अद्वैतशारदाचिह्नितानि

श्लोकानुक्रमणिका

590

  1. सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥
  2. जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात् परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥२॥
  3. दुर्लभं त्रयमेवैतद् दैवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥
  4. लब्ध्वा कथञ्चित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्स्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥४॥
  5. इतः कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥
  6. पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक्यबोधेन विना विमुक्तिः न सिद्ध्यति ब्रह्मशतान्तरेऽपि ॥६॥
  7. अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥७॥
  8. अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥८॥
  9. उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥
  10. संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १०॥
  11. चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥११॥
  12. सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्त्योदितमहासर्पभवदुःखविनाशिनी ॥१२॥
  13. अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥१३॥
  14. अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
  15. अतो विचारः कर्तव्यः जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥१५॥
  16. मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥१६॥
  17. विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥
  18. साधनान्यत्र चत्वारि कथितानि मनीषीभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥
  19. आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् ॥१९॥
  20. शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ।
  21. ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः ॥२०॥
  22. सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥२० – १/२॥
  23. तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः । २१ ।
  24. देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥ २१-१/२॥
  25. विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥२२-१/२॥
  26. विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रयाणां स दमः परिकीर्तितः ॥२३-१/२॥
  27. बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २४॥
  28. सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२५॥
  29. शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्याऽवधारणा । सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
  30. सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२७॥
  31. अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥२८॥
  32. मन्दमध्यमरूपाऽपि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥२९॥
  33. वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥३०॥
  34. एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥३१॥
  35. मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥३२॥
  36. स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ॥३२-१/२॥
  37. उक्तसाधनसम्पन्नः तत्त्वजिज्ञासुरात्मनः । उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥३३-१/२॥
  38. श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ॥३४-१/२॥
  39. अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥३५॥
  40. तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६॥
  41. स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्याऽतिकारुण्यसुधाभिवृष्ट्या ॥३७॥
  42. दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यं यदहं न जाने ॥३८॥
  43. शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णास्स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३९॥
  44. अयं स्वभावस्स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्क-कर्कश-प्रभाभितप्तामवति क्षितिं किल ॥४०॥
  45. ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥४१॥
  46. कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः । जाने न किञ्चित्कृपयाव मां प्रभो संसारदुःखक्षतिमातनुष्व ॥४२॥
  47. तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥४३॥
  48. विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधुयथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥
  49. माभैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥४५॥
  50. अस्त्युपायो महान्कश्चित् संसारभयनाशनः । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४६॥
  51. वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥४७॥
  52. श्रद्धाभक्तिध्यानयोगान् मुमुक्षो र्मुक्तेर्हेतून् वक्ति साक्षात् श्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥४८॥
  53. अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥
  54. कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥५०॥
  55. को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् ॥५१॥
  56. धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५२॥
  57. ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५३॥
  58. मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५४॥
  59. पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥५५॥
  60. वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥
  61. अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥५७॥
  62. न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८॥
  63. वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥५९॥
  64. वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥६०॥
  65. अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६१॥
  66. शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥६२॥
  67. अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥
  68. न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥
  69. अकृत्वा दृश्यविलयम् अज्ञात्वा तत्त्वमात्मनः । बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥
  70. अकृत्वा शत्रुसंहारम् अगत्वाऽखिलभूश्रियम् । राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥
  71. आप्तोक्तिं खननं तथोपरिशिलापाकर्षणं स्वीकृतिं निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
  72. तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥६८॥
  73. यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः । सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥
  74. शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥७०॥
  75. मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु । ततश्शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
  76. ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥७२॥
  77. यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वाऽऽत्मन्यवधारय ॥७३॥
  78. मज्जाऽस्थि-मेदः-पल-रक्त-चर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥७४॥
  79. अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः ।
  80. नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
  81. परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः ॥
  82. मात्रास्तदीया विषया भवन्ति । शब्दादयः पञ्च सुखाय भोक्तुः ॥७६॥
  83. य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ॥७७॥
  84. शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्ग-मातङ्ग-पतङ्ग-मीन- भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥७८॥
  85. दोषेण तीव्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥७९॥
  86. विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्छास्त्रवेद्यपि ॥८०॥
  87. आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥८१॥
  88. विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥८२॥
  89. विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः प्रतिपदमभिघातो मृत्युरप्येष सिद्धः । हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३॥
  90. मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद् विषयान् विषं यथा । पीयूषवत्तोष-दया-क्षमार्जव- प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ ८४॥
  91. अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति ॥८५॥
  92. शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
  93. मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु । मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥
  94. मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥८८॥
  95. त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् । पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥८९॥
  96. पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥९०॥
  97. बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना तस्मात् प्रशस्तिर्वपुषोऽस्य जागरे ॥९१॥
  98. सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः । विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥९२॥
  99. स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः पूजावमानबहुमानमुखा विशेषाः ॥९३॥
  100. बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादं गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९४॥
  101. निगद्यतेऽन्तःकरणं मनो धीः अहङ्कृतिश्चित्तमिति स्ववृत्तिभिः । मनस्तु सङ्कल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः ॥९५॥
  102. अत्राभिमानादहमित्यहङ्कृतिः स्वार्थानुसन्धानगुणेन चित्तम् ॥९६॥
  103. प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदाद्विकृतेर्भेदात्सुवर्णसलिलमिव ॥९७॥
  104. वागादिपञ्च श्रवणादिपञ्च प्राणादिपञ्चाभ्रमुखानि पञ्च । बुद्ध्याद्यविद्याऽपि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥९८॥
  105. इदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥९९॥
  106. स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्कालीननानाविधवासनाभिः । कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयञ्ज्योतिरयं परात्मा ॥१००॥
  107. धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेपैः । यस्मादसङ्गस्तत एव कर्मभिः न लिप्यते किञ्चिदुपाधिना कृतैः ॥१०१॥
  108. सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥१०२॥
  109. अन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥१०३॥
  110. उच्छ्वासनिश्वासविजृम्भणक्षुत् प्रस्पन्दनाद्युत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ज्ञाः प्राणस्य धर्मावशनापिपासे ॥१०४॥
  111. अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥१०५॥
  112. अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽभिमान्ययम् । सत्त्वादिगुणयोगेनावस्थात्रितयमश्नुते ॥१०६॥
  113. विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥
  114. आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥१०८॥
  115. तत आत्मा सदानन्दो नास्य दुःखं कदाचन । यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥१०९॥
  116. अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥११०॥
  117. सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो । साङ्गाप्यनङ्गाप्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ॥१११॥
  118. शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा । रजस्तमस्सत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११२॥
  119. विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥११३॥
  120. कामः क्रोधो लोभदम्भाभ्यसूया- हङ्कारेर्ष्यामत्सराद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्ति- र्यस्मादेतत्तद्रजो बन्धहेतुः ॥११४॥
  121. एषावृतिर्नाम तमोगुणस्य शक्तिर्यया वस्त्ववभासतेऽन्यथा । सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रसरस्य हेतुः ॥११५॥
  122. प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थदृक् व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥११६॥
  123. अभावना वा विपरीतभावना सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥
  124. अज्ञानमालस्य जडत्वनिद्राप्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो नहि वेत्ति किञ्चिन्निद्रालुवत्स्तम्भवदेव तिष्ठति ॥११८॥
  125. सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥
  126. मिश्रस्य सत्त्वस्य भवन्ति धर्मा- स्त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥१२०॥
  127. विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥१२१॥
  128. अव्यक्तमेतत्त्रिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥१२२॥
  129. सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिरेव बुद्धेः । सुषुप्तिरत्रास्य किल प्रतीतिः किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥१२३॥
  130. देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२४॥
  131. माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२५॥
  132. अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥१२६॥
  133. अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन् पञ्चकोशविलक्षणः ॥१२७॥
  134. यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥१२८॥
  135. यः पश्यति स्वयं सर्वं यं न पश्यति किञ्चन । यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥१२९॥
  136. येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । अभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥१३०॥
  137. यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥१३१॥
  138. अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ॥१३२॥
  139. एषोन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ॥१३३॥
  140. अत्रैव सत्त्वात्मनि धीगुहायाम् अव्याकृताकाश उरुप्रकाशः । आकाश उच्चैरविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४॥
  141. ज्ञाता मनोऽहङ्कृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् । अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किञ्चन ॥१३५॥
  142. न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमुष्मिन् न लीयते कुम्भ इवाम्बरं स्वयम् ॥१३६॥
  143. प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था- स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥१३७॥
  144. नियमितमनसाऽमुं त्वं स्वमात्मानमात्म- न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥१३८॥
  145. अत्रानात्मन्यहमिति मतिर्बन्ध एषोस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः । येनैवायं वपुरिदमसत्सत्यमित्यात्मबुध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥१३९॥
  146. अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा । ततोऽनर्थव्रातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥१४०॥
  147. अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम् ॥१४१॥
  148. तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धकगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥१४२॥
  149. महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थाः स्वयमभिनयंस्तद्गुणतया । अपारे संसारे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥
  150. भानुप्रभासञ्जनिताभ्रपङ्क्तिः भानुं तिरोधाय यथा विजृम्भते । आत्मोदिताहङ्कृतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् ॥१४४॥
  151. कबलितदिननाथे दुर्दिने सान्द्रमेघैः व्यथयति हिमझञ्झावायुरुग्रो यथैतान् । अविरततमसात्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥१४५॥
  152. एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥१४६॥
  153. बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरः रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥१४७॥
  154. अज्ञानमूलोऽयमनात्मबन्धो नैसर्गिकोनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःख- प्रवाहतापं जनयत्यमुष्य ॥१४८॥
  155. नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः । विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मञ्जुना ॥१४९॥
  156. श्रुतिप्रमाणैकमतेः स्वधर्मनिष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥
  157. कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैश्शैवलपटलैरिवाम्बु वापीस्थम् ॥१५१॥
  158. तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यस्सौख्यप्रदं परं पुंसाम् ॥१५२॥
  159. पञ्चानामपि कोशानाम् अपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥१५३॥
  160. आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५४॥
  161. मुञ्जादिषीकामिव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् । विविच्य तत्र प्रविलाप्य सर्वं तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥
  162. देहोऽयमन्नभवनोऽन्नमयस्तु कोशो ह्यन्नेन जीवति विनश्यति तद्विहीनः । त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५६॥
  163. पूर्वं जनेरपि मृतेरथ नायमस्ति जातक्षणक्षणगुणोऽनियतस्वभावः । नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता ॥१५७॥
  164. पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥१५८॥
  165. देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः । सत एव स्वतस्सिद्धं तद्वैलक्षण्यमात्मनः ॥१५९॥
  166. शल्यराशिः मांसलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥१६०॥
  167. त्वङ्मांसमेदोऽस्थिपुरीषराशा- वहम्मतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् ॥१६१॥
  168. देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहन्धीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥१६२॥
  169. अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदोस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व ॥१६३॥
  170. देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता- प्यस्त्वेष वेदान्तनयान्तदर्शी ॥१६४॥
  171. छायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे । यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च तथैव मास्तु ॥१६५॥
  172. देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥
  173. कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः । येनात्मवानन्नमयोनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥१६७॥
  174. नैवात्मायं प्राणमयो वायुविकारो गन्तागन्ता वायुवदन्तर्बहिरेषः । यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥१६८॥
  175. ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयान् तत्पूर्वकोशमनुपूर्य विजृम्भते यः ॥१६९॥
  176. पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनैः मनोमयोऽग्निर्दहति प्रपञ्चम् ॥१७०॥
  177. नह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः । तस्मिन्विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥१७१॥
  178. स्वप्नेर्थशून्ये सृजतिस्वशक्त्या भोक्त्रादि विश्वं मन एवसर्वम् । तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ॥१७२॥
  179. सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित् सकलप्रसिद्धेः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ॥१७३॥
  180. वायुना नीयते मेघः पुनस्तेनैव लीयते । मनसा कल्प्यते बन्धः मोक्षस्तेनैव कल्प्यते ॥१७४॥
  181. देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चाद्- एनं विमोचयति तन्मन एव बन्धात् ॥१७५॥
  182. तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुः मलिनं रजोगुणैः मोक्षस्य हेतुः विरजस्तमस्कम् ॥१७६॥
  183. विवेकवैराग्यगुणातिरेका- च्छुद्धत्वमासाद्य मनो विमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षो- स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७७॥
  184. मनो नाम महाव्याघ्रः विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥
  185. मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ॥१७९॥
  186. असङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबध्य । अहं ममेति भ्रमयत्यजस्रं मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥
  187. अध्यासयोगात् पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः । रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥१८१॥
  188. अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥१८२॥
  189. तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥१८३॥
  190. मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः ॥१८४॥
  191. मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात् । दुःखत्मकत्वाद् विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥
  192. बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशस्स्यात् पुंसः संसारकारणम् ॥१८६॥
  193. अनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावान् अहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् ॥१८७॥
  194. अनादिकालोऽयमहंस्वभावो जीवस्समस्तव्यवहारवोढा । करोति कर्माण्यनुपूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥१८८॥
  195. भुङ्क्ते विचित्रास्वपि योनिषु व्रजन् आयाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत्- स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥१८९॥
  196. देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः । अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥
  197. योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्स्वयञ्ज्योतिः । कूटस्थस्सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१९१॥
  198. स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्मदोषेण परं मृषात्मनः । सर्वात्मकस्सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२॥
  199. उपाधिसम्बन्धवशात्परात्मा- प्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः स्वभावात् ॥१९३॥
  200. भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः । तदुपाधेरनादित्वात् नानादेर्नाश इष्यते ॥१९४॥
  201. अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः । न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥१९५॥
  202. सम्यक्पृष्टं त्वया विद्वन् सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥१९६॥
  203. भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः । न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ॥१९७॥
  204. स्वस्यद्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यवस्तु स्वभावात् ॥१९८॥
  205. यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् । रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत् ॥१९९॥
  206. अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्यपि ॥२००॥
  207. प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति । अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् । अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥२०१॥
  208. यद्बुद्ध्युपाधिसम्बन्धात् परिकल्पितमात्मनि । जीवत्वं न ततोऽन्यत्तु स्वरूपेण विलक्षणम् ॥२०२॥
  209. सम्बन्धः स्वात्मनो बुध्या मिथ्याज्ञानपुरस्सरः । विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ॥२०३॥
  210. ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥२०४॥
  211. तदात्मानात्मनोः सम्यग्विवेकेनैव सिद्ध्यति । ततो विवेकः कर्तव्यः प्रत्यगात्मासदात्मनोः ॥२०५॥
  212. जलं पङ्कवदस्पष्टं पङ्कापाये जलं स्फुटम् । यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥२०६॥
  213. असन्निवृत्तौ तु सदात्मनः स्फुटप्रतीतिरेतस्य भवेत्प्रतीचः । ततो निरासः करणीय एवासदात्मनः साध्वहमादिवस्तुनः ॥२०७॥
  214. अतो नायं परात्मास्यात् विज्ञानमयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वाद् व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥२०८॥
  215. आनन्दप्रतिबिम्बचुम्बिततनुः वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०९॥
  216. आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा । स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना ॥२१०॥
  217. नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियाया विकारसङ्घातसमाहितत्वात् ॥२११॥
  218. पञ्चानामपि कोशानां निषेधे युक्तितः कृते । तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥२१२॥
  219. योऽयमात्मा स्वयं ज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥२१३॥
  220. मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किञ्चित् न पश्याम्यत्र हे गुरो । विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥२१४॥
  221. सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यथ ॥२१५॥
  222. सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥२१६॥
  223. तत्साक्षिकं भवेत्तत्तद् यद्यद्येनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपपद्यते ॥२१७॥
  224. असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥२१८॥
  225. जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा । नानाकारविकारभाजिन इमान् पश्यन्नहन्धीमुखान् नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१९॥
  226. घटोदके बिम्बितमर्कबिम्बम् आलोक्यमूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहमित्येव जडोऽभिमन्यते ॥२२०॥
  227. घटं जलं तद्गतमर्कबिम्बं विहाय सर्वं दिवि वीक्ष्यतेऽर्कः । तटस्थितस्तत्त्रितयावभासकः स्वयम्प्रकाशो विदुषा यथा तथा ॥२२१॥
  228. देहं धियं चित्प्रतिबिम्बमेतं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥
  229. नित्यं विभुं सर्वगतं सुसूक्ष्मम् अन्तर्बहिश्शून्यमनन्यमात्मनः । विज्ञाय सम्यङ्निजरूपमेतत् पुमान्विपाप्मा विरजा विमृत्युः ॥२२३॥
  230. विशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन्नबिभेति कश्चित् । नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः ॥२२४॥
  231. ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥२२५॥
  232. ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यग् ब्रह्माभिन्नत्वमात्मनः ॥२२६॥
  233. सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२७॥
  234. सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । नह्यन्यदस्ति किञ्चित्सम्यक्परतत्वबोधसुदशायाम् ॥२२८॥
  235. यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥२२९॥
  236. मृत्कार्यभूतोऽपि मृदो न भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः ॥२३०॥
  237. केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहात् मृदेव सत्यं परमार्थभूतम् ॥२३१॥
  238. सद्ब्रह्मकार्यं सकलं सदैव सन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः ॥२३२॥
  239. ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मादेतद् ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥
  240. सत्यं यदि स्याज्जगदेतदात्मनोऽ- नन्तत्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्यात् नैतत्त्रयं साधु हितं महात्मनाम् ॥२३४॥
  241. ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥
  242. यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥२३६॥
  243. अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणाहिवत् । आरोपितस्यास्ति किमर्थवत्ताऽ- धिष्ठानमाभाति तथा भ्रमेण ॥२३७॥
  244. भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदेव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३८॥
  245. अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनन्निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ॥२३९॥
  246. निरस्तमायाकृतसर्वभेदं नित्यं ध्रुवं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययम् ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२४०॥
  247. ज्ञातृज्ञानज्ञेयशून्यमनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥२४१॥
  248. अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्णं महन्महः ॥२४२॥
  249. तत्त्वम्पदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदित्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्य − गेकत्वमेव प्रतिपाद्यते मुहुः ॥२४३॥
  250. ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥
  251. तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्यं शृणु पञ्च कोशाः ॥२४५॥
  252. एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटकः तयोरपोहे न भटो न राजा ॥२४६॥
  253. अथात आदेश इति श्रुतिस्स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतयुक्त्या तयोर्निरासः करणीय इत्थम् ॥२४७॥
  254. नेदं नेदं कल्पितत्वान्न सत्यं रज्जौ दृष्टव्यालवत्स्वप्नवच्च । इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
  255. ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किन्तूभयार्थैकतयैव भाव्यम् ॥२४९॥
  256. स देवदत्तोऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते । यथा तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५०॥
  257. संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ॥२५१॥
  258. अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमात्मानमखण्डबोधम् ॥२५२॥
  259. मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभितः तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥
  260. निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥
  261. जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥
  262. यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥
  263. षड्भिरूर्मिभिरयोगि योगिहृद् भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यभूति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥
  264. भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानमृद्धिमत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
  265. जन्मवृद्धिपरिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥
  266. अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥
  267. एकमेव सदनेककारणं कारणान्तरनिरासकारणम् । कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥
  268. निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥
  269. यद्विभाति सदनेकधा भ्रमान्नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥
  270. यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४॥
  271. उक्तमर्थमिममात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया । संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६५॥
  272. स्वं बोधमात्रं परिशुद्धतत्वं विज्ञाय सङ्घे नृपवच्च सैन्ये । तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥२६६॥
  273. बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६७॥
  274. ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः । प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥
  275. अह ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६९॥
  276. ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्याऽनात्मन्यात्ममतिं जहि ॥२७०॥
  277. लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७१॥
  278. लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥२७२॥
  279. संसारकारागृहमोक्षमिच्छोः अयोमयं पादनिबद्धशृङ्खलम् ।
  280. वदन्ति तज्ज्ञाः पटु वासनात्रयं योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥२७३॥
  281. जलादिसम्पर्कवशात् प्रभूत- दुर्गन्धधूतागरुदिव्यवासना । सङ्घर्षणेनैव विभाति सम्यक् विधूयमाने सति बाह्यगन्धे ॥२७४॥
  282. अन्तश्श्रितानन्तदुरन्तवासना- धूलीविलिप्ता परमात्मवासना । प्रज्ञातिसङ्घर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत्स्फुटा ॥२७५॥
  283. अनात्मवासनाजालैः तिरोभूतात्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥
  284. यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाः । निश्शेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥
  285. स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः । वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७८॥
  286. तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति । तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥
  287. प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥
  288. नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् । वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥२८१॥
  289. श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥२८२॥
  290. अन्नादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८३॥
  291. तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥२८४॥
  292. अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥
  293. प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥२८६॥
  294. निद्राया लोकवार्तायाश्शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥२८७॥
  295. मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥२८८॥
  296. घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥२८९॥
  297. स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२९०॥
  298. चिदात्मनि सदानन्दे देहारूढामहन्धियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९१॥
  299. यत्रैष जगदाभासः दर्पणान्तः पुरं यथा । तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥
  300. यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजैत- च्छैलूषवद्वेषमुपात्तमात्मनः ॥२९३॥
  301. सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमितिप्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९४॥
  302. अहंपदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते ह्यजो नित्य इति श्रुतिस्स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥
  303. विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति । मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनः दृष्टमसत्त्वमेतयोः ॥२९६॥
  304. अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपेहि शान्तिम् ॥२९७॥
  305. त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृतादीं- स्त्यक्त्वा भवाखण्डसुखस्वरूपः ॥२९८॥
  306. सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥२९९॥
  307. यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥३००॥
  308. अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥३०१॥
  309. यो वा पुरैषोऽहमिति प्रतीतः बुद्ध्याऽविविक्तस्तमसातिमूढया । तस्यैव निश्शेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२॥
  310. ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः । विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥३०३॥
  311. यावद्वा यत्किञ्चिद् विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत् तद्वदहन्तापि योगिनो मुक्त्यै ॥३०४॥
  312. अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या । प्रत्यक्तत्त्वविवेकादयमहमस्मीति विन्दते तत्त्वम् ॥३०५॥
  313. अहङ्कर्तर्यस्मिन् अहमितिमतिं मुञ्च सहसा विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि । यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥
  314. सदैकरूपस्य चिदात्मनो विभोरानन्दमूर्तेरनवद्यकीर्तेः । नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥३०७॥
  315. तस्मादहङ्कारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् । विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥३०८॥
  316. ततोऽहमादेर्विनिवर्त्य वृत्तिं सन्त्यक्तरागः परमार्थलाभात् । तूष्णीं समास्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०९॥
  317. समूलकृत्तोऽपि महानहं पुन- र्व्युल्लेखितस्स्याद्यदि चेतसा क्षणम् । सञ्जीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥३१०॥
  318. निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु ॥३११॥
  319. देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः ॥३१२॥
  320. कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते । कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१३॥
  321. वासनावृद्धितः कार्यं कार्यवृध्या च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४॥
  322. संसारबन्धविच्छित्यै तद्द्वयं प्रदहेद्यतिः । वासना प्रेर्यते ह्यन्तः चिन्तया क्रियया बहिः ॥३१५॥
  323. ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः । त्रयाणां च क्षयोपायस्सर्वावस्थासु सर्वदा ॥३१६॥
  324. सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । सद्भाववासनादार्ढ्यात् तत्त्रयं लयमश्नुते ॥३१७॥
  325. क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सजीवन्मुक्तिरिष्यते ॥३१८॥
  326. सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीना त्वहमादिवासना । अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा ॥३१९॥
  327. तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगन्धः ॥३२०॥
  328. दृश्यं प्रतीतं प्रविलापयन्स्वयं सन्मात्रमानन्दघनं विभावयन् । समाहितस्सन् बहिरन्तरं वा कालं नयेथास्सति कर्मबन्धे ॥३२१॥
  329. प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान् ब्रह्मणस्सुतः ॥३२२॥
  330. न प्रमादादनर्थोन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोहन्धीः ततो बन्धस्ततो व्यथा ॥३२३॥
  331. विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥३२४॥
  332. यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२५॥
  333. लक्ष्यच्युतं चेद् यदि चित्तमीषद् बहिर्मुखं सन्निपतेत् ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा ॥३२६॥
  334. विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् । सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥३२७॥
  335. ततःस्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईक्षते । सङ्कल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥३२८॥
  336. अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥
  337. अतः प्रमादान्नपरोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः ॥३२९॥
  338. जीवतो यस्य कैवल्यं विदेहे च स केवलः । यत्किञ्चित्पश्यतो भेदं भयं ब्रूते यजुश्श्रुतिः ॥३३०॥
  339. यदा कदा वापि विपश्चिदेषः ब्रह्मण्यनन्तेप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदेव यदीक्षितं भिन्नतया प्रमादात् ॥३३१॥
  340. श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यस्स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥३३२॥
  341. सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्येद्दृष्टं तदेतद्यदचोरचोरयोः ॥३३३॥
  342. यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्र्यैव तिष्ठेत् । सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम् ॥३३४॥
  343. बाह्याभिसन्धिः परिवर्धयेत्फलं दुर्वासनामेव ततस्ततोधिकाम् । ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम् ॥३३५॥
  344. बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबन्धनाशः बहिर्निरोधः पदवी विमुक्तेः ॥३३६॥
  345. कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी । जानन्हि कुर्यादसतोवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥३३७॥
  346. देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥३३८॥
  347. अन्तर्बहिस्स्वं स्थिरजङ्गमेषु ज्ञानात्मनाधारतया विलोक्य । त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥
  348. सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्नपरोस्ति कश्चित् । दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥३४०॥
  349. दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसः तत्तत्क्रियां कुर्वतः । संन्यस्ताखिलधर्मकर्मविषयैः नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥३४१॥
  350. सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः । समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥३४२॥
  351. आरूढशक्तेरहमो विनाशः कर्तुं न शक्यः सहसापि पण्डितैः । ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तराऽनन्तभवा हि वासनाः ॥३४३॥
  352. अहं बुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४४॥
  353. विक्षेपशक्तिविजयो विषमो विधातुं निश्शेषमावरणशक्तिनिवृत्त्यभावे । दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणमात्मनि च स्वभावात् ॥
  354. निस्संशयेन भवति प्रतिबन्धशून्यो निक्षेपणं नहि तदा यदि चेन्मृषार्थे ॥३४५॥
  355. सम्यग्विवेकः स्फुटबोधजन्यः विभज्य दृग्दृश्यपदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥३४६॥
  356. परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् । किं स्यात् पुनस्संसरणस्य बीजम् अद्वैतभावं समुपेयुषोऽस्य ॥३४७॥
  357. आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः । मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥३४८॥
  358. एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥३४९॥
  359. अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेतत्त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥३५०॥
  360. ततो विकाराः प्रकृतेरहम्मुखाः देहावासना विषयाश्च सर्वे । क्षणेऽन्यथाभाविन एष आत्मा नोदेति नाप्येति कदापि नान्यथा ॥३५१॥
  361. नित्याद्वयाखण्डचिदेकरूपो बुध्यादिसाक्षी सदसद्विलक्षणः । अहं पदप्रत्ययलक्षितार्थः प्रत्यक्सदानन्दघनः परात्मा ॥३५२॥
  362. इत्थं विपश्चित् सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या । ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५३॥
  363. अज्ञानहृदयग्रन्थेर्निश्शेषविलयस्तदा । समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥३५४॥
  364. त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पः विलयनमुपगच्छेद् वस्तुतत्त्वावधृत्या ॥३५५॥
  365. शान्तो दान्तः परमुपरतः क्षान्तियुक्तस्समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५६॥
  366. समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतस्स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः ॥३५७॥
  367. उपाधियोगात् स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेः विलयाय विद्वान् वसेत्सदाऽकल्पसमाधिनिष्ठया ॥३५८॥
  368. सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥
  369. क्रियान्तरासक्तिमपास्य कीटको ध्यायन्यथालिं ह्यलिभावमृच्छति । तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया ॥३६०॥
  370. अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति । समाधिनाऽत्यन्तसुसूक्ष्मवृत्त्या ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥३६१॥
  371. यथा सुवर्णं पुटपाकशोधितं त्यक्त्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनस्सत्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥३६२॥
  372. निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ॥३६३॥
  373. समाधिनानेन समस्तवासना- ग्रन्थेर्विनाशोऽखिलकर्मनाशः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥३६४॥
  374. श्रुतेः शतगुणं विद्यान्मननं मननादपि । निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥३६५॥
  375. निर्वकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥३६६॥
  376. अतः समाधत्स्व यतेन्द्रियस्सन् निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥३६७॥
  377. योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ॥३६८॥
  378. एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना । तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुनेः ॥३६९॥
  379. वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजस्व ॥३७०॥
  380. देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः । यैर्यैः वृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥३७१॥
  381. तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । सन्दृश्यते सदानन्दरसानुभवविप्लवः ॥३७२॥
  382. अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिस्सङ्गं विरक्तस्तु मुमुक्षया ॥३७३॥
  383. बहिस्तु विषयैः सङ्गः तथान्तरहमादिभिः । विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥३७४॥
  384. वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् । विमुक्तिसौधाग्रतलाधिरोहणं ताभ्यां विना नान्यतरेण सिद्ध्यति ॥३७५॥
  385. अत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ॥३७६॥
  386. वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेत् शुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्द्वारमजस्रमुक्तियुवतेः यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७७॥
  387. आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योस्सृतिः त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात् क्रियाः । देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमलोऽसि निर्द्वयपरब्रह्मासि यद्वस्तुतः ॥३७८॥
  388. लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥३७९॥
  389. अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८०॥
  390. एषस्वयञ्ज्योतिरशेषसाक्षी विज्ञानकोशे विलसत्यजस्रम् । लक्ष्यं विधायैनमसद्विलक्षणम् अखण्डवृत्त्यात्मतयानुभावय ॥३८१॥
  391. एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन् विजानीयात्स्वस्वरूपतया स्फुटम् ॥३८२॥
  392. अत्रात्मत्वं दृढीकुर्वन् अहमादिषु सन्त्यजन् । उदासीनतया तेषु तिष्ठेद् घटपटादिवत् ॥३८३॥
  393. विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे । शनैश्शनैर्निश्चलतामुपानयन् पूर्णत्वमेवानुविलोकयेत्ततः ॥३८४॥
  394. देहेन्द्रियप्राणमनोऽहमादिभिः स्वाज्ञानकॢप्तैरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकयेत् ॥३८५॥
  395. घटकलशकुसूलसूचिमुख्यै- र्गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव ॥३८६॥
  396. ब्रह्माद्याः स्तम्बपर्यन्ताः मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥३८७॥
  397. यत्र भ्रान्त्या कल्पितं यद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्त्वं रज्जुस्तस्माद्विश्वमात्मस्वरूपम् ॥३८८॥
  398. स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥३८९॥
  399. अन्तः स्वयं चापि बहिःस्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यवाच्यां स्वयमप्युदीच्यां तथोपरिष्टात् स्वयमप्यधस्तात् ॥३९०॥
  400. तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् ॥३९१॥
  401. सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक्किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥३९२॥
  402. क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥३९३॥
  403. आकाशवन्निर्मलनिर्विकल्प- निस्सीमनिस्स्पन्दननिर्विकारम् । अन्तर्बहिश्शून्यमनन्यदद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥३९४॥
  404. वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं ब्रह्मैतज्जगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९५॥
  405. जहि मलमयकोशेऽहन्धियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥३९६॥
  406. शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यस्स्यात्क्लेशो जननमरणव्याधिनिरयाः । यदात्मानं शुद्धं कलयति शिवाकारमचलं तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९७॥
  407. स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेवं परं ब्रह्म पूर्णमद्वयमक्रियम् ॥३९८॥
  408. समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे । न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥
  409. असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥
  410. द्रष्टृदर्शनदृश्यादिभावशून्यैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०१॥
  411. कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
  412. तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥४०३॥
  413. एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् । सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
  414. नह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे । कालत्रये नाप्यहिरीक्षिते गुणे नह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥४०५॥
  415. मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः । इति ब्रूते श्रुतिस्साक्षात्सुषुप्तावनुभूयते ॥४०६॥
  416. अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् । पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥४०७॥
  417. चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥४०८॥
  418. किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधि गगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०९॥
  419. प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसम्बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४१०॥
  420. अजरममरमस्ताभासवस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४११॥
  421. समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् । विच्छिन्धि बन्धं भवगन्धगन्धिलं यत्नेन पुंस्त्वं सफलीकुरुष्व ॥४१२॥
  422. सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥४१३॥
  423. छायेव पुंसः परिदृश्यमानम् आभासरूपेण फलानुभूत्या । शरीरमाराच्छववन्निरस्तं पुनर्न सन्धत्त इदं महात्मा ॥४१४॥
  424. सततविमलबोधानन्दरूपं स्वमेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे । अथ पुनरपि नैव स्मर्यतां वान्तवस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१५॥
  425. समूलमेतत्परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततस्स्वयं नित्यविशुद्धबोधा- नन्दात्मना तिष्ठति विद्वरिष्ठः ॥४१६॥
  426. प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत्पुनः पश्यति तत्त्ववेत्ताऽ- नन्दात्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥
  427. अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥४१८॥
  428. संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः । बहिरन्तस्सदानन्दरसास्वादनमात्मनि ॥४१९॥
  429. वैराग्यस्य फलं बोधः बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥४२०॥
  430. निवृत्तिः परमा तृप्तिः आनन्दोऽनुपमः स्वतः । दृष्टदुःखेष्वनुद्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१॥
  431. यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥४२२॥
  432. विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं यदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नो चेद् विदो दृष्टफलं किमस्मात् ॥४२३॥
  433. अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः । अनिच्छोर्विदुषः किं नु प्रवृत्तेः कारणं स्वतः ॥४२४॥
  434. वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । अहंभावोदयाभावो बोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥४२५॥
  435. ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीः अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत् । स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधीः आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥४२६॥
  436. स्थितप्रज्ञो यतिरयं यस्सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥४२७॥
  437. ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४२८॥
  438. यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः । प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥४२९॥
  439. लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः । बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥४३०॥
  440. शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥
  441. वर्तमानेऽपि देहेऽस्मिंश्छायावदनुवर्तिनि । अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥
  442. अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥
  443. गुणदोषविशिष्टेऽस्मिन् स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
  444. इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥
  445. ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः । अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥४३६॥
  446. देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः । औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥
  447. विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥४३८॥
  448. देहेन्द्रियेष्वहम्भावः इदम्भावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३९॥
  449. न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४४०॥
  450. साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥
  451. यत्र प्रविष्टा विषयाः परेरिताः नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः ॥४४२॥
  452. विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४४३॥
  453. प्राचीनवासनावेगादसौ संसरतीति चेत् । न सदेकत्वविज्ञानान्मन्दीभवति वासना ॥४४४॥
  454. अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४५॥
  455. निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४६॥
  456. सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥४४७॥
  457. अहं ब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् । सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥४४८॥
  458. यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥४४९॥
  459. स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यते यतिः किञ्चित्कदाचिद्भाविकर्मभिः ॥४५०॥
  460. न नभो घटयोगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥४५१॥
  461. ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥४५२॥
  462. व्याघ्रबुध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति च्छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥४५३॥
  463. प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनां । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥४५४॥
  464. उपाधितादात्म्यविहीनकेवल- ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसम्बन्धकथेव जाग्रतः ॥४५५॥
  465. न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तु स्वयं तिष्ठति जागरेण ॥४५६॥
  466. न तस्य मिथ्यार्थसमर्थनेच्छा न सङ्ग्रहस्तज्जगतोऽपि दृष्टः । तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५७॥
  467. तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे तथाविदः प्राशनमोचनादौ ॥४५८॥
  468. कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९॥
  469. अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥४६०॥
  470. प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः । शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥४६१॥
  471. अध्यस्तस्य कुतस्सत्त्वम् असत्त्वस्य कुतो जनिः । अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६२॥
  472. ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इतिशङ्कावतो जडान् । समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥४६३॥
  473. न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥४६४॥
  474. परिपूर्णमनाद्यन्तम् अप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६५॥
  475. सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६६॥
  476. प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६७॥
  477. अहेयमनुपादेयम् अनाधेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६८॥
  478. निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६९॥
  479. अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७०॥
  480. सत्समृद्धं स्वतस्सिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७१॥
  481. निरस्तरागा निरपास्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७२॥
  482. भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं निचाय्य । विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः ॥४७३॥
  483. समाधिना साधु सुनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निस्संशयं सम्यगवेक्षितश्चेत् श्रुतः पदार्थो न पुनर्विकल्पते ॥४७४॥
  484. स्वस्याविद्याबन्धसम्बन्धमोक्षात् सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तस्सिद्धा स्वानुभूतिः प्रमाणम् ॥४७५॥
  485. बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुधादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥४७६॥
  486. तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥४७७॥
  487. स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सुसुखं तिष्ठेत् निर्विकल्पात्मनात्मनि ॥४७८॥
  488. वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षः ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥४७९॥
  489. इति गुरुवचनात् श्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥४८०॥
  490. कञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् । व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥४८१॥
  491. बुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाधिगत्या । इदं न जानेप्यनिदं न जाने किं वा कियद्वा सुखमस्य पारम् ॥४८२॥
  492. वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन् मे मनः यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥४८३॥
  493. क्वगतं केन वा नीतं कुत्र लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८४॥
  494. किं हेयं किमुपादेयं किन्मयत् किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णो ब्रह्ममहार्णवे ॥४८५॥
  495. न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥४८६॥
  496. नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदापारदयाम्बुधाम्ने ॥४८७॥
  497. यत्कटाक्षशशिसान्द्रचन्द्रिकापातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥४८८॥
  498. धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं तदनुग्रहात् ॥४८९॥
  499. असङ्गोऽहऽमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः । प्रशान्तोऽहमनन्तोऽहमतान्तोऽहं चिरन्तनः ॥४९०॥
  500. अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥४९१॥
  501. द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् । नित्यनिरन्तरनिष्क्रियनिस्सीमासङ्गपूर्णबोधात्मा ॥४९२॥
  502. नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥४९३॥
  503. निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥४९४॥
  504. नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥४९५॥
  505. सर्वेषु भूतेष्वहमेव संस्थितः ज्ञाना(त्रा)त्मनान्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्वं (य)तद्यत्पृथग्दृष्टमिदन्तया पुरा ॥४९६॥
  506. मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥४९७॥
  507. स्थूलादिभावा मयि कल्पिता भ्रमात् आरोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सरायन- र्त्वादयो निष्कलनिर्विकल्पे ॥४९८॥
  508. आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैर्मतिदोषदूषितैः । नार्द्रीकरोत्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः ॥४९९॥
  509. आकाशवत् कल्पविदूरगोऽहं आदित्यवद् भास्यविलक्षणोऽहम् । अहार्यवन्नित्यविनिश्चलोऽहम् अम्भोधिवत् पारविवर्जितोऽहम् ॥५००॥
  510. न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः ॥५०१॥
  511. उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते । स एव जीवन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः ॥५०२॥
  512. न मे प्रवृत्तिर्नच मे निवृत्तिः सदैकरूपस्य निरङ्कुशस्य । एकात्मको यो निबिडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते ॥५०३॥
  513. पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः । कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥५०४॥
  514. छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव यत्किञ्चित् पुरुषं तद्विलक्षणम् ॥५०५॥
  515. अविकारमुदासीनं गृहधर्माः प्रदीपवत् । देहेन्द्रियमनोधर्माः नैवात्मानं स्पृशन्त्यहो ॥५०६॥
  516. रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा वाऽयसि दाहकत्वम् । रज्जोर्यथाऽऽरोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे ॥५०७॥
  517. कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् । द्रष्टापि वा दर्शयितापि नाहं सोऽहं स्वयञ्ज्योतिरनीदृगात्मा ॥५०८॥
  518. चलत्युपाधौ प्रतिबिम्बलौल्यम् औपाधिकं मूढधियो नयन्ति । स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥५०९॥
  519. जले वापि स्थले वापि लुठत्येष जडात्मकः । नाहं विलिप्ये तद्धर्मैः घटधर्मैर्नभो यथा ॥५१०॥
  520. कर्तृत्वभोक्तृत्वखलत्वमत्तता- जडत्वबद्धत्वविमुक्ततादयः । बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥५११॥
  521. सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि । तैः किं मेऽसङ्गचितेः न ह्यम्बुदडम्बरोऽम्बरं स्पृशति ॥५१२॥
  522. अव्यक्तादि स्थूलपर्यन्तमेतद् विश्वं यत्राभासमात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥
  523. सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निष्कलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१४॥
  524. यत्प्रत्यस्ता (यस्मिन्नस्ता) शेषमाया विशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१५॥
  525. निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥५१६॥
  526. सर्वात्मकोहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरम् ॥५१७॥
  527. स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहितप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेस्तु पुनर्नमोऽस्तु ॥५१८॥
  528. महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् । अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥५१९॥
  529. नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥५२०॥
  530. इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् । प्रमुदितहृदयः स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥५२१॥
  531. ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव सत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितुं किमभितश्चक्षुष्मतां विद्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥५२२॥
  532. कस्तां परानन्दरसानुभूतिम् उत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ॥५२३॥
  533. असत्पदार्थानुभवे न किञ्चित् न ह्यस्ति तृप्तिर्न च दुःखहानिः । तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥५२४॥
  534. स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानः कालं नय महामते ॥५२५॥
  535. अखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् । तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम् ॥५२६॥
  536. तूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ॥५२७॥
  537. नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् । विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥५२८॥
  538. गच्छंस्तिष्ठन्नुपविशन् शयानो वान्यथापि वा । यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥५२९॥
  539. न देशकालासनदिग्यमादि- लक्ष्याद्यपेक्षा प्रतिबद्धवृत्तेः । संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यवस्था ॥५३०॥
  540. घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते । विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥५३१॥
  541. अयमात्मा नित्यसिद्धः प्रमाणे सति भासते । न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥५३२॥
  542. देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् । तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥५३३॥
  543. भानुनेव जगत्सर्वं भासते यस्य तेजसा । अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥५३४॥
  544. वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् ॥५३५॥
  545. एष स्वयं ज्योतिरनन्तशक्तिः आत्माप्रमेयः सकलानुभूतिः । यमेव विज्ञाय विमुक्तबन्धः जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥५३६॥
  546. न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च । स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ॥५३७॥
  547. क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥५३८॥
  548. चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वातु शय्या मही सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥५३९॥
  549. विमानमालम्ब्य शरीरमेतत् भुनक्त्यशेषान्विषयानुपस्थितान् । परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ॥५४०॥
  550. दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः । उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥५४१॥
  551. कामान्नी कामरूपी संश्चरत्येकचरो मुनिः । स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥५४२॥
  552. क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद् भ्रान्तः सौम्यः क्वचिदजगराचारकलितः । क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥५४३॥
  553. निर्धनोपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥५४४॥
  554. अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥५४५॥
  555. अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥५४६॥
  556. स्थूलादिसम्बन्धवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च । विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभं फलं वा ॥५४७॥
  557. तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः । ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥५४८॥
  558. तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥५४९॥
  559. अहिनिर्ल्वयनीवाऽयं मुक्तदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ॥५५०॥
  560. स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् । देवेन नीयते देहो यथाकालोपभुक्तिषु ॥५५१॥
  561. प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः । सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥५५२॥
  562. नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनलक्षणस्थः । नैव क्रियाफलमपीषदपेक्षते सः स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥५५३॥
  563. लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥५५४॥
  564. जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद्ब्रह्मैव सन्ब्रह्माप्येति निर्द्वयम् ॥५५५॥
  565. शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥५५६॥
  566. यत्र क्वापि विशीर्णं सत् पर्णमिव तरोर्वपुः पतनात् । ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥५५७॥
  567. सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा । न देशकालाद्युचितप्रतीक्षा त्वङ्मांसवित्पिण्डविसर्जनाय ॥५५८॥
  568. देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । अविद्या हृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥५५९॥
  569. कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे । पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥५६०॥
  570. पत्रस्य पुष्पस्य फलस्य नाशवद् देहेन्द्रियप्राणधियां विनाशः । नैवात्मनः स्वस्य सदात्मकस्या- नन्दाकृतेर्वृक्षवदास्त एषः ॥५६१॥
  571. प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् । अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥५६२॥
  572. अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः । प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥५६३॥
  573. पाषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भवन्ति हि मृदेव यथा तथैव । देहेन्द्रियासुमनआदिसमस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥५६४॥
  574. विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥५६५॥
  575. घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥५६६॥
  576. क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥५६७॥
  577. एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥५६८॥
  578. सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः । अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः ॥५६९॥
  579. मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥५७०॥
  580. आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे । नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् । यद्यस्त्यद्वैतहानिः स्याद्द्वैतं नो सहते श्रुतिः ॥५७१॥
  581. बन्धश्च मोक्षश्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति । दृगावृतिं मेघकृतां यथा रवौ यतोऽद्वयासङ्गचिदेकमक्षरम् ॥५७२॥
  582. अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥५७३॥
  583. अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि । निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥५७४॥
  584. न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥५७५॥
  585. सकलनिगमचूडास्वान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शितं ते मयाऽद्य । अपगतकलिदोषः कामनिर्मुक्तबुद्धिः तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥५७६॥
  586. इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥५७७॥
  587. गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन् वसुधां सर्वां विचचार निरन्तरः ॥५७८॥
  588. इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥५७९॥
  589. हितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः । भवसुखविमुखाः प्रशान्तचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ॥५८०॥
  590. संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् । अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय- न्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥५८१॥