अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: अष्टमोऽनुवाकः

उत्तरानुवाकस्य सङ्गतिं वृत्ता­नु­वा­द­पू­र्वकं दर्शयति —
व्याहृत्यात्मन इति ।

अनन्तरं चेति ।
अव्य­व­हि­त­पू­र्वा­नु­वाक इत्यर्थः ।

इदानीमिति ।
उक्त­व­क्ष्य­मा­ण­स­र्वो­पा­स­नानां कर्मणां चाङ्गभूतो य ओङ्का­र­स्त­स्यो­पा­स­न­मि­दानीं विधीयते ; तथा च पूर्वो­क्तो­पा­स­ने­ष्व­ङ्ग­त्वे­नो­प­स्थि­तस्य प्रण­व­स्या­त्रो­पा­स­न­वि­धा­ना­त्स­ङ्ग­ति­रिति भावः । न चोङ्कारस्य सर्व­वै­दि­क­क­र्मो­पा­स­ना­ङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मा­दो­मि­त्यु­दा­हृत्य यज्ञ­दा­न­त­पः­क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेद­वा­दि­ना­मि­त्यर्थः ।

ननु शब्द­मा­त्र­रू­प­स्यो­ङ्का­र­स्या­चे­त­न­तया फल­दा­तृ­त्वा­स­म्भ­वात् कथ­मु­पा­स्य­त्व­मि­त्या­श­ङ्क्याह —
परापरेति ।
प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः ।

ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­नत्वं प्रसिद्धमिति सदृष्टान्तमाह —
स हीति ।

प्रणवस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­नत्वे तद्दृ­ष्ट्यो­पा­सि­तस्य तस्य परा­प­र­प्रा­प्ति­सा­ध­नत्वे च श्रुतिमाह —
एतेनैवेति ।
ओङ्का­रे­णै­वा­य­त­नेन प्राप्तिसाधनेन परमपरं वा प्राप्नो­ती­त्यर्थः ।

एवं तात्प­र्य­मुक्त्वा अक्षराणि व्याचष्टे —
इतीत्यादिना ।

परिच्छेदार्थ इति ।
सङ्ग्रहार्थ इत्यर्थः ।

ओङ्कारस्य परा­प­र­ब्र­ह्म­दृ­ष्ट्या­ल­म्ब­न­त्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्य­त्वा­त्प­र­ब्र­ह्म­दृ­ष्टि­रे­वो­ङ्कारे विवक्षितेति मत्वा तत्र ब्रह्म­दृ­ष्ट्य­ध्यासे किं सादृ­श्य­मि­त्या­का­ङ्क्षा­या­माह —
यत ओमितीदं सर्वमिति ।
यत ओङ्कारः सर्वात्मकः ततः सर्वा­त्म­क­त्व­सा­दृ­श्या­दो­ङ्कारे सर्वा­त्म­क­ब्र­ह्म­दृ­ष्टि­र्यु­क्तेति भावः ।

ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्या­दि­श्रु­ति­सि­द्धम् ; ओङ्कारस्य तु कथं सार्वा­त्म्य­मि­त्या­श­ङ्क्याह —
सर्वं हीति ।

नन्वोङ्कारस्य सर्व­श­ब्दा­त्म­क­त्वेऽपि कथ­म­र्थ­प्र­प­ञ्चा­त्म­क­त्व­मि­त्या­शङ्क्य शब्दद्वारेत्याह —
अभिधानतन्त्रं हीति ।
अभि­धे­य­जा­त­स्या­भि­धा­ना­धी­न­सि­द्धि­क­त्वा­द्वा­च्य­वा­च­क­यो­स्ता­दा­त्म्य­स्वी­का­रा­च्चा­भि­धे­य­जा­त­स्या­भि­धा­नेऽ­न्त­र्भावः सम्भवतीत्यर्थः ।

अत इदमिति ।
प्रण­व­सा­र्वा­त्म्य­स्यापि श्रुत्या­दि­सि­द्ध­त्वा­दिदं सर्वमोङ्कार इति प्रसि­द्ध­व­दु­प­दि­श्यते ओमितीदं सर्वमिति वचसेत्यर्थः ।

ननु प्रथमवाक्येन प्रणवे ब्रह्म­दृ­ष्टि­र्वि­हिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्ध­त्वा­त्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याह —
ओङ्का­र­स्तु­त्यर्थ इति ।

अनुकरणमिति ।
अनुज्ञानरूपमिति यावत् । केन­चि­त्क­रो­मी­त्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वा­ल­य­मि­त्यु­क्त­मन्य ओमित्यनुकरोतीति योजना ।

प्रसिद्धं हीति ।
प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव ।

अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्य­मा­णो­दा­ह­र­ण­स­मु­च्च­यार्थ इति मत्वाह —
अपि चेति ।
प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्र­ग­ते­नो­ङ्का­रे­णा­ग्नी­ध्र­स­म्बो­ध­न­पू­र्व­क­मि­त्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नी­ध्र­स­म्बो­ध­नार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति ।

आश्रा­व­य­न्ती­त्य­स्या­र्थ­माह —
प्रति­श्रा­व­य­न्तीति ।
प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः ।

प्रतिगरमिति ।
’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्ध­र्च­शं­स­ना­न­न्त­र­म­स्मा­क­मा­मोद इव हर्ष एव सम्पन्न इति तदर्थः ।

ब्रह्मेति ।
ऋत्विग्विशेषो ब्रह्मा यदा अन्ये­षा­मृ­त्वि­जा­म­नुज्ञां प्रयच्छति तदा ओं प्रोक्षे­त्या­दि­रू­पेण प्रणवपुरःसरमेव प्रसौति ।

तस्यार्थमाह —
अनुजानातीति ।
जुहो­मी­त्यु­क्त­वन्तं प्रत्यन्य ओमि­त्ये­वा­नुज्ञां प्रय­च्छ­ती­त्यर्थः ।

प्रवचनं करिष्यन्निति ।
प्रवक्ष्यन्निति ‘वच परिभाषणे’ इत्यस्य रूप­म­स्मि­न्व्या­ख्याने ; द्विती­य­व्या­ख्याने तु ‘वह प्रापणे’ इत्य­स्या­न्त­र्भा­वि­त­ण्य­र्थस्य रूपमिति भेदः ।

वेदमिति ।
वेदं ग्रही­ष्या­मी­त्य­भि­स­न्धि­मा­ना­दा­वो­मि­त्ये­वा­ध्येतुं ब्राह्मण उपक्रमत इत्यर्थः ।

अध्ययनफलभूतां वेदावाप्तिं कथयति ब्रह्मै­वो­पा­प्नो­तीति ; तद्योजयति —
उपाप्नोत्येवेति ।
प्राप­यि­ष्य­न्निति । पर­मा­त्मा­न­मु­पा­प्न­वानि प्रत्यक्त्वेन प्राप्नु­या­मि­त्य­भि­स­न्धि­मा­न्ब्रा­ह्मण आत्मानं ब्रह्म प्राप­यि­ष्य­न्ना­त्मनो ब्रह्म­भा­व­प्रा­प्त्यु­पा­य­म­न्वि­ष्य­न्नो­मि­त्या­हे­त्यर्थः ।

स चेति ।
स च ब्राह्म­ण­स्ते­नो­ङ्का­रेण आत्म­ज्ञा­न­ल­क्ष­ण­मु­पायं लब्ध्वा ब्रह्म प्राप्नो­त्ये­वे­त्यर्थः ।

विव­क्षि­त­म­नु­वा­कार्थं सङ्क्षिप्य दर्शयति —
ओङ्कारपूर्वेति ।
अत्र यद्यपि ‘ओ श्रावय’ इति मन्त्रे ‘ओऽथामोद इव’ इति प्रति­ग­र­ना­म­क­मन्त्रे च ओकार एव श्रूयते न त्वोङ्कारः, तथा­प्यो­का­र­स्यो­ङ्का­रै­क­दे­श­त्वा­त्त­त्पूर्व - प्रवृ­त्ता­ना­म­प्यो­ङ्का­र­पू­र्व­क­त्व­मु­प­चा­रा­दु­क्त­मिति मन्तव्यम् ॥