मनुजानां देहात्मधीरेव देह एवात्मा इति धीरेव जन्मा­दि­दुः­ख­प्र­भ­वस्य जन्म उत्पत्तिरादिः येषां मरणादीनां तानि जन्मादीनि तैर्यद्दुःखं तस्य प्रभवः उत्पत्तिः तस्याः बीजं कारणं शरीरगतत्वात् जन्ममरणादेः । तदेवाहमिति जानानस्य तत्सर्वं स्वकीयमेवेति ज्ञानात् दुःखं दुष्परिहरमिति भावः । ततः सर्व­दुः­ख­हे­तु­त्वात् तां देहात्मधियं प्रयत्नात् श्रव­ण­म­न­न­नि­दि­ध्या­स­न­रू­प­शा­स्त्री­य­प्र­य­त्नात् जहि जहीहीत्यर्थः । नाशयेति वा । देहादौ चित्ते त्यक्ते तु मनसःसञ्चाराभावे वास­ना­त्म­ना­प्य­भि­मा­ना­भावे पुनः भवाशा संसाराशा नैवेत्यर्थः ।

अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ (श्लो. २८५)

इति वक्ष्यमाणत्वात् ।

देहा­त्म­ज्ञा­न­व­ज्ज्ञानं देहा­त्म­ज्ञा­न­बा­ध­कम् ।
आत्मन्येव भवेद्यस्य स जीवन्नपि मुच्यते ॥ (पञ्चदशी ७.२०)

इति प्रमाणात् ॥१६६॥

अन्नमयं निरूप्य ततः आन्तरं प्राणमयं श्रौतक्रमेण अनात्मानं निरूपयति कर्मे­न्द्रि­यै­रि­त्या­दिना द्वाभ्याम् −

१९. प्राण­म­य­को­श­वि­वेकः

कर्मेन्द्रियैः पञ्च­भि­र­ञ्चि­तोऽयं
प्राणो भवे­त्प्रा­ण­म­यस्तु कोशः ।
येना­त्म­वा­न­न्न­म­यो­नु­पूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥१६७॥

१६७

पञ्चभिः वाक्पा­णि­पा­द­पा­यू­प­स्थाख्यैः कर्मेन्द्रियैः वच­ना­दा­न­वि­ह­र­णो­त्स­र्गा­न­न्द­रू­प­क­र्म­ज­नकैः इन्द्रियैः क्रमेण आका­शा­दि­प­ञ्च­भू­त­र­जों­श­जातैः अञ्चितः विशिष्ट इत्यर्थः । भूत­प­ञ्च­क­स­म­ष्टि­र­जः­कार्यः प्राणः शरी­रा­न्त­स्स­ञ्चारी वायुः प्राणमयः तच्छब्दशब्दितः । कोशः अश­ना­या­पि­पा­सा­दि­धर्मैः आत्मानमावृण्वन् अपि­पा­स­वि­जि­घ­त्सा­त्मो­प­ल­ब्धि­प्र­ति­ब­न्धिका या अहं पिपासार्तः क्षुत्पीडितः इत्या­दि­रु­प­लब्धिः तद्विषयो भवतीत्यर्थः । ‘तेनैष पूर्णः, स वा एष पुरुषविध एव, तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति प्राण­म­य­प­र्या­य­स्थ­श्रु­त्य­र्थ­माह, येन प्राणमयेन आन­न्द­म­य­वि­ज्ञा­न­म­य­म­नो­म­य­द्वारा आत्म­प्र­ति­फ­ल­न­व­त्त्वेन आत्मवता अन्नमयः ‘तस्माद्वा एत­स्मा­द­न्न­र­स­म­यात् अन्योन्तर आत्मा प्राणमयः’(तै.उ. २.२) इति श्रुतेः आत्मवान् आत्म­प्र­ति­फ­ल­न­वान् । तत्र हेतुः अनुपूर्ण इति, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’(बृ.उ. १.४.७) इति श्रुतेः प्राणस्य पूर्ण­ता­म­नु­पूर्णः ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति श्रुतेः । तथाविधस्सन् सकलक्रियासु हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थासु प्रवर्तते । अचेतनं चेतनाधिष्ठितं कार्यं करोतीति न्यायात् । यद्भागे प्राणसम्बन्धो नास्ति तत्र निर्व्यापारत्वं लोकसिद्धमिति प्राण­स­म्ब­न्धा­देव शरीरे व्यापारः, मृते तदभावादेव आत्म­स­म्ब­न्ध­द्वा­रा­भा­वात् अचेतनत्वम् । अत्र सम­ष्टि­व्य­ष्टि­का­र्य­त्व­वि­शे­ष­स­त्त्वेऽपि रजोगुणकार्यत्वं समानमिति कर्मे­न्द्रि­याणां प्राण­म­येऽ­न्त­र्भाव इति मन्तव्यम् ॥१६७॥

इदानीं तस्य अनात्मत्वमाह नैवेति −

नैवात्मायं प्राणमयो वायुविकारो
गन्तागन्ता वायु­व­द­न्त­र्ब­हि­रेषः ।
यस्मा­त्कि­ञ्चि­त्क्वापि न वेत्ती­ष्ट­म­निष्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥१६८॥

१६८

वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः अयं प्राणमयः नैवात्मेति प्रतिज्ञा । तत्र हेतुः वायुवत् एषः प्राणमयः अन्तः बहिः गन्ता आगन्ता निश्वासे अन्तर्गन्ता उच्छ्वासे वहिरागन्ता । यथा बाह्यवायुः । सक्रियः परि­च्छि­न्न­श्चायं सर्वव्यापी निष्क्रियः आत्मा न भवतीति भावः । सक्रियत्वात् परि­च्छि­न्न­त्वात् बाह्यवायुवदिति सदृष्टान्तो हेतुः । एवमचेतनत्वं परतन्त्रत्वं च अनात्मत्वे हेतुमाह उत्तरार्धेन । यस्मादयं प्राणमयः इष्टमनिष्टं वा सुखं दुःखं वेत्यर्थः क्वापि कस्मिन्नपि काले देशे वा स्वं वा अन्यं वा स्वात्मानं परं वा न वेत्ति न जानाति नित्यं परतन्त्रः जीव­न­यो­नि­य­त्न­ज­न्य­स­ञ्चा­र­व­त्त्वात् , प्राणा­या­मा­दि­काले तस्य निरुध्यमानत्वं प्रसिद्धम् । अतः सक्रि­य­त्व­प­रि­च्छि­न्न­त्वा­चे­त­न­त्व­प­रा­धी­नत्व हेतुभिः एतद्विलक्षणः आत्मा न भवति । यद्ययमात्मा तर्हि सुषुप्तिदशायां जागरूकत्वात् चोरादिबाधां जानीयात् । आत्मनः सर्व­प्र­धा­न­त्वात् स्वभृत्येषु चक्षुरादिषु स्वपत्सु स्वयं व्यापारवानिति विरुद्धं च अतः नैवात्मायं प्राणमयः ॥१६८॥

इदानीं मनोमयं निरूपयति ज्ञाने­न्द्रि­या­णीति −

२०. मनोमयकोशविवेकः

ज्ञाने­न्द्रि­याणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तु­वि­क­ल्प­हेतुः ।
संज्ञा­दि­भे­द­क­ल­ना­क­लितो बलीयान्
तत्पू­र्व­को­श­म­नु­पूर्य विजृम्भते यः ॥१६९॥

१६९

श्रव­ण­द­र्श­ना­दि­का­र्य­क­र­णानि ज्ञाने­न्द्रि­याणि श्रोत्र­च­क्षु­स्त्व­ग्जि­ह्वा­घ्रा­णानि मनः काम­स­ङ्क­ल्प­वि­चि­कि­त्सा­श्र­द्धा­दि­वृ­त्तिकं मनश्च मनोमयः तथाशब्दितः कोशः स्यात् । सर्वे­न्द्रि­य­व्या­पा­र­स्यापि मनोऽधीनत्वात् इन्द्रि­या­भा­वेऽपि स्वप्ने सत्त्वाच्च मनसः तत्प्रधानतया मनोमय इति संज्ञा न तु श्रोत्रमय इति संज्ञा इति भावः । अत्रापि प्रत्ये­का­का­शा­दि­प­ञ्च­भू­त­स­त्व­का­र्य­त्वात् ज्ञाने­न्द्रि­याणां भूत­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वाच्च मनसः एकस्मिन्कोशे घटनं तेषामिति बोध्यम् । अहं शृणोमि अहं पश्यामि अहं स्पृशामि अहं रसये अहं जिघ्रामि अहं कामये सङ्कल्पये इत्यादिना सर्वत्र आत्मबुद्धेः सत्त्वात् ‘तस्माद्वा एत­स्मा­त्प्रा­ण­म­यात् । अन्योन्तर आत्मा मनोमयः’(तै.उ. २.३) इति श्रुत्या अयमपि स्वोपलब्ध्या आत्म­या­था­त्म्यो­प­लब्धिं प्रतिबध्नातीति कोश इत्युच्यते । तस्य कार्यमाह ममाहमिति वस्तु­वि­क­ल्प­हेतुः, देहेन्द्रियादौ गृहक्षेत्रादौ अहन्तां ममतां च मन एव सङ्क­ल्प­वि­क­ल्पा­त्म­क­त्वात् जनयतीति वस्तुषु देहगेहादिषु अहं ममेत्यादयः ये विकल्पाः तेषां हेतुरित्यर्थः । तस्य स्वरूपमाह संज्ञा­दि­भे­द­क­ल­ना­क­लित इति । संज्ञा नाम, आदिपदेन रूपं भिद्यत इति भेदः संज्ञादिरूपः यो भेदः अस्य वस्तुनः घटः कलशः कुम्भ इत्यादिसंज्ञा, पृथु­बु­ध्नो­द­रा­द्या­कारः रूपं नीलपीतादिकं च इति रीत्या सर्व­प­दा­र्थे­ष्वपि भिद्य­मा­न­ना­म­रू­पा­दि­वि­ष­य­क­ल­नया कलितः विशिष्ट इत्यर्थः । सर्वा अपि वृत्तयः शब्दविषयिण्यः अर्थविषयिण्यश्च मन आश्रित्य वर्तन्ते । अतः शब्दा­र्थ­व्य­ति­रि­क्त­प्र­प­ञ्चस्य अभावात् सर्वोऽपि प्रपञ्चः मनसि स्ववि­ष­य­क­वृ­त्ति­मति वर्तत इति बलीयान् , बन्धस्य मोक्षस्य च एतदधीनत्वात् अन्नमये प्राणमये वा ज्ञान­श­क्त्य­भा­वात् ततो बलिष्ठत्वम् अस्य । एत­त्स­म्ब­न्धा­भावे तत्रा­त्म­स­म्ब­न्धा­भा­वाच्च । तदाह तत्पू­र्व­को­श­म­नु­पूर्य इति । तस्य पूर्वकोशः तत्पूर्वकोशः प्राणमयः तम् अनुपूर्य विज्ञानमयकोशेन स्वयं पूरितः तदनु प्राणमयं व्याप्य यो विजृम्भते निरर्गलं स्वकार्यं करोति स मनोमय इत्यन्वयः । तत्पर्यायेपि श्रुतिः ‘स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः’(तै.उ. २.३) इति ज्ञेया ॥१६९॥

तस्य बन्धकत्वं विशदयति पञ्चे­न्द्रि­यै­रि­त्या­दिना चतुर्भिः −

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेन्धनैः
मनो­म­योऽ­ग्नि­र्द­हति प्रपञ्चम् ॥१७०॥

१७०

सुखप्रतिपत्तये मनोमयमग्नित्वेन श्रोत्रा­दी­न्द्रि­याणि होतृत्वेन पुनः पुनः सम्पततः विष­या­ना­ज्य­धा­रा­त्वेन विषयवासनाः इन्धनत्वेन रूपयति । पञ्च च तानि इन्द्रियाणि च पञ्चेन्द्रियाणि श्रोत्र­त्व­क्च­क्षु­र्जि­ह्वा­घ्रा­णानि तैरेव पञ्चभिः होतृभिः हवि­र­ग्नि­सं­यो­गा­नु­कू­ल­व्या­पा­र­वद्भिः प्रक्षेप्तृभिः । विषयाज्यधारया विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः त एव आज्यं तस्य धारा तया प्रचीयमानः संवर्ध्यमानः नैरन्तर्येण तत्तदिन्द्रियैः तत्तद्विषयाणां मनसि निपा­त्य­मा­न­त्वात् , इन्धनेषु सत्सु आज्यधारा चेत् ज्वलनमधिकम् । अत आह बहु­वा­स­ने­न्ध­नै­रिति । बह्व्यः याः वासनाः

दृढभावनया त्यक्त­पू­र्वा­प­र­वि­चा­र­णम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ (यो.वा. ५.९१.२९)

इति बन्धकत्वेऽपि विषयाणां सुख­क­र­त्व­भ्रान्त्या तेषु उपादेयत्वभावनाः ता एव इन्धनानि शुष्ककाष्ठानि इन्धनाभावे केवलाज्यधारायाः बहु­का­ल­ज्व­ल­न­हे­तु­त्वा­भा­वात् वासनाभावे विषयाणां बन्ध­क­त्वा­भा­वाच्च । तैः बहुवासनेन्धनैः जाज्वल्यमानः पौनःपुन्येन निरन्तरं ज्वलन् मनोमयः मनोरूपः अग्निः प्रपञ्चं दहति भस्मीकरोति सर्वान्पुरुषान् पुरु­षा­र्था­यो­ग्यान् करोतीति यावत् ॥१७०॥

अन्व­य­व्य­ति­रे­काभ्यां तस्य बन्धकत्वमाह न ह्यस्तीति −

नह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृ­म्भि­तेऽ­स्मिन् सकलं विजृम्भते ॥१७१॥

१७१

सुषुप्तौ कार­णा­वि­द्या­स­द्भा­वेपि बन्धस्याभावात् तत्कार्यमनस एव बन्धकत्वं तदा तस्य लीनत्वात् बन्धाभाव इत्यभिप्रेत्य । मनसोतिरिक्ता अविद्या नास्ति इत्युक्तम् । हि निश्चितम् । हि यतः भवबन्धहेतुः अविद्या तत्कार्यत्वात् मन एव । मनस्सत्वे देहा­दा­व­भि­मा­न-रू­प­ब­न्धात् तदभावे तदभावात् मनो-भवबन्धयोः अन्वयव्यतिरेकौ । तदेवोपपादयति तस्मिन्विनष्टे मनसि विशेषेण निर्वासनं नष्टे सकलं विनष्टम् । स्पष्टं हि सुषुप्तौ जगदेव नास्तीति । अस्मि­न्वि­जृ­म्भिते वर्धमाने सकलं विजृम्भते सर्वमपि वृद्धि­मा­प्नो­ती­त्यर्थः ॥१७१॥

तदेव विस्त­रे­णो­प­पा­द­यति स्वप्न इत्यादिना −

स्वप्ने­र्थ­शून्ये सृजतिस्वशक्त्या भोक्त्रादि विश्वं मन एवसर्वम् ।
तथैव जाग्रत्यपि नो विशेषः तत्स­र्व­मे­त­न्म­नसो विजृम्भणम् ॥१७२॥

१७२

प्रथमेनान्वयमाह − अर्थशून्ये शरी­रा­न्त­र्व­र्ति­ना­डीषु मन­स्स­ञ्चा­र­द­शायां स्वप्नावस्थेति श्रुत्या बोधितत्वात् केशतोऽपि सूक्ष्मासु तासु नाडीषु गिरि­न­दी­स­मु­द्रा­दीनां तदा प्रतीयमानानाम् असम्भाविततया चक्षुरादीनां तदा उप­र­त­व्या­पा­र­त्वात् तद्द्वारा मनसः बहि­र्नि­र्ग­म­ना­भा­वात् शरी­रा­द्ब­हि­र्व­र्त­मा­नानां प्रतीत्यभावाच्च केवलं मनो­व­र्ति­वा­स­ना­व­शात् तदा अर्थाः बाह्या इव प्रतीयन्ते । नतु वस्तुसन्तः इति अर्थशून्ये इत्युक्तम् । तथाविधे स्वप्ने स्वशक्त्या वासनाभिः केवलं स्वस्मिन् आत्म­प्र­ति­फ­ल­न­सा­म­र्थ्येन च सर्वं भोक्त्रादि विश्वं जगत् मन एव सृजति निर्मिमीते । यद्यपि जीवः भोक्ता वर्तत इति भोक्त्रादीति कथमिति शङ्का भवितुमर्हति । तथाऽपि भोग्याभावे भोक्तृ­त्वा­भा­वात् भोग्य­सृ­ष्टि­हेतोः मनस एव निरूपकदानेन भोक्तृ­स्र­ष्टृत्वं मन्तव्यम् । तथैव स्वप्नवदेव जाग्रत्यपि जाग्र­द­व­स्था­या­मपि मन एव सर्वं सृजति नो विशेषः । तत् तस्मात् सर्वमेतत् जगत् मनसो विजृम्भणं विलासः ॥१७२॥

व्यतिरेकेण इममर्थं द्रढयति सुषुप्तीति −

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चित् सकलप्रसिद्धेः ।
अतो मनःकल्पित एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ॥१७३॥

१७३

सुषुप्तिकाले सुषु­प्त्य­व­स्थायां मनसि प्रलीने परिणामान् विहाय कारणात्मना अवतिष्ठमाने नैवास्ति किञ्चित् जगत् । सकलप्रसिद्धेः सर्व­प्रा­ण्य­नु­भ­वात् न किञ्चि­द­वे­दि­ष­मिति । अतः एतस्य बद्धस्य पुंसः संसारः मनःकल्पित एव । वस्तुतः परमार्थतः नास्ति मनस्सत्त्वे स्वप्नजाग्रतोः संसारोपलब्धेः मनसः असत्वे सुषु­प्ता­व­नु­प­ल­म्भात् । मृद­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­घट इव मृद्व्यतिरेकेण मनोव्यतिरेकेण संसारो नास्तीति ‘तस्मि­न्वि­नष्टे’(श्लो. १७१) इति यदुक्तं पूर्वं तदुपपादितम् ॥१७३॥

वायुदृष्टान्तेन एकस्यैव तस्य विरु­द्ध­द्व­य­हे­तु­त्व­माह वायुनेति −

वायुना नीयते मेघः पुनस्तेनैव लीयते ।
मनसा कल्प्यते बन्धः मोक्षस्तेनैव कल्प्यते ॥१७४॥

१७४

स्पष्टम् ॥१७४॥

दार्ष्टान्तिके बन्धहेतुत्वं मोक्षहेतुत्वं च उपपादयति देहेति −

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत् सुविधाय पश्चाद्-
एनं विमोचयति तन्मन एव बन्धात् ॥१७५॥

१७५

देहः आदिः यस्य सः, सर्वश्चासौ विषयश्च शब्दस्पर्शादिः पुत्रादिश्च देहादिश्चासौ सर्वविषयश्च । शब्दादौ रागस्यापि देहमूलकत्वात् देहादीति । तस्मिन् देहादिसर्वविषये । रागं परिकल्प्य दृढं जनयित्वा तेन रागेण गुणेन रज्ज्वा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सि­त­प­र­म­प­द­प्रा­प्त्य­योग्यं करोति । पश्चादनन्तरं तत् यद्बन्धं जनयामास तत् मन एव । अत्र देहादौ विषये वैरस्यं वैराग्यम् अनासक्तिं विषवत् विष इव अन­र्थ­क­र­त्व­ज्ञा­प­नेन सुविधाय सुष्टूत्पाद्य एनं पुमांसं बन्धात् देहा­द्य­भि­मा­न­ल­क्ष­णात् विमोचयति विशेषेण मोचयति । सदापि ब्रह्मणि संस्थया पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः ॥१७५॥

बन्ध­मो­क्ष­हे­तु­त्वम् उपपादितं निगमयति तस्मादिति −

तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने ।
बन्धस्य हेतुः मलिनं रजोगुणैः
मोक्षस्य हेतुः विरजस्तमस्कम् ॥१७६॥

१७६

तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा विधाने उत्पादने । मनःकारणं ‘मन एव मनुष्याणां’(अ.बिं.उ. २) इति श्रुतेः । एकस्य विरु­द्ध­द्व­य­हे­तु­त्व­क­थ­न्ता­याम् आह रजोगुणैः, प्रवृत्तयः बहुविधाः रजःकार्या इति बहुवचनम् । नानाविधतया बहि­र्मु­ख­त्वा­पा­दकैः काम­क्रो­ध­लो­भा­दि­र­जो­ध­र्मै­रिति वा अर्थः । मलिनं कलुषितं मनः बन्धस्य हेतुः । शुद्धं निर्मलं, तत्र हेतुमाह विरजस्तमस्कमिति । रजसा तमसा च नितरां रहितं मनः मोक्षस्य हेतुरित्यर्थः । अतो मनसः एकत्वेऽपि गुणभेदात् विरु­द्ध­द्व­य­हे­तुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥

मोक्षहेतुतया मनश्शुद्धिः कथं सम्पादनीयेति शङ्का­या­मु­त्त­र­माह विवेकेति −

विवे­क­वै­रा­ग्य­गु­णा­ति­रेका-
च्छुद्ध­त्व­मा­साद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षो-
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७७॥

१७७

विवेकश्च वैराग्यं च विवेकवैराग्ये ते एव गुणौ सत्फलप्रदधर्मौ तयोरतिरेकः अतिशयः विवेकदार्ढ्यं वैराग्ये तीव्रतरत्वं च । तस्मात् विवे­क­वै­रा­ग्य­गु­णा­ति­रे­कात् । ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवं निश्चये मिथ्या वस्तुनि कामानुदयात् आब्रह्मलोकं वैराग्यं प्रकृष्यते । कामानुपहतेरेव शुद्धि­श­ब्दा­र्थ­त्वात् । तदुभयगुणयुक्तं मनः शुद्धत्वं निर्मलत्वम् आसाद्य प्राप्य विमुक्त्यै बहि­र्मु­ख­त्व­शू­न्य­तया ऐदम्पर्येण ब्रह्मसंस्थम् आत्य­न्ति­क­ब­न्ध­नि­वृ­त्तये हेतुर्भवति । अतो विवे­क­वै­रा­ग्या­ति­रे­क­वि­शि­ष्ट­म­नसो विमुक्ति हेतुत्वात् । बुद्धिमतः बुद्धि­र­स्या­स्तीति बुद्धिमान् तस्य उपा­य­कु­श­ल­स्ये­त्यर्थः मुमुक्षोः मोक्ष­रू­प­फ­ले­च्छा­वतः अग्रे आदौ ताभ्यां विवे­क­वै­रा­ग्याभ्यां दृढाभ्याम् अशिथिलाभ्यां प्रकृ­ष्य­मा­णाभ्यां च भवितव्यम् । उपायेच्छां प्रति फलेच्छायाः कारणत्वात् । मोक्षेच्छावान् पुमान् विवेकवैराग्ये आदौ प्रयत्नेन सम्पादयति चेत् फलमवर्जनीयमिति कथितं भवति ॥१७७॥

मोक्षार्थं मनो निर्विषयं कर्तुं विषयेभ्यः निवर्तयितुं विवेकवैरग्ये हेतू उक्त्वा,

रत्ने यदि शिलाबुद्धिः जायते वा भयं ततः ।
समी­ची­न­त्व­धी­र्नैति नोपादेयत्वधीरपि ॥ (स.द.सि.सा.सं. ६८)

इति वस्तुविचारवत् भयस्यापि यतो भयं ततो निवृ­त्ति­हे­तु­त्वात् तेषु भयमाह मन इति । दयया भयोत्पादनद्वारा तेभ्यो निवर्तयति −

मनो नाम महाव्याघ्रः विषयारण्यभूमिषु ।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥

१७८

विषयारण्यभूमिषु विषया एव अरण्यभूमयः अने­का­न­र्थ­स­ङ्कु­ल­त्वात् ‘विषयांस्तेषु गोचरान्’(क.उ. ३.३) इति श्रुतेश्च । तासु मनो नाम महाव्याघ्रः मन­स्सं­ज्ञ­क­च­ण्ड­पु­ण्ड­रीकः चरति सञ्चरति । ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः विषयप्रवणता मनसः स्वभा­वः­नि­म्न­भू­मि­ग­म­न­मिव जलस्य । ततः ‘बन्धाय विषयासक्तम्’(अ.बिं.उ. २) इति श्रुतेः जीवस्य महा­न­न­र्थ­स्स­म्भ­वति । तदुक्तं गीतासु

सङ्गात्सञ्जायते कामः कामा­त्क्रो­धोऽ­भि­जा­यते ।
क्रोधाद्भवति सम्मोहः सम्मो­हा­त्स्मृ­ति­वि­भ्रमः ।
स्मृति­भ्रं­शा­द्बु­द्धि­नाशः बुद्धि­ना­शा­त्प्र­ण­श्यति ॥ (२.६२.६३) इति ।

अतः ये साधवः सत्पुरुषाः मुमुक्षवः मोक्षकाङ्क्षिणः ते अत्र विषयारण्यभूमिषु न गच्छन्तु मा गमन् । विषयेभ्यः मनो निवर्तयन्तु मोक्षाय इत्यभिप्रायः । ‘कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्षत् आवृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क.उ. ४.१) इति श्रुतेरिति भावः ॥१७८॥

‘न ह्यस्त्यविद्या मनसोऽतिरिक्ता’(श्लो. १७१) इत्यु­क्त­मु­प­पा­द­यन् तस्य बन्धकत्वं विशदयति मनःप्रसूत इत्यादिना चतुर्भिः −

मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरी­र­व­र्णा­श्र­म­जा­ति­भे­दान्
गुण­क्रि­या­हे­तु­फ­लानि नित्यम् ॥१७९॥

१७९

भोक्तुः जीवस्य जाग्रदवस्थायां स्थूलात्मना तत्त­द्दे­व­ता­नु­गृ­ही­त­त­त्त­दि­न्द्रि­य­ज­न्या­नु­भ­व­वि­ष­य­तया स्थूलात्मना, स्वप्ना­व­स्था­या­मि­न्द्रि­या­णा­मु­प­रतेः सूक्ष्मतया केव­ल­सा­क्षि­वे­द्य­तया च अशेषान् सर्वान् विषयान् भोग्यपदार्थान् मनः प्रसूते उत्पादयति । ते विषयाः के इत्या­का­ङ्क्षा­या­माह शरी­र­व­र्णा­श्र­म­जा­ति­भे­दान् शरीरं च वर्णाश्च आश्रमाश्च जातयश्च शरी­र­व­र्णा­श्र­म­जा­तयः तासां भेदाः प्रकाराः तान् देव­ति­र्य­ङ्म­नु­ष्या­दि­श­री­राणि ब्राह्म­ण­क्ष­त्रि­य­वै­श्य­शू­द्र­रू­प­व­र्णान् ब्रह्म­चा­रि­गृ­ह­स्थ­वा­न­प्र­स्थ­सं­न्या­स्या­श्र­मान् देव­म­नु­ष्या­दि­श­रीरं च देव­त्वा­दि­जा­तीश्च प्रसूते । सुषुप्त्यादौ मनसोऽभावे एतेषां भेदानामभावात् सर्वमिदं मनसा कल्पितमेवेति भावः । एवं गुण­क्रि­या­हे­तु­फ­लानि गुणाः शब्दादयः क्रियाः उत्क्षेपणादयः हेतवः तत्त­त्का­र्य­नि­मि­त्तो­पा­दा­नानि । फलानि घटादीनि तत्तत्कार्याणि एतत्सर्वं मन एव नित्यं सदा प्रसूते । नान्यनिमित्तम् इदं मनसोऽभावे कस्याप्यभावात् । तदेव सर्वस्य मूलकारणमिति भावः । शरीरेत्यत्र भिद्यन्ते इति भेदाः इति व्युत्पत्त्या कर्मधारयो वा ॥१७९॥

अस­ङ्ग­चि­द्रू­प­ममुं विमोह्य
देहे­न्द्रि­य­प्रा­ण­गु­णै­र्नि­बध्य ।
अहं ममेति भ्रमयत्यजस्रं
मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥

१८०

मनः कर्तृ असङ्गचिद्रूपम् असङ्गा सर्वसङ्गविधुरा या चित् अखण्डं ज्ञानं तदेव रूपं यस्य सः असङ्गचिद्रूपः तम् । अमुम् आत्मानम् । देहे­न्द्रि­य­प्रा­ण­गुणैः विमोह्य स्ववास्तवरूपं ज्ञातुमसमर्थं कृत्वा तेष्वेव देहे­न्द्रि­य­प्रा­ण­गु­णेषु देहे­न्द्रि­य­प्रा­णेषु अहमिति तद्गुणेषु तद्धर्मेषु ममेति निबध्य । अजस्रं सततं स्वकृत्येषु लौकि­क­वै­दि­क­क­र्मसु । फलोपभुक्तिषु तत्त­त्क­र्म­ज­न्य­फ­ल­भो­गेषु भ्रमयति ऊर्ध्वमधश्च नयति । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । उक्तं हि श्रुत्या –

आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४.१२)

इति । अतः विज्ञा­त­स्व­का­स­ङ्ग­चि­दा­न­न्द­रूपः पुरुषः नैव किञ्चित्कामयते न वा कर्माणि करोति । ततः कर्तृत्वं वा भोक्तृत्वं वा देहे­न्द्रि­या­द्य­भि­मा­न­नि­ब­न्ध­नम् । स चाभिमानः मनोमूलः सुषु­प्ता­व­द­र्श­नात् तदा मनसो लीनत्वात् । अतः स्वरूपसत्याः अविद्यायाः मनो विना बन्ध­हे­तु­त्वा­भा­वात् सर्व­ब­न्ध­हे­तुत्वं मनस एवेति भावः ॥१८०॥

इदानीं तस्य बन्धद्वारा दुःखहेतुत्वमाह अध्यासेति −

अध्यासयोगात् पुरुषस्य संसृतिः
अध्या­स­ब­न्ध­स्त्व­मु­नैव कल्पितः ।
रज­स्त­मो­दो­ष­व­तोऽ­वि­वे­किनो
जन्मादिदुःखस्य निदानमेतत् ॥१८१॥

१८१

रजस्तमोदोषवतः रजश्च तमश्च रजस्तमसी ते एव दोषौ तावस्य स्त इति तद्वान् तस्य रजस्तमोदोषवतः आव­र­ण­वि­क्षे­प­हे­तु­भू­त­दो­ष­द्व­य­वि­शि­ष्टस्य अत एव अविवेकिनः आत्मा­ना­त्म­भे­द­ज्ञा­न­र­हि­तस्य पुरुषस्य अध्यासयोगात् अना­त्म­स्वा­त्म­बु­द्धि­यो­गात् , संसृतिः जन्म­म­र­ण­प्र­ब­न्धा­वि­च्छेदः । संसृ­ति­हे­त्व­ध्यासः मनोमूल इत्याह अध्यासबन्ध इति । अध्यासरूपो यो बन्धः स तु सोऽपि, शरी­रे­न्द्रि­या­दयः मनसा प्रसूयन्ते इति ‘मनःप्रसूते’(श्लो. १७९) इत्यत्रोक्तम् । इदानीं तत्र अध्यासोऽपि अमुनैव कल्पितः जनितः इत्यपि शब्दार्थः । ततः जन्म­म­र­ण­प्र­ब­न्धा­वि­च्छे­द­ल­क्ष­ण­सं­सृ­ति­हे­तु­भू­ता­ध्या­स­हे­तु­त्वेन । एतत् मन एव जन्मादिदुःखस्य जन्म­म­र­ण­ज­रा­रो­गा­दि­ज­न्य­स­क­ल­वि­ध­दुः­खस्य निदानम् आदिकारणम् ॥१८१॥

अतः प्राहु­र्म­नोऽ­विद्यां पण्डि­ता­स्त­त्त्व­द­र्शिनः ।
येनैव भ्राम्यते विश्वं वायु­ने­वा­भ्र­म­ण्ड­लम् ॥१८२॥

१८२

तत्त्वदर्शिनः तत्त्वं द्रष्टुं शीलं येषां ते । पण्डिताः श्रुतवेदान्ताः पुरुषधौरेयाः । अतः संसृ­ति­मू­ल­का­र­ण­त्वा­न्म­नसः मन एव अविद्यां प्राहुः अवि­द्या­का­र्य­त्वात् केवलाविद्यायाः संसृ­ति­हे­तु­त्वा­भा­वाच्च । मन एवाविद्येति कथनं युक्तमिति बोधयितुं प्रेत्युपसर्गः । तत्र हेतुः येनैव मनसैव विश्वं सर्वं जगत् सर्वे जीवा इति यावत् । भ्राम्यते अन्यथाग्रहणेन ऊर्ध्वमधश्च नीयते । तत्र दृष्टान्तः वायु­ने­वा­भ्र­म­ण्डलं, मेघसमुदायः वायुना यथा सर्वासु दिक्षु भ्राम्यते तथा ॥१८२॥

इदानीं मुमु­क्षु­ज­न­क­र्त­व्य­माह तदिति −

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥१८३॥

१८३

तत् पूर्व­क­थि­त­का­र­णात् रजस्तमोदोषवतः पुंसः अध्यासद्वारा संसृतिहेतुरिति रूपात् । मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्टयत्नेन मनश्शोधनं मनो­ग­त­र­ज­स्त­मो­रू­प­दो­षा­प­न­यनं कार्यं विधेयम् । चकारो हेत्वर्थः यत इति । एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने केव­ल­स­त्त्व­प्र­धाने, मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः ॥१८३॥

मन­श्शु­द्धि­हे­तु­प्र­य­त्न­प्र­का­र­माह मोक्षेति −

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः ॥१८४॥

१८४

मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया, विषयेषु देहादिषु रागं सुख­ज­न­क­त्व­भ्रान्त्या आसक्तिं निर्मूल्य अहन्तानिरसनेन परित्यज्य, सर्वकर्म निष्कामकर्माणि नित्य­नै­मि­त्ति­कानि च, संन्यस्य स्वरूपतोऽपि परित्यज्य सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती अचञ्चला वा या श्रद्धा गुरु­वे­दा­न्त­वा­क्य­वि­श्वासः तया यः पुमान् श्रवणादिनिष्ठः श्रवणम् आदि ययोः मन­न­नि­दि­ध्या­स­नयोः तेषु श्रवणादिषु निष्ठा नितरां स्थितिः यस्य सः श्रवणादिनिष्ठः सः पुरुषः बुद्धेः रजस्स्वभावं रजसः स्वभावः विक्षेपः तम् । धुनोति चालयति नितरां नाशयतीति यावत् । देहादिषु रागसत्त्वे कर्म करोति कर्मसत्त्वे विक्षेपः । रागनिर्मूलनेन सर्वं कर्म त्यक्त्वा श्रवणादिभिः अन्तर्निष्ठस्य श्रद्धालोः बुद्धि­वि­क्षे­पस्य नैवावसरः । अतो विरक्तेन संन्यासिना श्रवणादिकं श्रद्धया बुद्धि­दो­ष­नि­वृ­त्तये कार्यमित्युक्तं भवति ॥१८४॥

इदानीं मनोमयस्य अनात्मत्वं निगमयति मनोमय इति −

मनोमयो नापि भवेत्परात्मा
ह्याद्य­न्त­व­त्त्वात् परिणामिभावात् ।
दुःखत्मकत्वाद् विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥

१८५

मनोमयोपि परात्मा परमात्मा न भवेदित्यन्वयः । तत्र हेतवः सङ्गृह्यन्ते आद्य­न्त­व­त्त्वात् सुषुप्तौ लयात् जाग्रदादौ उत्पत्तेश्च आद्यन्तशून्यः आत्मा न भवति । एवं परिणामिभावात् परिणामिनः भावः परिणामिभावः विकारवत्वं काम­स­ङ्क­ल्पा­द्या­त्मना परिणममानत्वात् अविकारी आत्मा न भवति । दुःखम् आत्मा स्वरूपं यस्य दुःखात्मकं तस्य भावः तत्त्वम् । अत एव निरुध्यते शोध्यते च । अध्यासद्वारा सर्व­दुः­ख­हे­तु­त्व­मु­प­पा­दि­तम् । अतः आनन्दरूपः आत्मा न भवति । विषयत्वमेव हेतुः तस्मात् ‘अन्यत्रमना अभूवं नाद्राक्षम् अन्यत्रमना अभूवं नाश्रौषम्’(बृ.उ. १.५.३) इति श्रुतेः । साक्षिणा विषयीक्रियत इति विष­य­त्व­रू­प­हे­तोश्च सर्वसाक्षी आत्मा न भवति । तदिदमाह द्रष्टा हीत्यादिना, हि यतः द्रष्टा पश्यतीति द्रष्टा ज्ञाता यः सः दृश्यात्मतया विषयतया न दृष्टः न लोकसिद्धः इत्यर्थः । अतः सर्वदा मनस्स्थितिकाले तदभावे च साक्षिणा सद्भावाभावयोः ज्ञायमानतया कर्तृ­क­र्म­वि­रो­धात् स्वद्र­ष्टृ­त्वस्य स्वस्मिन् विरुद्धत्वाच्च दृश्यं मनः न द्रष्टृस्वरूप आत्मा इत्यनात्मत्वं तस्य सिद्धम् ॥१८५॥

इदानीं विज्ञानमयकोशं निरूपयति बुद्धिरिति −

२१. विज्ञा­न­म­य­को­श­वि­वेकः

बुद्धि­र्बु­द्धी­न्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञा­न­म­य­को­श­स्स्यात् पुंसः संसारकारणम् ॥१८६॥

१८६

बुद्धीन्द्रियैः पञ्चभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः सार्धं सह । सवृत्तिः वृत्त्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः कर्तृलक्षणः कर्तृलक्षणं ज्ञाने­च्छा­कृ­ति­मत्त्वं यस्य सः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् तत्संज्ञकः कोशो भवति । तस्य कार्यमाह पुंस इत्यादिना, पुंसः आत्मनः संसारकारणं ‘स समानस्सन्नुभौ लोकावनुसञ्चरति, सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३७) इत्या­दि­श्रु­तिभ्यः एकमेवान्तःकरणं संश­या­त्म­क­वृ­त्ति­मत् मन इति, निश्च­या­त्म­क­वृ­त्ति­मत् बुद्धिरिति कथ्यते । तत्र मनसः करणत्वं बुद्धेः कर्तृत्वम् । निश्चित्य हि करोति । अतः पूर्वा­प­री­भा­व­व­त्त्वेन मनोबुध्योः बहिरन्तर्भाव इति मनोमयानन्तरं बुध्या­त्म­क­वि­ज्ञा­न­म­यस्य पार्थक्येन कथनम् । नो चेत् पञ्चानां ज्ञाने­न्द्रि­या­णाम् उभ­य­त्रा­वि­शि­ष्ट­त्वात् भेदानापत्तेरिति बोध्यम् ‘तस्माद्वा एत­स्मा­न्म­नो­म­यात्’ ‘अन्योन्तर आत्मा विज्ञानमयः’(तै.उ. २.४) इति श्रुतेश्च । तत्रा­प्य­य­मे­वा­भि­प्रायः ॥१८६॥

अनु­व्र­ज­च्चि­त्प्र­ति­बि­म्ब­शक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावान् अहमित्यजस्रं
देहे­न्द्रि­या­दि­ष्व­भि­म­न्यते भृशम् ॥१८७॥

१८७

भूत­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं प्रतिबिम्बत इति अनुव्रजन् यः चितेः चिद्रूपस्य परमात्मनः प्रतिबिम्बः जीवः तस्य शक्ति­र्भा­स­क­त्व­रूपा यस्य भास­क­प्र­ति­बि­म्ब­स्यापि भासकत्वात् , प्रसिद्धं हि लोके दर्प­णा­दि­बि­म्बि­त­सू­र्य­प्र­ति­बि­म्ब­स्या­पि­सू­र्य­प्र­वे­शा­यो­ग्या­न्ध­का­रा­वृ­त­भू­वि­व­रा­दि­ग­त­व­स्तु­भा­स­क­त्व­मिति । अनु­व्र­ज­च्चि­त्प्र­ति­बि­म्ब­शक्तिः चिद­नु­प्र­वे­शा­च्चि­च्छ­क्ति­वि­शिष्टः अत एव विज्ञानसंज्ञः विज्ञानमिति संज्ञा यस्य सः ‘विज्ञानं यज्ञं तनुते’(तै.उ. २.५) इति श्रुतेः । प्रकृतेः मूलप्रकृतेः अविद्यायाः विकारः सूक्ष्म­भू­त­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वात् सूक्ष्म­भू­त­प­ञ्च­कस्य अविद्याकार्यतया परम्परया अवि­द्या­का­र्य­त्व­म­स्य­को­शस्य । ज्ञानक्रियावान् ज्ञानं च वृत्त्यात्मकं क्रिया च विष­य­वि­चा­र­ध्या­न­लो­का­न्त­र­ग­म­ना­दि­रूपा ज्ञानक्रिये ते अस्य स्त इति ज्ञानक्रियावान् देहे­न्द्रि­या­दिषु उक्तं हि पूर्वम् −

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥ (श्लो. १०५) इति ।

अतः जीवस्य योऽभिमानः देहादौ तस्य बुद्धिं विना असम्भवात् जीवत्वस्यापि बुद्ध्यु­पा­धि­नि­ब­न्ध­न­त्वात् अयं कोश एव आध्या­सि­क­ता­दा­त्म्या­प­न्न­तया जीवाभिन्नत्वेन विवक्षित इत्यजस्रं सर्वदा जाग्र­त्स्व­प्नयोः भृशम् अत्यन्तम् अहमित्यभिमन्यते । अहं मनुष्यः स्थूलः गच्छामि तिष्ठामि लङ्घयामि अहं पश्यामि अहं शृणोमि अहमुच्छ्वसिमि निश्व­सि­मी­त्या­दि­प्र­का­रेण तादा­त्म्या­भि­मा­न­वान् भवतीति ज्ञान­व­त्त्व­मु­प­पा­दि­तम् ॥१८७॥

क्रिया­व­त्त्व­मु­प­पा­द­यति अनादीत्यादिना −

अना­दि­का­लोऽ­य­म­हं­स्व­भावो
जीव­स्स­म­स्त­व्य­व­हा­र­वोढा ।
करोति कर्मा­ण्य­नु­पू­र्व­वा­सनः
पुण्या­न्य­पु­ण्यानि च तत्फलानि ॥१८८॥

१८८

भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्
आयाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्ना­द्य­वस्थाः सुखदुःखभोगः ॥१८९॥

१८९

यद्यपि प्रकृतेर्विकार इत्युक्तत्वात् सादित्वं वक्तव्यम् । अथापि महाप्रलयेऽपि कारणात्मना अव्यक्ततया वर्तमानत्वात् पूर्व­क­र्म­वा­स­ना­श्र­य­बुद्धेः अत्यन्तनाशे पुनः­सृ­ष्टे­र­नु­प­पत्तेः सृष्टिकाल एव ‘अनेन जीवेनात्मना’(छा.उ. ६.३.२) इति परदेवतया नाम­रू­प­व्या­क­र­णा­र्थ­मी­क्ष­ण­श्रु­तेश्च आविदेहकैवल्यम् आत्यन्तिकनाशो नास्तीति पुंसः संसा­र­का­र­ण­भू­तायाः बुद्धेरपि अनादित्वम् अवश्यं वक्तव्यमिति तत्प्र­यो­ज्य­दे­हे­न्द्रि­या­द्य­भि­मा­नोऽपि स्वप्रा­ग­भा­व­का­ल­त्व­व्या­प­क­स्व­स­जा­ती­य­क­त्व­रू­पा­ना­दि­त्व­वान् भवति । अनादिः कालः यस्य अनादिकालः इदमिदानीम् आरब्धमिति वक्तु­म­श­क्य­त्वात् । अयं देहे­न्द्रि­या­दिषु अहमिति स्वभावः अभिमानः वासना यस्य सः अहंस्वभावः जीवः सम­स्त­व्य­व­हा­र­वोढा ‘विज्ञानं यज्ञं तनुते’ ‘कर्माणि तनुतेऽपि च’(तै.उ. २.५) इति श्रुतेः लौकि­क­वै­दि­क­स­र्व­व्य­व­हा­र­कर्ता । तदुपपादयति अनुपूर्ववासनः अनुगताः पूर्ववासनाः यं सः अनुपूर्ववासनः ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) इति श्रुतेः । ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ.उ. ३.२.१३) इति च श्रुतेः । पुण्यानि शास्त्रविहितानि अपुण्यानि तन्निषिद्धानि विहि­त­नि­षि­द्धा­न्यानि उदासीनानि भोजनस्वापादीनी च करोति । भोक्तृत्वं वक्ति − तत्फलानि तेषां कृत­वि­हि­त­नि­षि­द्ध­क­र्मणां फलानि । विचित्रासु देव­ति­र्य­ङ्म­नु­ष्यादि चतु­र­शी­ति­ल­क्ष­प्र­भे­दासु योनिषु व्रजन् भुङ्क्तेऽपि सुख­दुः­खा­नु­भ­व­वा­न्भ­व­त्यपि । तदर्थम् अधः नरकादौ आयाति आगच्छति, ऊर्ध्वं स्वर्गादौ निर्याति निर्गच्छति एष जीव इत्यर्थः । अहं जागर्मि अहं स्वपिमि अहमस्वाप्सम् , अहं सुखी दुःखी­त्या­दि­रीत्या आत्मनि प्रतीयमानधर्माः सर्वेऽपि एत­त्ता­दा­त्म्या­भि­मा­ना­दिति निर्ध­र्म­क­मा­त्मा­न­मितो विवेचयति । अस्यैव विज्ञानमयस्य जाग्र­त्स्व­प्ना­द्य­वस्थाः आदिपदेन सुषु­प्ति­स­मा­धि­प­रि­ग्रहः । सुखदुःखभोगः, अनुभवः भोगः ॥१८९॥

देहा­दि­नि­ष्ठा­श्र­म­ध­र्म­क­र्म­गु­णा­भि­मानः सततं ममेति ।
विज्ञा­न­को­शोऽ­य­म­ति­प्र­काशः प्रकृ­ष्ट­सा­न्नि­ध्य­व­शा­त्प­रा­त्मनः ।
अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥

१९०

देहादीति । आदिपदेन चक्षु­रा­दी­न्द्रि­य­प्रा­ण­प­रि­ग्रहः । तन्निष्ठाः ये आश्रमाः ब्रह्मचर्यादयः, धर्माः मनु­ष्य­त्व­ब्रा­ह्म­ण­त्वा­दयः कर्माणि स्थितिगत्यादीनि लौकिकानि मन्त्रो­च्चा­र­णा­दीनि वैदिकानि गुणाः ह्रस्व­त्व­दी­र्घ­त्वा­दयः सौगु­ण्य­वै­गु­ण्या­दयो वा एतेषु सततं ममेत्यभिमानः आत्म­प्र­ति­फ­ल­ना­नु­विद्धा बुद्धिः इन्द्रियेषु प्राणेषु देहे च सम्बध्यमाना, तदी­य­ध­र्मा­ना­त्म­न्या­रो­प­यति । स्वतो जडाया अप्यस्याः चेतनवदेव स्थितौ निमित्तमाह, परमात्मनः ‘चेत­न­श्चे­त­ना­नाम्’(क.उ. ५.१३) इति श्रुत्या केवल निर्म­ला­स­ङ्ग­चि­द्रू­पस्य परमात्मनः प्रकृ­ष्ट­सा­न्नि­ध्य­व­शात् पर­मु­ख­नि­र­पे­क्ष­प्र­ति­फ­ल­न­म­हिम्ना अयं विज्ञानकोशः बुद्धिरूपकोशः अतिप्रकाशः । इतरेषु इन्द्रियेषु साक्षा­च्चै­त­न्य­स­म्ब­न्धा­भा­वा­दि­त्य­भि­प्रायः । अतः प्रकृ­ष्ट­सा­न्नि­ध्यस्य सत्त्वात् अस्य आत्मनः एषः कोशः उपाधिः जीव इति भेदहेतुः भवति । कर्तृ­त्व­भो­क्तृ­त्व­नि­वा­स­भू­त­जी­व­त्व­ध­र्मा­श्र­य­मू­ल­हेतुः । यदात्मधीः यस्मिन्नुपाधौ आत्मधीः अहमिति मतिमान् भ्रमेण भ्रान्त्या संसरति कर्तृ­त्वा­दि­दुः­ख­म­नु­भ­वति ॥१९०॥

तदेवोपपादयति योऽयमित्यादिना त्रिभिः −

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुर­त्स्व­य­ञ्ज्योतिः ।
कूट­स्थ­स्स­न्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१९१॥

१९१

पाषाणे वृक्ष इतिवत् सामीप्यसप्तमी । प्राणेषु चक्षुरादिसमीपे । एतेन अहमिति प्रती­ति­वि­ष­य­त्वस्य बहुषु सत्त्वात् ‘कतम आत्मा’(बृ.उ. ४.३.७) इति जन­क­प्र­श्नो­त्त­र­वाक्ये ‘प्राणेषु’ इति पदेन प्राण­श­ब्द­बो­धि­ते­न्द्रि­य­मु­ख्य­प्रा­ण­त्व­मा­त्मनो नास्तीति कथितं भवति । प्राणसामीप्यं बिद्धेरप्यस्ति अतः व्यावर्तयति हृदि­स्फु­र­त्स्व­य­ञ्ज्यो­ति­रिति हृद­य­पु­ण्ड­री­का­व­च्छि­न्न­बुद्धौ प्रकाशमानं पराप्रकाश्यं यज्ज्योतिः चैतन्यं सर्वावभासकं तद्रूपः योऽयं विज्ञानमयः आमोक्षं बुद्ध्या न विना भूयतेऽनेनेति तत्प्रचुरत्वात् तन्मयत्वम् । स्वार्थे मयड्वा विज्ञानस्वरूप इत्यर्थः । ईदृगात्मा कूटस्थः कूटवत्तिष्ठतीति कूटस्थः अयोघनवत् निर्विकारः सन्नपीति अपि शब्दो योजनीयः । उपाधिस्थः उपाधौ ज्ञान­क्रि­या­वत्यां बुद्धौ तादात्म्येन आविद्यकेन वर्तमानः कर्ता भोक्ता भवति यथा स्फटिके लौहित्यं भ्रमात् तथा ॥१९१॥

तदेव स्फुटयति स्वयमिति −

स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्मदोषेण परं मृषात्मनः ।
सर्वा­त्म­क­स्स­न्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२॥

१९२

मृषात्मनः मिथ्या­स्व­रू­प­वत्याः बुद्धेः, तादात्म्यदोषेण परं केवलं न तु स्वतः इत्यर्थः । स्वयं परिच्छेदम् अल्पत्वम् , उपेत्य प्राप्य स्वयं सर्वा­त्म­क­स्स­न्नपि ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इत्यादिश्रुतेः । अकुशलमतिः मृदः पञ्चमी घटानिव यथा मृदुपादानकतया तदव्यतिरिक्तान् घटान् पृथक्पश्यति भिन्नत्वेन वीक्षते तथा सर्वोपादानतया स्वव्यतिरेकेण कस्याप्यभावेऽपि स्वतः पृथक्त्वेन भेदेन वीक्षते अहं सः इदं त्वम् इत्या­दि­भे­द­बु­द्धि­मा­न्भ­व­ती­त्यर्थः ॥१९२॥

इममर्थं निर्विकारस्य सविकारत्वं ‘कूटस्थस्सन् आत्मा’(श्लो. १९१) इत्यत्रोक्तं च सदृष्टान्तं कथयति उपाधीति −

उपा­धि­स­म्ब­न्ध­व­शा­त्प­रात्मा-
प्युपा­धि­ध­र्मा­न­नु­भाति तद्गुणः ।
अयो­वि­का­रा­न­वि­का­रि­व­ह्नि­वत्
सदैकरूपोऽपि परः स्वभावात् ॥१९३॥

१९३

अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घ­त्व­व­र्तु­ल­त्वा­दयः तान् अविकारिवह्निवत् वस्तुतः तादृ­श­ध­र्म­शू­न्य­व­ह्नि­रिव अयसि दीर्घे दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके । तथा परात्मापि परमात्मापि उपा­धि­स­म्ब­न्ध­व­शात् स्वप्र­का­श्ये­नापि उपाधिना अविद्यया कल्पितः यः तादा­त्म्य­रू­प­स­म्बन्धः तद्वशात् उपाधिधर्मान् कर्तृ­त्व­भो­क्तृ­त्वा­दीन् ‘ध्यायतीव लोलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः, बुद्धौ ध्यायन्त्यां ध्यायतीव लेलायन्त्यां चलन्त्यां चलतीव इत्यर्थः श्रुतेः । अनुसृत्य तद्गुणः उपाधिधर्मवानिव भाति अहं करोमि सुखी दुःखी­त्या­दि­प्र­का­रेण । वस्तुतः सदा स्वभावात् स्वकी­य­स­च्चि­दा­न­न्द­स्व­रू­पतः परः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः । अतः एकरूपोऽपि विकार शून्योऽपीति पूर्वं योजनीयम् । प्रकाशके वह्नौ दृष्टान्ते परात्मनि च दार्ष्टान्तिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानम् ॥१९३॥

शिष्य उवाच −

२२. अना­द्य­वि­द्या­ना­शो­प­पत्तिः

भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः ।
तदु­पा­धे­र­ना­दि­त्वात् नानादेर्नाश इष्यते ॥१९४॥

१९४

अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः ।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥१९५॥

१९५

परात्मनः असंसारितया सर्वोत्कृष्टस्य परमात्मनः जीवभावः जीवत्वं भ्रमेण वा भ्रान्त्या वा अन्यथापि वा वस्तुतो वा अस्तु, तदुपाधेः जीवभावः येनोपाधिना उच्यते तस्य उपाधेः विज्ञानमयकोशस्य ‘अना­दि­का­लोऽ­य­म­हं­स्व­भावः जीवः’(श्लो. १८८) इत्युक्ततया अनादित्वात् आत्मनः इव अनादेः नाशः कस्यापि नेष्यते अतः जीवभाव प्रयो­ज­को­पा­धे­र­ना­दि­त्वात् नाशासम्भवाच्च अस्य परात्मनः जीवभावोऽपि नित्यो भवति न नश्यति संसृतिः जीवभावनित्यत्वे नित्येति न निवर्तेत नैव नश्येत् तत् तस्मात् मोक्षः कथं मे मम संसारनिवृत्तिः कथं श्रीगुरो वद उपदिश ॥१९५॥

श्रीगुरुरुवाच −

सम्यक्पृष्टं त्वया विद्वन् सावधानेन तच्छृणु ।
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥१९६॥

१९६

हे विद्वन् बुद्धिमन् त्वया सम्यक्पृष्टम् । तत् पृष्टं यद्वस्तु तत् सावधानेन विष­या­न्त­र­स­ञ्चा­र­र­हि­त­म­नसा शृणु श्रुत्वा­व­धा­र­ये­त्यर्थः । भ्रान्त्या मोहितकल्पना मोहोऽस्य सञ्जातः मोहितः मोहश्च प्राप्त­ज्ञा­य­मा­न­ता­क­व­स्तुनः ज्ञानाभावः तामसः धर्मः । वस्तुतः निर्म­ल­ज्ञा­न­स्व­रू­प­त्वेऽपि अज्ञा­न­ज­नि­त­भ्रान्त्या दृढीभूतया मोहः पूर्वोक्तः तद्विशिष्टस्य पुरुषस्य या कल्पना स्वस्य असंसारिणोऽपि संसारित्वकल्पना सा प्रामाणिकी न भवति यथार्था न भवति प्रमाणसिद्धा न भव­ती­त्य­क्ष­रार्थः । भ्रम­प्र­यो­ज्य­मो­ह­मू­ल­क­त्वात् मुग्धस्य सम्य­ग्ज्ञा­ना­स­म­र्थ­त्वात् ॥१९६॥

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।
न घटे­ता­र्थ­स­म्बन्धो नभसो नीलतादिवत् ॥१९७॥

१९७

तुरवधारणार्थः नञा सम्बध्यते । असङ्गस्य वस्तुतः सङ्गशून्यस्य ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) इति श्रुतेः सुषु­प्ता­व­नु­भ­वाच्च । निष्क्रियस्य निर्विकारस्य ‘निष्कलं निष्क्रियम्’(श्वे.उ. ६.१९) इति श्रुतेः । ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽ­यम् अवि­का­र्योऽ­य­मु­च्यते’(भ.गी. २.२५) इति स्मृतेश्च । निराकृतेः ‘न तस्य कार्यं करणं च विद्यते’(श्वे.उ. ६.८) ‘अस्थूलमनणु’(बृ.उ. ३.८.८) इत्यादिश्रुतेः । भ्रान्तिं विना स्थूल­सू­क्ष्म­का­र­ण­श­री­रेषु तादा­त्म्या­भि­मानं विना अर्थसम्बन्धः दृश्यसम्बन्धः नैव घटेत । नभसः गगनस्य असङ्गस्य निष्क्रियस्य निराकृतेः नीलतादिवत् । उक्तं हि − ‘अप्रत्यक्षेऽपि ह्याकाशे बाला­स्त­ल­म­लि­न­ता­द्य­ध्य­स्यन्ति’(ब्र.सू.अध्यास.भा.) इति भाष्ये । अविवेकिनः गगनमपि नीलं पीतम् इन्द्रनीलकटाह इति कल्पयन्ति इति गगनस्य यथा नीलत्वादिकम् अप्रामाणिकं न घटते तथेत्यर्थः । एवं परमात्मन्यपि जीवभावः अप्रामाणिक इति भावः । नहि कल्पना मात्रात् गगनं नीलादिरूपं भवति एवं प्रकृतेऽपि इति बोध्यम् ॥१९७॥

तदेव स्फुटयन् संसा­र­नि­वृ­त्ति­मु­प­पा­द­यति द्वाभ्याम् , आत्मनः वास्तविकस्वरूपं श्रुतिसिद्धं विद्व­द­नु­भ­व­सिद्धं च कथयति । तत्र जीवस्य मिथ्या­त्व­सि­द्धये स्वस्येति −

स्वस्य­द्र­ष्टु­र्नि­र्गु­ण­स्या­क्रि­यस्य
प्रत्य­ग्बो­धा­न­न्द­रू­पस्य बुद्धेः ।
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तु स्वभावात् ॥१९८॥

१९८

द्रष्टुः साक्षिणः निर्गुणस्य केनापि धर्मेण रहितस्य अक्रियस्य निष्क्रियस्य विकारशून्यस्य प्रत्य­ग्बो­धा­न­न्द­रू­पस्य सर्वान्तरः यो बोधः सः प्रत्यग्बोधः स चासावानन्दश्च प्रत्य­ग्बो­धा­नन्दः स एव रूपं यस्य सः प्रत्य­ग्बो­धा­न­न्द­रूपः तस्य स्वस्य आत्मन बुद्धेः भ्रान्त्या तादा­त्म्या­भि­मा­नेन प्राप्तः कल्पितः जीवभावः न सत्यः अबाध्यः न भवति । स्वस्व­रू­प­वि­ष­य­क­सा­क्षा­त्कारे भ्रान्तेः नाशेन बाध्यत्वात् । तदेवाह − मोहापाये श्रुत्या­चा­र्यो­प­दे­श­ज­नि­त­त­त्त्व­सा­क्षा­त्का­रेण अज्ञाननाशे तज्ज­नि­त­भ्रा­न्ते­र­भा­वात् तदभावे मोहस्य दूरपलायितत्वात् तस्य अपाये अवस्तु यत्कल्पितं तत् स्वभावात् स्वधर्मतः कल्पनाविषयत्वेन नास्ति । यद्वा स्वभावात् कल्पितानां मोहापाये अप्रतीयमानतया नास्तित्वस्य स्वभावात् अयमेव स्वभावः आरोपितानां वस्तूनां भ्रान्त्यभावे पूर्व­व­द­प्र­ती­य­मा­न­त्वम् इत्यर्थः ॥१९८॥

पूर्व­श्लो­क­च­तु­र्थ­पा­दा­र्थ­मु­प­पा­द­यति यावदिति −

याव­द्भ्रा­न्ति­स्ता­व­दे­वास्य सत्ता
मिथ्या­ज्ञा­नो­ज्जृ­म्भि­तस्य प्रमादात् ।
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत् ॥१९९॥

१९९

कार्यस्य मिथ्यात्वं वक्तुं कारणं विशिनष्टि मिथ्येति । मिथ्या­ज्ञा­नो­ज्जृ­म्भि­तस्य मिथ्याभूतम् अधि­ष्ठा­न­सा­क्षा­त्का­र­नि­वर्त्यं यदज्ञानं तस्मा­दु­ज्जृ­म्भि­तस्य सञ्जनितस्य अस्य अवस्तुनः प्रमादात् अधि­ष्ठा­ना­रो­प्या­वि­वे­कात् । यावद्भ्रान्तिः विपरीतज्ञानं तावदेव सत्ता अस्तित्वेन प्रतीयमानत्वम् । तत्र दृष्टान्तः रज्ज्वां सर्पः रज्ज्वज्ञानात् रज्जु­सा­क्षा­त्का­र­बा­ध्यात् प्रमादात् पुरोव्यक्तौ नायं सर्प इति विवेकाभावात् उज्जृम्भितः भ्रान्तिकालीन एव यावत्पर्यन्तम् अयं सर्प इति भ्रान्तिः तावदेव अस्तितया प्रतीयते । नायं सर्पः किन्तु रज्जुरिति विशेषदर्शने भ्रान्तेः अयं सर्प इत्याकारिकाया नाशे बाधे नैव सर्पोऽस्ति । तद्वत् अहं ब्रह्मास्मीति साक्षा­त्का­र­प­र्यन्तं मूला­ज्ञा­न­ज­नि­त­प्र­मा­दात् संसा­रि­त्व­भ्रान्तिः । वस्तुतः संसारः कदापि नास्त्येव । रज्ज्वां सर्प इव पूर्वं भ्रान्त्या प्रतीयते स्म । जाते च ज्ञाने यथार्थे न प्रतीतिरपि तस्येति केवलं ब्रह्म­मा­त्र­म­व­शि­ष्यते स्वरू­प­सा­क्षा­त्का­रस्य अज्ञा­न­त­त्का­र्य­स­क­ल­ना­श­क­त्वात् अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः इति प्रमाणात् ॥१९९॥

एतावतापि ‘तदु­पा­धे­र­ना­दि­त्वा­न्ना­ना­दे­र्नाश इष्यते’(श्लो. १९४) इत्यस्य स्पष्ट­मु­त्त­र­म­ल­भ­मा­न­मिव शिष्यं ज्ञात्वा तदेवानूद्य समादधाति श्रीगुरुः सार्ध­श्लो­क­द्व­येन अनादित्वमिति −

अना­दि­त्व­म­वि­द्यायाः कार्यस्यापि तथेष्यते ।
उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्यपि ॥२००॥

२००

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ।
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥२०१॥

२०१

यदुक्तं त्वया उपा­धे­र­ना­दि­त्व­मिति तत्तथैव । अविद्यायाः कार्यस्यापि विज्ञानमयकोशस्य तथा अविद्याया इव अनादित्वमिष्यते । अविद्याया एकरूपत्वात् विचित्रसृष्टेः विचि­त्रो­पा­धि­नि­ब­न्ध­न­त्वात् सर्वसमस्य परमकृपालोः ईश्वरस्य विचि­त्र­क­र्मा­श्र­य­बु­द्धि­रू­पो­पा­ध्य­पे­क्षायाः आवश्यकत्वात् बुद्धेरपि तत्कारणभूतायाः अना­दि­त्व­म­का­मे­ना­प्य­ङ्गी­क­र्त­व्य­मिति भावः । इदानीं तस्य निवृत्तिमाह विद्या­या­मु­प­नि­ष­ज्ज­न्या­या­म­धि­ष्ठा­न­सा­क्षा­त्का­र­रू­पायां प्रमा­या­मु­त्प­न्नायां सत्यामिति शेषः । तु शब्दः पक्षं व्यावर्तयति अनादेर्नाशो नास्तीति रूपम् । आवि­द्य­क­म­वि­द्या­प्र­यो­ज्यम् । अनाद्यपि सृष्ट्या­दि­व्य­व­हा­र­सि­ध्य­र्थ­म­ना­दि­त्वे­ना­ङ्गी­कृ­त­मपि प्रबोधे निद्रां त्यक्त्वा जागरे प्राप्ते स्वप्नवत् सहमूलं विनश्यति । न केवलं स्वयमेव, स्वस्य मूलभूता याऽविद्या तया सह मूलभूतनिद्रया साकं स्वाप्नि­क­व­स्तु­जा­त­मिव जागरे सर्वं विनश्यति । तेजस्तमसोरिव विद्याऽ­वि­द्य­यो­रेव साक्षाद्विरोधः तथा निद्राजागरयोः । अविद्यायां विद्यया नाशितायां ‘तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः’(ई.वा.उ. ७) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. २.४.१३) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इत्यादि श्रुत्या तादृ­श­भू­म­वि­द्यायां संसा­र­हे­त्व­वि­द्यायाः समूलकाषं कषितत्वात् मूले छिन्ने वृक्षस्येव अविद्याकार्यस्य बुध्यादेर्विनाश एवेति भावः । नहि निद्रायां नष्टायां तत्का­ल­प्र­ति­प­न्न­सु­ख­दुः­खा­दिकं जाग्रतः । तथा सम्यग्ज्ञानवतः नाज्ञानकालिकं संसारित्वं निमित्तापायात् । अनादेरपि नाशोऽस्ति इत्यत्र परमतरीत्या दृष्टान्तमाह अनाद्यपीति । इद­म­वि­द्या­त­त्कार्यं च अनाद्यपि आदिरहितमपि नो नित्यं नैव नाशाप्रतियोगि इति स्फुटम् । यथा तार्किकैः उत्प­त्ति­शू­न्य­त्वेन अङ्गी­क्रि­य­मा­णोऽपि तत्प्रतियोगिनि कार्ये जाते नश्य­ती­त्य­ङ्गी­क्रि­यते एवं प्रकृतमपि । यद्यपि अनादिभावस्य नाशो नास्तीति दृष्टान्ते प्रागभावे वैष­म्य­मा­पा­द­यितुं शक्यम् अवि­द्या­त­त्का­र्यस्य अभा­व­रू­प­त्वा­भा­वात् तथापि प्रागवस्थायाः भावरूपतया तत्रैव कार्या­भि­व्य­क्त्य­न­न्त­र­म­दृ­श्य­मा­ना­या­मु­क्ता­र्थस्य वक्तुं शक्यत्वात् तार्किकैरपि प्राग­भा­व­नि­रू­प­णा­व­सरे ‘तथाप्यस्तु कश्चिदतिरिक्तः पदार्थः तथापि तस्य सप्रतियोगिकत्वे मानाभाव’ इति स्वीकराच्च । ‘नाभावो विद्यते सतः’(२.१६) इति गीतावचनात् । विना­शि­ना­म­वि­द्या­त­त्का­र्याणां सत्त्व­रू­प­भा­व­त्वस्य अनावश्यकत्वाच्च । श्रुत्यनुसारेण अवि­द्या­दि­क­म­ना­दि­त्वेन स्वीकुर्वतां लोक­प्र­सि­द्धे­र­ना­द­र­णी­य­त्वाच्च इति दिक् । कस्मिंश्चन पदार्थे उत्प­त्ति­शू­न्य­त्वस्य नाशा­प्र­ति­यो­गी­त्वस्य च शास्त्रमन्तरा ज्ञातु­म­श­क्य­त्वाच्च । दृष्टा­न्त­भू­ता­त्मनि तादृशत्वस्य शास्त्रेणैव ज्ञातत्वाच्च ‘जीवेशावाभासेन करोति’(नृ.उ.ता. ९.३) ‘मायाऽविद्या च स्वयमेव भवति’(नृ.उ.ता. ९.३) इत्यनादित्वस्य ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे.उ. १.१०) इति नाशस्य च अविद्यादौ श्रुत्यै­वा­व­ग­मि­त­त्वाच्च नात्र संशयप्रसक्तिः । एतावन्तं काल­म­ज्ञा­त­मि­द­मि­दानीं ज्ञातमिति व्यवहारात् कदा अज्ञातमिति प्रश्नाभावात् अज्ञा­ना­ना­दि­त्वस्य ज्ञाना­त्त­न्ना­शस्य च अनु­भ­व­सि­द्ध­त्वाच्च । अनादिभावत्वस्य अत्मनोऽन्यत्र कुत्रा­प्य­भा­वा­दिति सर्वमनाकुलम् । कार्योत्पत्तेः प्राक् कार्य­स­म­वा­यि­का­रणे इह कपाले घटो नास्तीति व्यवहारसाक्षिकः अभावः प्रागभाव इत्युच्यते । स च घटे उत्पन्ने नश्यति अतः अनादेरपि उत्पत्तेः प्रागनादितया स्थितस्य कार्यो­त्प­त्त्य­न­न्तरं प्रागभावस्य विध्वंसः वीक्षितः तथा ज्ञानोपत्तौ अज्ञानमनाद्यपि नश्यति । नष्टे तस्मिन् तत्कार्यं कुतस्त्यमिति भावः ॥२०१॥

उपाधेर्निवृत्तौ औपाधिकस्य जीवत्वस्यापि निवृत्तिमाह यदित्यादिना द्वाभ्याम् −

यद्बु­द्ध्यु­पा­धि­स­म्ब­न्धात् परि­क­ल्पि­त­मा­त्मनि ।
जीवत्वं न ततोऽन्यत्तु स्वरूपेण विलक्षणम् ॥२०२॥

२०२

आत्मनि परमात्मनि बुद्ध्यु­पा­धि­स­म्ब­न्धात् बुद्धिरेवोपाधिः बुद्ध्युपाधिः तस्य सम्बन्धः आज्ञा­नि­क­ता­दात्म्यं तस्मात् परिकल्पितं यत् जीवत्वं मिथ्याभूतं ततः अन्यत् सत्यभूतं, स्वरूपेण असं­सा­रि­त्वा­दि­रू­पेण विलक्षणं भिन्नं न तु नैवेत्यर्थः ।

‘भ्रमे­णा­प्य­न्यथा वास्तु जीवभावः परात्मनः’(श्लो. १९४) इति शिष्ये­णो­क्त­त्वात् अन्यथावास्तु इति वास्तविकं जीवत्वं यथा सुधायाः हरिद्रायाश्च योगे रक्तिमा वस्तुतः तथा इत्यभिप्रेत्य प्रश्नस्य कृतत्वात् तमभिप्रायं निरसितुम् आत्मनि बुद्ध्यु­पा­धि­स­म्ब­न्ध­व­शात् यत्परिकल्पितं जीवत्वं तद्विना स्वरूपेण विलक्षणं ततोऽ­न्य­न्ना­स्ती­त्युक्तं श्रीगुरुणा ॥२०२॥

‘असङ्गोह्ययं पुरुषः’(बृ.उ. ४.३.१५) इति श्रुत्या अवस्तुभूत एव सम्बन्धः बुध्द्या सह तस्य वक्तव्य इत्याह सम्बन्ध इति −

सम्बन्धः स्वात्मनो बुध्या मिथ्या­ज्ञा­न­पु­र­स्सरः ।
विनि­वृ­त्ति­र्भ­वे­त्तस्य सम्यग्ज्ञानेन नान्यथा ॥२०३॥

२०३

स्वात्मनः निरवयवतया संयो­गा­दे­र्व­क्तु­म­श­क्य­त्वात् संयोगस्थले परस्परधर्मस्य परस्परस्मिन् प्रतीत्यभावाच्च । अयोवह्न्योः संयोगसम्भवेऽपि अयो दहति वह्निर्दीर्घः इति व्यवहारस्य पर­स्प­रा­ध्या­से­नैव उप­पा­द्य­मा­न­त्वात् बुद्ध्यात्मनोः कर्तृ­त्व­चै­त­न्या­दि­ध­र्माणां प्रती­य­मा­ना­ना­म­न्यो­न्या­ध्या­स­मू­ल­क­त्व­स्यैव वक्तव्यतया धर्मि­ता­दा­त्म्या­ध्यासः धर्माणामध्यासे कार­ण­मि­त्या­ध्या­सि­क­ता­दा­त्म्य­मेव मिथ्या­भू­ता­ज्ञा­न­मू­लकं बुद्ध्या साकं सम्बन्ध इति भावः । तस्य अज्ञानमूलकस्य सम्बन्धस्य सम्यग्ज्ञानेन विनि­वृ­त्ति­र्भ­वेत् रज्ज्वादौ प्रती­त­स­र्प­ता­दा­त्म्यस्य रज्जुप्रमया बाधदर्शनात् । नान्यथा आज्ञा­नि­क­नि­वृत्तौ प्रकारान्तरं नास्तीत्यर्थः । मिथ्या­ज्ञा­न­पु­र­स्सर इत्यत्र मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्पुरस्सरं पूर्वभावि यस्य इति विग्रहे मिथ्या­ज्ञा­न­मू­ल­कत्वं लभ्यते सम्बन्धस्य । मिथ्याज्ञानपदेन भ्रमा­प­र­प­र्या­यस्य आध्या­सि­क­ता­दा­त्म्य­रू­प­स­म्बन्धे पूर्वमध्यासस्य घटकत्वात् सम्बन्धे तद्विशेषणं योजनीयम् । अर्थद्वयमपि सुवचम् ॥२०३॥

भ्रम­प्र­मा­दा­दि­दो­ष­दू­षितैः पुरुषैः इदमेव सम्यग्ज्ञानमिति ज्ञातु­म­श­क्य­त्वात् निर्दो­ष­श्रु­त्य­नु­सा­रेण सम्यग्ज्ञानं दर्शयति ब्रह्मेति −

ब्रह्मा­त्मै­क­त्व­वि­ज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥२०४॥

२०४

ब्रह्मा च अत्मा च ब्रह्मात्मानौ तयोरेकत्वं भेदाभावः तस्य विज्ञानमनुभवः सम्यग्ज्ञानम् इति श्रुतेर्मतम् । ‘तत्त्वमसि’(छा.उ. ६.८.७) ‘अहं ब्रह्मास्मि’(बृ.उ. १.४.१०) ‘अयमात्मा ब्रह्म’(मां.उ. २) ‘प्रज्ञानं ब्रह्म’(ऐ उ.३.३) ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ.उ. ३.१३) ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।’(तै.उ. २.८.५.३.१०.४) ‘एष त आत्मा अन्त­र्या­म्य­मृतः’(बृ.उ. ३.७.३) ‘एष त आत्मा सर्वान्तरः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता । स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ.उ. ३.४.१) इत्या­दि­श्रु­तिभ्यः जीव­ब्र­ह्म­भे­द­नि­रा­क­र­णात् ॥२०४॥

तत्र हेतुमाह तदात्मेति −

तदात्मानात्मनोः सम्यग्विवेकेनैव सिद्ध्यति ।
ततो विवेकः कर्तव्यः प्रत्य­गा­त्मा­स­दा­त्मनोः ॥२०५॥

२०५

तत् सम्यग्विज्ञानम् आत्मानात्मनोः आत्मा च अनात्मा च जात्येकवचनम् आत्मानात्मनौ तयो­रा­त्मा­ना­त्मनोः सम्यक् विवेकेन नीरक्षीरवत् विभेदग्रहणेनैव सिद्ध्यति । भेदग्रहे अध्यासव्यापकस्य भेदाग्रहस्य असम्भवात् तदभावे भ्रमरूपस्य अध्यासस्य व्याप्यस्य अभावात् तदभावे विक्षेपशून्यं मनः बहि­र्मु­ख­त्व­शून्यं सत् श्रव­ण­म­न­न­नि­दि­ध्या­सनैः सर्वान्तरं ब्रह्म साक्षात्करोतीति भावः । ततः विवेकस्य सम्य­ग्ज्ञा­न­हे­तु­त्वात् । प्रत्य­गा­त्मा­स­दा­त्मनोः असन् मिथ्याभूत आत्मा प्रत्यङ् सर्वान्तरः आत्मा परमात्मा प्रत्यगात्मा च असदात्मा च प्रत्य­गा­त्मा­स­दा­त्मानौ तयोः विवेकः श्रुत्या­चा­र्य­द­त्त­युक्त्या पृथक्तया ज्ञाना­नु­कू­ल­व्या­पारः मननरूपः कर्तव्यः ॥२०५॥

तथाकृते तस्य स्फुटभानं सदृष्टान्तमाह जलमिति −

जलं पङ्कवदस्पष्टं पङ्कापाये जलं स्फुटम् ।
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥२०६॥

२०६

पङ्कमस्यास्तीति पङ्कवत् पङ्किलं जलमस्पष्टं विजातीयेन पार्थिवेन पङ्केन मिश्रितत्वात् । पङ्कापाये पङ्कस्यापाये तत उद्धृत्यापनयने जलं स्फुटम् इतरामिश्रं शुद्धं यथा भाति तथा आत्मापि परमात्मापि दोषाभावे स्फुट­प्र­भः­स्फुटा प्रभा प्रकृष्टा भा प्रभा अख­ण्ड­चै­त­न्य­प्र­काशः यस्य सः स्फुटप्रभः ‘सलिल एको द्रष्टा’(बृ.उ. ४.३.३२) इत्या­दि­श्रु­तेः­नि­र्म­ल­ज­ल­वत् अनात्माविषयकतया भासत इत्यर्थः ॥२०६॥

तदेव स्फुटयन् अनात्माविषयकतया भानार्थं प्रय­ति­त­व्य­मि­त्याह अस­न्नि­वृ­त्ता­विति −

असन्निवृत्तौ तु सदात्मनः स्फुट­प्र­ती­ति­रे­तस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एवासदात्मनः साध्व­ह­मा­दि­व­स्तुनः ॥२०७॥

२०७

यतः एतस्य समीपतरवर्तिनः प्रतीचः सर्वान्तरस्य सदात्मनः काल­त्र­येऽ­प्य­बा­ध्यस्य आत्मनः परमात्मनः स्फुटप्रतीतिः इतरामिश्रणेन भानम् असन्निवृत्तौ तु अस­ता­म­न्न­म­या­दी­ना­म­ना­त्मनां निवृत्तौ तु निवृत्तावेव भवेत् न तु तेषामपि प्रतीयमानत्वे । ततः तस्मात् कारणात् असदात्मनः असन् मिथ्या आत्मा स्वरूपं यस्य सः असदात्मा तस्य अहमादिवस्तुनः अहम् अहङ्कारः आदिर्यस्य तदहमादि तच्च तद्वस्तु अहमादिवस्तु तस्य अहङ्कारादि देहान्तस्य आत्मत्वेन भ्रमविषयतया स्वरूपावरकस्य साधु यथा इतः परम् अहन्तास्पदतया न प्रतीयते तथा निरासः प्रतिकोशं नायमात्मेति दृढतमविवेचनेन निरासः बाधः करणीय एव । उक्तं हि पूर्वं −

पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥ (श्लो. १५३) इति ।

‘सर्वथा मुच्यतामयं जनः’ इति बहुप्रकारैः उपदिशति करुणानिधिः श्रीगुरुः । तत्र शैवालावृतजलं दृष्टान्ततया कथितम् । अत्र विज­ती­य­प­ङ्क­मिश्रं तत् सर्वप्रकारैः अनात्मभेदस्य प्रतीचि सिध्यर्थम् ॥२०७॥

इदानीं विज्ञानमयस्य अनात्मत्वं निगमयति अत इति −

अतो नायं परात्मास्यात् विज्ञा­न­म­य­श­ब्द­भाक् ।
विका­रि­त्वा­ज्ज­ड­त्वाच्च परि­च्छि­न्न­त्व­हे­तुतः ।
दृश्यत्वाद् व्यभि­चा­रि­त्वा­न्ना­नित्यो नित्य इष्यते ॥२०८॥

२०८

अतः वक्ष्य­मा­ण­हे­तुभ्यः विका­रि­त्व­ज­ड­त्व­प­रि­च्छि­न्न­त्व­दृ­श्य­त्व­व्य­भि­चा­रि­त्व­रू­पेभ्यः विज्ञा­न­म­य­श­ब्द­भाक् विज्ञानमय इति शब्दं भजत इति विज्ञा­न­म­य­श­ब्द­भाक् अयं कोशः परात्मा मुख्यात्मा न स्यात् । मरुतोयवत् आभा­स­मा­त्र­स­त्ता­श्र­य­त्वतः दृष्ट­न­ष्ट­स्व­रू­प­त्वात् । ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इत्यादिश्रुतेः, ‘नित्यत्वाच्च ताभ्यः’(ब्र.सू. २.३.१७) इति सूत्रेण नित्य­मु­क्त्य­न्व­यि­त्व­युक्त्या च नित्य आत्मा विका­रि­त्वा­दि­हे­तुभिः अनित्यः विज्ञानमयकोशः नेष्यते । विज्ञानमयकोशः आत्मभिन्नः विकारित्वात् जडत्वात् परि­च्छि­न्न­त्वात् दृश्यत्वात् व्यभिचारित्वात् स्थूलदेहवत् इति प्रयोगः । हेतुबाहुल्यम् अना­त्म­त्व­दा­र्ढ्या­र्थम् । एतावत्सु हेतुषु सत्स्वपि तत्र मोहादात्मत्वं कल्पितमिति पौनःपुन्येन बहुविधतया अनात्मत्वं द्रढनीयमिति वैभवम् । तत्र विकारित्वं जन्मनाशवत्त्वम् , जडत्वम् अस्वप्रकाशत्वम् , परिच्छिन्नत्वम् असर्वगतत्वम् , दृश्यत्वं चिद्विषयत्वम् , व्यभिचारित्वम् अभा­व­प्र­ति­यो­गि­त्व­मिति भेदः ॥२०८॥

इदा­नी­मा­न­न्द­म­य­कोशं निरूपयति आनन्देति −

२३. आन­न्द­म­य­को­श­वि­वेकः

आन­न्द­प्र­ति­बि­म्ब­चु­म्बि­त­तनुः वृत्ति­स्त­मो­जृ­म्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टा­र्थ­ला­भो­दयः ।
पुण्यस्यानुभवे विभाति कृति­ना­मा­न­न्द­रूपः स्वयं
भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०९॥

२०९

आनन्दस्य पर­मा­त्म­स्व­रू­पा­न­न्दस्य प्रतिबिम्बः प्रतिफलनं तेन चुम्बिता व्याप्ता तनुः शरीरं स्वरूपं यस्याः वृत्तेः सा आन­न्द­प्र­ति­बि­म्ब­चु­म्बि­त­तनुः, तमोजृम्भिता तमसा अविद्यया जृम्भिता जनिता अवि­द्या­प­रि­णा­म­रूपा वृत्तिः आनन्दमयकोशः स्यात् । स्फुटतया तं बुद्धावारोहयति प्रियादिगुणक इति । ‘तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।’(तै.उ. २.५) इति श्रुत्या इष्ट­व­स्तु­द­र्श­न­ला­भ­भो­ग­ज­न्य­सु­ख­वि­शे­षा­व­य­वकः प्रिया­दि­प्र­मो­दान्तः गुणः अवयवः यस्य स इति विग्रहः । तस्य कादाचित्कत्वमाह स्वेष्टेति । स्वस्य इष्टः स्वेष्टःस चासावर्थश्च स्वेष्टार्थः पुत्रमित्रादिः शब्दादिर्वा तस्य लाभे, लाभ इत्युपलक्षणं दर्शनभोगयोः, तदा उदयः उत्पत्तिः यस्य सः कोशः­स्वे­ष्टा­र्थ­ला­भो­दयः । कृतिनां धीमतां पुण्यस्य प्राक्कृतस्य फलोन्मुखस्य अनुभवे फलानुभवकाले विभाति विशेषेण भाति । तमेवार्थं स्पष्टयति यत्र यस्मिन्काले तनुभृन्मात्रः सर्वोऽपि शरीरी प्रयत्नं विना, तात्का­लि­क­प्र­यत्नं विना इत्यर्थः । पुण्यस्यानुभवे इति पूर्वप्रयत्नस्य हेतूकृतत्वात् । स्वयमानन्दरूपः भूत्वा यदा आनन्दरूपः भूत्वा साधु नन्दति तदा आनन्दमयकोशेन योगः अवगन्तव्य इति भावः । वक्ष्यति च −

देह­प्रा­णे­न्द्रि­य­म­नो­बु­द्ध्या­दि­भि­रु­पा­धिभिः ।
यैर्यै­र्वृ­त्ते­स्स­मा­योगः तत्तद्भावोऽस्य योगिनः ॥ (श्लो. ३७१) इति ।

तथा च पुण्यवशात् सुखाकारा जाग्र­त्स्व­प्नयोः सम्भवन्ती तामसी वृत्तिः­आ­न­न्द­म­य­कोशः इत्युक्तं भवति । तस्यापि स्वरू­पा­व­र­क­त्व­म­स्त्येव । न हि तद्योगे निरामयं सुखं नित्यं निरुपाधिकं सुज्ञानम् । अत एव ‘न प्रहृ­ष्ये­त्प्रियं प्राप्य’(भ.गी. ५.२०) , ‘आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।’, (दे.भा. ५.४.३८) ‘हृष्टो दृप्यति दृप्तो धर्म­म­ति­क्रा­मति’, (आ.ध.सू. १.१३.४) ‘हर्षा­म­र्ष­भ­यो­द्वेगैः मुक्तो यस्स च मे प्रियः’(भ.गी. १२.१५) इत्यादिप्रमाणैः हेयत्वं तस्य । अत्र पुण्यशब्देन काम्य­क­र्म­ज­न्य­म­पूर्वं ग्राह्यम् । ‘मुक्तिर्नो शत­को­टि­ज­न्म­सु­कृतैः पुण्यैर्विना लभ्यते’(श्लो. २) , इति ‘कर्म अशुक्लाकृष्णं योगिनः त्रिवि­ध­मि­त­रे­षाम्’(पा.यो. ४.७) इति −

वृत्ती­ना­म­नु­वृ­त्तिस्तु प्रय­त्ना­त्प्र­थ­मा­दपि ।
अदृ­ष्टा­द्वाऽ­स­कृ­द­भ्या­स­सं­स्का­र­स­चि­वा­द्भ­वेत् ॥ (पञ्चदशी १.५७)

इत्यादिना योगजपुण्यस्य ज्ञानद्वारा अना­वृ­ता­न­न्दा­भि­व्य­ञ्ज­क­त्वम् आन­न्दा­व­र­क­त­मो­भ­ञ्ज­क­त्वम् इति तादृशानन्दस्य कोशत्वाभावात् तदा तमो­जृ­म्भि­त­त्वा­भा­वात् वृत्तेरिति बोध्यम् ॥२०९॥

तामसी सुखाकारवृत्तिः आनन्दमयकोशः इतिकृत्वा सुषुप्तौ तस्य उत्कटत्वं दर्शयति । तदानीं पुण्याजन्यस्य स्वरूपसुखस्यैव अवि­द्या­वृ­त्ति­वि­ष­य­त्वात् । प्रत्यहम् आरब्धपुण्यक्षय एव दैन­न्दि­न­प्र­ल­य­रू­प­सु­षु­प्ति­स­म्भ­वात् । उक्तं हि सूत्रभाष्ये ‘उभयथापि न कर्मातस्तदभावः’(२.२.१२) इति सूत्रे ‘अदृष्टमपि भोग­प्र­सि­द्ध्यर्थं न प्रल­य­प्र­सि­द्ध्य­र्थ­मिति’ −

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।
स्वप्न­जा­ग­र­यो­री­ष­दि­ष्ट­स­न्द­र्श­ना­दिना ॥२१०॥

२१०

उत्कटा अधिका, स्फूर्तिः स्फुरणं, सुषुप्तौ आनन्दमयकोशस्य । तदा सुखस्य दुःखा­स­म्भि­न्न­त्वा­दिति भावः । तथा­प्य­ज्ञा­ने­ना­वृ­त­त्वात् न मुख्या­न­न्द­रू­प­त्वम् । स्वप्नजागरयोः, ईषत् स्वल्पा, स्फूर्तिः इष्ट­स­न्द­र्श­ना­दिना । आदिपदेन लाभभोगपरिग्रहः । तदा भिन्न­वि­ष­य­क­वृ­त्तिभिः अस्या वृत्तेः नाश्यमानत्वात् सुषुप्तौ वृत्त्य­न्त­रा­भा­वात् उत्कटत्वमिति भावः ॥२१०॥

तस्या­प्य­ना­त्मत्वं वदति नैवेति −

नैवायमानन्दमयः परात्मा
सोपाधिकत्वात् प्रकृ­ते­र्वि­का­रात् ।
कार्यत्वहेतोः सुकृतक्रियाया
विका­र­स­ङ्घा­त­स­मा­हि­त­त्वात् ॥२११॥

२११

अयमानन्दमयः, परात्मा मुख्यात्मा, नैव । तत्र हेतवः सोपाधिकत्वात् , सनिमित्त्वात् इत्यर्थः । इष्ट­स­न्द­र्श­ना­दि­ज­न्य­त्वात् प्रकृतेः मूल­प्र­कृ­ते­र­वि­द्यायाः विकारात् । विकारत्वात् इत्यर्थः । तमो­जृ­म्भि­त­वृत्तेः तथात्वात् । सुकृतक्रियायाः पुण्यकर्मणः, कार्यत्वहेतोः कार्यत्वात् । ‘पुण्यस्यानुभवे विभाति’(श्लो. २०९) इत्युक्ततया सुखाकारा विद्यावृत्तेरपि जाग­र­स्व­प्न­का­लि­कायाः पुण्यजन्यत्वात् । विका­र­स­ङ्घा­त­स­मा­हि­त­त्वात् प्रियादिगुणक इत्यनेन ‘तस्य प्रियमेव शिरः’(तै.उ. २.५) इत्यादिश्रुत्या दर्श­न­ला­भ­भो­ग­ज­न्य­सु­ख­रू­पा­व­य­व­स­मु­दा­य­स­ञ्ज­नि­त­त्वात् । पुण्यवशात् इष्टार्थदर्शने लाभे च तमो­मि­श्र­स­त्वो­द्भवे जायमानावृत्तिः सुखाकारा अहं सुखीतिरूपा एवं भोगे ‘कोन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये’(भ.गी. १६.१५) इत्यादिरूपा उत्कृष्यमाणा । तस्याः पुण्ये­ष्ट­वि­ष­या­दि­वि­का­र­ज­न्य­त्वा­दिति वा अर्थः ॥२११॥

कोश­प­ञ्च­क­वि­वे­का­न­न्त­र­कृ­त्य­माह पञ्चानामिति −

२४. साक्षिस्वरूपम्

पञ्चानामपि कोशानां निषेधे युक्तितः कृते ।
तन्निषेधावधिः साक्षी बोध­रू­पोऽ­व­शि­ष्यते ॥२१२॥

२१२

पञ्चानामपि कोशानां निषेधे प्रतिकोशं नायमात्मा इति निषेधे निराकरणे सति, तन्निषेधावधिः तद्बा­धा­धि­ष्ठा­न­भूतः साक्षी । यत्पर्यन्तं निषेधः सः अवधिः सीमा इति यावत् । साक्षी साक्षि­त्वो­प­ल­क्षितः । बोधरूपः केव­ल­नि­र्वि­ष­य­ज्ञा­न­स्व­रूपः अवशिष्यते ॥२१२॥

स एव मुख्यात्मेति ज्ञेय इत्याह योऽयमिति −

योऽयमात्मा स्वयं ज्योतिः पञ्चकोशविलक्षणः ।
अव­स्था­त्र­य­साक्षी सन्निर्विकारो निरञ्जनः ।
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥२१३॥

२१३

यः अवशिष्यते अयमात्मा इति पूर्वश्लोकेन सम्बन्धः । उप­क्र­मै­क­वा­क्य­तया पर­मा­त्म­नि­रू­प­ण­मु­प­सं­ह­रति ।

अस्ति कश्चित्स्वयं नित्यम् अहं­प्र­त्य­य­ल­म्बनः ।
अव­स्था­त्र­य­साक्षी सन् पञ्चकोशविलक्षणः ॥ (श्लो. १२७)

इत्यादिना उपक्रान्तः, एतावता कोशपञ्चकनिषेधेन तद्विलक्षणतया उपपादितः, जाग्रदादिसाक्षी अबाध्यः विकारशून्यः निर्लेपः सदा आनन्दस्वरूपः सः विपश्चिता विवेककुशलेन स्वात्मत्वेन स्वस्वरूपतया विज्ञेयः । येष्वात्मत्वं कल्पितं तेषां निरासे कृते तदधिष्ठानं ‘ब्रह्मपुच्छं प्रतिष्ठा’ इति (तै.उ. २.५) श्रुत्या बोध्यमानं परं ब्रह्मैव वास्तवस्वरूपम् । अत एवोक्तं श्रुत्या − ‘असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् , अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति’(तै.उ. २.६) इति । ब्रह्मणः स्वस्वरूपत्वे तदसदिति वेद चेत् , स्वस्यासत्वम् । तस्यान्यत्वे स्वेनात्मत्वेन ज्ञातानां कोशानां निरासे नैरात्म्यमेव प्रसज्येत इत्यर्थः ॥२१३॥

शिष्य उवाच −

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।
सर्वाभावं विना किञ्चित् न पश्याम्यत्र हे गुरो ।
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥२१४॥

२१४

स्पष्टोऽर्थः ॥२१४॥

श्रीगुरुरुवाच −

सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे ।
अह­मा­दि­वि­का­रास्ते तदभावोऽयमप्यथ ॥२१५॥

२१५

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥२१६॥

२१६

हे विद्वन् , त्वया सत्यमुक्तं यथाज्ञातं कथितम् । विचारणे निपुणोऽसि पूर्व­मु­च्चा­व­च­तया प्रतीतस्य सर्वस्यापि यथा न भानं तथा विचारस्य कृतत्वात् इति श्लाघया तद्बु­द्धि­मु­ल्लास्य वक्तव्यं सूक्ष्ममाह − अहमादीति । ते पूर्वमनुभूताः अहमादिविकाराः, अथ इदानीम् अयं तदभावोऽपि पूर्वप्रतीतानां सर्वेषामभावोऽपि । एते सर्वे येनानुभूयन्ते पूर्वमनुभूताः तादात्म्येन इदानीं पृथक्तया तदभावो वा अनुभूयते । यः स्वयं नानुभूयते तं वेदितारं सर्वसाक्षिणं सुसूक्ष्मया बुद्ध्या एकाग्रया अनन्यविषयकया बुद्ध्या आत्मानं विद्धि जानीहि ॥२१६॥

तदेवोपपादयति स्फुटतया ज्ञानाय तत्साक्षिकमिति −

तत्साक्षिकं भवेत्तत्तद् यद्य­द्ये­ना­नु­भू­यते ।
कस्या­प्य­न­नु­भू­तार्थे साक्षित्वं नोपपद्यते ॥२१७॥

२१७

यद्यत् येनानुभूयते अनु­भ­व­वि­ष­यी­क्रि­यते, तत्तत् सः साक्षी यस्य तत् तत्साक्षिकं भवेत् । त्वया सर्वाभावं विना किञ्चिन्न पश्या­मी­त्यु­क्त­त्वात् सर्वाभावं त्वं पश्यसीति सिद्धं भवति । त्वया दृष्टः सः अभावः त्वत्साक्षिक इति तत्साक्षी । त्वम् आत्मेति भावः । तत्र हेतुमाह − अननुभूतार्थे स्वकी­या­नु­भ­वा­वि­षये अर्थे कस्यापि पुरुषस्य साक्षित्वं नोपपद्यते अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् ॥२१७॥

सामान्यत उक्त्वा प्रकृते त्वाह असाविति −

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।
अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥२१८॥

२१८

असौ अह­मा­दि­स­र्व­वि­का­रा­णाम् अभावः, स्वसाक्षिकः । स्वं स्वयं साक्षी यस्य सः स्वसाक्षिकः । तत्र हेतुः − यतः यस्मात्कारणात् , स्वेन पञ्चानां कोशानां निषेधेऽपि अवशिष्टेन स्वेन अनुभूयते । तत्र सर्वाभावं विना किञ्चिन्न पश्या­मी­त्यु­क्ति­रेव मानं सर्वाभावं विना किचिन्न पश्यामीत्युक्तौ सर्वाभावं पश्या­मी­त्यु­क्त­मेव भवति इति तस्याभावस्य दर्शनविषयत्वम् , तव द्रष्टृत्वम् । अतः प्रत्यगात्मा, स्वयं साक्षात् नित्यापरोक्षं ‘यत्सा­क्षा­द­प­रो­क्षात् ब्रह्म’(बृ.उ. ३.४.१) इति श्रुतेः । परं सर्वोत्कृष्टं ब्रह्मैव । इतरो न च ब्रह्मभिन्नं नैवेत्यर्थः ॥२१८॥

उक्तमर्थं स्पष्टं विस्तरेण कथयति जाग्रदिति −

जाग्र­त्स्व­प्न­सु­षु­प्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा ।
नाना­का­र­वि­का­र­भा­जिन इमान् पश्य­न्न­ह­न्धी­मु­खान्
नित्या­न­न्द­चि­दा­त्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१९॥

२१९

प्रत्यग्रूपतया सर्वान्तरतया सदा एकधा एकरूपेण, अहमहमिति अनिदन्तया स्फुरन् स्वयं प्रकाशमानः, अहन्धीमुखान् अह­ङ्का­र­प्र­मु­खान् देहान्तान् कोशान् , नाना­का­र­वि­का­र­भ­जिनः नानाविधा ये आकाराः अव­य­व­सं­स्था­न­वि­शेषाः, ते च विकाराः जन्म­स्थि­ति­वि­प­रि­णा­म­वृ­द्ध्य­प­क्ष­य­ना­श­रूपा ये नाना बहवः विकाराः तान् भजन्त इति नाना­का­र­वि­का­र­भा­जिनः तान् । अह­ङ्का­र­स्या­प्य­न्तः­क­र­ण­प­द­वा­च्यस्य देहाद्याकारेण परिणममानत्वात् नानाकारत्वं बोध्यम् । इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन् , जाग्र­त्स्व­प्न­सु­षु­प्तिषु सक­ल­प्रा­णि­सि­द्धासु तिसृ­ष्व­प्य­व­स्थासु, स्फुटतरम् अतिस्फुटं योऽसौ । अविवेकिन विप्र­क­र्षा­द­द­श्श­ब्द­प्र­योगः । समुज्जृम्भते परनिरपेक्षं भासते । नित्या­न­न्द­चि­दा­त्मना स्वय­म्प्र­का­श­नि­त्या­न­न्द­स्व­रू­पेण हृदि स्फुरति तमेतम् अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं स्वं स्वात्मानं विद्धि जानीहि ॥२१९॥

एवं सर्वसाक्षितया स्फुटस्य कुतस्तथा विविक्ततया अग्रहणमिति शङ्कायां मौढ्यमेव मूलमिति सदृष्टान्तमाह घटोदक इति −

घटोदके बिम्बि­त­म­र्क­बि­म्बम्
आलोक्यमूढो रविमेव मन्यते ।
तथा चिदा­भा­स­मु­पा­धि­संस्थं
भ्रान्त्या­ह­मि­त्येव जडोऽभिमन्यते ॥२२०॥

२२०

मूढः घटोदके घटा­न्त­र्व­र्ति­जले बिम्बितं प्रतीयमानम् अर्कबिम्बं सूर्यमण्डलं प्रतिबिम्बम् आलोक्य दृष्ट्वा रविमेव मन्यते । न तस्य तत्र सूर्यः भिन्नः अयन्तु तत्प्रतिबिम्ब इति ज्ञानम् , तथा उपाधिसंस्थम् उपाधिषु बुद्ध्यादिषु प्रतीयमानं चिदाभासं चित्प्रतिबिम्बं भ्रान्त्या अविवेकेन अहमित्येव अभिमन्यते भ्राम्यति विपरीतं प्रतिपद्यते इत्यर्थः ॥२२०॥

वस्तुतस्तु −

घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं दिवि वीक्ष्यतेऽर्कः ।
तट­स्थि­त­स्त­त्त्रि­त­या­व­भा­सकः
स्वयम्प्रकाशो विदुषा यथा तथा ॥२२१॥

२२१

घटमिति । घटं जलं तद्गतं घटगतजलगतम् अर्कबिम्बं सूर्य­प्र­ति­बिम्बं सर्वं विहाय । तटस्थितः उदासीनः, त्रीनेतान् अतिरिच्य वर्तमानः । तत्र हेतुः तत्त्रि­त­या­व­भा­सकः घट­त­द्ग­त­ज­ल­त­द्ग­त­प्र­ति­बि­म्ब­रू­प­प­दा­र्थ­त्र­य­प्र­का­शकः । स्वयम्प्रकाशः स्वेत­र­ब­हि­र्ज्यो­ति­र­न­व­भास्यः यथा अर्कः सूर्यः दिवि वीक्ष्यते अन्तरिक्षे अवलोक्यते तथा ॥२२१॥

देहं धियं चित्प्र­ति­बि­म्ब­मेतं
विसृज्य बुद्धौ निहितं गुहायाम् ।
द्रष्टा­र­मा­त्मा­न­म­ख­ण्ड­बोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥

२२२

नित्यं विभुं सर्वगतं सुसूक्ष्मम्
अन्त­र्ब­हि­श्शू­न्य­म­न­न्य­मा­त्मनः ।
विज्ञाय सम्य­ङ्नि­ज­रू­प­मे­तत्
पुमान्विपाप्मा विरजा विमृत्युः ॥२२३॥

२२३

देहमिति । देहं घटवदवस्थितं स्थूलदेहं धियं स्वच्छतया सूक्ष्मतया च जल­व­त्त­द­न्त­र्गतां बुद्धिं, गुहायाम् आवारकत्वेन अने­का­न­र्थ­स­ङ्कु­लायां गुहासदृश्यां बुद्धौ निहितं च एतं भ्रान्त्या अहमिति प्रतीयमानं चित्प्रतिबिम्बं विसृज्य त्यक्त्वा । पूर्ववत् तटस्थितं तत्त्रि­त­या­व­भा­सकं द्रष्टारं सर्वसाक्षिणम् आत्मानं सर्वान्तरम् । अखण्डबोधम् अप­रि­च्छि­न्न­ज्ञा­न­स्व­रू­पम् । अत एव सर्वप्रकाशं सर्वस्य प्रकाशः यस्मात् तम् । सदसद्विलक्षणं सत् प्रत्यक्षं तेजः आपः अन्नं च । असदप्रत्यक्षं वायुराकाशं च । एद्विलक्षणं तद्भिन्नं व्यक्ता­व्य­क्त­भि­न्न­मिति वा अर्थः । नित्यं काल­प­रि­च्छे­द­शून्यं विभुं देश­प­रि­च्छे­द­शून्यं सर्वगतं सर्वोपादानतया अन्वयिनम् । अथापि सुसूक्ष्मं रूपादिरहिततया दुर्ज्ञेयम् ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते’(क.उ. १.३.१२) इति श्रुतेः । अन्त­र्ब­हि­श्शून्यं ‘अन­न्त­र­म­बा­ह्यम्’(बृ.उ. ३.८.८) इति श्रुतेः । आत्मनः अनन्यं न अन्यः अनन्यः आत्मनः ब्रह्मणः भेदरहितं ‘अयमात्मा ब्रह्म’(मा.उ. २) इति श्रुतेः । पूर्वो­क्त­यु­क्तेश्च । यद्वा अनन्यं न विद्यते अन्यः यस्मात् सः अनन्यः अद्वितीयः इत्यर्थः तम् । आत्मनः निजरूपं वास्तविकस्वरूपं विज्ञाय एतत् । पुमान् पूर्वमन्यथा ज्ञातवान् एष एव पुमान् विपाप्मा विगतपापः ‘ज्ञानाग्निः सर्वकर्माणि’(भ.गी. ४.३७) इत्यादिस्मृतेः । तत्र हेतुः विरजाः निर्गु­ण­ब्र­ह्म­नि­ष्ठ­तया तत्स्वरूपतया च ताप­हे­तु­र­ज­श्शून्यः पापपदं पुण्य­स्या­प्यु­प­ल­क्ष­कम् , तस्यापि बन्धकत्वेन मुमु­क्षो­र­नि­ष्ट­त्वात् अत एव जन्म­नि­मि­त्त­क­र्म­शू­न्य­तया विमृत्युः मृत्यु­स­हि­त­सं­सा­र­र­हित इत्यर्थः । स्वरू­प­च्यु­ति­शून्य इति यावत् । भवतीति शेषः । ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति सनत्सुजातोक्तेः ॥२२३॥

अत एव −

विशोक आनन्दघनो विपश्चित्
स्वयं कुत­श्चि­न्न­बि­भेति कश्चित् ।
नान्योऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः ॥२२४॥

२२४

विशोकः निर्दुःखः अत एवानन्दघनः आनन्द एव घनः मूर्तिः यस्य सः आनन्दघनः निरा­म­या­न­न्द­स्व­रूपः इत्यर्थः । विपश्चित् , सर्वज्ञ इत्यर्थः सर्वा­त्म­क­ब्र­ह्म­वि­त्त्वात् , स्वयं कुतश्चित् न बिभेति द्वितीयाभावात् । अतः मुमुक्षोः नित्य­नि­र­ति­श­य­नि­रा­म­य­स्व­य­म्प्र­का­श­सु­ख­रू­प­मो­क्षे­च्छा­वतः स्वतत्वावगमं विना स्वया­था­म्या­व­बोधं विना भव­ब­न्ध­मु­क्तेः­पन्थाः अन्यः कश्चित् नास्तीत्यन्वयः ॥२२४॥

एवं त्वम्प­दा­र्थ­म­व­स्था­त्र­य­सा­क्षि­त्वेन पञ्च­को­श­वि­ल­क्ष­ण­त्वेन असङ्गत्वेन विशोध्य सप्रपञ्चत्वेन ज्ञातं तत्पदवाच्यार्थं परिशोध्य तयोरैक्यं सर्वो­प­नि­ष­त्ता­त्प­र्य­वि­ष­यी­भूतं सम्प्र­दा­या­नु­सा­रेण विस्तरेण वक्तुं पातनिकामारचयति ब्रह्मेत्यादिना −