अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: चतुर्थोऽनुवाकः

तथा च यत­श्चि­दे­क­र­सा­दा­न­न्दा­न्म­नसा सह वाचस्तमप्राप्य निवर्तन्ते तं ब्रह्मणः स्वरू­प­भू­त­मा­नन्दं मनोमयस्य शिरःपक्षादिरूपं विद्वानुपासीनः कदापि न बिभेतीति योजना । यद्वा मनो­म­या­त्म­प्र­का­शक इति भाष्यं यथाश्रुतमेव । न चैव­म­ब्र­ह्म­स्व­रू­पस्य मनोमयात्मनः श्लोक­प्र­ति­पा­द्य­ब्र­ह्मा­त्म­त्वा­स­म्भ­वा­द­स­ङ्ग­ति­रिति वाच्यम् ; अब्रह्मण्यपि तस्मि­न्ब्र­ह्म­त्व­म­ध्या­रोप्य श्लोक­प्र­वृ­त्त्यु­प­पत्तेः । न चारोपे निमि­त्त­प्र­यो­ज­न­यो­र­भाव इति वाच्यम् ; ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वेन निमित्तेन तस्मि­न्ब्र­ह्म­त्वा­रो­पा­भ्यु­प­ग­मा­दा­रो­पस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुति­रू­प­प्र­यो­ज­न­स­म्भ­वाच्च ; तथा च वक्ष्यति - ‘मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वा­त्तत्र ब्रह्म­त्व­म­ध्या­रो­प्येति’ ; तथा च अवा­ङ्म­न­स­गो­च­र­ब्र­ह्म­त्वेन स्तुतस्य मनोमयस्य स्वरूपं यजु­रा­द्य­व­य­वो­पेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति काद­च­ने­त्य­ध्या­हा­रेण योजना । अथवा मन्त्रे ब्रह्मण इति मनस एव निर्देशः । मनो­म­य­को­श­स्या­त्रा­प­र­ब्र­ह्म­दृ­ष्टि­भा­क्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम् , मनसः साक्षि­प्र­त्य­क्ष­सि­द्ध­स्या­ज्ञा­त­त्वा­भा­वेन शब्द­ग­म्य­त्वा­भा­वात् स्वस्य स्ववि­ष­य­त्वा­भा­वेन मनो­गो­च­र­त्वा­भा­वाच्च । तथा च अवाङ्मनसगोचरस्य मनोमयाख्यस्य ब्रह्मणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या । वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धि­स्थ­त्वा­द्वि­ज्ञा­न­मय इत्यत्र वेदार्थज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह –
वेदात्मोक्त इति ।

ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तद­व­य­व­भू­त­वृ­त्ति­वि­शे­षा­नु­गतं चैतन्यमेव नान्य­दि­त्यु­क्तम् , तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशङ्कां वारयति –
तच्चेति ।

यद्वा वेदा­र्थ­गो­च­र­वि­ज्ञा­न­स्या­त्म­ध­र्म­त्वा­द्व­क्ष्य­मा­ण­रीत्या तन्म­य­त्व­म­न्तः­क­र­णस्य कथमित्याशङ्क्य हेत्वसिद्धिमाह –
तच्चेति ।

धर्म इति ।
अत्र प्रकृ­त्य­र्थ­त्वेन विवक्षितं विज्ञा­न­म­न्तः­क­र­ण­धर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूट­स्थ­नि­त्य­त्वा­दि­त्यर्थः ।

तन्मय इति ।

ननु विज्ञानमयत्वं विज्ञा­न­वि­का­र­त्वम् , तच्च कथमन्तःकरणस्य तद्ध­र्मि­ण­श्च­तु­र्थ­को­श­त्वे­नात्र विवक्षितस्य सम्भ­व­ती­त्या­श­ङ्क्याह –
निश्चयेति ।
यद्यपि मनो­म­य­को­शोऽ­प्य­न्तः­क­र­ण­मेव तथापि संश­य­वृ­त्त्य­व­स्थ­म­न्तः­क­रणं मनोमयः निश्च­य­वृ­त्त्य­व­स्थ­म­न्तः­क­र­ण­मेव विज्ञानमय इत्यवस्थाभेदेन भेद इति भावः । यद्वा केवलमन्तःकरणं मनोमयः तप्ता­यः­पि­ण्ड­व­च्चै­त­न्य­ता­दा­त्म्या­पन्नं तदेव विज्ञानमय इति भेदः ।

प्रमा­ण­स्व­रू­पै­रिति ।
प्रमा­रू­पै­र्वि­ज्ञा­नै­र्वि­शे­ष­ण­भू­तै­स्त­द्वि­शि­ष्ट­तया निर्वर्तितो निष्पा­दि­तोऽ­न्तः­क­र­णात्मा धर्मी विज्ञा­न­म­य­श­ब्द­वा­च्य­ता­मा­पन्नः सन्म­नो­म­य­स्या­भ्य­न्तर आत्मा भवतीत्यर्थः । विशिष्टरूपस्य विशे­ष­णा­य­त्त­त्वा­नु­भ­वा­द्वि­शि­ष्टस्य विशेषणविकारत्वं सम्भवतीति भावः ।

निश्चयरूपं वेदा­र्थ­वि­ज्ञा­न­मेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह –
प्रमा­ण­वि­ज्ञा­नेति ।
तायते, तनोतेरिदं रूपम् ; विस्तार्यत इत्यर्थः ।

ततः किम् ? अत आह –
यज्ञादीति ।
'विज्ञानं यज्ञं तनुते’ इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्य­मा­ण­त्वा­दत्र ब्राह्मणेऽपि विज्ञानं यज्ञा­नु­ष्ठा­न­हे­तु­वे­दा­र्थ­ज्ञा­न­मे­वे­त्यर्थः । एतेन अन्न­म­य­प्रा­ण­म­य­म­नो­म­य­श­ब्देषु प्रकृत्यर्थतया आधि­दै­वि­का­ना­म­न्न­प्रा­ण­म­नसां गृहीतत्वात् भृगुवल्ल्यां कोश­वा­क्य­ग­ता­न्न­प्रा­ण­म­नो­वि­ज्ञा­न­प­दो­पा­त्ता­ना­मा­धि­दै­वि­का­न्ना­दी­ना­मिह प्रकृतिभिः प्रत्य­भि­ज्ञा­य­मा­न­त्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थतया निश्चयावस्थं सम­ष्ट्य­न्तः­क­र­ण­मेव ग्राह्यम् , एवं सति मय­ड­र्थ­भू­त­वि­का­र­त्व­म­प्य­स्म­दा­द्य­न्तः­क­र­णस्य मुख्यमेव सम्भवतीति शङ्का निरस्ता ; अत्रै­का­र्थ­वि­ष­य­तया प्रवृ­त्त­यो­र्म­न्त्र­ब्रा­ह्म­णयोः श्रुतस्य विज्ञा­न­प­द­स्या­व­श्य­मे­का­र्थ­ताया वक्त­व्य­त्वा­न्मन्त्रे च विज्ञानपदस्य वेदा­र्थ­ज्ञा­न­प­र­त्वस्य निश्चितत्वाद् मन्त्रेणैव प्रकृ­त्य­र्थ­स्या­न्यथा व्याख्याने क्रियमाणे सति पूर्वो­क्ता­धि­दै­वि­क­प्रा­य­पा­ठा­दे­र­कि­ञ्चि­त्क­र­त्वा­दिति भावः । यद्वा विज्ञा­न­प­द­स्या­धि­दै­वि­क­वि­ज्ञा­न­प­र­त्व­मु­क्त­प्र­मा­ण­सिद्धं कृत्वा वेदा­र्थ­वि­ज्ञा­न­प­र­त­यापि व्याख्यानं सम्भ­व­ती­त्या­श­ये­नास्य भाष्यस्य प्रवृ­त्ति­रु­प­पा­द­नीया, मन्त्र­ब्रा­ह्म­ण­यो­रे­क­को­शो­पा­स्ति­वि­ष­य­त्व­मा­त्रेण सङ्गत्युपपत्तेः ; अत एव कोश­वा­क्य­वि­व­र­ण­रू­प­यो­र्भा­ष्य­वा­र्त्ति­क­यो­स्ता­त्प­र्य­नि­रू­प­णा­व­सरे श्रीम­दा­न­न्द­गि­र्या­चा­र्यै­रु­क्तम् - ‘अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्रयं सूत्रा­त्म­रू­प­मन्नं विराट् कोश आनन्दः कारणकोशः’ इति । एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया प्रिय­मो­दा­दि­ग्र­हणं व्याख्या­ना­न्त­रा­भि­प्रा­य­मे­वेति सूचितं भवति । वस्तुतस्तु - भृगुवल्ल्यां पञ्चमपर्याये सर्व­भू­त­का­र­ण­त्वेन वक्ष्य­मा­ण­मा­न­न्द­रूपं ब्रह्मैव कार­ण­त्व­वि­शि­ष्ट­वे­षे­णा­न­न्द­मय इत्यत्र प्रकृत्यर्थः ; ‘आनन्द आत्मा’ इत्यत्र च कार­ण­त्व­प्र­यो­ज­क­मा­यो­प­हि­त­त्व­वे­षेण तदेवानन्दपदार्थ इति सर्वमनवद्यम् ।

तस्येति ।
वेदा­र्थ­नि­श्च­य­वतो या पूर्वं श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना । श्रद्धां विना वेदा­र्था­नु­ष्ठानं विफलमिति शास्त्री­य­प्र­सि­द्धि­सू­च­नार्थो विज्ञावतो हीति हि-शब्दः ।

यथाव्याख्याते इति ।
'ऋतं वदिष्यामि, सत्यं वदिष्यामि’ इत्यत्र यथाव्याख्याते एव ऋतसत्ये विज्ञानमयस्य दक्षि­णो­त्त­र­प­क्षा­वि­त्यर्थः ।

समाधानमिति ।
समाधानं समाधिः, स च तस्य आत्मा मध्यकायः ।

तत्र दृष्टान्तः –
आत्मेवेति ।
प्रसि­द्ध­दे­ह­म­ध्य­काय इवेत्यर्थः ।

समाधानस्य प्रसि­द्ध­दे­ह­म­ध्य­का­यस्य च किं साम्यम् ? अत आह –
आत्मवतो हीति ।
यथा आत्मवत आत्म­श­ब्दि­त­म­ध्य­का­य­वतः प्रसि­द्ध­दे­ह­स्या­ङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत् , तथा मुमु­क्षो­र्यु­क्तस्य श्रद्धा ऋतसत्यानि यथा­र्थ­श­ब्दि­त­ब्र­ह्म­प्र­ति­प­त्ति­रू­प­स्व­का­र्य­क्ष­माणि भवन्तीत्यर्थः । एतदुक्तं भवति - देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्म­प्र­ति­प­त्ति­सा­ध­न­श्र­द्धा­दीनां मध्ये समाधेः प्राधा­न्य­मि­त्य­नेन साम्येन समाधौ मध्य­का­य­त्व­दृ­ष्टि­रत्र विवक्षितेति । एतच्च यत्र किञ्चिन्नियामकं सम्भाव्यते तत्र न त्वक्त­व्य­मि­त्या­श­ये­नो­क्तम् । वस्तुगतिस्तु प्रागे­वा­स­कृ­द्द­र्शिता वाचनिकी वा शिरआदिकल्पना सर्वत्रेति ।

महत्तत्त्वमिति ।
सम­ष्ट्य­न्तः­क­र­णा­भि­मानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथ­म­मु­त्प­न्न­त्वा­त्प्र­थ­म­ज­त्वम् ।

तत्र मानमाह –
महद्यक्षमिति ।
यक्षं पूज्यम् ।

ननु कारणत्वेऽपि कथं प्रतिष्ठात्वम् ? तत्राह –
कारणं हीति ।

हि-शब्दसूचितां प्रसि­द्धि­मु­दा­ह­र­णेन दर्शयति –
यथेति ।

नन्व­स्म­दा­दि­बु­द्धि­रू­पाणां विज्ञा­न­म­य­को­शानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रतिष्ठात्वम् , तदे­वा­सि­द्ध­मि­त्या­श­ङ्क्याह –
सर्वबुद्धीति ।
'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इत्या­दि­शा­स्त्रेण हिरण्यगर्भस्य सर्व­भू­त­का­र­ण­त्व­म­व­ग­म्यते ; न च भूतानां स्वतः कार्यत्वमस्ति ; अतो भूत­श­ब्दि­त­जी­वो­पा­धि­भू­तानां लिङ्गशरीराणां ब्रह्मा कारणं सिद्धमिति भावः ।

फलितमाह –
तेनेति ।
कार­ण­त्वे­ने­त्यर्थः ।

पूर्व­व­दि­त्युक्तं विवृणोति –
यथेति ।

विज्ञा­न­म­य­स्या­पीति ।
प्रकाशकः श्लोको भवतीति शेषः ॥