विवेकचूडामणिः सव्याख्यः
९. मार्गोपदेशः
विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधुयथोक्तकारिणे ।
प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥
तथा वदन्तमित्युक्त्या वाग्व्यापारेण तदीयाधिकारस्य आन्तरस्य सम्यग्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभयदानोपदेशादिकं गुरुभिः कर्तव्यमिति द्योतितम् । संसारदावानलतापतप्तं, स्वं स्वात्मानं शरणागतं रक्षकत्वेन मत्वा प्राप्तं, कारुण्यरसार्द्रदृष्ट्या निरीक्ष्य, महात्मा अक्षुद्रबुद्धिः, गुरुः सहसाऽभीतिं दद्यादित्यनेन भीताः सहसा भीत्या मोचनीया इति व्यञ्जितम् । अभयदानेन निवृत्तभीतेरेव पुरुषस्य उपदिष्टार्थग्रहणादौ सामर्थ्यं सम्भवतीति भावः । भीतस्य भयं शक्तेन बहुकालं न स्थापनीयम् इति च सहसेत्युक्तम् ॥४३॥
भीतस्याभयदानं प्रथमतः कर्तव्यमित्युक्त्वा अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वानित्यादिना − स विद्वान् ब्रह्मवित्तमो देशिकः, उपसत्तिमीयुषे विधिवत्समीपं गताय मुमुक्षवे मोक्षं कामयमानाय, साधुयथोक्तकारिणे सम्यग्विहितानुष्ठात्रे । एतेन शिष्टत्वमुक्तम् । ‘नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्’(क.उ. १.२.२४) इत्युक्तत्वात् । श्रोत्रियत्वम् अवृजिनत्वं मोक्षकामव्यतिरिक्तकामशून्यत्वं च शिष्ये अवेक्षणीयमिति भावः । प्रशान्तचित्ताय देहादिब्रह्मपर्यन्तभोग्यवस्तुनो विरज्य, स्वलक्ष्ये नियतावस्थितमनस्काय, शमान्विताय निगृहीत-बहिरिन्द्रियाय, एतेन शमादिषट्कमुक्तम् अधिकारिविशेषणम् । तस्मै वैराग्यादिगुणगणमण्डिताय, तत्त्वोपदेशं कृपया तदीयदुःखप्रहाणेच्छया आप्तकामस्य स्पृहान्तराभावात् कुर्यादेवेत्येवकारो भिन्नक्रमः । अधिकारिणि लब्धे नोदासितव्यं, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठिता भवतीति भावः । इत्थं च सर्वानर्थ-हेतुभूताविद्यानिवर्तक-ब्रह्मविद्यापारम्पर्याविच्छेदः स्वशिष्यमोचनं च उपदेशस्य फलम् । तत्र गुरुशिष्यसंवादरूपेण प्रकरणप्रणयनं सुलभतया तत्त्वस्य श्रोतृबुद्ध्यारोहाय । अत एव किलाख्यात्याख्यायिकां तत्र तत्र श्रुतिरपि । तेन गुरुलक्षणं शिष्यलक्षणं प्रष्टव्याद्यंशाः सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥
परमकारुणिको गुरुः शिष्येण ‘कथं तरेयं भवसिन्धुमेतम्’ इत्यादिना दर्शितां भीतिं झटिति निनाशयिषुराह − माभैष्टेति −
माभैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः ।
येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥४५॥
हे विद्वन् ! भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता । विद्वन्निति सम्बोधयन् विवेकादिकं सम्पाद्य गुरुकरुणां विना दुःखतरणं न भवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानीष एव इति सूचयति, तादृशस्य तव साधुयथोक्तकारिणः नास्त्यपायः ‘न हि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति’(भ.गी. ६.४०) इति स्मृतेः । अतः कथं तरेयम् , का वा गतिरिति मैव भैषीरित्यर्थः । एवं मा भैष्ट तव कल्याणकर्तुः अपायो नास्तीति तमाश्वास्य कतमोऽस्त्युपायः इत्यस्य उत्तरमाह संसारसिन्धोस्तरणेऽस्त्युपाय इति । तत्र सम्यग्विश्वासोत्पत्त्यर्थं तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य संसारसिन्धोः पारम् अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं तव निर्दिशामि उपदिशामीत्यर्थः ॥४५॥
तादृशमार्गशुश्रूषायामौत्कट्यसिद्ध्यर्थं पुनरपि सामान्यरूपेणैव उपायं निर्दिशति − अस्तीति −
अस्त्युपायो महान्कश्चित् संसारभयनाशनः ।
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४६॥
संसारभयनाशनः महान् बह्वायाससाध्यसाधनसाध्यः कश्चिदुपायोऽस्ति, तेन वक्ष्यमाणोपायेन भवाम्भोधिं दुस्तरं संसारसागरं तीर्त्वा तन्मूलभूताम् अविद्यां भङ्क्त्वा परमानन्दं निरवधिकं शाश्वतं सन्तोषम् , आप्स्यसि लप्स्यसे इत्यर्थः । तेन दुःखनिवृत्तिरेव त्वया काम्यते मयोपदेक्ष्यमाणोपायेन तु दुःखमप्यत्यन्तं निवर्तते, नित्यनिरतिशयानन्दाविर्भावश्च तव भवतीति शिष्यः अत्यन्तमाप्यायित इति भावः ॥४६॥
तमुपायं विशेषतो निर्दिशति − वेदान्तेति −
वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् ।
तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥४७॥
वेदानामन्ताः वेदान्ताः उपनिषदः तासां योऽर्थः तद्विचारेण, उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैः प्रतिपाद्यमानः सजातीयविजातीयस्वगतभेदरहितः नित्यशुद्धबुद्धमुक्तस्वभावः परमात्मा तस्य विचारेण तन्निर्णयानुकूलमानसव्यापारेण, उत्तमं ज्ञानं संशयभावनाद्यशबलितं ज्ञानं निर्णयः जायते । तेन निर्णयेन आत्यन्तिकसंसारदुःखनाशः स्वसमानाधिकरणदुःखप्रागभावासमानकालिकः दुःखनाशः, अनु तन्निर्णयानुपदं भवति भविष्यतीत्यर्थः ॥४७॥
इदानीं तादृशनिर्णयासाधारणहेतूनाह − श्रद्धेत्यादिना −
श्रद्धाभक्तिध्यानयोगान् मुमुक्षो
र्मुक्तेर्हेतून् वक्ति साक्षात् श्रुतेर्गीः ।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥४८॥
तत्र श्रद्धा − गुरुवेदान्तवाक्यविश्वासः शास्त्रस्य गुरुवाक्यस्येत्यादिना लक्षिता । भक्तिः स्वस्वरूपानुसन्धानं निदिध्यासनम् । ध्यानं, ‘तत्र प्रत्ययैकतानता ध्यानम्’(यो.सू. ३.२) इति सूत्रितं ‘सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा’ इति लक्षितं समाधानम् । योगः ‘योगश्चित्तवृत्तिनिरोधः’(यो.सू. १.२) इति सूत्रितः । तत्र श्रद्धा सर्वत्र हेतुः । भक्तिध्यानयोगानां मध्ये उत्तरोत्तरस्य पूर्वपूर्वहेतुत्वम् । चित्तवृत्तिनिरोधे समाधानस्य तस्मिन् श्रुताचार्योपदेशमनु स्वस्वरूपानुसन्धानरूपनिदिध्यासनस्य सम्भवात् । यद्वा ध्यै चिन्तायामिति धातोः युक्तिभिरनुचिन्तनरूपं मननं निदिध्यासनसाक्षात्कारणमुच्यते ध्यानशब्देन, ज्ञानप्रतिबन्धकसकलदुरितनिवर्तकं सगुणध्यानं वा । अत्रोभयत्रापि चित्तबाह्यवृत्तिनिरोधरूपयोगस्य हेतुत्वम् अस्त्येव । यद्वा युज्यते सम्बध्यते आत्मसाक्षात्कारेणानेनेति योगः, भक्तिश्चासौ योगः, ध्यानं च तद्योगः इति भक्तियोगः ध्यानयोगः इति वा सम्बन्धः । मुमुक्षोः पुरुषस्य मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गीः ‘श्रद्धाभक्ति-ध्यान-योगादवेहि’(कै.उ.२) इति कैवल्योपनिषत् , साक्षाद्वक्ति प्रत्यक्षश्रुतिरित्यर्थः । यद्वा मुक्तेः मुक्तिहेतुज्ञानस्य साक्षाद्धेतून् साक्षात्कारणानीति अवेहीति पदघटिता श्रुतिः वक्ति इति वा अन्वयः । यो वै पुरुषः एतेष्वेव श्रद्धाभक्ति-ध्यानयोगेषु तिष्ठति, श्रद्धालुः भक्तिमान् ध्याता योगी च सदा भवति, अमुष्य अदश्शब्दप्रयोगेण तादृशाधिकारिणः दुर्लभत्वं सूचयति ‘अदसस्तु विप्रकृष्टम्’ इत्युक्तेः । तस्य अविद्याकल्पितात् अज्ञानमूलकात् देहबन्धात् अहङ्कारादिदेहबन्धात् , मोक्षः निवृत्तिः सिध्यत्येवेति शेषः । यो वा इत्यत्र वै इत्यवधारणे, स अन्ते सम्बन्धनीयः । एतेष्वेवेत्यत्र अवधारणम् उक्तसाधनान्यनिष्ठत्वं वारयति ॥४८॥
इदानीं गुरुः सङ्ग्रहेण शिष्यं प्रति संसृतिहेतुं तन्निदानं तन्निवृत्त्युपायं च सकारणमुपदिशति − अज्ञानयोगादिति −
अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबन्धस्तत एव संसृतिः ।
तयोर्विवेकोदितबोधवह्निः
अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥
परमात्मनस्तव अज्ञानयोगात् अनाद्यविद्यासम्बन्धात् , अनात्मबन्धः अनात्मसु स्थूलसूक्ष्मकारणशरीरेष्वात्मत्वबुद्धिः । तत एव जन्मजरामरणसुखदुःखजडत्वादिधर्माध्यासरूपा संसृतिः । तयोः आत्मानात्मनोः विवेकोदितबोधवह्निः विवेकः भेदज्ञानं तेन उदितो जातः बोधवह्निः साक्षात्काररूपाग्निः समूलम् अज्ञानरूपबीजोपेतम् अज्ञानकार्यम् अहङ्कारादिदेहान्तबन्धं तत्प्रयोज्यजन्मजरामरणादिरूपसंसारं च प्रदहेत् प्रकर्षेण भस्मीकुर्यादित्यर्थः । तथा च संसृतिकारणम् अनात्मबन्धः, तत्र कारणं तवाज्ञानयोगः, तन्निवृत्त्युपायः परमात्मबोधः तत्र कारणम् आत्मानात्मविवेकः इति सङ्ग्रहेणोक्तम् । तेन वेदान्तविचारजन्योत्तमज्ञानस्य संसारदुःखनाशकत्वविषये उपपत्तिः प्रदर्शिता आज्ञानिकस्य बन्धस्य ज्ञानादेव निवृत्तिः नान्यत इति ॥४९॥
इत्थं गुरुमुखारविन्दनिर्गलितवाक्सुधास्यन्दानन्दितः शिष्यः तन्मुखकलशनिरर्गलनिर्गलद्वाक्यपीयूषपारावारे गाढं मिमङ्क्षुः स्वकीयसकलसन्देहभञ्जनाय तं प्रष्टुं विनयेन प्रार्थयते ।
शिष्य उवाच –
कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया ।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥५०॥
एतेन गुरुसन्निधावनिवेद्य प्रश्नो न कर्तव्य इति शिष्यधर्मो बोधितः । यस्य उत्तरं यदुत्तरम् । तत्र प्रश्नोऽयं क्रियते मयेति अनुक्त्वा, प्रथमं कृपया श्रूयतामिति प्रार्थनोत्तरं तदुक्त्या गुरोः स्वस्मिन् दयाभिवृद्धये मानसमार्दवं क्षिप्रजिज्ञासुत्वं च सूचितम् । भवन्मुखात् श्रुत्वेत्यनेन स्वस्य अनन्यशरणत्वं गमितम् ॥५०॥
पृच्छति को नामेति −
को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ॥५१॥
प्रथमं बन्धस्वरूपं पृच्छति को नाम बन्ध इति, तस्मिन् ज्ञाते तन्निवृत्तिः युक्तेन उपायेन सुकरेति । तत्र कारणं पृच्छति कथमेष आगत इति, तस्य स्थितौ हेतुं पृच्छति कथं प्रतिष्ठास्येति, अस्य बन्धस्य प्रतिष्ठा चिरकालं स्थितिः, कथं कुतः, केन हेतुनेति यावत् । विमोक्षः निवृत्तिः । गुरुणा परमात्मनस्तवानात्मबन्ध इत्युक्तत्वात् , कोऽसावनात्मा परम आत्मा कः । तयोर्विवेकोदितेत्युक्तत्वात् , तयोः अनात्मपरमात्मनोः विवेकः भेदग्रहः कथं जायते, एतत्सर्वम् उच्यतां दयया विस्तरेण उच्यतामिति भावः । यद्यपि श्रीचरणसङ्ग्रहोक्त्या परमात्मनो मे अज्ञानयोगात् अनात्मबन्ध इत्युक्त्या, कथमेष आगत इति किञ्चिज्ज्ञातमिव, तयोर्विवेकोदितबोधवह्निरज्ञानकार्यं समूलं प्रदहेदित्यनेन कथं विमोक्ष इत्यपि किञ्चिज्ज्ञातमिव, अथापि केवलं शब्दमात्रश्रवणेन किञ्चिज्ज्ञातार्थस्यापि विस्तरेण तन्निराकाङ्क्षनिर्णयार्थं बन्धस्वरूपस्य तत्स्थितिहेतोः आत्मानात्मविवेकस्य च सुतरामज्ञातत्वात् एतत्सर्वं सम्यक्छ्रावयित्वा कृतार्थयितव्यः दीनदीनोऽयं जनः इति भावः ॥५१॥
अनया प्रश्नवैखर्या पूर्वज्ञातत्रिकरणशुध्या च ब्रह्मविद्यायामुत्तमाधिकारिणं मत्वा ब्रह्मविचारे झटिति तस्य प्रवेशार्थं श्लाघते । ब्रह्मविदुत्तमेन महात्मना श्लाघितः स्वमनोगतं सकलं दुःखं दूरिकृत्य विचारोत्कमनाः ऐदम्पर्येण परमात्मानं विचार्य झटिति कृतार्थः स्यादिति भावः ।
श्री गुरुरुवाच ।
श्रीयुतश्चासौ गुरुश्च श्रीगुरुः, ‘ऋचस्सामानि यजूंषि, सा हि श्रीरमृता सताम्’(तै.ब्रा. १.२.१) इति श्रुत्या ऋगादीनां शब्दरूपाणामेव अमृतसम्पद्रूपत्वे सकलवेदान्तान् तत्प्रतिपाद्यमर्थं च साक्षात्कृतवतो गुरोः श्रीमत्वे किं वक्तव्यम् ? सूर्यादिसकलतेजोभानहेतुभूतब्रह्मतेजसा सम्पन्न इत्यर्थः । तादृशःशिष्यान्तरान्धकारनिरोधकः श्रीगुरुः शिष्येण पृष्टस्य उत्तरमुवाच ।
आदौ तन्मनोविकासार्थं श्लाघते − धन्योऽसीति −
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५२॥
धन्यः धनार्हः,
न खलु धनत्वं जातिः यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पामराणामाकिञ्चन्यं धनं विदुषाम् ॥ (वैरा.शत. ४३)
इत्युक्तरीत्या विद्वद्भिः धनत्वेन सम्मतवैराग्यादिभाग्यभागसीत्यर्थः । तत्र हेतुः कृतकृत्योऽसीति, शास्त्रविहितकर्मानुष्ठानेन शुद्धचित्तोऽसीत्यर्थः, तदभावे संसारे वैराग्यानुत्पत्तेः । कृतानि कृत्यानि शास्त्रविहितानि येन स्ववर्णाश्रमोचितानि कर्माणि साध्वनुष्ठाय चित्तं संशोध्य जाततीव्रवैराग्यः मुमुक्षुरसि । त्वया एतादृशेन ते कुलं वंशः, सर्वोऽपि पावितं पवित्रीकृतः । उक्तं हि –
कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन । अपारसच्चित्सुखसागरेऽस्मिन् लीनं परे ब्रह्मणि यस्य चेतः ॥ (सूत.सं. २.२०.४५) इति ।
स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनी यज्ञानां च सहस्रमिष्टमखिला देवाश्च सम्पूजिताः । संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥
इति च । यद्यपीदानीं तस्य ज्ञानं न जातम् , अथापि गुरूपदेशश्रवणसमनन्तरमेव उत्तमाधिकारित्वात् स जातज्ञानो भवति । ‘परिपक्वमतेः सकृत् श्रुतं जनयेदात्मधियं श्रुतेर्वचः’ इति माधवीयशङ्करविजये (१०.९५) श्रीमदाचार्योक्तेः । ‘अत्यन्तवैराग्यवतः समाधिः’(श्लो. ३७६) इत्यत्रैव वक्ष्यमाणत्वाच्च । क्षिप्रमेव ब्रह्मविलीनमनस्को भूत्वा कुलं भुवं च पावयिष्यतीति भावः ।
न विषयभोगो भाग्यं योग्यं खलु यत्र जन्तुमात्रमपि । ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु वैराग्यम् ॥
इति वैराग्यभाग्यवत्त्वेन महापुण्यशालित्वात् इदानीमपि तस्य वंशपावयितृत्वमस्त्येव । तत्र हेतुं स्पष्टयति यद्यस्मात् कारणात् अविद्याबन्धमुक्त्या अविद्याप्रयोज्याहङ्कारादिदेहान्तबन्धपरित्यागेन, ब्रह्मीभवितुं ब्रह्मस्वरूपेणैव वर्तितुम् इच्छसि तस्मादिति अनेन तीव्रवैराग्यानन्तरकालिकतीव्रमुमुक्षा उक्ता । एतादृशः अस्मिन्नेव जन्मनि परं ब्रह्म साक्षात्कृत्य कुलं जगच्च पवित्रयिष्यतीत्यभिप्रायः ।
ननु ब्रह्मीभवितुमित्यत्र ‘अभूततद्भावे च्विः’(५.४.५४ पा. सूत्रे वार्तिकम्) इत्यनुशासनानुसारेण अभूतः पूर्वमस्थितः ब्रह्मभावः पश्चाद्भविष्यतीति प्रतीयते, तर्हि ब्रह्मभावस्य आगन्तुकत्वात् तद्रूपस्य मोक्षस्याप्यनित्यत्वमिति चेन्न, यद्यपि ब्रह्मैव जीवरूपेण वर्तते इति सर्वदा ब्रह्मभाव इष्ट एव वर्तते, अथापि इदानीमज्ञातत्वात् अज्ञातत्वज्ञातत्वकृतविशेषमाश्रित्य ब्रह्मीभवितुमिति च्विप्रत्ययप्रयोग इति मन्तव्यम् । इदानीमज्ञानवशात् अब्रह्मरूपेण ब्रह्मण एव सतः स्थितिः, ज्ञानानन्तरं तु ब्रह्मात्मनैवावस्थानमित्याशयः । एतेन ब्रह्मभावस्यागन्तुकत्वशङ्का परास्ता ॥५२॥
तत्र प्रथमतः सर्वेषां भवबन्धविमुक्त्यर्थं प्रवृत्तिसिद्धये तस्याः विमुक्तेः स्वस्वमात्रलभ्यत्वं लोकानुजिघृक्षया उपदिशति गुरुः, तत्र जना उदासीना भूत्वा ईश्वरानुग्रहलब्धं जन्म व्यर्थयित्वा दुःखपरम्परां मानुभूवन्नित्यभिप्रायेण − ऋणमोचनेति −
ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५३॥
लोके तावत् पुत्रपौत्रादयः पितुः ऋणमोचनकर्तारः सन्ति । ऋणात् शास्त्रीयात् लौकिकाद्वा मोचयन्ति पुत्रप्राप्त्या तद्वाक्यानुपालनेन अर्थसमर्पणेन वा । बन्धमोचनकर्ता तु अनात्माहङ्कारादिदेहान्तबन्धमोचयिता तु स्वस्मादन्यो न कश्चन, स्वस्य अन्तःकरणाद्यनात्मनि वर्तमानाध्यासः स्वेनैव निवर्तनीयः नान्यस्तत्र प्रभुरित्यर्थः ॥५३॥
स्वीयतद्विषयकप्रत्यक्षप्रमाया एव स्वीयतद्विषयकप्रत्यक्षभ्रमनिवर्तकत्वात् । यदि पिता मन्दान्धकारे पतितां रज्जुं सर्पं मत्वा बिभेति, तत्पुत्रः तां रज्जुं साक्षात्कुर्वन्नपि पितुः साक्षात्कारमन्तरा न तद्भयं निवर्तयितुमीष्टे, तद्वत् स्वानुभवसिद्धो बन्धः स्वेनैव निवर्तनीयः नान्येनेत्यमुमर्थं बहुभिर्दृष्टान्तैः द्रढयन्त्याचार्याः, दृढनिश्चितैतदर्थाः सहसा प्रवर्तन्तां जनाः स्वबन्धमुक्तय इति । मस्तकेति –
मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते ।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५४॥
मस्तके न्यस्तः भारः यस्य, आदिपदेन शृङ्खलादिनिगडितकरचरणादिः तस्य दुःखम् अन्यैर्निवार्यते भाराधस्स्थापनादिना शृङ्खलादिमोचनेन वा । क्षुधादिकृतदुःखं स्वेन विना केनचिदन्येन न निवार्यत इत्यर्थः । नह्यन्यस्मिन् पुत्रादौ भुञ्जाने वारि पिबति वा पितुः क्षुत्पिपासानिवृत्तिर्दृष्टा ॥५४॥
दृष्टान्तान्तरमाह − पथ्यमिति –
पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥५५॥
येन रोगिणा पथ्यं सेव्यते औषधसेवा च क्रियते तस्यैवारोग्यसिद्धिः दृष्टा । अन्येन पथ्यमौषधसेवा च क्रियते चेत् अन्यदीयरोगनिवृत्तिःन दृष्टेत्यर्थः । पथ्यमौषधसेवा चेति द्वयकथनेन दृढतरसाधनचतुष्टयसम्पत्तिः वेदान्तश्रवणं च ज्ञानहेतुरिति व्यञ्जितम् ॥५५॥
वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन ।
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥
स्फुटः निर्मलः संशयत्वाद्यनास्कन्दितः यो बोधः श्रवणमनननिदिध्यासनजातः साक्षात्कारः तेन वस्तुस्वरूपम् आत्मरूपवस्तुयाथात्म्यं परमात्माभिन्नत्वमिति यावत् । स्वेनैव वेद्यं विषयीकर्तव्यं न तु स्वभिन्नेन केनचित्पण्डितेन वेद्यम् । शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता बभूवुः । तेन इतरेषां किं जातमिति भावः । तत्रानुरूपं दृष्टान्तमाह तापवारकाह्लादजनकचन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यम् । अन्यैः चक्षुर्हीनैः अवगम्यते किम् ? यद्वा चक्षुष्मद्भिरप्यन्यैः स्वभिन्नैरवगम्यते चेत् एतदीयतापं हरति वा एतमाह्लादयति वा चन्द्रस्वरूपम् ? तद्वदित्यर्थः ॥५६॥
लोकप्रसिद्धपाशादिबन्धम् अन्यो मोचयितुं शक्नुयात् नानादिसिद्धबन्धमित्याह − अविद्येति –
अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।
कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥५७॥
पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वं, स्वस्वरूपाज्ञानात् बाह्येषु कामः, ततः कर्मणि प्रवृत्तिः, नहि लब्धसाक्षात्काराः किञ्चित् कामयन्ते ‘कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’(मु.उ. ३.२.२) ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इत्यादिश्रुतिस्मृतिभ्यः । कामाभावे कर्म कुतः ?
‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य’(म.स्मृ. २.४) इति स्मृतेः । तथा च अज्ञानाशाधर्माधर्मरूपपाशप्रयुक्तं बन्धम् अनात्माध्यासं विमोचितुम् , आत्मसाक्षात्कारेण विना त्यक्तुं, कल्पकोटिशतैरपि कल्पानां कोटयः तेषां शतानि तैरपि आत्मानं विना को वा शक्नुयादित्यर्थः । अतीतानन्तरश्लोकोक्तरीत्या स्वस्वरूपस्य स्वेनैव साक्षात्कर्तव्यत्वात् तं विना अज्ञानानिवृत्तौ कामकर्मादेः नैव निवृत्तिरिति भावः । आदिपदेन जन्मजरामरणसुखदुःखादिपरिग्रहः ॥५७॥
इदानीं ‘पठन्तु शास्त्राणि’(श्लो. ६) इत्यत्रोक्तरीत्या गुरुशिष्यसंवादरूपेऽस्मिन् ग्रन्थे ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे.उ. ३.८) (वा.सं. ३१.१८) ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि श्रुत्यनुसारेण ब्रह्मात्मैकत्वबोधव्यतिरिक्तस्य मोक्षहेतुत्वं व्यासेधति − न योगेनेति –
न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।
ब्रह्मात्मैकत्वबोधेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८॥
मोक्षः ब्रह्मस्वरूपेणावस्थानलक्षणमोक्षः, ब्रह्मात्मैकत्वबोधेन ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्बोधः तत्साक्षात्कारः तेन सिद्ध्यति अभिव्यज्यते । नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः । तदेव विशदयति, योगेन मोक्षो न सिद्ध्यति, योगशास्त्रजन्यज्ञानेन भेदविषयेण, चित्तवृत्तिनिरोधरूपयोगेन वा मोक्षो न भवतीत्यर्थः । एवं साङ्ख्येन कपिलमहर्षिप्रणीतसाङ्ख्यशास्त्रजन्यज्ञानेन वा नानात्मविषयेण मोक्षो न सिद्ध्यति । कर्मणा पूर्वकाण्डविहितयज्ञादिकर्मणा न सिद्ध्यति । न विद्ययेति, उपनिषद्विहितयापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षो न सिध्यतीति । तत्र योगसाङ्ख्यशास्त्रजन्यज्ञानस्य भेदविषयत्वात् , ‘यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति’(तै.उ. २.७) इति अभयप्रापकत्वमेव नास्ति । ‘नास्त्यकृतः कृतेन’(मु.उ. १.२.१२) , ‘अमृतत्वस्य नाशास्ति वित्तेन’(बृ.उ. २.४.२) इत्यादि श्रुतिभ्यः नित्यमोक्षाभिव्यञ्जकत्वं कर्मणः नास्तीत्यवगम्यते । नित्यत्वं च मोक्षस्य ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुत्यावगम्यते, सः ब्रह्मलोकं गतः सगुणोपासकः पुरुषः पुनर्नावर्तते न संसारीभवति, जन्मभाङ् न भवतीत्यर्थः । तत्र कारणं मुक्तत्वमेव । तच्च ब्रह्मस्वरूपेणावस्थानमेव । तथा च ब्रह्मणः ‘यो वै भूमा तदमृतं’(छा.उ. ७.२४.१) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ‘नित्योऽनित्यानाम्’(क.उ. २.५.१३) इत्यादिश्रुतिशतेभ्यः नित्यत्वेन प्रतीयमानत्वात् तत्स्वरूपमोक्षस्यापि नित्यत्वम् । उक्तं च शास्त्रान्तिमाधिकरणभाष्ये ‘सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः । तदाश्रयणेनैव हि सगुणशरणानामपि अनावृत्तिसिद्धिरिति’ । तेन ब्रह्मलोकं गतानां तत्रैव कृतसाक्षात्काराणां कैवल्यरूपमोक्षः ।
‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’(म.ना.उ. ८.१५)
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ (ब्र.सू.भा. ३.३.३२)
इत्यादिश्रुतिस्मृतिभ्योऽवगम्यते । तत्र परामृतात् वेदान्तविचारजनितोत्कृष्टज्ञानात् इत्यर्थः ।
कृतात्मानः कृतात्मसाक्षात्कारा इत्यर्थः । यथा कण्ठगतमेव चामीकरं कवचादिना तिरोहितमन्विष्यान्विष्य श्रान्तः आप्तवाक्येन, ‘वर्तते किलात्रैव तव कण्ठे कुतो वा भ्राम्यति भवान्’ इत्यनेन बोधितः अप्राप्तमिव प्राप्नोति स्थितस्यैव चामीकरस्य अभिव्यञ्जकं तदाप्तवाक्यजन्यज्ञानम् , एवं सिद्धस्यैव ब्रह्मभावरूपमोक्षस्य अभिव्यञ्जकः तत्त्वमसीत्यादिगुरूपदिश्यमानमहावाक्यजन्यसाक्षात्कार इति न ज्ञानजन्यत्वशङ्का तत्र कार्या । यथा पूर्वमेव कौन्तेयस्सन्नपि कर्णः बाल्यात्प्रभृति राधया पोषितत्वात् स्वात्मानं राधेयं मन्वानः कुन्तीवाक्यादात्मानं कौन्तेयं मेने । न तावता तेन कौन्तेयत्वं नूतनमलम्भि । अपि तु पूर्वमज्ञातं कुन्तीवाक्याज्ज्ञातम् । एवं प्रकृतेऽपि वेदितव्यम् । यथा वा श्रीरामेण ‘आत्मानं मानुषं मन्ये रामं’(वा.रा.यु. १२०.१२) इत्याद्यनुसारेण स्वात्मानं मनुष्यम्मन्येन ‘एकशृङ्गो वराहस्त्वं’(वा.रा.यु. १२०.१४) इत्यादिपरमेष्ठिवाक्यैः महाविष्णुरेव त्वमिति बोधितेन स्वस्वरूपं ज्ञातं न तत्र अविद्यमानं महाविष्णुत्वमागतम् , अपि तु स्थितमभिव्यञ्जि तं तद्वच्चेति ज्ञेयम् । तथा च उत्पाद्याप्यसंस्कार्यविकार्याणामन्यतमस्य कर्मफलत्वं दृष्टं, यथा स्वर्गस्य यागोत्पाद्यत्वं, शब्दराशिरूपवेदस्य अध्ययनाप्यत्वं, व्रीहीणां प्रोक्षणादिसंस्कारसंस्कार्यत्वम् , अवघातादिभिः वैतुष्यसम्पादनद्वारा विकार्यत्वं तेषाम् । तत्र नित्यत्वात् नोत्पाद्यत्वं मोक्षस्य, आत्मस्वरूपत्वादनाप्यत्वं, नित्यशुद्धब्रह्मस्वरूपत्वात् न संस्कार्यत्वं, निर्विकारब्रह्मस्वरूपत्वात् न विकार्यत्वम् । एतत्तु समन्वयसूत्रभाष्ये विस्तरेणोपपादितं भगवत्पादैः । अतः कर्मफलत्वव्यापकोत्पाद्यत्वाद्यन्यतमधर्माभावात् कर्मणा नो सिध्यतीत्यर्थः । ‘विद्यां चाविद्यां च’(ई.उ. ११) ‘विद्यया तदारोहन्ति’(श.ब्रा. १०.५.४.१५) इत्यादौ विद्याशब्दस्य उपासनापरत्वं सिद्ध्यति । अतः विद्यापदस्य आत्मविद्याव्यतिरिक्तापरविद्याऽर्थः । तया ब्रह्मस्वरूपावस्थानलक्षणमोक्षः न साक्षात्सिध्यतीत्यर्थः ॥५८॥
ब्रह्मात्मैकत्वबोधेनैव मोक्षः सिद्ध्यति नान्यथे(श्लो. ५८)त्यमुमर्थं दृष्टान्तेन विशदयति – वीणाया इति −
वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् ।
प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥५९॥
रञ्जनाद्राजा, ‘राजा प्रकृतिरञ्जनात्’(रघु. ४.१२) इत्युक्तानुसारेण कश्चिद्वैणिकः रूपेण जनमनोहरां काञ्चिद्वीणामादाय तत्तन्त्रीः सुष्ठु वादयति चेत् यद्यपि रज्यन्ते प्रजाः सुन्दरवीणादर्शनेन सौष्ठवोपेततत्तन्त्रीवादनेन च । अथापि तद्रञ्जनं न वैणिकस्य साम्राज्याय सम्राड्भावाय कल्पते । तद्वदात्मैक्यबोधेन विना योगशास्त्रादिजन्यज्ञानं वा कर्म वा उपासनं वा न साक्षात्कैवल्याय कल्पत इति भावः । वीणाया रूपसौन्दर्यं सुन्दररूपवत्त्वमिति यावत् । तन्त्र्याः वादने सौष्ठवं वैणिकनिष्ठप्रजारञ्जनमात्रं तत् न साम्राज्याय कल्पत इथ्यर्थः ॥५९॥
केवलं शब्दश्रवणमात्रेण मनोरञ्जकविषये कथयित्वा अर्थतोऽपि ये मनो रञ्जयन्ति तेषामपि पूर्वोक्तज्ञानाभावे नैव मुक्तिरित्याह वाग्वैखरीति –
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।
वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥६०॥
वाग्वैखरी सरलपदबन्धविशिष्टा वाक्, शब्दझरी निरर्गलनिर्गलन्ती वाक् वाक्प्रयोगचातुर्यं शब्दप्रवाहः, शास्त्रव्याख्यानकौशलं शास्त्रस्य व्याख्यानं –
पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना ॥ आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् । (परा.उ.पु. १८.१७-१८)
इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यम् । एतादृशं विदुषां वैदुष्यमपि, तद्वत् वीणावादनादिवद् भुक्तये प्रतिष्ठासम्पादनादिद्वारा भवति । मुक्तये तु न भवति । तत्र पूर्वोक्तसाक्षात्कार एव कारणमिति भावः ॥६०॥
ननु तात्कालिकसुखजनकं वैणिककौशलं क्व, श्रवणानन्तरमपि सम्यगन्तः प्रविश्य आनन्दहेतुभूतं विदुषां वैदुष्यं क्व, अतस्तस्य तद्वदिति वैणिककौशलसाम्यं न वक्तव्यमिति चेत् , अस्त्वेवं तत्रान्तरम् , अथापि आत्मतत्त्वसाक्षात्काराभावे शास्त्राध्ययनं तज्जन्यकौशलं वा यथोक्तफलवन्न भवतीत्याह अविज्ञात इति –
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६१॥
परे कालत्रयाबाध्यत्वेन स्वयम्प्रकाशानन्दरूपत्वेन च मिथ्याभूतजडदुःखादि रूपदेहादिमायान्तसकलकार्यकारणापेक्षया उत्कृष्टे, तस्य सर्वस्याधिष्ठानभूते तत्त्वे निर्गुणे ब्रह्मणि, अविज्ञाते असाक्षात्कृते सति, शास्त्राधीतिस्तु अर्थविचारपर्यन्तवेदान्ताध्ययनमपि निष्फला । यदर्थं विचारः शास्त्रविहितः तस्यालाभे निष्फलत्वं तत्र तत्फललाभपर्यन्तं यथोक्तफलशून्यत्वरूपं सिद्धमेवेति भावः । जन्मान्तरकृतसाधनवशात् गर्भस्थेनापि वामदेवेनेव परे तत्त्वे विज्ञाते साक्षात्कृतेऽपि अनन्तरं फलस्य निष्पन्नत्वात् शास्त्राध्ययनादिकं न कार्यमिति भावः ॥६१॥
यथा महारण्यं प्रविष्टः पुरुषः दिशमज्ञात्वा भ्राम्यति मुधा तथा केवलश्ब्दजालात्मकशास्त्रस्यापि विक्षेपहेतुत्वात् तन्निष्ठत्वमपि परित्यज्य परमात्मसाक्षात्कारवतो देशिकात् आत्मयाथात्म्यं साक्षात्कर्तव्यमित्याह शब्दजालमिति –
शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥६२॥
उपनिषद्रूपशास्त्रादेव आचार्योपदेशात्तत्त्वस्य ज्ञातव्यत्वेऽपि शास्त्रकोलाहलो नाश्रयणीयः तद्वासनाया अपि ज्ञानप्रतिबन्धकत्वात् । ‘लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥’(श्लो. २७२) इति वक्ष्यमाणत्वादिति भावः ॥६२॥
ज्ञानमेवाज्ञाननिवर्तकं नान्यदित्याह अज्ञानेति –
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥
अज्ञानमेव सर्पः अत्यन्तानर्थकरत्वात् , तेन दष्टस्य आवृतिविक्षेपाभ्यां प्रापितमोहस्य, ब्रह्मज्ञानमेवौषधं ब्रह्मज्ञानौषधं तेन विना, वेदैः ऋगादिवेदैः, शास्त्रैः व्याकरणादिशास्त्रैश्च किमु प्रयोजनम् । मन्त्रैः सप्तकोटिभिः किमु । औषधैः सञ्जीविन्यादिमूलिकाभिर्वा किमु फलं तेषां मध्ये केषामपि अज्ञानसर्पदंशनप्रयोज्यमोहनिवर्तकत्वाभावादिति भावः ॥६३॥
शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह न गच्छतीति –
न गच्छति विना पानं व्याधिरौषधशब्दतः ।
विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥
व्याधिः रोगः, पानं विना औषधपानं विना, तद्बोधकात् औषधम् औषधमिति शब्दोच्चारणात् न गच्छति न निवर्तते । तद्वत् अपरोक्षानुभवम् आत्मसाक्षात्कारं विना केवलमुपनिषद्घटकैः ब्रह्मशब्दैः न मुच्यते, निवृत्तबन्धो न भवतीत्यर्थः ॥६४॥
तमेवार्थं तत्त्वज्ञानपरमकारणकथनद्वारा भङ्ग्यन्तरेणाह अकृत्वेत्यादिना –
अकृत्वा दृश्यविलयम् अज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥
दृश्यविलयं दृश्यस्य शब्दाजन्यवृत्तिविषयस्य चिद्वषयस्य वा, तेन शशशृङ्गादेः ब्रह्मणश्च वारणम् अज्ञानान्तस्य जडस्य सर्वस्य ब्रह्मव्यतिरिक्तस्य, विलयं ब्रह्मणि प्रविलापनमकृत्वा, आत्मनः तत्त्वमज्ञात्वा सजातीयविजातीयस्वगतभेदरहितसर्वाधिष्ठानसत्यस्वयम्प्रकाशानन्दरूपतामज्ञात्वा उक्तिमात्रफलैः उच्चारणमात्रप्रयोजनैः बाह्यशब्दैः आन्तरानुभवं विना उच्चार्यमाणैः ‘अहं ब्रह्मास्मि’(बृ.उ. १.४.१०) इत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव सम्भवतीत्यर्थः । किं शब्दः निषेधार्थकः ॥६५॥
एतेन आत्मतत्त्वज्ञाने समस्तदृश्यप्रविलापनपुरस्सरं ब्रह्ममात्रावशेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्वज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह अकृत्वेति –
अकृत्वा शत्रुसंहारम् अगत्वाऽखिलभूश्रियम् ।
राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥
स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां विलयमकृत्वा अखिलभूश्रियं समस्तपृथ्वीसम्पदम् , अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सकलशत्रुविलयपुरस्सरं समस्तभूश्रीप्राप्तिः यथा कारणमेवं सकलदृश्यप्रविलापनपुरस्सरम् आत्मतत्त्वज्ञानं मुक्तावपीति भावः ॥६६॥
केवलबाह्यशब्दैः न मुक्तिः । अतः प्रयत्नात् तत्त्वज्ञात् आत्मनः तत्त्वं ज्ञातव्यमित्यमुमर्थं सदृष्टान्तं विस्तरेण कथयति आप्तोक्तिमिति –
आप्तोक्तिं खननं तथोपरिशिलापाकर्षणं स्वीकृतिं
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
लोके तावत् भूमेरन्तस्स्थापितः निक्षेपः हिरण्यादिनिधिः, प्राप्तव्यश्चेत् तं दृष्टवतां वा, अञ्जनविशेषादिना तं विज्ञाय सत्यं कथयतां वा आप्तानामुक्तिं श्रुत्वा भुवं खनित्वा, तत्र निधेरुपरिवर्तमानाच्छादकशिलायाः अपाकर्षणम् अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति शब्दैः बहिः निर्गच्छति । तदिदमुक्तं यन्निक्षेपः हिरण्यादिनिधिः स्वफले आधेये आप्तोक्तिं खननं भुवः तथा उपरिशिलापाकर्षणं तदनन्तरं स्वस्य स्वीकृतिं स्वीकारं च समपेक्षते, बहिश्शब्दैस्तु न निर्गच्छति । तु शब्दोऽवधारणे । नैव निर्गच्छतीति हि लोके प्रसिद्धम् । तद्वत् शिलया भूम्या च आव्रियमाणनिधिरिव, स्वं स्वकीयम् अमलं स्वतश्शुद्धं तत्त्वं याथात्म्यं ब्रह्मेति यावत् , मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्यैश्च अहङ्कारादिदेहान्तैः कोशैः, तिरोहितं प्रतिबद्धस्फुटभानं ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते, आ समन्तादुपदेशः ओपदेशः ब्रह्मविदः ओपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्मविदेति व्यस्तं पदं तृतीयान्तम् , तेन उपदेशे तत्कर्तृत्वं लभ्यते । ब्रह्मवित्कर्तृकोपदेशः श्रवणं, मननं युक्तिभिरनुचिन्तनं, ध्यानं निदिध्यासनम् , आदिपदेन निर्विकल्पसमाधिपरिग्रहः । तैर्लभ्यते साक्षात्क्रियते । अत्र ब्रह्मलाभः साक्षात्कारः स्वानन्यत्वात् अन्यादृशलाभासम्भवात् । कण्ठचामीकरादिलब्धलाभस्थले सर्वत्राप्येवमेव वक्तव्यत्वात् । न दुर्युक्तिभिर्लभ्यते ‘नैषा तर्केण मतिरापनेया’(क.उ. १.२.९) इति श्रुतेः । श्रुत्यनुसारिण्यः युक्तयस्तु अभ्युपेयन्त एव । ‘पण्डितो मेधावी गान्धारानेवोपसम्पद्येत’(छा.उ. ६.१४.१) इति श्रुत्यैव सत्तर्कस्याभ्युपेतत्वात् । दर्शयति किल श्रुतिरेव महामत्स्यादिदृष्टान्तेन असङ्गत्वमात्मनः सुषुप्तौ प्रपञ्चपरित्यागेन सदात्मना सम्पृक्ते निष्प्रपञ्चसदात्मत्वं, कार्यकारणानन्यत्व (ब्र.सू. २.१.१४) न्यायेन मृत्पिण्डादिदृष्टान्तैः एकविज्ञानेन सर्वविज्ञानं प्रपञ्चस्य ब्रह्माव्यतिरेकः, ऊर्णनाभ्यादिदृष्टान्तैः अभिन्ननिमित्तोपादानत्वं, तस्करदृष्टान्तेन सत्याभिसन्धस्य मुक्तिः मिथ्याभिसन्धस्य बन्ध इत्यादियुक्तिजालम् । अतः उक्तं दुर्युक्तिभिरिति ॥६७॥
तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये ।
स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥६८॥
तस्मादिति । यस्मादेवं स्वीयबन्धः अन्येन निवर्तयितुं न शक्यते, स्वेनापि साधनचतुष्टयसम्पत्तिमता गुरुमुपसद्य तन्मुखतः वेदान्तान् श्रुत्वा तदर्थं मत्वा निदिध्यास्य निर्विकल्पकनिष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य मोक्तव्यं न केवलं बाह्यशब्दादिभिः मुक्तिः सिद्ध्यति तस्मादित्यर्थः । सर्वप्रयत्नेन उक्तश्रवणादिरूपप्रयत्नेन भवबन्धविमुक्तये सांसारिकाविद्यादिदेहान्तबन्धनिवृत्तये स्वैरेव ये तावत् बन्धमनुभवन्ति तैस्स्वैरेव, पण्डितैः बुद्धिमद्भिः, रोगादेः रोगक्षुत्पिपासादेः, विमुक्तये यथा अगदस्वीकाराभ्यवहारजलपानादिकं स्वयं क्रियते, एवं यत्नः कर्तव्यः । विवेकादिसाधनचतुष्टयं स्थिरतमं सम्पाद्य सद्गुरुरुपसदनीय इति भावः । अत्र सर्वप्रयत्नेन, भवबन्धविमुक्तये यत्नः कर्तव्य इति द्विवारमुक्तत्वात् एवमर्थो युक्त इति भाति ॥६८॥
एवं तीव्रमुमुक्षावन्तं शिष्यं प्रशस्य तदीयप्रश्नं श्लाघते यस्त्वयेति –
यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥
न केवलं तीव्रमुमुक्षया उत्तमाधिकारित्वं ते, अपि तु मुमुक्षुज्ञेयान्यूनानतिरिक्तविषयान् क्रोडीकृत्य यदप्राक्षीर्मां, तेनापि मेधावित्वविद्वत्त्वोहापोहविचक्षणत्वादि धर्ममण्डितस्त्वं मुमुक्षूणां सर्वेषां ज्ञातव्यमार्गदर्शकोऽसीति महात्मना गुरुणा श्लाघितःभक्तिश्रद्धाभरितमनाः क्षिप्रमुक्तं गृह्णातीत्यभिप्रायेण –
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ (श्वे.उ. ६.२३) इति श्रुतेः ।
अद्य इदानीं, यः प्रश्नः को नाम बन्ध इत्यादि रूपः कृतः सः वरीयान् अत्यन्तं वरः । तत्र हेतुमाह, शास्त्रविन्मतः, ये तावत् अत्यन्तं शास्त्रविदः तैरेवैवं प्रष्टुं शक्यत इति भावः । तत्र हेतुमाह सूत्रप्राय इति । बन्धमोचकसाक्षात्कारार्थं यावत्प्रष्टव्यं सर्वस्यात्रैव पृष्टत्वात् अल्पाक्षरेण सङ्गृहीतेन शब्देन । शब्दस्तु अल्पाक्षरः ज्ञेयार्थस्सर्वोऽपि अत्र निगूढ इति वदन् सूत्रप्रायत्वं विशदयति निगूढार्थ इति । एतत्प्रकरणग्रन्थस्य उत्तरस्य सर्वस्यापि एतदुत्तररूपत्वात् प्रतिपादनीयार्थस्सर्वोऽप्यत्र बुद्धिमता शिष्येण उपक्षिप्त इति भावः । अत एव मुमुक्षुभिः ज्ञातव्यः, आत्मानात्मविवेकजन्यसाक्षात्कारेण हि सहेतुकबन्धनिवृत्तिरूपमोक्षः उक्तः ‘अज्ञानयोगाद्’(श्लो. ४९) इत्यादिना गुरुणा । सहसा गुरूक्तिं विज्ञाय प्रष्टव्यांशस्य सर्वस्याप्यनवशेषम् अनतिरेकेण पृष्टत्वात् मेधावित्वादिकं शिष्यस्य सम्यगवगम्य गुरुस्तं नितरां श्लाघयामास ॥६९॥
एवं महात्मना श्लाघितं स्वात्मानं धन्यधन्यं मन्वानं शिष्यं स्वोक्तार्थग्रहणाद्यर्थमवधापयति शृणुष्वावहित इति −
शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥७०॥
हे विद्वन् ! मेधावित्वाद्युक्तात्मविद्याधिकारविशिष्ट ! मया यत्समुदीर्यते सङ्ग्रहेण विस्तरेण च सम्यग्ज्ञानाय यदुच्यते, तत् अवहितः विषयान्तरमनस्सञ्चाररहितः, श्रद्धया श्रुणुष्व । एतच्छ्रवणात् यथाविधि मदुक्तवाक्यश्रवणात् सद्यः श्रवणसमनन्तरमेव, आत्मानं साक्षात्कृत्य भवबन्धात् संसारबन्धात् कर्तृत्वभोक्तृत्वजन्मजरामरणादिरूपबन्धाद्विमोक्ष्यसे नितरां मुच्यस इत्यर्थः ॥७०॥
इदानीं तदीयप्रश्नानुसारेण तेन जिज्ञासितमर्थं विवक्षुः प्रथमतः कथं विमोक्ष इत्यस्य प्रश्नस्योत्तरमाह । ननु ‘को नाम बन्धः, कथमेष आगतः, कथं प्रतिष्ठास्य’(श्लो. ५१) इति प्रथमतः कृतप्रश्नत्रयस्य उत्तरमनुक्त्वा तुरीयस्य कथं विमोक्ष इत्यस्य उत्तरकथनमनुचितमिति चेन्न, न ह्यत्यन्तमग्निना दह्यमाने गृहे क्षिप्रं जलसेकादिना अग्निशान्तिमकृत्वा कुत्राग्निः पतितः, कथं पतितः, इति विचारेण कालयापनं युक्तं तथासति निरवशेषं गृहस्य दह्यमानत्वात् । तथा सर्वैरप्यज्ञानिभिः सांसारिकबन्धः अनुभूयत एव तीव्रः, तन्निरासे सहसा यत्न आस्थेयः इत्यभिप्रायेण ज्ञातव्यांशस्य मध्ये –
अनन्तशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ (उ.गी. ३.१)
इत्यभियुक्तोक्त्या सारभूतमंशं गुरुरादावाह मोक्षस्येत्यादिना, क्षिप्रं मोक्षहेतुं विज्ञाय तल्लाभेन सहसा बन्धान्मुक्तः नित्यानन्दमनुभवत्वित्यभिप्रायेण । किञ्च आत्मानात्मज्ञानं विना बन्धस्वरूपस्य वक्ष्यमाणस्य ज्ञातुमशक्यत्वाच्च, तत्सर्वं पश्चाद्वक्ष्यामीति धिया च प्रथमं कथं विमोक्ष इत्यस्य उत्तरमाह मोक्षस्येत्यादिना –