विवेकचूडामणिः सव्याख्यः
१६. बन्धः
अत्रानात्मन्यहमिति मतिर्बन्ध एषोस्य पुंसः
प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः ।
येनैवायं वपुरिदमसत्सत्यमित्यात्मबुध्या
पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥१३९॥
अत्र पूर्वोक्तरीत्या वस्तुतः परमात्मन एव स्वस्वरूपत्वेऽपि, अज्ञानात् अनादिसिद्धाविद्यावशात् प्राप्तः अस्य पुंसः अनात्मनि देहादौ अहमितिमतिः अहं मनुष्यः अहं क्षुत्पिपासादिमान् इच्छामि करोमि भुञ्जे इत्याद्या या मतिः एष बन्ध इत्यन्वयः । तत्र हेतुः अज्ञानात्प्राप्त इति । भ्रमसामान्यस्य दोषजन्यत्वात् शरीरादौ आत्मत्वभ्रमे स्वरूपाज्ञानमेव दोषत्वेनापि कारणमिति भावः । अत्र प्रत्यक्षे देहादावनात्मनि इत्यप्यर्थः । साङ्ख्यादिमते मूलाज्ञानानङ्गीकारेण बन्धमोक्षव्यवस्थैवानुपपन्नेति ज्ञेयम् । आज्ञानिकत्वे बन्धस्य अज्ञानस्य ज्ञानान्निवृत्तौ तन्मूलकस्य बन्धस्यापि निवृत्तेः । अन्यथा बन्धस्य सत्यत्वात् ज्ञानमात्रनिवर्त्यत्वस्य दुर्वचत्वात् दोषाभावे भ्रमस्य उत्पत्तुमशक्यत्वाच्च । बन्धस्य कार्यमाह जननमरणक्लेशसम्पातहेतुरिति । जननं च मरणं च जननमरणे ताभ्यां क्लेशः दुःखं तत्र सम्पातः सम्मग्नत्वं, तस्य हेतुः । जननमरणेत्युपलक्षणं दुःखहेतूनां क्षुत्पिपासादीनां सर्वेषां, यद्वा जननं च मरणं च क्लेशाश्च जननमरणक्लेशाः तेषां सम्पातः स्वधर्मत्वेन ज्ञानं तत्र हेतुरित्यर्थः । अधुना क्लेशपदेन अस्मितारागद्वेषाभिनिवेशानां परिग्रहः । पञ्चक्लेशमध्ये आदिमक्लेशस्यैव ‘अनात्मन्यहमितिमतिर्बन्ध’ इत्युक्तत्वात् । ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मत्वख्यातिरविद्या’(२.५) इति योगसूत्रात् । तत्र देहे स्थूलेऽभिमानात् जननमरणसम्पातः आनन्दमयादावभिमानात् रागद्वेषाभिनिवेशानां सम्पातः इति सकलविधदुःखहेतुत्वम् आदिमक्लेशस्य कार्याविद्याया बन्धशब्दिताया इति बोध्यम् । येनैव अनात्मन्यात्ममतिरूपबन्धेनैव अयं पुरुषः इदमसद्वपुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन । विषयैः बन्धकैरप्यनुकूलैरिव प्रतीयमानैः रसादिभिः पुष्यति वर्धयति उक्षति सिञ्चति अवति रक्षति । तत्रानुरूपः दृष्टान्तः तन्तुभिः कोशकृद्वदिति । यथा कोशकारः क्रिमिः स्वदेहगतलालाव्ययेन तन्तून् कृत्वा तैः रक्षितो भवामीति भ्रान्त्या तन्मध्यलग्नः अन्यत्र गन्तुमशक्तः वृथा म्रियते एवं जीवोऽपि शरीरमात्मत्वेन मत्वा विषयैः पोषयन् तद्वशः जन्ममरणादिसकलविधदुःखमनुभवतीति भावः । उक्तं हि –
कोशक्रिमिस्तन्तुभिरात्मदेहम् आवेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव सन् ततस्तदन्तर्म्रियते च लग्नः ॥ (स.सं. ४४) इति ।
तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं तु तदुपचायकत्वमिति भेदः ॥१३९॥
अधिष्ठानारोप्ययोः भेदग्रहे अध्यासासम्भवात् अज्ञानस्य मूलकारणस्य अविवेकद्वारा बन्धहेतुत्वं सदृष्टान्तं विशदयन् अध्यासं बन्धशब्दार्थमाह अतस्मिन्निति −
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥१४०॥
तमसा अज्ञानेन विमूढस्य विवेकरहितचित्तस्य पुरुषस्य अतस्मिन्ननात्मनि देहादौ तद्बुद्धिः आत्मबुद्धिः प्रभवति जायते । तद्यथा विवेकाभावात् स्फुरति भासमाने भुजगे सर्पे नेयं रज्जुरिति भेदज्ञानाभावात् , वै एव रज्जुधिषणा रज्जुरिति बुद्धिः जायते । ततः रज्जुबुध्यनन्तरम् उपादेयत्वधिया समादातुः भुजङ्गं स्वीकर्तुः अधिकः अनर्थव्रातः मरणपर्यन्तबहुविधदुःखसमुदायः निपतति प्राप्तो भवति । ततः तस्मात्कारणात् योऽसद्ग्राहः अन्यथावर्तमानस्य अन्यथाग्रहणं सः बन्धः भवति हि निश्चयः । सखे शृणु स्पष्टम् । तत्र रज्ज्वां भुजगधिषणामदृष्टान्तयित्वा भुजगे रज्जुधिषणा अनात्मन्यध्यासे दृष्टान्तीकृता अत्यन्तानर्थकरत्वद्योतनाय ॥१४०॥
इदानीं ‘कथमेष आगत’(श्लो. ५२) इत्यस्य प्रश्नस्य उत्तरं वक्तुमारभते अखण्डेति −
अखण्डनित्याद्वयबोधशक्त्या
स्फुरन्तमात्मानमनन्तवैभवम् ।
समावृणोत्यावृतिशक्तिरेषा
तमोमयी राहुरिवार्कबिम्बम् ॥१४१॥
अज्ञानस्य द्वे शक्ती बन्धहेतुभूते आवरणशक्तिः विक्षेपशक्तिश्चेति । क्रमेण तयोः बन्धहेतुत्वमुपपादयति । अखण्डा अपरिच्छिन्ना अत एव नित्या उत्पत्तिनाशशून्या । अद्वया द्वितीयशून्या या बोधरूपा शक्तिः ‘स्वाभाविकी ज्ञानबलक्रिया च’(श्वे.उ. ६.८) इति श्रुतेः ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘सत्यं ज्ञानमनन्तम्’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इति श्रुतिभ्यश्च । तया शक्त्या स्फुरन्तं प्रकाशमानम् । अनन्तवैभवं विभोर्भावः वैभवं, तस्य गगनादिवदापेक्षिकत्वं वारयति अनन्तेति । अनन्तं निरपेक्षं वैभवं यस्य इति निरतिशयमहत्त्वमुक्तम् अतिपरिच्छिन्ने देहादौ अहं मतिः अत्यन्तमयुक्तेति बोधयितुम् । एतादृशे परिच्छिन्नत्वानित्यत्वसद्वयत्वजडत्वादिकमारोप्यते अज्ञानात् । तत्र हेतुं स्फुटयति − तमनन्तवैभवम् अखण्डनित्याद्वयबोधशक्त्या प्रकाशमानम् आत्मानं तमोमयी तमःप्रचुरा एषा विवेकिजनप्रत्यक्षा आवृतिशक्तिः । अर्कबिम्बं महता प्रकाशेन भासमानं सूर्यमण्डलं तमोमयो राहुरिव समावृणोति अभासमानस्वासाधारणधर्माणं करोति । यथा महाप्रकाशवानप्यर्कः राहुणावृतः न भासत इत्युच्यते तथा तत्तादृशोऽप्यात्मा आवृतिशक्त्या समावृतः अज्ञातवास्तवरूपो भवतीति भावः ॥१४१॥
पूर्वार्धेन आवरणकार्यम् उत्तरार्धेन विक्षेपशक्तिकार्यं च क्रमेणाह तिरोभूत इत्यादिना −
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति ।
ततः कामक्रोधप्रभृतिभिरमुं बन्धकगुणैः
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥१४२॥
अमलतरतेजोवति अतिस्वच्छप्रकाशवति स्वात्मनि स्वस्वरूपे परमात्मनि अज्ञानगतावरणशक्त्या तिरोभूते न्यग्भूते स्पष्टमभासमाने सति, पुमान् जीवः मोहात् अविवेकात् , अनात्मानम् आत्मभिन्नं शरीरं देहम् अहमिति तादात्म्येन कलयति जानाति अभिमन्यते । ततः शरीरे तादात्म्याभिमानानन्तरम् अमुं पुरुषं विक्षेपाख्या विक्षेपनाम्नी रजसः रजोगुणस्य उरुशक्तिः प्रबला शक्तिः कामक्रोधप्रभृतिभिः कामश्च क्रोधश्च कामक्रोधौ तौ प्रभृती आदी येषां लोभदम्भाभ्यसूयाहङ्कारेर्ष्या मत्सराद्यानां ते कामक्रोधप्रभृतयः तैः बन्धकगुणैः अध्यासवृद्धिहेतुभूतैः धर्मैः परमत्यन्तं व्यथयति शोचयति । दुःखजटिलं करोतीत्यर्थः । प्रसिद्धं हि शरीराभिमानवतः तदनुकूले वस्तुनि कामः तदलाभे क्रोधः तल्लाभे लोभः इत्यादि । उक्तं हि गीतायाम् –
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् इति ॥ (१६.२१) १४२ ॥
एवमज्ञानम् आवरणविक्षेपशक्तिभ्यां सर्वानर्थमूलमित्युक्तं पुनर्विशदयति महामोहेत्यादिना −
महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थाः स्वयमभिनयंस्तद्गुणतया ।
अपारे संसारे विषयविषपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥
महामोहग्राहग्रसनगलितात्मावगमनः महांश्चासौ मोहश्च महामोहः दृढतराविवेकः स एव ग्राहः मकरः तस्य ग्रसनं तत्कर्तृकनिगरणं तेन गलितं नष्टम् आत्मावगमनम् आत्मनः अवगमनं सम्यग्ज्ञानं यस्य सः अनवबुध्यमानयाथात्म्य इत्यर्थः । धियः बुद्धेः नानावस्थाः बहुविधान् परिणामान् , तद्गुणतया तस्याः गुणाः यस्य सः तद्गुणः तदुपहिततया तदधीनतयेति यावत् उपाधेः प्रतिबिम्बपक्षपातित्वात् । प्रसिद्धं हि जले चलति तत्र भासमानसूर्यप्रतिबिम्बोऽपि चलतीति । ‘समानस्सन् उभौ लोकौ अनुसञ्चरति’(ब्र.सू.भा. २.३.३०) , ‘सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः । स्वयमभिनयन् स्वस्मिन्नारोपयन् । अपारे अनवधौ विषयविषपूरे विषया एव विषं विषयविषं तस्य पूरः प्रवाहः यत्र स विषयविषपूरः तस्मिन्संसारे जलनिधौ संसाररूपसमुद्रे । सप्तमी समानाधिकरणत्वार्थिका । कुमतिः कुत्सिता अब्रह्मगामिनी मतिः बुद्धिः यस्य सः कुमतिः अत एव कुत्सितगतिः कुत्सिता निन्दिता गतिरवगतिः नरकाद्यधोलोकगतिर्वा यस्य स कुत्सितगतिः अयं पुमान् निमज्योन्मज्य अस्वतन्त्रः अधो गत्वा ऊर्ध्वमागत्य भ्रमति । अवशीकृतबुद्धेः इन्द्रियलौल्येन विषयाधीनतया भ्रान्तिपरम्परा न संसारपारब्रह्मप्राप्तिरिति भावः ॥१४३॥
स्वकार्यस्यापि स्वतिरोधायकत्वं सदृष्टान्तमाह भान्विति −
भानुप्रभासञ्जनिताभ्रपङ्क्तिः
भानुं तिरोधाय यथा विजृम्भते ।
आत्मोदिताहङ्कृतिरात्मतत्त्वं
तथा तिरोधाय विजृम्भते स्वयम् ॥१४४॥
भानोः सूर्यस्य प्रभया किरणैः सञ्जनिता समुत्पादिता अभ्रपङ्क्तिः आपः बिभ्रतीति अभ्राणि मेघाः तेषां पङ्क्तिः माला, ग्रीष्मे सूर्यकिरणैः आकृष्टा आप एव मेघात्मना भवन्तीति प्रसिद्धिः । सा मेघमाला स्वोत्पादकं भानुं सूर्यं तिरोधाय आवृत्य यथा विजृम्भते स्वयं पुरोभवति । तत्किरणेरैव जातत्वं तत्तिरोधाय स्वयमवभासमानत्वं चेति सर्वांशे दृष्टान्तः । तथा आत्मोदिताहङ्कृतिः आत्मनः सकाशादुदिता उत्पन्ना याहङ्कृतिः देहादावहम्प्रत्ययः आत्माधीनसत्तास्फूर्तिमानपि आत्मतत्त्वम् आत्मयाथात्म्यं नित्यशुद्धबुद्धमुक्तस्वभावत्वं तिरोधाय तदीयस्फुटभानं प्रतिबध्य स्वयं विजृम्भते पुरस्स्फूर्तिको भवतीत्यर्थः । अहङ्कृतिः बुद्धिर्वा तस्या अपि आत्मनः सकाशादुत्पन्नत्वात् विज्ञानमयकोशत्वेन तदावरकत्वाच्च ॥१४४॥
इदानीमावरणविक्षेपशक्तिकार्यं सदृष्टान्तमाह कबलितेति −
कबलितदिननाथे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझञ्झावायुरुग्रो यथैतान् ।
अविरततमसात्मन्यावृते मूढबुद्धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥१४५॥
सान्द्रमेघैः सान्द्राः निविडाः ते च ते मेघाश्च सान्द्रमेघाः तैः निरन्तरमेघैः । कबलितदिननाथे कबलितः ग्रस्तः दिननाथः सूर्यः यस्मिन् तत् कबलितदिननाथं तस्मिन् । दुर्दिने ‘मेघच्छन्नेऽह्नि दुर्दिनम्’(अ.को. १.३.१०१) इति कोशात् । सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयङ्करः । हिमझञ्झावायुः ‘झञ्झावातः सवृष्टिकः’(अ.को. १.१.७२) इति कोशात् हिमसहितः सवृष्टिकवायुः यथा एतान् पथिकान् जनान् व्यथयति दुःखाकरोति । सूर्यातपो नास्ति मध्येमार्गं स्थितिः हिमवर्षसहितः महान् वायुश्चेति तदाऽध्वगानां पीडा दुर्वचा । एवम् अविरततमसा सान्द्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कबलिते स्फुटतया अप्रतीयमाने नष्टप्राये तीव्रविक्षेपशक्तिः राजसी कामक्रोधादिरूपेण परिणममाना प्रबलविक्षेपशक्तिः । मूढबुद्धिं तामस्या आवरणशक्त्या मूढा प्राप्तज्ञायमानताकज्ञानासमर्था बुद्धिः यस्य स मूढबुद्धिः तं पुमांसम् । बहुदुःखैः बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्ममृत्युजरारोगादिजन्यैः क्षपयति नाशयतीत्यर्थः । सन्ततदुःखपरम्परामग्नस्य क्वानन्दरूपस्वात्मज्ञानम् । तदभावे स्वात्मादर्शनात् नष्ट इव भवत्यात्मेति भावः ॥१४५॥
कथमेष आगत इति प्रश्नोत्तरमुक्तं स्फुटज्ञानार्थमुपसंहरति एताभ्यामिति −
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥१४६॥
एताभ्यां गुणत्रयमयाज्ञानगततमोरजश्शक्तिभ्याम् आवृतिविक्षेपरूपाभ्यां पुंसः पुरुषस्य बन्धः अतस्मिन्तद्बुद्धिरूपाध्यासः समागतः । स्थिरतरसाधनचतुष्टयपुरस्सरवेदान्तविचारजन्यस्वात्मसाक्षात्कारं विना दुर्निरसः प्राप्तः । याभ्यां पूर्वोक्तशक्तिभ्यां विमोहितः ज्ञातव्यज्ञानशून्यः देहं स्थूलादिकम् आत्मानं मत्वा अहमिति विज्ञाय अयं पुमान् भ्रमति संसारदीर्घाटव्याम् ॥१४६॥
मुमुक्षूणां सुखबोधार्थं समूलं समग्रं संसारं वृक्षत्वेन रूपयति बीजमित्यादिना −
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरः
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः ।
अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥१४७॥
संसृतिभूमिजस्य संसृतिरेव भूमिजः वृक्षः तस्य बीजं मूलकारणं तमः अज्ञानम् । तुरवधारणे । अज्ञानमेव मूलं नान्यदित्यर्थः । देहात्मधीरङ्कुरः अनात्मन्यात्मधियः अज्ञानैकनिबन्धनत्वात् । रागः पल्लवं किसलयः अङ्कुरोत्पत्त्यनन्तरकालिकत्वात्पल्लवस्य । शरीरात्मधीसमनन्तरं शरीरानुकूले आत्मानुकूलत्वज्ञानात् रागः इच्छा वैषयिकी । अम्बु जलं वृक्षवृद्धिहेतुः कर्म तु कर्मैवेत्यर्थः । तुःपूर्ववत् । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । कर्म पुण्यापुण्यात्मकम् । वपुःस्कन्धः यतश्शाखा उत्पद्यन्ते स मध्यभागः वृक्षस्य स्कन्ध इत्युच्यते । असवः पञ्च प्राणादयो वायवः स्कन्धतः प्रसृमरत्वात् शाखिकाः शाखा एव शाखिकाः । अग्राणीन्द्रियसंहतिः इन्द्रियाणां संहतिः इन्द्रियसंहतिः इन्द्रियसमुदायः चक्षुरादीनां वागादीनां च इन्द्रियाणां प्राणाधीनस्थितिकत्वात् । इदं तु इन्द्रियप्राणसंवादश्रुतौ प्रसिद्धम् । अग्राणां शाखाधीनस्थितिकत्वं सिद्धमेव । विषयाः शब्दस्पर्शरूपरसगन्धाः पुष्पाणि अग्रसम्बन्धात् कुसुमानि । दुःखं फलं विषयेन्द्रियसम्बन्धानन्तरकालिकत्वात् । शाखाग्रेषु पुष्पोत्पत्त्यनन्तरं हि फलं जायते । यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्मशब्देन पुण्यापुण्यरूपस्य कर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च अथापि वैषयिकसुखमपि दुःखमित्येव परिगण्यते विवेकिभिः । तत्साधनार्थं तन्नाशे च दुःखस्यैवानुभवात्
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (५.२२)
इति गीतायामुक्तेः । अत एव एकविंशतिदुःखमध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरं सुखं दुःखं चेति दुःखत्वेन सुखमपि परिगणितं न्यायशास्त्रे । तच्च दुःखं नानाकर्मसमुद्भवं नाना बहुविधानि यानि कर्माणि तेभ्यः समुद्भवो यस्य तत् नानाकर्मसमुद्भवं । अतो हेतोः कर्मणः बहुविधत्वात् फलं स्वयमपि बहुविधम् अनेकप्रकारम् । अत्र वृक्षे खगः पक्षी जीवः भोक्ता दुःखरूपफलानुभवीत्यर्थः । तथा च अज्ञानमूलकः दुःखैकफलकः अयं संसारवृक्षः विषवृक्षवद्धेय इति भावः । अनेन देहात्मधीरूपबन्धस्य रागद्वेषादिदोषोत्पादनद्वारा धर्माधर्मरूपकर्महेतुतया, तेन च कर्मणा शरीरपरम्परया तत्राहमभिमानः इत्येवं रूढमूलतया स्थितिरिति ‘कथं प्रतिष्ठास्य’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं दत्तं भवति ॥१४७॥
इदानीं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं वक्तुं पूर्वोक्तं बन्धं सहेतुकं सफलमनुवदति अज्ञानेति −
अज्ञानमूलोऽयमनात्मबन्धो
नैसर्गिकोनादिरनन्त ईरितः ।
जन्माप्ययव्याधिजरादिदुःख-
प्रवाहतापं जनयत्यमुष्य ॥१४८॥
अयं सर्वलोकप्रसिद्धः अनात्मबन्धः शरीराद्यनात्मतादात्म्याभिमानः अज्ञानमूलः अज्ञानं स्वस्वरूपाज्ञानं मूलं हेतुर्यस्य सः । नैसर्गिकः पूर्वपूर्वाध्यासजन्यसंस्कारहेतुकः । अनादिः अनाद्यज्ञानकार्यत्वात् कस्मिन् समये उत्पन्न इति वक्तुं ज्ञातुं च अशक्यः । अनन्तः ज्ञानं विना अन्तः नाशः न विद्यते अस्येत्यनन्तः । ईरितः अभियुक्तैरिति शेषः । ‘नान्तो न चादिः’(भ.गी. १५.३) इति स्मृतिश्च । एतादृगयं बन्धः । अमुष्य जीवस्य जन्माप्ययव्याधिजरादिदुःखप्रवाहतापं जन्म उत्पत्तिः शरीरस्य, अप्ययः मरणं, व्याधिः रोगः, जरा वार्धक्यम् आदिपदेन आधिभौतिकाधिदैविकतापपरिग्रहः । तैर्जन्यानि यानि दुःखानि तेषां प्रवाहः परम्परा उपर्युपरि सन्निपातः तेन तापम् उद्वेगं जनयति उत्पादयति । पातमिति पाठे स्पष्टोऽर्थः प्रवाहपातमिति ॥१४८॥
अस्य परमेश्वरानुग्रहलब्धदृढतरविवेकजन्यस्वस्वरूपानुभवमन्तरा केनाप्यनुच्छेद्यत्वमाह नास्त्रैरिति −