वनमालाव्याख्या
ब्रह्मानन्दवल्ली: षष्ठोऽनुवाकः
असत्सम एव भवतीति ।
वन्ध्यापुत्रसम एव भवतीत्यर्थः ।
तदेव साम्यं प्रपञ्चयति –
यथेति ।
ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च असत्त्वमापन्नस्य ब्रह्मासत्त्ववेदिनो युक्तमेव वन्ध्यापुत्रस्येव भोगाद्यसम्बन्धित्वापादनमिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः ।
तदस्तित्वे लिङ्गं सूचयति –
सर्वविकल्पास्पदमिति ।
सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सदधिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः ।
तत्रैव लिङ्गान्तरं सूचयति –
सर्वप्रवृत्तिबीजमिति ।
सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्घटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तदस्तित्वसिद्धिरिति भावः ।
सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति –
सर्वविशेषेति ।
सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः ।
ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादित्याक्षिप्य समाधत्ते –
का पुनरित्यादिना ।
तदेव प्रपञ्चयति –
व्यवहारविषये हीत्यादिना ।
विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः ।
अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति –
यथा घटादिरिति ।
एवमिति ।
तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः ।
तस्मादुच्यत इति ।
यस्माद्ब्रह्मण्यसत्त्वाशङ्का जायते तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः ।
स इति ।
सर्वप्रत्यग्भूतं ब्रह्मास्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्त्वेनान्येषां वेदनीयो भवतीत्यर्थः ।
ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्त्वं नोपपद्यत इत्यस्वरसादाह –
अथ वेति ।
सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह –
ब्रह्मेति ।
सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः ।
तस्मादिति ।
ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः ।
अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति –
तं प्रतीति ।
आनन्दमयं प्रति या आशङ्का आनन्दमयनास्तित्वगोचरा वृत्तिकारैर्वक्तव्या सा कास्ति नास्त्येव, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।
तस्य स्वाभिमतं पुच्छवाक्यनिर्दिष्टब्रह्मविषयकत्वं निषप्रत्यूहं ब्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उपपादितत्वादित्याशयेनाह –
अपोढेति ।
ननु ब्रह्मणि सर्वव्यवहारापोहोऽसिद्धः विद्वद्व्यवहारविषयत्वादित्याशङ्क्याह –
सर्वसमत्वाच्चेति ।
च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभावात्तत्रासत्त्वशङ्का युक्तेत्यर्थः ।
यस्मादेवमिति ।
सर्वसमं ब्रह्मेत्येवंशब्दार्थः ।
अतस्तस्मादिति ।
अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् ।
आचार्योक्तिमिति ।
ब्रह्मविद्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः ।
श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्बनमतःशब्दोपात्तं विवृणोति –
सामान्यं हीति ।
समानमित्यर्थः ।
विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह –
आकाशादीति ।
प्रकृतस्याकाशादिकारणभूतब्रह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण सर्वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः ।
अमुमिति ।
बुद्ध्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रियागोचरत्वविवक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् ।
लोकमिति ।
लोकनं लोक इति व्युत्पत्त्या चैतन्यैकरसमित्यर्थः ।
इतः प्रेत्येति ।
मृत्वेत्यर्थः ।
नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्वकल्पनमित्याशङ्क्य बहुवचनानुरोधादित्याह –
अनुप्रश्ना इतीति ।
अन्यौ द्वाविति ।
न्यायसाम्यादिति भावः ।
ननु विदुषो ब्रह्मप्राप्त्यभावशङ्का निरालम्बनेत्याशङ्क्याह –
यद्यविद्वानिति ।
विष्णुमित्रविषयकप्रश्नन्यायमनुसरति –
द्वाविति ।
बहुवचनस्य गतिमाह –
बह्विति ।
पूर्वत्रास्तित्वनास्तित्वरूपकोटिद्वयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्वदविद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्यादेरसङ्गतत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम् ।
सामर्थ्यप्राप्तेत्येतदेव विवृणोति –
असदित्यादिना ।
यद्यपि पूर्वत्रासत्त्ववेदने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्मजिज्ञासोरल्पोपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः ।
अपक्षपातित्वादिति ।
विद्वदविद्वत्साधारण्यत्वादित्यर्थः ॥
उत्तरग्रन्थेऽप्यव्यवहितस्य ‘सोऽकामयत’ इत्यादेरवान्तरतात्पर्यमाह –
तत्रास्तित्वमेवेति ।
तावच्छब्दः प्राथम्यार्थः ।
ननु ‘ब्रह्मविदाप्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम् - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य ग्रन्थस्य समानार्थताया वक्तव्यत्वात्केनांशेन मन्त्रस्य ‘सोऽकामयत’ इत्यादिब्राह्मणस्य च विवरणविवरणिभावेन समानार्थत्वमिति जिज्ञासायां तद्दर्शयितुमनुवदति –
यच्चोक्तमिति ।
तत्रेति ।
तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथमित्याकाङ्क्षायामेतद्विस्तरेण वक्तव्यमित्यर्थः ।
ननु ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्वमित्याशङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति –
उक्तं हीति ।
हि-शब्दस्तयोः पर्यायत्वप्रसिद्धिद्योतकः ; तथा च सत्त्वसत्यत्वयोरेकत्वान्नोक्तशङ्कावकाश इत्याशयेनाह –
तस्मादिति ।
एवमर्थतेति ।
सत्त्वसाधनपरतेत्यर्थः ।
शब्दानुगमादिति परिहारं विवृणोति –
अनेनैवेति ।
सत्त्वलक्षणेनैवार्थेन, न तु विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्याचिख्यासुरुत्तरग्रन्थव्यावर्त्यं पूर्वपक्षमुद्भावयति ।
तत्रासदेवेति ।
पूर्वोक्तसंशये सतीत्यर्थः ।
विशेषत इति ।
व्यवहारगोचरत्वेनेत्यर्थः ।
'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वमवलम्ब्य शङ्कां निराकरोति –
तन्नेति ।
तन्नेति प्रतिज्ञां विवृणोति –
न नास्ति ब्रह्मेति ।
आकाङ्क्षापूर्वकं हेतुं विवृणोति –
कस्मादित्यादिना ।
कस्मादित्यनन्तरमाकाशादिकारणत्वादिति शेषः ।
हेतुं साधयति –
आकाशादि हीति ।
कार्यत्वेनाभिमतमाकाशादिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्ब्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शब्दः ।
इदानीं व्याप्तिमाह –
यस्माच्चेति ।
च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चिद्यस्माज्जायते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्सदुपादानकमिति व्याप्तिनिष्कर्षः ।
निगमयति –
तस्मादिति ।
उक्तव्याप्तिबलादित्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्मण्यसत्त्वशङ्केति भावः ।
नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे –
न चासत इति ।
ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु ; नेत्याह –
असतश्चेदिति ।
कार्यमित्यनन्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नामरूपकर्मात्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्त्वेन रूपेण जगन्नोपलभ्येतेत्यर्थः ।
तर्कस्य विपर्यये पर्यवसानमाह –
उपलभ्यते त्विति ।
'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः ।
फलितमाह –
तस्मादिति ।
हेतोरप्रयोजकत्वासम्भवादित्यर्थः । यद्वा कारणत्वादित्यर्थः ।
विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति –
असतश्चेत्कार्यमित्यादिना ।
असत उपादानभूतात्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः ।
न्यायत इति ।
असदन्वयादर्शनादियुक्तित इत्यर्थः ।
तस्मादिति ।
श्रुत्यन्तरबलादपीत्यर्थः ।
मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिकचेतनत्वविवकरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति –
तद्यदीत्यादिना ।
तद्ब्रह्म ।
ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वात्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्क्य लौकिकव्याप्तिबलेनेत्याशयेनाह –
न हीति ।
यद्वा प्रसङ्गात्साङ्ख्यशङ्कामुद्भाव्य कामश्रुत्या निराकरोति –
तद्यदीत्यादिना ।
तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः ।
मन्त्रेऽपि सङ्ग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह –
सर्वज्ञमिति ।
अवोचामेति ।
मन्त्रगतज्ञानपदविवेचनावसर इत्यर्थः ।
यद्वा कामयितृत्ववचनादिना ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञानासम्भवात्सृष्ट्यनुकूलकामानुपपत्तिरित्याशङ्क्याह –
सर्वज्ञमिति ।
'पश्यत्यचक्षुः’ इत्यादिश्रुत्या परमेश्वरज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तशङ्कावकाश इति भावः ।
अत इति ।
चेतनत्वात्सर्वज्ञत्वाद्वेत्यर्थः ।
ब्रह्मणः कामयितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशङ्कते –
कामयितृत्वादिति ।
अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्यासम्प्रदायप्रवर्तनादौ कामयितृत्वदर्शनात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परिहरति –
न ; स्वातन्त्र्यादिति ।
ब्रह्मणः कामेषु स्वातन्त्र्यमस्मदादिकामवैलक्षण्योक्तिपूर्वकं प्रपञ्चयति –
यथान्यानित्यादिना ।
ननु ब्रह्मकामा दोषरूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति –
कथं तर्हीति ।
विशुद्धा इत्युत्तरम् ।
ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह –
सत्यज्ञानलक्षणा इति ।
'सत्यं ज्ञानम्’ इति मन्त्रोक्तब्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः ।
तेषां विशुद्धत्वे हेतुमाह –
स्वात्मभूतत्वादिति ।
स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्परिणामत्वादिति यावत् । आत्मभूतत्वं च मायायास्तादात्म्यापन्नत्वमुपाधित्वं वा । एतदुक्तं भवति – ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्परिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति ।
ननु तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याह –
तेषां त्विति ।
तु-शब्दोऽवधारणार्थः । तद्ब्रह्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपेक्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः ।
एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्र्यमिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धिदर्शनेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्यादिश्रुतिसिद्धस्वातन्त्र्योपपत्तेरित्याशयेनाह –
तस्मादिति ।
कामानां विशुद्धत्वादित्यर्थः ।
अत इति ।
स्वातन्त्र्यादित्यर्थः ।
साधनान्तरेति ।
ब्रह्मणः स्वकामेषु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्तकामं ब्रह्मेति प्रतिपत्तव्यमित्यर्थः ।
साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपञ्चयति –
किं चेत्यादिना ।
अनात्मभूता इति ।
अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्तसाधनोद्भूता इत्यर्थः ।
अस्मिन्पक्षेऽस्यैव विवरणम् –
धर्मादीत्यादि ।
कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोऽनाप्तकामत्वं स्यात् , साधनान्तरानपेक्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तराणीत्यर्थः ।
न तथा ब्रह्मण इति ।
कामानामिति शेषः ।
किं तर्हीति ।
यदि ब्रह्मणः कामाः स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः ।
उत्तरमाह –
स्वात्मनोऽनन्या इति ।
स्वात्ममात्रसाध्या ब्रह्मणः कामा इत्यर्थः ।
तदेतदिति ।
तद्विशुद्धत्वेन निरूपितमेतत्स्वात्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः ।
प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्धेशो न संनिहितब्रह्मपदापेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यवहितात्मपदापेक्ष इत्याशयेनाह –
स आत्मेति ।
कामनाप्रकारं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
एकस्य बहुभवनं विरुद्धमिति शङ्कते –
कथमेकस्येति ।
नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशङ्क्याह –
अर्थान्तराननुप्रवेश इति ।
यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विवक्षितत्वादिति परिहरति –
उच्यत इति ।
उत्पद्येयेति ।
पूर्वसिद्धस्य ब्रह्मणः स्वत उत्पत्त्ययोगादाकाशाद्यर्थान्तरानुप्रवेशेनैवोत्पत्तिर्विवक्षिता वाच्या, अतः प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः ।
ननु पितुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्थान्तरभूतैराकाशादिविकारैर्बहुभवनं विवक्षितम् ? नेत्याह –
न हीति ।
अर्थान्तरपदं भिन्नसत्ताकवस्तुपरम् , तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः ।
नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादिविकारतादात्म्यमादायापि बहुभवनं न सम्भवतीत्यभिप्रायेण शङ्कते –
कथं तर्हीति ।
वस्तुतस्तदसम्भवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति –
आत्मस्थेति ।
आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्त्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः ।
उक्तं विवृणोति –
यदेति ।
आत्मस्वरूपापरित्यागेनैवेति ।
कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः ।
तमेवापरित्यागं विवृणोति –
ब्रह्मणोऽप्रविभक्तेति ।
ब्रह्मणः सकाशादप्रविभक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशब्देनोच्यन्ते ।
नान्यथेति ।
अन्यथा विविधपरिणामिविकारतया बहुत्वापत्तिर्नोपपद्यत इत्यत्र हेतुं सूचयति –
निरवयवस्येति ।
लोके सावयवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् ।
एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह –
यथेति ।
वस्त्वन्तरकृतमिति ।
घटाद्युपाधिकृतमित्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्वदण्डधारादिभावेन बहुभवनमुदाहर्तव्यम् ।
अतस्तद्द्वारेणैवेति ।
परिणामितया बहुत्वासम्भवात्स्वाध्यस्तनामरूपद्वारेणैवात्मा बहुत्वमापद्यत इत्यर्थः ।
नामरूपयोरप्रविभक्तदेशकालत्वं साधयति –
न हीति ।
अन्यदित्यस्य विवरणमनात्मभूतमिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूतवर्तमानभविष्यदादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्ब्रह्मणः सकाशात्प्रविभक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जगतोऽधिष्ठानब्रह्मतादात्म्यशून्यतयावस्थानायोगादिति भावः ।
नामरूपयोर्ब्रह्मणि कल्पितत्वे स्थिते फलितमाह –
अत इति ।
ब्रह्मणैवात्मवती इति ।
ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः ।
वैपरीत्यं निषेधति –
न ब्रह्मेति ।
स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रकाशात्मकत्वाभावादध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्रकाशत्वासम्भवाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः ।
ब्रह्मणैवात्मवती इत्युक्तं सहेतुकं विवृणोति –
ते तदिति ।
तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः ।
ब्रह्मणो नामरूपोपाधिकबहुभवनं कीदृशमित्याकाङ्क्षायामाह –
ताभ्यां चेति ।
ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति । आदिपदं कर्मादिसङ्ग्रहार्थम् । एवं सर्वव्यवहारभाग्ब्रह्मेत्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः ।
इतरस्य कायक्लेशादिरूपस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह –
आप्तकामत्वाच्चेति ।
इदमुपलक्षणम् ; प्राक्सृष्टेर्ब्रह्मणः कायाभावाच्चेत्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति ।
सृज्यमानजगद्वैचित्र्ये निमित्तं सूचयति –
प्राणिकर्मादीति ।
उपासनादिलक्षणं श्रुतमादिपदार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः ।
आनुरूप्यमेव विवृणोति –
देशत इत्यादिना ।
सर्वावस्थैरिति ।
देवत्वमनष्यत्वतिर्यक्त्वाद्यवस्थैरित्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥
प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते –
तत्रैतच्चिन्त्यमित्यादिना ।
कथंशब्दसूचितं विमर्शमेव विवृणोति –
किमिति ।
किं परमात्मा स्वेनैवात्मनानुप्राविशत् , किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः ।
तत्र प्रथमं सिद्धान्तमाह –
किं तावद्युक्तमित्यादिना ।
अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति –
ननु न युक्तमित्यादिना ।
कार्यस्य बुद्ध्यादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्तत्वात्कार्यभूतदेहाद्युत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः ।
उक्तमेव विवृणोति –
कारणमेव हीति ।
कारणमेव कार्यात्मना परिणतमिति प्रसिद्धमित्यर्थः ।
ततः किम् ? अत आह –
तत इति ।
कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः ।
अप्रविष्टस्येवेति ।
देवदत्तादेरिति शेषः ।
उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह –
न हीति ।
एवं ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दृष्टान्तेनाह –
यथा घट इत्यादिना ।
पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः ।
अत्रार्थे छन्दोगश्रुतिसंवादमाह –
श्रुत्यन्तराच्चेति ।
सिद्धान्ती निराकरोति –
नैवं युक्तमेकत्वाद्ब्रह्मण इति ।
परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः ।
सङ्ग्रहवाक्यं दृष्टान्तवैशम्योक्तिपूर्वकं विवृणोति –
मृदात्मनस्त्वित्यादिना ।
मृज्जातीयस्य त्वित्यर्थः ।
सावयवत्वाच्चेति ।
सावयवस्य मूर्ततया प्रवेशयोग्यत्वाच्चेत्यर्थः ।
चूर्णस्येति ।
तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः ।
एकत्वे सतीति ।
एकत्वादित्यर्थः ।
ननु यदि जीवस्य ब्रह्मानन्यत्वाद्ब्रह्मणश्च स्वतो व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासम्भवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति –
कथं तर्हीति ।
मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह –
युक्तश्चेति ।
तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः ।
कथमित्याशङ्क्याह पूर्ववादी –
सावयवमेवास्तु तर्हीति ।
यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपादानत्वान्मृदादिवत् ।
ततश्च प्रवेशोपपत्तिरित्याह –
सावयवत्वादिति ।
यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रपञ्चाकारेण परिणममानस्य ब्रह्मणोऽप्यवयवविशेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वायवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः ।
उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति –
नाशून्यत्वादिति ।
प्रवेष्टव्यप्रदेशशून्यत्वाद्ब्रह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः ।
उक्तमेव विवृणोति –
न हीति ।
कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चित्प्रवेशोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वसाधकानुमानानुत्थानाच्चेत्यपि दृष्टव्यम् ।
इत्थमन्येनात्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते –
कारणमेव चेत्प्रविशेदिति ।
नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिन्नत्वात्प्रवेष्टृत्वोपपत्तिरिति चेदित्यर्थः ।
सिद्धान्ती तमपि निराकरोति –
जीवात्मत्वं जह्यादिति ।
यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसङ्गादिति यावत् ।
विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह –
यथेति ।
इतश्च न कारणे कार्यस्यानुप्रवेशो युक्त इत्याह –
तदेवेति ।
तच्छब्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादित्यर्थः ।
एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेशनिर्वाहकमाशङ्कते –
कार्यान्तरमेव स्यादिति ।
तदेव विवृणोति –
तदेवेति ।
'तदेवानुप्राविशत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्यादिरूपेणाहंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानुसारेण श्रुत्यर्थवर्णनस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः ।
सिद्धान्ती निराकरोति –
न, विरोधादिति ।
कार्यान्तरस्य कार्यान्तरस्य कार्यान्तरतापत्तेर्विरुद्धत्वादित्यर्थः ।
अत्रोदाहरणमाह –
नहीति ।
जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह –
व्यतिरेकेति ।
जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्तिश्चानुभवसिद्धा ; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यतिरेकमनुवदन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्यादिप्रतीतेरप्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः ।
जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह –
तदापत्ताविति ।
जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः ।
असम्भवमेव विवृणोति –
न हीति ।
यत इति ।
देहादिलक्षणाद्बन्धादित्यर्थः ।
दृष्टान्तमाह –
न हीति ।
यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्खलापत्तिर्विद्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः ।
ननु यदि जीवस्य देहादिभावापत्तौ व्यतिरेकश्रुतिविरोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवेशोऽस्त्विति पूर्ववादी प्रत्यवतिष्ठते –
बाह्यान्तर्भेदेनेति ।
एतदेव प्रपञ्चयति –
तदेवेति ।
प्रकृतमाकाशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चाद्देहादावाधारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः ।
येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्यप्रवेशत्वेन त्वदभिमता किं वौपचारिकप्रवेशत्वेन ? नाद्य इत्याह –
न ; बहिष्ठेत्यादिना ।
न द्वितीयः, ब्रह्मणः परिणामित्वस्यासम्भवात् । एतच्च ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचार्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते’ इत्यत्र । तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपन्नमेवेति स्थितम् ।
इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति –
जलसूर्येत्यादिना ।
यथा सूर्यादेर्जलादौ प्रतिबिम्बभावलक्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रतिबिम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेशपदार्थत्वकल्पने बाधकाभावादित्याशयः ।
अपरिच्छिन्नत्वादिति ।
व्यापकत्वादित्यर्थः ।
अमूर्तत्वाच्चेति ।
मूर्तिरवयवसंस्थानविशेषः, तद्रहितत्वात् , निरवयवद्रव्यत्वादिति यावत् ।
व्यापकत्वे हेतुं पूर्ववाक्येनाह –
आकाशादीति ।
ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकाद्यवच्छेदेन जलादौ प्रतिबिम्बोदयदर्शनादात्मनोऽपि तथा किं न स्यादित्याशङ्क्याह –
तद्विप्रकृष्टेति ।
लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच्च प्रतिबिम्बबोदययोग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्ध्यादेर्व्यापकात्मापेक्षया विप्रकृष्टदेशत्वाभावात् उद्भूतरूपरहितत्वाच्चेत्यर्थः । अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् ‘वृद्धिह्रासभाक्त्वम्’ इति सूत्रतद्भाष्ययोर्महता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः ।
प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह –
एवं तर्हीति ।
प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निरस्तत्वादित्याशयेनाह –
न चेति ।
प्रवेशवाक्यस्य निर्विषयत्वमयुक्तं श्रुतिवाक्यत्वादित्याह –
तदेवेति ।
प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाच्चेत्याह –
श्रुतिश्चेति ।
तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्याशङ्क्याह –
न चास्मादिति ।
प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पद्यते, तस्मात्प्रतिबिम्बभावनिराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः ।
एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छ्रुत्वा तटस्थ आह –
हन्त तर्हीति ।
इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति –
न, अन्यार्थत्वादिति ।
प्राङ् निराकृतेभ्योऽर्थेभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रकरणापेक्षितस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यतेत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
किमर्थमिति ।
वाक्यस्य निर्विषयत्वाद्यापादनमस्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः ।
निर्विषयत्वाद्यापादनस्यायुक्तत्वे हेतुमाह –
प्रकृतो हीति ।
हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्यस्यार्थान्तरस्य सत्त्वादित्यर्थः ।
कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायां तं दर्शयति –
ब्रह्मविदिति ।
'ब्रह्मविदाप्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव परप्राप्तिसाधनत्वादित्यर्थः ।
एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्यपर्यन्तमनुवृत्तिमाह –
ब्रह्मस्वरूपेत्यादिना ।
ब्रह्मावगमश्चेति ।
'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्यं प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः ।
एवं सृष्टिवाक्येऽनुवृत्तस्य च तस्य विज्ञानमयवाक्येऽनुवृत्तिमाह –
तत्रान्नमयादिति ।
कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरब्रह्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्तिकथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञानमयपर्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्याकाङ्क्षायां तमभिप्रायं गुहाशब्दप्रयोगेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्क्षायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति ।
नन्वेवमानन्दमयस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्क्याह –
तत्रेति ।
प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्यर्थः ।
कथं तर्हि बुद्धिगुहानिहितत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्क्याह –
ततः परमिति ।
आनन्दमयाधिगमानन्तरमित्यर्थः ।
नन्वानन्दयमाधिगमस्यानन्तर्योक्तिसिद्धविशुद्धब्रह्माधिगमोपायत्वं कथमित्यत आह –
आनन्दमयलिङ्गेति ।
आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम् , विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात् ।
आनन्देति ।
आनन्दवृद्धेर्वक्ष्यमाणाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः ।
प्रतिष्ठाशब्दार्थमाह –
सर्वविकल्पेति ।
सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्वमाह – –
निर्विकल्प इति ।
तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्ध्यवसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति ।
बुद्धावेव प्रवेशकल्पने हेतुमाह –
न ह्यन्यत्रेति ।
बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः ।
तत्र हेतुमाह –
निर्विशेषत्वादिति ।
व्यञ्जकपदार्थरूपो यो विशेषस्तत्सम्बन्धरहितत्वादित्यर्थः ।
बुद्धिसम्बन्धस्य ब्रह्मोपलब्धिहेतुत्वं सदृष्टान्तमाह –
विशेषसम्बन्धो हीति ।
व्यञ्जकपदार्थो विशेषपदस्यार्थः ।
ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्क्याह –
संनिकर्षादिति ।
वृत्तिद्वारा बुद्धिसम्बन्धादेव तत्राप्युपलब्धिरित्यर्थः ।
बुद्धेश्चैतन्यव्यञ्जकत्वे युक्तिमाह –
अवभासात्मकत्वाच्चेति ।
प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादेरिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः ।
बुद्धिवृत्तेर्घटादिषु चैतन्यव्यञ्जकत्वं सदृष्टान्तमाह –
यथा चेति ।
आदिपदं नीलपीतादिसङ्ग्रहार्थम् । यथा नीलपीताद्युपलब्धिरालोकसम्बन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसम्बन्धप्रयुक्तेत्यर्थः ।
एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव ब्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति –
तस्मादिति ।
मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः ।
तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति –
वृत्तिस्थानीय इति ।
वृत्तिर्व्याख्या । तथा च व्याख्यानव्याख्येयभावापन्नयोर्गुहानिहितप्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः ॥
इदानीं प्रवेशशब्दार्थं कथयति –
तदेवेदमित्यादिना ।
यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः ।
अनुप्रविष्टमिवेति ।
गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः ।
एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति –
तस्मादस्तीति ।
तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः ।
ब्रह्मणो नास्तित्वाभावे फलितमाह –
अत इति ।
पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः ।
ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह –
मूर्तामूर्ते हीति ।
प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।
ततः किम् ? अत आह –
व्याकृते चेति ।
आत्मना त्विति ।
परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।
इदं तदित्युक्तमिति ।
यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।
विशेषणे इति ।
निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः ।
यथेति ।
यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः ।
तथेति ।
निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः ।
धर्म इति ।
तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् ।
ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह –
त्यदनिरुक्तेति ।
व्याकृतेति ।
व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः ।
व्याकृतविषयत्वमेव विवृणोति –
त्यदितीत्यादिना ।
प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् ।
अत इति ।
त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना ।
सत्यं चेति ।
'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते ।
न तु परमार्थसत्यमित्यत्र हेतुः –
अधिकारादिति ।
सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।
भवत्विति चेत् , तत्राह –
एकमेव हीति ।
परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।
ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति –
इह पुनरिति ।
'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।
किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह –
मृगतृष्णिकादीति ।
'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः ।
किं पुनरिति ।
एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।
तत्र सत्यं विशिनष्टि –
परमार्थेति ।
इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् ।
परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति –
किं पुनस्तदित्यादिना ।
यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या ।
इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह –
यस्मादित्यादिना ।
पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –
अस्तीत्यादिना ।
इदानीं तत्र विवक्षितं कथयति –
तस्मादिति ।
श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः ।
तदेवेति ।
ब्रह्मैवेत्यर्थः ।
इदंशब्दार्थमेवाह –
कार्यस्थमिति ।
कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।
बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह –
परम इत्यादिना ।
व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।
मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह –
तत्प्रत्ययेति ।
तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः ।
ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि –
कार्यद्वारेणेति ।
असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥