अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: पञ्चमोऽनुवाकः

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­क­द्व­य­ता­त्प­र्य­माह —
संहि­ता­वि­ष­य­मि­त्या­दिना ।

संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्त­शु­द्धि­द्वारा विद्यो­प­यो­गा­र्थ­मिति सूचयति —
ते चेति ।
च-शब्दोऽप्यर्थः । संहि­तो­पा­स­न­व­त्तेऽ­पी­त्यर्थः ।

अन्तरिति ।
व्याहृतीनां श्रद्धा­गृ­ही­त­त्वा­त्त­त्प­रि­त्या­गे­नो­प­दि­श्य­मानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृद­या­न्त­रु­पा­स­न­मु­प­दि­श्यत इत्यर्थः ।

तात्प­र्य­मु­क्त्वा­क्ष­र­व्या­ख्या­नाय प्रतीकमादत्ते —
भूर्भुवः सुवरिति ।

इतीत्युक्तेति ।
भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठ­क्र­म­ल­ब्ध­क्र­मा­नु­वा­दार्थः श्रुतावितिशब्द इत्यर्थः ।

प्रद­र्शि­ता­ना­मिति ।
प्रद­र्शि­त­क्र­मो­पे­तानां व्याहृतीनां स्वरू­पा­नु­वा­दार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः ।

ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते ? तत्राह —
परामृष्टा इति ।

स्मृतिं विवृणोति —
तिस्र एता इति ।

स्मर्यन्ते तावदिति ।
तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसि­द्ध­व्या­हृ­तयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमे­णो­पा­स­न­वि­धा­ना­र्थ­मि­त्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः ।

अपत्यमिति ।
गोत्रा­प­त्य­मि­त्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महा­च­म­स­गो­त्र­त्वा­द्गो­त्रा­र्थ­स्त­द्धितो भवेत्’ इति ।

प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा —
उ ह स्म इत्येतेषामिति ।

ऋषे­श्च­तु­र्थ­व्या­हृ­ति­वि­ष­यकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह —
ददर्शेत्यर्थः इति ।

आर्षेति ।
ऋषि­स­म्ब­न्ध्य­नु­स्म­र­ण­मा­र्षम् , तस्यानुस्मरणस्य कर्त­व्य­ता­द्यो­त­ना­र्थ­मि­त्यर्थः ।

ननु तस्यो­पा­स­ना­ङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह —
ऋष्य­नु­स्म­र­ण­म­पीति ।

इहोपदेशादिति ।
उपासनप्रकरणे ऋषेः सङ्की­र्त­ना­दि­त्यर्थः । उत्त­र­त्रो­प­दे­क्ष्य­मा­णाया गतेरपि चिन्त­न­मु­पा­स­ना­ङ्ग­त्वेन कर्त­व्य­मि­हो­प­दे­शा­वि­शे­षा­दि­त्य­पे­रर्थः ।

तद्ब्रह्मेति ।
तच्च­तु­र्थ­व्या­हृ­ति­स्व­रूपं ब्रह्मेति चिन्त­ये­दि­त्यर्थः ।

इत­र­व्या­हृ­ति­त्या­गेन चतु­र्थ­व्या­हृ­ति­स्व­रूपे ब्रह्म­दृ­ष्टि­वि­धाने नियामकमाह —
महद्धि किल ब्रह्म महती च व्याहृतिरिति ।
महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतु­र्थ­व्या­हृ­ते­रि­त­र­व्या­हृ­त्य­पे­क्षया व्यापकत्वं वक्ष्यति । तथा च व्याप­क­त्व­सा­म्येन चतु­र्थ­व्या­हृ­ति­स्व­रूपे ब्रह्म­दृ­ष्टि­वि­धि­रिति भावः ।

चतु­र्थ­व्या­हृ­ते­र्व्या­प­कत्वं निरूपयितुं पृच्छति —
किं पुनस्तदिति ।
मह इति व्याहृतिस्वरूपं ब्रह्मे­त्यु­क्तम् , तद्व्या­हृ­ति­स्व­रूपं पुनरपि किं कीदृ­श­मि­त्य­क्ष­रार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलि­ङ्ग­नि­र्देशः, स चतु­र्थ­व्या­हृ­ति­स्व­रू­प­मात्मा इत­र­व्या­हृ­त्य­पे­क्षया व्यापकमित्यर्थः ।

ननु चेतने रूढ­स्या­त्म­श­ब्दस्य कथं व्यापकत्वमर्थः ? योगेनेत्याह —
आप्नोतेरिति ।
व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्ति­वा­च­का­दा­प्नोतेः सका­शा­न्नि­ष्प­न्नोऽ­य­मा­त्म­शब्दो व्यापकत्वबोधक इत्यर्थः ।

मह इति व्याहृ­ते­रा­त्म­श्रु­त्यु­क्त­मि­त­र­व्या­हृ­त्य­पे­क्षया व्याप­क­त्व­मु­प­पा­द­यति —
इत­रा­श्चे­त्या­दिना यतोऽत इत्यन्तेन ।
च-शब्दोऽवधारणे ।

नन्वि­त­र­व्या­हृ­तयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्य­स्या­क्ष­रा­नु­वृ­त्ते­र­द­र्श­ना­दि­त्या­श­ङ्क्याह —
आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­ते­नेति ।
मह इति व्याहृत्यात्मन आदि­त्या­दि­भू­त­त्व­मित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वा­दि­त्या­दीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथ­मा­दि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासा­मा­दि­त्या­दि­व्या­प्य­ता­सि­द्ध्यर्थं लोका­द्या­त्म­क­ता­माह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लक­दे­व­वे­द­प्रा­णा­त्मिका इत्यक्षरार्थः । तासामित्थं लोका­द्या­त्म­कत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथि­व्य­न्त­रि­क्ष­द्यु­लो­का­ना­मा­दि­त्य­व्या­प्यता प्रसिद्धा, अग्नि­वा­य्वा­दि­त्य­दे­व­तानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्व­लो­क­व्या­प­क­त्वात् ; वागात्मकानां वेदा­ना­मो­ङ्का­र­व्या­प्यता ‘तद्यथा शङ्कुना’ इत्या­दि­श्रु­ति­सिद्धा, प्राणा­ना­म­न्न­र­स­द्वा­रा­न्न­व्या­प्यता प्रसिद्धा ; तथा च लोक­दे­व­वे­द­प्रा­णा­त्मिका इतरव्याहृतयो यत आदि­त्य­च­न्द्र­ब्र­ह्मा­न्न­भू­तेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृ­ते­रि­त­रा­पे­क्षया व्याप­क­त्व­मि­त्यर्थः ।

इत्थं स आत्मेति वाक्यं व्याख्याय अन­न्त­र­वा­क्य­मा­दत्ते —
अङ्गानीति ।

नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोका­दि­रू­प­त्वे­नापि श्रुताः ; ततश्च कथ­म­ग्न्या­दि­दे­व­ता­रू­पा­णा­मेव तासा­म­ङ्ग­त्व­व­च­नम् ? तत्राह —
देवताग्रहणमिति ।
देव­ता­प­द­म­ज­ह­ल्ल­क्ष­णया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः ।

लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति —
मह इत्ये­त­स्ये­त्या­दिना इतीत्यन्तेन ।
अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदि­त्या­दि­भि­र्लो­का­दयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृ­त्या­त्म­नोऽ­व­य­व­भूता इति योजना ।

अत्र दृष्टान्तमाह —
आत्मना हीति ।
प्रसिद्धशरीरस्य मध्य­भा­गोऽ­त्रा­त्म­श­ब्दार्थः । तेन हस्त­पा­दा­द्य­ङ्गानि महीयन्ते । शरी­र­म­ध्य­भा­ग­ग­ता­न्ना­दिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्य­म­भा­गा­धी­न­वृ­द्धि­भा­क्त्वात् , मध्य­म­भा­ग­श्चाङ्गी तद्वृ­द्धि­हे­तु­त्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादा­दि­रू­पा­ङ्गाणि, आदि­त्या­द्या­त्मकं चतु­र्थ­व्या­हृ­ति­स्व­रू­प­म­ङ्गीति कल्प्यते ; मह इत्य­स्या­दि­त्या­द्या­त्म­ने­त­र­वृ­द्धि­हे­तु­त्वेन वृद्धि­हे­तु­त्व­सा­म्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तद­धी­न­वृ­द्धि­भा­क्त्वेन प्रसि­द्धा­ङ्ग­व­द्वृ­द्धि­भा­क्त्व­सा­म्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृ­ति­च­तु­ष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मि­न्व्या­हृ­ति­मये शरीरे यदङ्गित्वेन कल्पितं चतु­र्थ­व्या­हृ­ति­स्व­रूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्म­दृ­ष्टि­र्वि­हिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोका­दि­वृ­द्धि­हे­तु­त्व­मित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोका­स्ता­व­दा­दि­त्येन प्रकाशिताः सन्तः प्राणिनां व्यव­हा­र्य­त्व­ल­क्षणां वृद्धिं प्राप्नुवन्ति ; अग्नि­वा­य्वा­दि­त्य­दे­व­ता­रू­पाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्या­दि­शा­स्त्र­सि­द्धम् , चन्द्रकलापानेन तेषां वृद्धे­रा­व­श्यि­क­त्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रण­व­पू­र्व­का­ध्य­य­ना­धी­न­त्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्ये­त­त्प्र­सि­द्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति ।

भूरिति वा अयं लोक इत्यादावैकैका व्याहृ­ति­श्च­तु­ष्प्र­कारा ज्ञातव्येति तात्पर्यमाह —
अयं लोक इत्यादिना ।

भूरितीति ।
चतुर्धा भवतीति शेषः ।

एवमुत्तरा इति ।
अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदि­त्य­श्च­न्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः ।

मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति —
ब्रह्मे­त्यो­ङ्कार इति ।
भूरिति वा ऋच इत्यादिना वेदा­व­य­व­भू­त­श­ब्द­सं­नि­धाने मुख्या­र्थ­ग्र­ह­णा­यो­गात् , चतुर्थव्याहृतौ पूर्वमेव मुख्य­ब्र­ह्म­दृ­ष्टे­रु­क्त­त्वेन पौन­रु­क्त्य­प्र­स­ङ्गा­च्चे­त्यपि द्रष्टव्यम् ।

धा-शब्दस्य प्रकारवचनत्वे सति चत­स्र­श्च­तु­र्धेति वाक्यस्य फलितमर्थं क्रिया­ध्या­हा­र­पू­र्वकं दर्शयति —
चतस्रश्चतस्रः सत्य इति ।
स्वरूपेण चतस्रो व्याहृतयो द्रष्ट­व्य­लो­का­दि­भे­देन प्रत्येकं चतस्रः सत्य इत्यर्थः ।

ननु व्याहृतिषु प्रत्येकं पदा­र्थ­च­तु­ष्ट­य­दृ­ष्टि­वा­क्येभ्य एव तासां प्रत्येकं चतु­र्धा­त्व­क्लृ­प्ति­सिद्धेः चत­स्र­श्च­तु­र्धेति वाक्यं पुनरुक्तमिति ; नेत्याह —
तासां यथा­क्लृ­प्ता­ना­मिति ।
भूरिति वा अयं लोक इत्यादिवचनानां व्याहृ­ति­स्तु­ति­प­र­त्व­श­ङ्का­नि­रा­सेन तथै­वो­पा­स­न­क­र्त­व्य­ता­व­श्यि­क­त्व­द्यो­त­नार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासा­मु­प­सं­हा­रा­र्थ­मिति भावः ।

ज्ञातस्य ब्रह्मणः पुन­र्ज्ञा­नो­प­देशे पौनरुक्त्यं स्यादिति शङ्कते —
नन्विति ।
तद्ब्रह्मेति वाक्ये ब्रह्म­मा­त्र­म­व­गतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्य­मा­ण­गु­ण­वि­शि­ष्ट­त्वेन ज्ञात­व्य­त्व­मु­प­दि­श्यते ।

तथा च वक्ष्य­मा­ण­गु­ण­वि­शि­ष्ट­त्वेन पूर्व­म­ज्ञा­त­त्वान्न पौनरुक्त्यमिति परिहरति —
नेति ।
न च वक्ष्य­मा­ण­गु­णा­ना­मपि वक्ष्य­मा­णा­नु­वा­के­नै­वा­व­गन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतु­र्थ­व्या­हृ­त्या­त्मके ब्रह्मणि वक्ष्य­मा­ण­गु­ण­व­त्त्वा­व­ग­म­स्यै­त­द्व­च­ना­धी­न­त्वेन वैय­र्थ्या­प्र­स­क्ते­रिति भावः ।
सङ्ग्रहं विवृणोति —
सत्यमित्यादिना ।
न तु तद्विशेषो विज्ञायत इति सम्बन्धः ।

तस्य ब्रह्मणो विशेषमेव विवृणोति —
हृद­या­न्त­रि­त्या­दिना ।
योऽय­मु­त्त­रा­नु­वा­को­प­क्रमे दर्शितो हृद­या­न्त­रु­प­ल­भ्य­मा­न­त्व­म­नो­म­य­त्वा­दि­र्हि­र­ण्म­य­त्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आका­श­श­री­र­त्वा­दि­शा­न्ति­स­मृ­द्ध­मि­त्ये­व­मन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशे­ष­ण­वि­शे­ष्य­रूप इत्यत्र विशे­ष्य­प­द­म­वि­व­क्षि­ता­र्थम् ; अत एव धर्मपूगस्य विशे­ष­ण­त्व­मा­त्र­मेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्त­न­म­भि­प्रेत्य विशे­ष­ण­वि­शे­ष्य­रू­प­त्व­मु­क्तम् ; तच्च पूर्वा­प­री­भू­त­त्व­रू­पम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् ।

ननु तद्ब्रह्म स आत्मे­त्य­त्रास्तु तद्वि­शे­षा­ज्ञा­नम् ; ततः किम् ? तत्राह —
तद्विवक्ष्विति ।

एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति —
यो हीति ।

ननु लोका­दि­दृ­ष्टि­प­रि­गृ­ही­त­व्या­हृ­ति­श­री­र­ब्र­ह्मो­पा­स­न­वि­धा­य­क­स्या­स्या­नु­वा­कस्य वक्ष्य­मा­णे­ना­नु­वा­के­नै­क­वा­क्यतां विना कथं तत्र­त्य­गु­णा­ना­म­त्रा­न्वय इत्याशङ्क्य वक्ष्य­मा­ण­गु­णा­क­र्ष­कात्स वेद ब्रह्मेति वाक्या­दे­वा­न­यो­रे­क­वा­क्यत्वं कल्प्यत इत्याशयेनाह —
अतो वक्ष्यमाणेति ।

नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थै­क्य­नि­ब­न्ध­न­त्वा­दे­क­वा­क्य­ताया इत्याशङ्क्य, तदपि वक्ष्य­मा­ण­गु­णा­क­र्ष­क­वा­क्य­ब­ला­देव कल्प्यत इत्याशयेनाह —
उभयोरिति ।

लिङ्गा­च्चो­पा­स­न­मे­क­मे­वे­त्यु­क्त­मेव विवृणोति —
भूरित्यग्नाविति ।
व्याहृ­त्य­नु­वा­को­क्ता­ना­म­ग्न्या­दि­दृ­ष्टीनां वक्ष्य­मा­णा­नु­वाके फल­क­थ­न­लि­ङ्गा­द्व्या­हृ­ति­श­री­र­ब्र­ह्मो­पा­स­न­मु­भ­य­त्रै­क­मिति गम्यत इत्यर्थः ।

विधा­य­का­भा­वा­च्चेति ।
उपा­स­न­भे­द­क­वि­ध्य­भा­वा­दि­त्यर्थः ।

तमेव विवृणोति —
न हीति ।

ननु व्याहृ­त्य­नु­वा­कस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह —
ता यो वेदेति त्विति ।
इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधि­र्नो­पा­स­न­भे­दक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधा­न­वि­द्या­वि­धि­रु­त्त­रा­नु­वाके गुणविधिरिति प्रका­रे­णो­पा­स­नै­क्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्या­भे­द­क­त्व­मिति ।

ननु तर्हि ‘स वेद ब्रह्म’ इति विधि­र्भे­द­कोऽस्तु ; नेत्याह —
वक्ष्य­मा­णा­र्थ­त्वा­न्नो­पा­स­न­भे­दक इति ।
‘स वेद ब्रह्म’ इति वाक्यं व्याहृ­त्य­नु­वा­कस्थे ब्रह्मोपासने वक्ष्य­मा­ण­गु­णा­क­र्ष­णा­र्थ­त्वान्न विद्यै­क्य­वि­रोधि, किं तु तद­नु­कू­ल­मे­वे­त्यर्थः ।

हेत्वसिद्धिं पूर्वो­क्ता­र्थ­स्मा­र­णेन निराचष्टे —
वक्ष्य­मा­णा­र्थत्वं चेति ।

विदुषे देवाः कदा बलिं प्रय­च्छ­न्ती­त्या­का­ङ्क्षायां स्वारा­ज्य­प्रा­प्त्य­न­न्त­र­मि­त्या­श­ये­नाह —
स्वाराज्येति ।
स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्ग­दे­व­ता­धि­प­ति­त्व­मिति यावत् । तत्प्रा­प्त्य­न­न्त­र­मे­वा­ङ्ग­दे­व­ता­भि­र्ब­ल्यु­प­हा­र­ण­मु­चि­तम् ; अत एवा­र्थ­क्र­मा­नु­सा­रेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजा­धि­प­ति­र्भ­व­त्य­ङ्ग­भू­तानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथ­क्फ­ल­श्र­व­णा­दु­पा­स­न­भेद इति शङ्कापि निरस्ता भवति फल­भ­दे­श्र­व­ण­स्यै­वा­सि­द्धे­रिति ॥