अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: षष्ठोऽनुवाकः

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­क­ता­त्प­र्य­माह —
भूर्भु­व­रि­त्या­दिना ।
मह इति व्याहृ­त्य­पे­क्षया अन्या भूर्भु­वः­सु­वः­स्व­रूपा व्याहृतयो देव­ता­दि­रू­पा­श्च­तु­र्थ­व्या­हृ­त्या­त्म­कस्य ब्रह्म­णोऽ­ङ्गा­नी­त्यु­क्त­मि­त्यर्थः ।

एतस्येति ।
स इति तच्छ­ब्दे­ना­स्मि­न्न­नु­वाके समा­कृ­ष्ट­स्ये­त्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षा­दु­प­ल­ब्ध्यर्थं चेत्यर्थक्रमः उपा­स­न­फ­ल­त्वा­त्सा­क्षा­त्का­रस्य ।

उपासनार्थं स्थान­वि­शे­षो­प­देशे दृष्टान्तमाह —
सालग्राम इवेति ।

साक्षा­दु­प­ल­ब्ध्य­र्थ­मि­त्युक्तं प्रपञ्चयति —
तस्मिन्हीति ।
उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

व्युत्क्रम्येति ।
संनि­हि­त­मा­का­श­मु­ल्ल­ङ्घ्ये­त्यर्थः ।

हृदयस्वरूपमाह —
पुण्डरीकेति ।

प्राणायतन इति ।
‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः ।

अनेकेति ।
अने­क­ना­ड्या­श्र­य­भू­तानि सुषिराणि यस्येति विग्रहः ।

पुण्ड­री­का­का­र­त्वा­धो­मु­ख­त्वो­र्ध्व­ना­ल­त्व­वि­शिष्टे मांसखण्डे मानमाह —
विशस्यमान इति ।
‘पद्म­को­श­प्र­ती­काशं हृदयं चाप्यधोमुखम्’ इत्या­दि­श्रु­ति­प्र­सिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः ।

प्रसिद्ध एवेति ।
‘योऽयमन्तर्हृदय आकाशः’ इत्या­दि­श्रु­ति­ष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शय­ना­द­व­स्था­ना­त्पु­रुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा ।

मननं मन इति भाव­व्यु­त्प­त्ति­मा­श्रि­त्याह —
मनो ज्ञानमिति ।

मननं ज्ञानमित्यत्र हेतुमाह —
मनुतेरिति ।
ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मा­न्म­नु­ते­र्धा­तो­र्नि­ष्पन्नो मनःशब्दो यतो ज्ञान­वा­ची­त्यर्थः ।

पुरुषस्य मनो­वि­का­र­त्वा­भा­वा­दाह —
तत्प्राय इति ।
मनःप्रधान इत्यर्थः ।

तत्र हेतुमाह —
तदु­प­ल­भ्य­त्वा­दिति ।
तेनो­पा­स­न­सं­स्कृ­तेन मन­सो­प­ल­भ्य­मा­न­त्वा­दि­त्यर्थः ।

तल्लिङ्गो वेति ।
अस्मदादिमनसा अस्म­दा­दि­भि­र­नि­वा­र्येण तन्नियन्तृतया ब्रह्मा­नु­मा­न­स­म्भ­वा­दिति भावः ।

ज्योतिर्मय इति ।
स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनो­म­य­त्वा­दि­गु­ण­व­त्य­ह­ङ्ग्र­ह­म­भि­प्रेत्य विदुष आत्म­भू­त­स्ये­त्यु­क्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वारा­ज्य­प्रा­प्त्य­यो­गात् ; अतः स्वारा­ज्य­प्रा­प्ति­व­च­ना­नु­रो­धेन विदुषो ब्रह्मभावो ब्रह्म­ण्य­ह­ङ्ग्र­हश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः ।

इन्द्ररूपस्येति ।
‘सेन्द्रयोनिः’ इति वाक्य­शे­ष­द­र्श­ना­दि­न्द्र­रू­प­त्व­मु­क्तम् ।

‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’ इति श्रुत्य­न्त­र­म­नु­सृ­त्याह —
हृद­या­दू­र्ध्व­मिति ।

श्रुति­प्र­सि­द्धायां शताधिकायां नाड्यां नामान्तरेण योग­शा­स्त्र­प्र­सिद्धिं कथयति —
सुषुम्नेति ।

स्तन इवेति ।
आस्यान्तरिति शेषः ।

तेनेति ।
तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः ।

लोकस्येति ।
ऋग्वेदस्य प्राणस्य चेत्यर्थः ।

इमं लोकमिति ।
ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोका­ग्नि­ऋ­ग्वे­द­प्रा­णानां चतुर्णां दृष्टत्वेन लोका­ग्नि­भा­व­व­दृ­ग्वे­द­प्रा­ण­भा­व­स्यापि वक्तव्यत्वात् । न च प्रधा­न­ब्र­ह्मो­पा­स­न­फ­ल­व­च­नेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वा­त्म­क­ब्र­ह्म­भावे कथिते सति विदुष ऋग्वे­द­प्रा­ण­भा­व­स्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोका­ग्नि­भा­व­स्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुति­व­च­न­म­ग्न्या­त्म­नेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वे­द­प्रा­ण­दृ­ष्ट्यो­र्ब्र­ह्मो­पा­सनं प्रत्यङ्गतया प्रधानफलेनैव फल­व­त्त्वा­च्छ्रुतौ भाष्ये च पृथ­क्त­द्भा­व­व­च­ना­भाव इति शङ्कापि निरस्ता, तस्यां लोका­ग्नि­दृ­ष्ट्यो­र­प्य­ङ्ग­त्वेन तत्फ­ल­स्या­प्य­व­क्त­व्य­त्वा­पत्तेः । यदि चाङ्गानां प्रधानफलेनैव फल­व­त्त्वेऽ­प्य­ङ्ग­स्तु­त्यर्थं पृथ­क्फ­ल­व­च­न­म­पे­क्षि­त­मि­त्यु­च्येत, तदा ऋग्वे­दा­दि­दृ­ष्टा­वपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः ।

आत्मभावेन स्थित्वेति ।
अत्र क्रमकथनं पाठ­क्र­म­मा­श्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वा­त्म­क­ब्र­ह्म­भाव एवा­ग्न्या­दि­भा­व­स्या­न्त­र्भा­वेण क्रमाभावादिति मन्तव्यम् ।

ब्रह्मभूतमिति ।
‘मह इति ब्रह्मणि’ इति वाक्यो­क्त­ब्र­ह्म­भा­व­प्र­यु­क्त­मि­त्यर्थः ।

उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह —
सर्वा­त्म­क­त्वा­द्ब्र­ह्मण इति ।
ब्रह्मभूतस्य विदुषः सर्व­जी­वा­त्म­क­त्वा­दि­त्यर्थः ।

ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह —
सर्वैर्हीति ।
तद्ब्रह्म सर्वै­रु­पा­धि­भू­तै­र्म­नोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवे­श­वा­क्या­दि­सू­च­नार्थो हि-शब्दः ।

न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह —
किं चेति ।
सर्वा­त्म­क­त्वा­दिति । विदुष इति शेषः ।

ननु त्वगा­दि­प­ति­त्व­मपि कुतो नोक्त­मि­त्या­शङ्क्य आप्नोति मन­स­स्प­ति­मि­त्या­दे­र्वि­व­क्षि­त­म­र्थ­माह —
सर्व­प्रा­णि­ना­मिति ।
तद्वानिति । निय­म्य­नि­या­म­क­भा­व­स­म्बन्धो मत्वर्थः ।

न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह —
किं च ततोऽपीति ।

शरीरमस्येति ।
शरीरपदं स्वरूपपरम् ; ततश्च आका­श­म­धि­ष्ठा­न­भू­तस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः ।

सूक्ष्ममिति ।
जला­दि­भि­र्दुः­खा­दि­भिश्च संश्ले­षा­यो­ग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्या­दा­काशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति ।

सत्यमिति ।
सद्भू­त­त्र­य­ल­क्षणं मूर्तम् , त्यद्वा­य्वा­का­शा­त्म­क­म­मू­र्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्य­श­ब्द­वा­च्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः ।

सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह —
अवितथमिति ।

प्राणेष्विति ।
सवि­ष­ये­ष्वि­न्द्रि­ये­ष्वि­त्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीव­भा­वा­भि­प्रा­यम् ।

केव­ल­ब्र­ह्म­प­र­त्वे­नापि व्याचष्टे —
प्राणानां वेति ।

यस्मिन्निति ।
यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः ।

मनआनन्दमिति पदं ब्रह्मणो जीव­भा­वा­भि­प्रा­ये­णैव व्याचष्टे —
मन इत्यादिना ।

शान्तिश्चेति ।
सर्व­द्वै­त­नि­वृ­त्ति­रू­प­मि­त्यर्थः । अज्ञा­न­त­त्का­र्य­ध्वं­स­स्या­धि­ष्ठा­न­ब्र­ह्मा­न­ति­रे­का­दिति भावः ।

समृद्धं चेति ।
सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्व­व्या­प­क­मि­त्यर्थः ।

शान्त्या वेति ।
सर्व­वृ­त्त्यु­प­र­म­ल­क्ष­णया समाधिशब्दितया शान्त्या समृ­द्ध­व­त्पू­र्णा­न्द­रू­पेण योगिभिरुपलभ्यत इत्यर्थः ।

एतच्चेति ।
ननु फल­त्वे­नो­क्त­स्या­धि­क­त­र­वि­शे­ष­णस्य कथ­मु­पा­स्य­गु­णा­न्त­र्भाव उच्यते ? नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फल­त्वे­ना­व­ग­त­स्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यव­हि­त­सं­नि­हि­त­स­क­ल­गु­ण­पू­ग­ल­क्ष­ण­प्र­का­र­प­रा­म­र्शि­ने­ति­प­दे­ना­धि­क­त­र­वि­शे­ष­ण­स्या­प्यु­पास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्या­दा­वु­क्तानां सर्व­दे­वा­धि­प­ति­त्व­स­र्व­दे­व­पू­ज्य­त्व­स­र्व­क­र­ण­प­ति­त्वा­ना­मपि फल­रू­पा­णा­मु­पा­स्य­गु­ण­त्व­प्र­सङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः ।

ननु उपासनस्य श्रुत्या स्वेन रूपे­णो­क्ता­व­प्य­नु­ष्ठा­न­सिद्धेः आचा­र्यो­क्ति­क­ल्पनं मुधा, नेत्याह —
आदरार्थेति ।
उपासनानुष्ठाने आद­रा­ति­श­य­सि­द्ध्य­र्थे­त्यर्थः ।

उक्त एवेति ।
उपासनं च यथा­शा­स्त्र­मि­त्या­दा­विति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति ? किमत्र संशयकारणम् ? परं चापरं च ब्रह्मे­त्या­दा­वु­भ­यत्र ब्रह्म­श­ब्द­प्र­यो­ग­द­र्श­न­मेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वार­स्या­न्म­नो­म­य­प­दस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रा­नु­म­त्य­व­ग­माच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथा­क­थ­ञ्चि­दु­प­पा­द­न­स­म्भ­वा­च्चा­प­र­मे­वात्र विवक्षितमिति । अन्ये तु पर­मी­श्व­र­रू­प­मे­वात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्या­मु­ख्य­त्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । पर­ब्र­ह्म­सा­मी­प्या­देव सूत्रात्मनि ब्रह्म­श­ब्द­प्र­योगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्या­दा­व­प­र­स्यापि नाश­रा­हि­त्य­रू­प­म­मृ­तत्वं श्रूयत इति वाच्यम् ; तस्या­वा­न्त­र­प्र­लये नाशा­भा­व­श्र­व­णेऽपि महाप्रलये नाशश्रवणेन मुख्या­मृ­त­त्वा­स­म्भ­वात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्ग­द्व­या­नु­रो­धे­ना­पे­क्षि­क­मे­वा­मृ­त­त्व­मि­हा­स्त्विति वाच्यम् ; ब्रह्म­श्रु­त्य­नु­रो­धेन मुख्या­मृ­त­त्व­ग्र­ह­ण­स­म्भवे दुर्ब­ल­लि­ङ्गा­नु­रो­धे­ना­पे­क्षि­का­मृ­त­त्व­ग्र­ह­णा­यो­गात् , उप­सं­हा­रेऽ­प्य­मृ­त­त्व­श्र­व­णे­नो­प­क्र­मो­प­सं­हा­र­स्प­र्शि­त्व­ल­क्ष­ण­ता­त्प­र्य­लिङ्ग - युक्त­स्या­मृ­त­त्वस्य तद्र­हि­त­प्रा­णा­रा­म­त्वा­दि­लि­ङ्गा­नु­रो­धे­ना­न्य­था­न­य­ना­यो­गाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वय­ञ्ज्यो­ति­ष्ट्व­मि­न्द्र­प­दो­दितं पार­मै­श्व­र्य­मा­का­श­श­री­र­प­दो­दि­त­मा­का­श­दे­हत्वं सूक्ष्मत्वं वा सत्या­त्म­प­दो­दि­त­म­वि­त­थ­स्व­भा­वत्वं शान्ति­स­मृ­द्ध­प­दो­दितं सर्व­प्र­प­ञ्चो­प­श­मा­त्म­क­त्व­मि­त्ये­तेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनो­म­य­प­द­स्या­प्य­र्थ­त्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनो­भि­मा­नी­त्य­र्थ­प्र­द­र्श­न­मा­त्र­म­प­र­ब्र­ह्म­प­क्ष­पाति । तथा प्राणा­रा­म­त्व­म­न­आ­न­न्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुति­भा­ष्य­यो­र­भि­प्रे­त­मिति निश्चेतुं शक्यते । शाण्डि­ल्य­वि­द्यादौ मनो­म­य­त्व­प्रा­ण­श­री­र­त्व­व­द­त्रापि ब्रह्मणः सार्वा­त्म्य­प्र­यु­क्त­तया तेषामपि पर­स्मि­न्ब्र­ह्म­ण्यु­प­पत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैत­त्प­र­ब्र­ह्म­णोऽ­न्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मा­त्रो­पा­स्य­मिति सङ्क्षेपः ॥