विवेकचूडामणिः सव्याख्यः
२६. ब्रह्मस्वरूपम्
ज्ञातृज्ञानज्ञेयशून्यमनन्तं निर्विकल्पकम् ।
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥२४१॥
ज्ञातृज्ञानज्ञेयशून्यं त्रिपुटीरहितम् । तत्रहेतुः अनन्तं परिच्छेदत्रयशून्यमिति । अत एव निर्विकल्पकम् । केवलाखण्डचिन्मात्रं सर्वोपाधिसम्बन्धविधुरापरिच्छिन्न ज्ञानैकरूपं परं तत्त्वं बुधाः विदुः ।
अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्रमेयमनाद्यन्तं ब्रह्म पूर्णं महन्महः ॥२४२॥
स्वात्मत्वेन अहेयमनुपादेयं मनोवाचामगोचारं ‘यतो वाचः’(तै.उ. २.४,.२.९) इति श्रुतेः अप्रमेयं श्रवणमनननिदिध्यासनसंस्कृतमनोवृत्तिव्याप्तम् अनाद्यन्तं कालदेशपरिच्छेदशून्यम् अतः पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनम् ॥
पदार्थौ शोधयित्वा वाक्यार्थं वक्तुमारभते तत्त्वमित्यादिना −