अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: नवमोऽनुवाकः

'अदृ­श्येऽ­नात्म्ये’ इत्या­दि­नि­षे­ध­श्रु­ति­म­भि­प्रे­त्याह –
निर्विकल्पादिति ।
सर्व­वि­शे­ष­र­हि­ता­दि­त्यर्थः ।

'सत्यं ज्ञानमनन्तम्’ इति लक्ष­ण­वा­क्य­म­भि­प्रे­त्याह –
यथो­क्त­ल­क्ष­णा­दिति ।

आन­न्त्य­वि­व­र­ण­प­राम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टि­श्रु­ति­म­भि­प्रे­त्याह –
अद्वयादिति ।

यद्वा विशेष्यमाह –
अद्वयादिति ।
ब्रह्मण इत्यर्थः ।

मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह –
आनन्दात्मन इति ।
आन­न्द­स्व­रू­पा­दि­त्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्त­पा­ठेऽ­प्य­य­मे­वार्थः ।

अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह –
द्रव्यादीति ।
गुणा­दि­स­ङ्ग्र­हा­र्थ­मा­दि­ग्र­ह­णम् । सवि­शो­ष­व­स्तु­वि­ष­या­णीति निष्कर्षः ।

ननु तेषां निर्विशेषे ब्रह्मणि प्राप्ते­र­प्र­स­क्त­त्वा­त्कथं प्रतिषेध इत्याशङ्क्याह –
वस्तु­सा­मा­न्या­दिति ।
वस्तु­त्व­सा­मा­न्या­दि­त्यर्थः ।

नन्व­प्र­का­श्ये­त्य­नु­प­प­न्नम् उप­नि­ष­च्छ­ब्दै­र­वश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्यु­प­नि­ष­त्प्र­का­श्य­त्व­श्रु­ति­वि­रो­ध­प्र­स­ङ्गा­दि­त्या­शङ्क्य प्राप्ति­नि­षे­ध­श्रु­ते­स्ता­त्प­र्य­माह –
स्वसा­म­र्थ्या­द्धी­यन्त इति ।
सामर्थ्यं शक्तिः, तद्वि­ष­य­त्व­मे­वात्र निषिध्यते, न लक्ष­णा­वि­ष­य­त्व­मपि ; अतो न श्रुत्य­न्त­र­वि­रोध इति भावः । मनसा सहाप्राप्येति सम्ब­न्धा­द्ब्र­ह्मणि मनः­प्र­का­श्य­त्व­मपि निषिध्यते, स्वप्रकाशस्य तस्य मनः­प्र­का­श्य­त्वा­यो­गात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते ।

तमुपपादयति –
मन इतीत्यादिना ।
मन इति पदेन प्रत्य­योऽ­भि­धी­यते, स च प्रत्ययो ज्ञान­सा­मा­न्य­रूपो न भवति । किं तु वाच इत्यनेन सम­भि­व्या­हा­रा­च्छ­ब्द­श­क्ति­ज­नितं विज्ञानं पर्यवस्यति ।

ततः किमत आह –
तच्चेति ।
यत्र शब्द­श­क्ति­वि­ष­यत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्द­श­क्ति­ज­नि­त­वि­ज्ञा­न­प्र­का­श्य­त्व­मपि भवति ; यत्र च तादृ­श­ज्ञा­न­प्र­का­श्यत्वं तत्र शब्द­श­क्ति­वि­ष­य­त्व­म­प्य­स्त्ये­वेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छ­ब्दै­र्ज्ञा­न­मा­का­र­व­द्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्र­का­श­मि­त्यर्थः ।

अती­न्द्रि­येऽ­पीति ।
जग­त्का­र­णा­द्य­ती­न्द्रि­या­र्थेऽ­पी­त्यर्थः ।

तस्मादिति ।
उक्तरीत्या सहैव प्रवृ­त्ति­द­र्श­ना­दि­त्यर्थः ।

एवं वाङ्मनसयोः सहैव प्रवृ­त्ति­मुक्त्वा निवृत्तिरपि सहैवेत्याह –
तस्मादित्यादिना ।

अप्र­त्य­य­वि­ष­या­दिति ।
प्रत्य­य­वि­ष­य­त्वा­यो­ग्या­दि­त्यर्थः ।

अनभिधेयादिति ।
शब्द­श­क्त्य­यो­ग्या­दि­त्यर्थः ।

उभयत्र हेतुं सूचयति –
अदृ­श्या­दि­वि­शे­ष­णा­दिति ।
निर्वि­शे­ष­त्वा­त्स्व­प्र­का­श­त्वा­च्चे­त्यर्थः ।

सर्व­प्र­का­श­न­स­म­र्थे­नेति ।
अग्नि­त­प्ता­यः­पि­ण्ड­व­च्चै­त­न्य­व्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्र­का­श­ब्र­ह्म­प्र­का­शने साम­र्थ्या­भा­वा­न्नि­व­र्तत इति भावः । शब्द­श­क्ति­ज­नि­त­वि­ज्ञा­नस्य निर्वि­शे­ष­ब्र­ह्म­गो­च­र­त्व­यो­ग्य­ता­रा­हि­त्या­त्त­द­प्र­का­श्यैव निवृत्तिरित्यपि मन्तव्यम् ।

अस्यानन्दस्य पारोक्ष्यवारणाय विद्व­त्प्र­त्य­क्ष­त्व­माह –
श्रोत्रियस्येति ।
अवृजिनत्वं पापराहित्यम् ।

आन­न्द­मी­मां­सा­वा­क्य­नि­र्दि­ष्ट­श्रो­त्रि­य­नि­रा­सा­या­त्रा­का­म­ह­तत्वं निर­ङ्कु­श­मि­त्या­श­ये­नाह –
सर्वैषणेति ।

साति­श­या­न­न्द­वै­ल­क्षण्यं प्रकृतानन्दस्य दर्शयति –
विषयेति ।

विष­या­दि­स­म्ब­न्ध­ज­नि­त­त्वा­भा­वेऽपि गग­ना­दे­रि­वो­त्प­त्ति­मा­श­ङ्क्याह –
स्वाभाविकमिति ।
अनादिमित्यर्थः ।

अना­दे­र­प्य­वि­द्या­दे­रिव नाशमाशङ्क्याह –
नित्यमिति ।

सर्वेषु शरीरेषु तस्यैक्यमाह –
अविभक्तमिति ।

अत एवास्यानन्दस्य पर­म­त्व­मि­त्या­श­ये­नाह –
परमानन्दमिति ।

यथोक्तेनेति ।
अन्योऽन्तर आत्मान्योऽन्तर आत्मे­त्या­द्यु­क्तेन प्रकारेण यथो­क्त­मा­न­न्द­मा­त्म­त्वेन साक्षा­त्कृ­त­वा­नि­त्यर्थः ।

भय­नि­मि­त्ता­भा­वा­त्कु­तोऽपि न बिभे­ती­त्यु­क्त­मेव विशदयति –
न हीति ।

विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह –
अवि­द्य­ये­त्या­दिना ।

ततः किम् ? अत आह –
विदुषस्त्विति ।
भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः ।

अधि­ष्ठा­न­या­था­त्म्य­गो­च­र­वि­द्यया अध्य­स्त­व­स्तु­नाशे दृष्टान्तमाह –
तैमिरिकेति ।
तैमिरिकदृष्टस्य द्विती­य­च­न्द्रस्य चन्द्रै­क­त्व­वि­द्यया नाशवदित्यर्थः ।

ननु विशु­द्ध­ब्र­ह्म­प्र­ति­पा­द­कोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भय­नि­मि­त्त­नि­षे­ध­म­कृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह –
मनोमये चेति ।
मनो­म­य­श­ब्द­वा­च्य­स्या­स्म­दा­दि­म­नसो ब्रह्म­वि­ज्ञा­न­सा­ध­न­त्वा­त्तत्र मनसि ब्रह्म­त्व­म­ध्या­रोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदा­ह­र­णा­नु­प­प­त्ति­रिति भावः ।

तत्स्तु­त्य­र्थ­मिति ।
मनोमयोपासनस्य ब्रह्म­वि­द्या­शे­ष­त्वेन फल­स्या­वि­व­क्षि­त­त्वा­त्त­दु­पा­स­नस्य साक्षा­द्भ­य­नि­मि­त्त­नि­र­सने साम­र्थ्या­भा­वाच्च मनो­म­यो­पा­स­न­स्तु­तये तत्र भयमात्रं निषि­द्ध­मि­त्यर्थः ।

प्रकृते तद्वैषम्यमाह –
इह त्विति ।
अद्वैते विद्याविषये ब्रह्मणि द्वैता­व­शे­षा­स­म्भ­वा­द्भ­य­नि­मि­त्त­नि­षेध उपपद्यत इत्यर्थः ।

भय­नि­मि­त्त­नि­षे­ध­मा­क्षि­पति –
नन्वस्तीति ।

परिहरति –
नैवमिति ।
विदुषः साध्वकरणं पापकरणं च भय­का­र­ण­म­स्ती­त्येवं न वक्त­व्य­मि­त्यर्थः ।

तत्र हेतुं पृच्छति –
कथमिति ।

श्रुत्या हेतुमाह –
उच्यत इत्यादिना ।

यथोक्तमिति ।
'आनन्दं ब्रह्मणो विद्वान् ‘ इत्या­दि­पू­र्व­ग्रन्थे प्रकृतमित्यर्थः ।

कथं पुनरिति ।
साध्वकरणादिकं कथं सन्ता­प­य­त्स­दे­वं­वि­द­मेव न सन्तापयतीति प्रश्नार्थः ।

अहमेवमिति ।
अविदुषामासन्ने मरणकाले एवं श्रुत्यु­क्त­प्र­का­रेण सन्तापो भवतीति योजना ।

एवमविदुषां पाप­क­र­ण­नि­मि­त्त­कोऽपि पश्चात्सन्तापो भवतीत्याह –
तथेति ।

विदुषस्तदभावमाह –
ते एते इति ।

एवंशब्दार्थमेव विवृणोति –
यथेति ।

पुण्य­पा­प­यो­रा­त्म­मा­त्र­त्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह –
कस्मा­त्पु­न­रि­त्या­दिना ।

एते इति सर्वनाम्नः प्रकृ­त­सा­ध्व­क­र­णा­दि­प­रत्वं व्यावर्तयति –
साध्वसाधुनी इति ।
तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा ताप­हे­तु­त्वे­नोक्ते इत्यर्थः ।

नन्वत्र एते आत्मानमिति सामा­ना­धि­क­र­ण्या­त्पु­ण्य­पा­प­यो­रा­त्मा­भि­न्नत्वं भाति, तत­श्चा­त्मा­भि­न्न­त्व­कृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्या­दि­म­त्त्वा­यो­गात् ; न चात्मनः पुण्य­प­पा­भि­न्न­त्व­बो­ध­न­द्वारा तत्कृतं प्रीण­ना­दि­क­मा­त्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि ताप­क­क­र्मा­त्म­क­त्वस्य प्रीत्या­दि­हे­तु­त्वा­स­म्भ­वात् , तस्य प्रीति­ब­ल­न­हे­तु­त्वो­क्ता­वपि भय­नि­वृ­त्ति­हे­तु­त्वा­न­भि­धा­ना­च्चे­त्या­शङ्क्य विवक्षितं वाक्यार्थमाह –
परमात्मभावेनोभे पश्यतीत्यर्थ इति ।

'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्य­पा­प­यो­रा­त्म­मा­त्र­त्व­द­र्श­न­मु­त्त­र­वा­क्ये­ना­नूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्द­यु­क्त­त्वा­दु­त्त­र­वा­क्य­स्ये­त्या­श­ये­नाह –
उभे इत्यादिना ।

एवकारमात्मपदेन योजयति –
आत्म­स्व­रू­पे­णै­वेति ।
पश्यतीति शेषः ।

ननु ज्योति­ष्टो­म­क­ल­ञ्ज­भ­क्ष­णा­दि­ल­क्षणं कर्मास्ति प्रकाशत इत्य­नु­भ­वा­नु­रो­धा­त्पु­ण्य­पा­पयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्ज­डो­भ­य­रू­प­यो­स्तयोः कथं चिदे­क­र­सा­त्म­भा­वेन दर्श­न­मि­त्या­श­ङ्क्याह –
स्वेनेति ।
स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनु­स­न्धा­ये­त्यर्थः ।

आत्मानं स्पृणुत एवेति ।
पुण्यपापे चिदं­शा­भि­प्रा­ये­णा­त्म­रू­पे­णैव पश्यतीत्यर्थः ।

एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति –
क इति ।

श्रुत्योत्तरमाह –
य इति ।

एवमित्यस्य व्याख्यानम् –
यथोक्तमिति ।
'सत्यं ज्ञानम् ‘ इत्या­दि­म­न्त्र­ब्रा­ह्म­ण­जा­तेन यथा­नि­रू­पि­त­मि­त्यर्थः ।

यथोक्तं स्वरूपमेव सङ्क्षिप्याह –
अद्वै­त­मा­न­न्द­मिति ।
यः सर्वा­त्म­क­मा­न­न्द­रूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्या­त्म­स्व­रू­पे­णैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मा­दि­त्यु­प­क्र­मात् ।

ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वा­त्मै­क­त्व­द­र्शिनः पुण्य­पा­प­यो­र­प्या­त्म­भावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भवि­ष्य­ती­त्य­वि­ज्ञा­त­मेव ; नेत्याह –
निर्वीर्य इति ।
भर्जितबीजवदिति भावः ।

निर्वी­र्य­त्व­फ­ल­माह –
जन्मारम्भके न भवत इति ।
अतो न विदुषः पार­लौ­कि­क­भ­य­प्र­स­क्ति­रि­त्यर्थः ।

इत्यु­प­नि­ष­दि­त्य­स्या­र्थ­माह –
इतीत्यादिना ।
इति­श­ब्द­प­रा­मृष्टा यथोक्ता ब्रह्मविद्या उप­नि­ष­त्प­र­म­र­ह­स्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शि­त­मि­त्य­न्वयः ।

परमरहस्यत्वे हेतुः –
यस्मादेवं तस्मादिति ।
यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः ।

उप­नि­ष­त्प­द­स्या­र्था­न्त­रा­भि­प्रा­ये­णाह –
परं श्रेय इति ।
अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्म­स्व­रू­प­भू­तम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्म­व­ल्ली­वि­व­र­ण­स­मा­प्त्यर्थः ॥