अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: चतुर्थोऽनुवाकः

ननु यश्छ­न्द­सा­मि­त्या­दयो मन्त्राः किम­र्थ­मा­म्ना­यन्ते ? तत्राह —
मेधेति ।
मेधाकामस्य मेधा­प्रा­प्ति­सा­धनं जप उच्यते, श्रीकामस्य श्रीप्रा­प्ति­सा­धनं होम उच्यत इति विभागः ।

एवं तात्पर्यवर्णने कारणमाह —
स मेन्द्र इत्यादिना । ऋषभ इति ।
गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधा­न्या­दि­त्यर्थः ।

ननु कथमोङ्कारस्य सर्व­रू­प­त्व­मि­त्या­श­ङ्क्याह —
सर्व­वा­ग्व्या­प्ते­रिति ।

शब्दमात्रे कृत्स्न­स्या­भि­धे­य­स्या­न्त­र्भा­वम् ‘तस्य वाक्तन्तिः’ इत्या­दि­श्रु­त्युक्तं सिद्धं कृत्वा तस्य सर्व­श­ब्दा­त्म­कत्वे प्रमाणमाह —
तद्यथेति ।
‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कु­श­ब्द­वा­च्येन स्वग­त­श­ला­का­वि­शे­षेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति ।

अत एवेति ।
विश्वरूपत्वाच्च तस्य श्रेष्ठ­त्व­मि­त्यर्थः ।

नन्वो­ङ्का­र­स्यात्र स्तुतिरन्याय्या ; नेत्याह —
ओङ्कारो ह्यत्रेति ।
अस्यां संहि­तो­प­नि­ष­द्यो­ङ्का­रस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः ।

ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धे­तु­प्र­द­र्श­न­परं छन्दोभ्य इति वाक्यं व्याचष्टे —
वेदेभ्य इत्यादिना ।

अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्द­स­मि­त्या­श­ये­नाह —
वेदा ह्यमृतमिति ।
वेदानाममृतत्वं नित्यत्वम् , तच्चा­वा­न्त­र­प्र­लये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् ।

सम्ब­भू­वे­त्य­स्या­र्थ­माह —
लोकदेवेति ।

सारिष्ठमिति ।
सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्ते­भ्योऽ­भि­त­प्ते­भ्य­स्त्रयी विद्या सम्प्रा­स्र­व­त्ता­म­भ्य­त­प­त्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्य­भ्य­त­प्ते­भ्योऽ­भि­त­प्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्या­लो­चि­त­वा­नि­त्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजा­प­ति­र्लो­का­न­भ्य­त­प­त्तेषां तप्यमानानां रसा­न्प्रा­बृ­ह­दग्निं पृथिव्या वायु­म­न्त­रि­क्षा­दा­दित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञात­वा­नि­त्यर्थः ।

ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते ? तत्राह —
न हीति ।

नित्यस्येति ।
अवा­न्त­र­प्र­ल­या­व­स्था­यिन इत्यर्थः । प्रणवस्य वेदा­न्त­र्भू­त­त्वेन वेद­स­मा­न­यो­ग­क्षे­मस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति ।

ननु मेधाप्रदानेन यत्प्रीणनं तात्का­लि­क­प्री­ति­स­म्पा­दनं न तद्विद्याकामस्य विवक्षितं प्रयो­ज­न­मि­त्य­स्व­र­सा­दाह —
बलयतु वेति ।

अत्र विद्या­का­म­स्या­पेक्षां दर्शयति —
प्रज्ञाबलं हीति ।
प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थ­त­द­र्थ­धा­र­ण­शक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः ।

तदधिकारादिति ।
अमृ­त­श­ब्द­मु­ख्या­र्थस्य ब्रह्मणो धार­णा­स­म्भ­वा­द­मृ­त­श­ब्देन मुख्या­र्था­द­न्य­देव किञ्चि­ल्ल­क्ष­णी­यम् ; तच्चा­मृ­त­श­ब्दि­त­ब्र­ह्म­प्रा­प्ति­सा­धनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्सा­ध­न­प्र­ज्ञा­प्रा­र्थ­नेन तस्यैव बुद्धि­स्थ­त्वा­दि­त्यर्थः ।

पुरुषविपरिणाम इति ।
उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथ­म­पु­रु­ष­त्वे­नात्र व्यत्यासः कर्तव्य इत्यर्थः ।

मधुरभाषिणीति ।
भूया­दि­त्य­नु­षङ्गः ।

ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते ? प्रार्थ्यत एवेत्याशयेन शरीरं मे विच­र्ष­ण­मि­त्या­दे­र्वि­व­क्षि­त­म­र्थ­माह —
आत्मज्ञानेति ।
कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः ।

ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते ? तत्राह —
मेधा चेति ।
रोगा­दि­प्र­ति­ब­न्ध­र­हि­तस्य जिते­न्द्रि­य­स्यापि मेधां विना­त्म­ज्ञा­ना­स­म्भ­वा­त्सापि प्राधा­न्ये­ना­त्म­ज्ञा­ना­र्थ­मेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृ­ष्ट­सा­ध­न­त्व­द्यो­त­नार्थो हि-शब्दः । अत्रा­चे­त­न­स्या­प्यो­ङ्का­रस्य ब्रह्माभेदेन प्रार्थितदाने साम­र्थ्य­म­व­ग­न्त­व्यम् ।

ननु कथं तस्य ब्रह्माभेदः ? तत्प्र­ती­क­त्वा­दिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् ? तत्राह —
ब्रह्मणः परमात्मन इति ।

नन्वसिं प्रति प्रसि­द्ध­को­श­स्येव ब्रह्म प्रति प्रणवस्य स्वस्मि­न्न­न्त­र्भा­व­यि­तृ­त्व­र­क्ष­क­त्वा­दे­र­भा­वान्न मुख्यं कोशत्वमस्ति ; तत्राह —
उपलब्धीति ।
यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; तत­श्चो­प­ल­ब्धि­स्था­न­त्व­सा­म्या­त्को­श­शब्दो गौण ओङ्कार इत्यर्थः ।

तदेव साम्यं विवृणोति —
त्वं हीति ।
तस्य ब्रह्म­प्र­ती­कत्वे श्रुत्य­न्त­र­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

प्रतीकमिति ।
दृष्ट्या­ल­म्ब­न­मि­त्यर्थः ।

ब्रह्म­दृ­ष्टि­फ­ल­माह —
त्वयीति ।
उपलब्धिः साक्षात्कारः ।

ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे —
मेधयेत्यादिना ।

ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधा­य­क­त्व­मि­त्या­श­ङ्क्यात्र विवक्षितं पिधानं कथयति —
स त्वमिति ।
उक्त­लौ­कि­क­प्र­ज्ञा­मा­त्र­युक्ताः सामान्यप्रज्ञाः ; स त्वं सामा­न्य­प्र­ज्ञै­र­वि­दि­त­म­हि­मासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रव­ण­पू­र्व­क­मा­त्म­ज्ञा­ना­दि­ल­क्षणं विज्ञानं श्रुतम् , तत्प्रा­प्त्य­वि­स्म­र­णा­दिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागा­दि­ल­क्ष­ण­प्र­ति­ब­न्ध­नि­वृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘राग­द्वे­षा­दि­हे­तुभ्यः श्रुतं गोपाय मे प्रभो’ इति ।

तत्कर्मत्वादिति ।
तनो­ते­र्धा­तो­स्त­द­र्थ­क­त्वा­दि­त्यर्थः ।

ममेति ।
ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् ।

किमित्याहेति ।
किमा­व­ह­न्ती­त्या­का­ङ्क्षा­या­मा­हे­त्यर्थः । अत्रा­व­ह­न्ती­त्या­दि­प­द­त्रयं श्रियो विशेषणम् ।

नन्वा­व­ह­न्ती­त्या­दि­प­द­त्र­यस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशे­ष­ण­वि­शे­ष्य­भा­वे­ना­न्वय इत्या­श­ङ्क्या­ध्या­हा­रेण योजयति —
श्रीर्यातामीति ।
तामा­व­हे­त्यु­त्त­रे­णा­न्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधा­नि­र्व­र्त­ना­त्प­र­मिति ।

ननु मेधा­नि­ष्प­त्त्य­न­न्त­र­मेव किमिति श्रीः प्रार्थ्यते ? तत्राह —
अमेधसो हीति ।
प्रज्ञा­ही­न­स्या­पा­त्र­व्य­या­दिना धना­दि­क­म­न­र्था­यै­वे­त्ये­त­त्प्र­सि­द्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः ।

किंविशिष्टां चेति ।
पुनश्च किंवि­शि­ष्टा­मि­त्यर्थः । अजादीनां लोम­श­त्वा­त्त­द्रूपा श्रीर्लोमशेति भावः ।

श्रियमावहेति कः सम्बोध्यते ? तत्राह —
अधिकारादिति ।
संनि­धा­ना­दि­त्यर्थः । ओङ्कारस्य प्रार्थि­त­श्री­प्र­दाने योग्य­ता­सू­च­नार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्य­प्रा­प्ति­प्रा­र्थ­ना­मन्त्र आ मा यन्त्विति ।

तं व्याचष्टे —
आयन्तु मामिति ।
स्वस्या­चा­र्य­त्व­प्र­यु­क्त­की­र्ति­प्रा­र्थ­ना­मन्त्रो यशो जन इति ।

तं व्याचष्टे —
यशस्वीति ।
‘वस निवासे’ ‘वस आच्छादने’ इति धातु­द्व­या­दु­प्र­त्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः ।

यद्वा धनवाचिना वसुशब्देन वसु­माँ­ल्ल­क्ष्यते ; तथा च अतिशयेन वसु­मा­न्व­सु­म­त्तरः, तस्मादित्यर्थः इत्याशयेनाह —
वसुमत्तराद्वेति ।

तेष्विति ।
वसीयःसु वसुमत्तरेषु वेत्यर्थः ।

विद्या­त­त्सा­ध­न­प्रा­र्थ­ना­न­न्तरं विद्या­फ­ल­प्रा­र्थनां दर्शयति —
किं चेति ।

नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्य­प्र­वे­शा­स­म्भ­वा­दहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मि­न्प्र­वे­श­त्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थि­त­त्वा­त्पु­न­रुक्तिः स्यादि­त्या­शङ्क्य तात्पर्यमाह —
प्रविश्य चेति ।

वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह —
आवयोरिति ।
भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् ।

बहुभेद इति ।
शिव­वि­ष्ण्वा­द्य­ने­क­मू­र्त्यु­पेते त्वयि पापं नाशयामि, त्वन्मू­र्ति­भ­ज­नेन पापं नाशयामीति यावत् ।

यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति —
यथेति ।

अतो मामिति ।
त्वन्निष्ठायाः संसा­र­श्र­मा­प­न­य­न­स्था­न­त्वा­त्त­द­प­न­याय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः ।

आद­र­सू­च­ना­र्थ­मु­क्त­ज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते —
प्रपद्यस्व चेति ।
रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः ।

विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति —
श्रिका­मोऽ­स्मि­न्त्या­दिना ।

विद्या प्रकाशत इति ।
प्रका­श­तेऽ­भि­व्य­ज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्म­ला­द­र्श­त­ल­तु­ल्येऽ­न्तः­क­रणे ब्रह्मात्मानं पश्यतीति स्मृते­रु­त्त­रा­र्धार्थः ॥