अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३९. ब्रह्मभावापत्तिः

पाषा­ण­वृ­क्ष­तृ­ण­धा­न्य­क­टा­म्ब­राद्या
दग्धा भवन्ति हि मृदेव यथा तथैव ।
देहे­न्द्रि­या­सु­म­न­आ­दि­स­म­स्त­दृश्यं
ज्ञाना­ग्नि­द­ग्ध­मु­प­याति परात्मभावम् ॥५६४॥

५६४

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥५६५॥

५६५

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।
तथैवोपाधिविलये ब्रह्मैव ब्रह्म­वि­त्स्व­यम् ॥५६६॥

५६६

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।
संयुक्तमेकतां याति तथा­त्म­न्या­त्म­वि­न्मुनिः ॥५६७॥

५६७

एवं विदेहकैवल्यं सन्मा­त्र­त्व­म­ख­ण्डि­तम् ।
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥५६८॥

५६८

सदा­त्मै­क­त्व­वि­ज्ञा­न­द­ग्धा­वि­द्या­दि­व­र्ष्मणः ।
अमुष्य ब्रह्म­भू­त­त्वा­द्ब्र­ह्मणः कुत उद्भवः ॥५६९॥

५६९

मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जौ निष्क्रियायां सर्पा­भा­स­वि­नि­र्गमौ ॥५७०॥

५७०

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।
नावृ­ति­र्ब्र­ह्मणः काचि­द­न्या­भा­वा­द­ना­वृ­तम् ।
यद्य­स्त्य­द्वै­त­हानिः स्याद्द्वैतं नो सहते श्रुतिः ॥५७१॥

५७१

बन्धश्च मोक्षश्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।
दृगावृतिं मेघकृतां यथा रवौ
यतोऽ­द्व­या­स­ङ्ग­चि­दे­क­म­क्ष­रम् ॥५७२॥

५७२

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥५७३॥

५७३

अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि ।
निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने ।
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥५७४॥

५७४

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥५७५॥

५७५

सक­ल­नि­ग­म­चू­डा­स्वा­न्त­सि­द्धा­न्त­गुह्यं
परमिदमतिगुह्यं दर्शितं ते मयाऽद्य ।
अपगतकलिदोषः काम­नि­र्मु­क्त­बुद्धिः
तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥५७६॥

५७६

इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥५७७॥

५७७

गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।
पावयन् वसुधां सर्वां विचचार निरन्तरः ॥५७८॥

५७८

इत्याचार्यस्य शिष्यस्य संवा­दे­ना­त्म­ल­क्ष­णम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥५७९॥

५७९

हित­मि­द­मु­प­दे­श­मा­द्रि­यन्तां
विहि­त­नि­र­स्त­स­म­स्त­चि­त्त­दोषाः ।
भवसुखविमुखाः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्षवो ये ॥५८०॥

५८०

संसाराध्वनि ताप­भा­नु­कि­र­ण­प्रो­द्भू­त­दा­ह­व्यथा-
खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्या­स­न्न­सु­धा­म्बुधिं सुखकरं ब्रह्माद्वयं दर्शय-
न्त्येषा शङ्करभारती विजयते निर्वा­ण­स­न्दा­यिनी ॥५८१॥

५८१

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ विवेकचूडामणिः शृङ्ग­गि­रि­ज­ग­द्गुरु श्रीच­न्द्र­शे­ख­र­भा­र­ती­स्वा­म्य­नु­गृ­ही­त­व्या­ख्या­स­नाथः समाप्तः ॥