अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: तृतीयोऽनुवाकः

अथातः संहिताया इत्या­दे­स्ता­त्प­र्य­माह —
अधुनेति ।
वर्णा­ना­म­त्य­न्त­सा­मीप्यं संहिता, तद्वि­ष­यो­प­नि­ष­दु­पा­स­न­मि­दा­नी­मु­च्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नो­प­नि­ष­च्छेषः ।

संहि­तो­प­नि­ष­च्छे­ष­मा­शी­र्वा­दा­न्तरं प्रथममाह —
तत्रेति ।
उप­नि­ष­त्प­रि­ज्ञा­न­मु­पा­स­न­वि­ष­यकं ज्ञानम् ; तच्च शिष्य­स्या­चा­र्यो­प­दे­श­ज­नि­त­मा­चा­र्यस्य च तदु­प­दे­श­प्र­यो­ज­कम् , तन्निमित्तकं यश इत्यर्थः ।

तेज इति ।
मुख­का­न्त्या­दि­रू­प­मु­प­नि­ष­त्प­रि­ज्ञा­न­नि­मि­त्त­क­मि­त्यर्थः ।

ननु सहैवास्त्विति केन प्रार्थ्यते ? तत्राह —
शिष्यवचनमिति ।

तत्र विनिगमकमाह —
शिष्यस्य हीति ।
तस्या­कृ­ता­र्थत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वा­चा­र्योऽ­प्य­कृ­तार्थ एव शिष्य­सा­पे­क्ष­त्वा­दिति ; नेत्याह —
कृतार्थो हीति ।
न ह्याचार्यस्य स्वप्र­यो­ज­न­सि­द्ध्यर्थं शिष्या­पे­क्षास्ति, किं तु केवलं तद­नु­ग्र­हा­र्थ­मे­वा­चा­र्य­प्र­वृ­त्ति­रिति भावः । नन्वे­व­मा­चा­र्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते ? स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्व­वृ­त्त­स्या­न­न्त­र­मिति सम्बन्धः ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतु­र­तः­श­ब्दे­नोक्त इत्याह —
यतोऽत्यर्थमिति ।
ज्ञानमुपासनम् , तदेव विषयः, तस्मि­न्नि­त्यर्थः ।

ग्रन्थ­सं­नि­कृ­ष्टा­मे­वेति ।
संहि­ता­रू­प­ग्र­न्थ­प्र­धा­ना­मे­वेति यावत् ।

नन्व­धि­क­र­णे­ष्विति सप्तम्या लोकादिषु संहि­ता­दृ­ष्टि­वि­धि­रिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहि­ता­दृ­ष्ट्यो­पा­स्यत्वं स्यात् ; तच्चो­प­क्र­मो­प­सं­हा­र­वि­रु­द्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवो­पा­स्य­त्वा­व­ग­मा­दि­त्या­श­ङ्क्याह —
ज्ञान­वि­ष­ये­ष्वि­त्यर्थ इति ।
अधिकरणपदस्य विष­य­प­र­त्वो­क्ति­रु­प­ल­क्ष­णम् ; सप्तमी तृती­या­र्थ­प­रे­त्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहि­तै­वो­पा­स्येति लभ्यते, अतो न विरोध इति भावः ।

लोकेष्वधीति ।
लोकविषयकमिति यावत् । एवमुत्तरत्रापि ।

अत्र विधि­त्सि­ता­ना­मु­पा­स­नानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे —
ता एता इति ।

अथा­धि­लो­क­म­था­धि­ज्यो­ति­ष­मि­त्या­दि­वा­क्य­स्था­थ­श­ब्दा­ना­म­र्थ­माह —
दर्शनक्रमेति ।
अत्रो­पा­स­न­स्यै­क­त्वेन कर्तु­रे­क­त्वा­ल्लो­का­दि­भे­देन प्रयो­ग­भे­दा­च्चा­व­श्य­म्भा­विनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्नि­रू­पि­त­क्र­मार्था इति भावः ।

उपनिषदः कथं कर्तव्या इत्या­का­ङ्क्षा­या­माह —
तासामित्यादिना ।

ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयो­र्भे­दा­दि­त्या­श­ङ्क्याह —
पूर्ववर्ण इति ।
मनो ब्रह्म इत्यादिवदत्र सामा­ना­धि­क­र­ण्य­मिति भावः ।

मध्यमिति ।
पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्स­न्धि­श­ब्द­वाच्यं पूर्वो­त्त­र­रू­प­यो­र्म­ध्यम् , तत्रा­न्त­रि­क्ष­लो­क­दृष्टिः कर्तव्येत्यर्थः ॥

वायुरिति ।
सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धा­न­श­ब्द­वाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चो­प­रि­त­न­स्त­कारः स द्युलोकः ; तयो­र्व­र्ण­यो­र्म­ध्य­दे­शोऽ­न्त­रि­क्ष­लोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भा­वे­ना­पा­दितो योऽन्यस्तकारः स वायुरिति ।

समानमिति ।
अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिः­श­ब्दे­नात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्ते­वा­स्यु­त्त­र­रू­पम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्य­धि­वि­द्य­मि­त्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्या­श­ब्द­श्चा­ध्ये­त­व्य­ग्र­न्थ­परः । ग्रन्थ­स्या­ध्य­य­न­म­ध्या­पनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्य­धि­प्र­ज­मि­त्यत्र प्रजाशब्दो मात्रादीनपि पूर्व­व­त्स­ङ्गृ­ह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तद­व­य­व­वि­ष­य­मु­पा­स­न­म­ध्या­त्म­मि­त्यर्थः । एतेषु समानं योजनमित्यर्थः ।

उपप्रदर्श्यन्त इति ।
उपसंह्रियन्त इति यावत् ।

वेदेत्यस्य ज्ञान­वा­चि­त्वा­त्कथं ज्ञाना­वृ­त्ति­रू­पो­पा­स­न­प­र­त्व­मि­त्या­शङ्क्य तत्साधयति —
वेदेत्युपासनं स्यादित्यादिना ।

विज्ञा­ना­धि­का­रा­दिति ।
उपा­स्ति­प्र­क­र­णा­दि­त्यर्थः ।

तत्र मानमाह —
इति प्राचीनेति ।
यथा­शा­स्त्र­मि­त्य­नेन यत्रा­ह­ङ्ग्र­ह­श्चो­दि­त­स्त­त्रा­ह­ङ्ग्र­हेण, अन्यत्र तं विनेति विवक्षितम् । तुल्य­त्व­मे­क­वि­ष­य­क­त्वम् ।

अत­त्प्र­त्य­यै­रिति ।
ध्येयान्यगोचरैः प्रत्य­यै­रि­त्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्य­य­स­न्त­ति­रु­पा­स­न­मिति निष्कर्षः ।

ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदा­वृ­त्त्ये­त्या­शङ्क्य क्रिया­वृ­त्ता­वे­वो­पा­स­न­शब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्य­य­क्रि­या­वृ­त्ति­रेव लक्ष­णी­ये­त्या­श­ये­नाह —
प्रसि­द्ध­श्चे­त्या­दिना ।

ननु तत्रापि सकृ­दु­प­चा­र­क्रि­यै­वो­पा­स­नम् ; नेत्याह —
यो हीति ।

पृथिवी पूर्व­रू­प­मि­त्या­दि­वे­द­न­मा­त्रा­त्फ­ला­स­म्भ­वा­द­प्यु­पा­स­न­मे­वात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽ­प्यु­पा­स­नस्य फल­व­त्त्व­सि­द्धे­रि­त्या­श­ये­नाह —
स चेति ।
गुर्वाद्युपासक इत्यर्थः ।

अतोऽत्रापीति ।
गुर्वा­द्यु­पा­स­नस्य लोके फल­व­त्त्व­द­र्श­नात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः ।

सन्धीयत इति ।
सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फला­भि­स­न्धि­र­हि­तेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्म­वि­द्या­सं­नि­ध्या­म्ना­न­ब­ला­त्क­ल्प्यत इति मन्तव्यम् ॥