विवेकचूडामणिः सव्याख्यः
३८. शरीरपातः
यत्र क्वापि विशीर्णं सत् पर्णमिव तरोर्वपुः पतनात् ।
ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥५५७॥
सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णाद्वयानन्दमयात्मना सदा ।
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसवित्पिण्डविसर्जनाय ॥५५८॥
देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः ।
अविद्या हृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥५५९॥
कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥५६०॥
पत्रस्य पुष्पस्य फलस्य नाशवद्
देहेन्द्रियप्राणधियां विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्या-
नन्दाकृतेर्वृक्षवदास्त एषः ॥५६१॥
प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥५६२॥
अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।
प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥५६३॥