अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१७. बन्धमोक्षोपायः

नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः ।
विवे­क­वि­ज्ञा­न­म­हा­सिना विना
धातुः प्रसादेन शितेन मञ्जुना ॥१४९॥

१४९

अयं बन्धः धातुः प्रसादेन पर­मे­श्व­र­स्या­नु­ग्र­हेण शितेन निशितेन तीक्ष्णेन दृढेनेति यावत् ‘यमेवैष वृणुते तेन लभ्यः’(क.उ. २.२२, मुं.उ. ३.२.३) इति श्रुतेः । मञ्जुना रमणीयेन, विवे­क­वि­ज्ञा­न­म­हा­सिना विवेकात् आत्मा­ना­त्म­वि­वे­च­नात् जातं यद्विज्ञानं ब्रह्म­सा­क्षा­त्कारः स एव महांश्चासौ असिश्च खड्गः तेन विना । अस्त्रैः आग्नेयादिभिः न च्छेत्तुं नाशयितुं शक्यः, शस्त्रैः लोहमयैः बाणादिभिः न च्छेत्तुं नाशयितुं शक्यः । एवम् अनिलेन वायुना न च्छेत्तुं नाशयितुं शक्यः । वह्निना अग्निना न दग्धुं शक्यः । न च कर्मकोटिभिः वेदोक्तैरपि कर्मणां कोटयः तैरपि न नाशयितुं शक्यः । अज्ञा­न­मू­ल­क­त्वात् ज्ञानैकनिवर्त्य इति भावः । तथा च अस्य बन्धस्य विमोक्षः ईश्व­र­प्र­सा­द­ज­नि­त­प­र­मा­त्मा­भे­द­सा­क्षा­त्का­रा­दि­त्युक्तं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरम् ॥१४९॥

‘न च कर्मकोटिभिः’(श्लो. १४९) इत्युक्तत्वात् कर्मणां वैदिकानां नित­रा­म­न­पे­क्षे­ति­श­ङ्कायां तेषां बुद्धि­शु­ध्य­र्थम् अपेक्षां वदन् तां बन्धो­च्छे­द­क­वि­ज्ञा­न­हे­तु­माह श्रुतीति −

श्रुति­प्र­मा­णै­क­मतेः स्वधर्मनिष्ठा तयै­वा­त्म­वि­शु­द्धि­रस्य ।
विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥

१५०

श्रुतिरेव प्रमाणं श्रुतिप्रमाणम् ,

तस्माच्छास्त्रं प्रमाणं ते कार्या­का­र्य­व्य­व­स्थितौ । ज्ञात्वा शास्त्र­वि­धा­नोक्तं कर्म कर्तुमिहार्हसि ॥ (१६.२४)

इति गीतावचनात् । तत्र श्रुतिप्रमाणे एका अनन्यसक्ता मुख्या मतिः बुद्धिः यस्य सः श्रुति­प्र­मा­णै­क­मतिः तस्य, स्वश्रेयसे कर्त­व्य­क­र्म­वि­षये श्रुत्ये­क­श­र­ण­स्ये­त्यर्थः । स्वधर्मनिष्ठा स्वस्य धर्मः स्ववर्णस्य आश्रमस्य च विहितः कर्मकलापः स्वधर्मः । तत्र निष्ठा नितरां स्थितिः ऐदम्पर्येण अनुष्ठानं स्वधर्मनिष्ठा तयैव स्वधर्मे अनन्यासक्ततया स्थित्यैव । अस्य साधकस्य जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षयः −

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषायपक्तिः कर्माणि ज्ञानं तु परमागतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥

इति प्रमाणानुसारेण विशुद्धा नष्टा राग­द्वे­षा­दि­स­क­ल­वि­ध­दोषा बुद्धिः यस्य तस्य विशुद्धबुद्धेः । परमात्मवेदनम् अभेदेन पर­मा­त्म­सा­क्षा­त्कारः । तेनैव परमात्मवेदनेनैव संसारसमूलनाशः समूलं नाशः समूलनाशः संसारस्य समूलनाशः संसारसमूलनाशः । अज्ञा­ना­दि­दुः­खा­न्तस्य बन्धस्य अत्यन्तमुच्छेद इत्यर्थः ॥१५०॥

‘विवे­क­वि­ज्ञा­न­म­हा­सिना’(श्लो. १४९) इत्यत्र विवेकजन्यं विज्ञानम् इत्युक्तम् ‘तयोर्विवेकः कथमेतदुच्यताम्’(श्लो. ५२) इति पूर्वं शिष्येण पृष्टं च । पूर्वं स्थूल­सू­क्ष्म­का­र­ण­श­री­राणां सामान्यतः कथनेन सङ्गृहीतं तद्विस्तरेण प्रपञ्चयितुं समारभते कोशैरित्यादिना −

कोशै­र­न्न­म­याद्यैः पञ्चभिरात्मा न संवृतो भाति ।
निज­श­क्ति­स­मु­त्प­न्नै­श्शै­व­ल­प­ट­लै­रि­वाम्बु वापीस्थम् ॥१५१॥

१५१

‘सलिल एको द्रष्टा’(बृ.उ. ४.३.३२) इत्यादि श्रुतिभिः निर्म­ल­ज­ल­व­त्स्व­च्छस्य आत्मनः स्फुटतया कुतो न भानमिति शङ्कायां तत्रापि तदेव जलं दृष्टान्तयन् स्फुटा­भा­न­हे­तु­माह कोशैरिति । निज­श­क्ति­स­मु­त्पन्नैः निजा स्वकीया स्वस्मि­न्क­ल्पिता अविद्या तया समुत्पन्नैः जातैः अन्नमयाद्यैः वक्ष्यमाणैः पञ्चभिः कोशैः असेः कोशवत्स्थितैः आवरकैः आनन्दमयान्तैः । स्वोप­ल­ब्धि­प्र­ति­ब­न्ध­को­प­ल­ब्धि­वि­षयैः संवृतः आवृतः आत्मा न भाति न विविक्ततया स्फुटं भासते । तत्र दृष्टान्तः निज­श­क्ति­स­मु­त्पन्नैः जल­ग­त­द्र­व­त्व­ध­र्म­स­मु­त्पन्नैः । शैवलपटलैः शैवालपङ्क्तिभिः । वापीस्थाम्ब्विव । यथा वापीगतं जलं तत एव जातैः शैवालैः संवृतम् आच्छादितं न स्फुटतया भाति तथा इत्यर्थः ॥१५१॥

दृष्टान्ते स्फुटभाने हेतुमाह तच्छैवालेति −

तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् ।
तृष्णासन्तापहरं सद्य­स्सौ­ख्य­प्रदं परं पुंसाम् ॥१५२॥

१५२

तत् आवरकं यच्छैवालं तस्यापनये सम्यगपसारणे शुद्धं निर्मलं सलिलं सम्यक् अप्रतिबन्धं प्रतीयते । ततः फलमाह तृष्णासन्तापहरं तृष्णाया यः सन्तापः दुःखं हरतीति हरं तस्य नाशकम् । पुंसः पुरुषस्य पातुः सद्य­स्सौ­ख्य­प्रदं दर्श­न­स्ना­न­पा­ना­दिना प्रकर्षेण सन्तोषदम् । परं श्रेष्ठं प्रतीयत इति पूर्वेणान्वयः ॥१५२॥

दार्ष्टान्तिके तदाह पञ्चानामपीति −

पञ्चानामपि कोशानाम् अपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥१५३॥

१५३

पञ्चानामपि अपिशब्दः कार्त्स्न्येन निषेधार्थः । कोशा­ना­मा­व­र­का­ना­म­न्न­म­या­द्या­न­न्द­म­या­न्तानां श्रुति­द­त्त­युक्त्या अपवादे निषेधे कृते सति । नित्यानन्दैकरसः उत्प­त्ति­ना­श­शू­न्य­दुः­खा­स­म्भि­न्ना­न­न्दै­क­स्व­भावः । प्रत्यग्रूपः सर्वान्तरः स्वयञ्ज्योतिः पराप्रकाश्यः केव­ल­ज्ञा­न­स्व­रूपः । परः सर्वोत्कृष्टः अयमात्मा । शुद्धः स्वाभा­वि­का­ग­न्तु­क­म­ला­सं­स्पृष्टः । विभाति विशेषेण भाति अना­त्मा­सं­सृ­ष्ट­तया भासत इत्यर्थः ॥१५३॥

यत एवं ततः −

आत्मा­ना­त्म­वि­वेकः कर्तव्यो बन्धमुक्तये विदुषा ।
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५४॥

१५४

विदुषा शास्त्र­ज­न्य­ज्ञा­न­वता पुरुषेण । बन्धमुक्तये अध्यासनिवृत्तये । आत्मा­ना­त्म­वि­वेकः आत्मा च अनात्मानश्च आत्मानात्मानः तेषां विवेकः असङ्कीर्णतया ज्ञानम् । कर्तव्यः यत्नात् सम्पादनीयम् । तेनैव आत्मा­ना­त्म­वि­वे­च­ने­नैव स्वं स्वस्वरूपं सच्चिदानन्दं कालत्रयाबाध्यं ज्ञानम् आनन्दं विज्ञाय साक्षात्कृत्य, उक्तं हि द्वितीयश्लोके ‘आत्मा­ना­त्म­वि­वे­चनं स्वनुभव’ इति, आनन्दी भवति आनन्दः अस्यास्तीति आनन्दी निर­ति­श­य­सा­र्व­दि­क­सु­ख­वा­न्भ­व­ती­त्यर्थः ॥१५४॥

विवेचनप्रकारं दृष्टान्तेन बुद्धावारोहयन् ब्रह्मात्मना संस्थि­ति­रू­प­मुक्त्यै विवे­च­ना­न­न्त­र­क­र्त­व्य­माह मुञ्जादिति −

मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्य­ञ्च­मा­त्मा­न­म­स­ङ्ग­म­क्रि­यम् ।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥

१५५

मुञ्जात् मुञ्जं तृणविशेषः तस्मात् । इषीकामिव तन्मध्यवर्ती मृणा­ल­त­न्तु­नि­भ­सू­क्ष्मांशः इषीका तामिव । सा सूक्ष्मा परितस्तृणावृता तस्याः पृथक्करणे अत्य­न्त­मै­काग्र्यं त्रोटनादिकं विना सम्पू­र्णे­षी­का­ग्र­हणे यत्नविशेषश्च अपेक्ष्यते तद्वत् –

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ (क.उ. १.३.१२)

इति श्रुत्या विहितकर्मभिः उपासनया च संस्कृतया बुध्या दृश्यवर्गात् अनात्मसमूहात् । प्रत्यञ्चं प्रातिलोम्येन अञ्चतीति प्रत्यङ् अस­ज्ज­ड­दुः­खा­ह­ङ्का­रा­दि­वि­ल­क्ष­ण­त्वेन सच्चि­त्सु­ख­रू­प­तया प्रकाशत इत्यर्थः । तम् असङ्गम् अद्वितीयतया सर्वसङ्गरहितम् । अक्रियम् अपरिच्छिन्नतया क्रियारहितम् । आत्मानं विविच्य पृथक्कृत्य तत्र प्रत्यगात्मनि सर्वं दृश्यवर्गं प्रविलाप्य प्रकर्षेण विलाप्य अपुनस्स्मरणं प्रत्य­गा­त्म­व्य­ति­रे­केण किमपि नास्तीति विनिश्चित्य । तदात्मना अधि­ष्ठा­न­भू­त­प्र­त्य­गा­त्मना यस्तिष्ठति सर्वदा वर्तते स मुक्तः सकलविधात् बन्धात् इति, ब्रह्मात्मना संस्थितिः आत्मा­ना­त्म­वि­वे­केन आत्मनि समा­रो­पि­ता­ना­त्म­बा­धेन लब्धव्या इति प्रप­ञ्च­प्र­वि­ला­पनं विवेकिना कर्त­व्य­मि­त्युक्तं भवति ॥१५५॥

इदानीं पञ्चसु कोशेषु अन्तिममपि प्रथमं स्थूलतया विवेकार्हम् अस्मा­ल्लो­का­त्प्रेत्य, ‘एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­म्क्रा­मति’(तै.उ. २.८) इति श्रुत्यु­क्त­क्र­मेण सर्वा­न्त­र­मा­त्मानं ग्राहयितुं विवेचयति देहोऽ­य­मि­त्या­दिना दशभिः श्लोकैः −