अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१८. अन्नमयकोशविवेकः

देहोऽ­य­म­न्न­भ­व­नोऽ­न्न­म­यस्तु कोशो
ह्यन्नेन जीवति विनश्यति तद्विहीनः ।
त्वक्च­र्म­मां­स­रु­धि­रा­स्थि­पु­री­ष­राशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५६॥

१५६

अन्ना­द्भ­व­न­मु­त्प­त्ति­र्यस्य स अन्नभवनः माता­पि­तृ­भु­क्ता­न्न­वि­का­राद्धि अस्यो­त्प­त्ति­रिति तथा । अयं देहः परिदृश्यमानः स्थूलदेहः अन्नमयस्तु कोशः, तुशब्दः इतरव्यावर्तकः । पञ्चानां कोशानां मध्ये स्थूलदेह एव अन्नमयःकोशःनेतर इत्यर्थः । ‘अन्नाद्वै प्रजाः प्रजायन्ते ।’ ‘अथो अन्ने­नै­व­जी­वन्ति’(तै.उ. २.२) इति श्रुतिः । न केवलमुत्पत्या अन्नविकारत्वम् उत्पत्यनन्तरमपि अन्नेन जीवति धृतप्राणो भवति । तद्विहीनः विनश्यति म्रियते उत्क्रा­न्त­प्राणो भवतीत्यर्थः । अतः अन्व­य­व्य­ति­रे­का­भ्याम् अन्ना­धी­न­स्थि­ति­कत्वं तस्य । हि निश्चयः । न केवलं परा­धी­नो­त्प­त्ति­स्थि­ति­क­त्वम् अनात्मत्वे हेतुः अशुद्धत्वं चेत्याह त्वगिति । त्वक्च­र्म­मां­स­रु­धि­रा­स्थि­पु­री­ष­राशिः स्पष्टम् । अयं देहः, नित्यशुद्धः ‘अजो नित्यः’(भ.गी. २.२०) , ‘शुद्ध­म­पा­प­वि­द्धम्’(ई.उ. ८) इत्यादि श्रुति­बो­धि­त­नि­त्य­शु­द्ध­त्वा­दि­ध­र्मकः स्वयमात्मा भवितुं नार्हति । देहो नात्मा अनित्यत्वात् अशुद्धत्वात् केशादिवत् ॥१५६॥

पूर्वं जनेरपि मृतेरथ नायमस्ति
जात­क्ष­ण­क्ष­ण­गु­णोऽ­नि­य­त­स्व­भावः ।
नैको जडश्च घट­व­त्प­रि­दृ­श्य­मानः
स्वात्मा कथं भवति भावविकारवेत्ता ॥१५७॥

१५७

जनेः उत्पत्तेः पूर्वं मरणस्य अथ अनन्तरम् अपिरुभयत्र सम्बध्यते ‘आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथा’(अला.शां. ३१) इति माण्डू­क्य­का­रि­कया अनिर्वचनीयः दृष्ट­न­ष्ट­स्व­रू­प­तया इत्यर्थः । तदेवोपपादयति जातक्षणक्षणगुण इति । क्षणे क्षणे गुणः क्षणक्षणगुणः जातः क्षणक्षणगुणः यस्य सः तथा प्रतिक्षणम् उप­च­या­प­च­य­रू­प­ध­र्म­वा­निति भावः । वायुसंयोगादिना आध्या­त्मि­क­वा­यु­स­ञ्चा­रेण अन्तःशोषादिना च । अत एव हि पुनःपुनराहरणं जलपानादिकं च । अत एव अनियतस्वभावः नियतः स्वभावः यस्य सः नियतस्वभावः, न नियतस्वभावः अनियतस्वभावः एकरूपतया न व्यवस्थित इत्यर्थः । नैकः एक­स्मि­न्ज­न्म­न्यपि बाल्ययौवनादिषु भिन्नत्वेन ज्ञाय­मा­न­श्चे­त्यर्थः । घट­व­त्प­रि­दृ­श्य­मानः । अत एव जडश्च परा­धी­न­स्फू­र्तिकः । एतादृशदेहः भावविकारवेत्ता इदानीं कृशः इदानीं स्थूलः इत्यादिना भावविकारवेत्ता ज्ञाता स्वात्मा कथं भवति स्वगतधर्मस्य स्वेना­ज्ञा­य­मा­न­त्वात् , न हि घट एव घटं पश्यति, अतो देहो नात्मा दृश्यत्वात् घटवदित्युक्तं भवति । आत्मा तु नित्यः निर्गुणः एकरूपः एकः द्रष्टा च ॥१५७॥

तत्रैव हेत्वन्तरमाह पाणीति −

पाणि­पा­दा­दि­मा­न्देहो नात्मा व्यङ्गेऽपि जीवनात् ।
तत्त­च्छ­क्ते­र­ना­शाच्च न नियम्यो नियामकः ॥१५८॥

१५८

पाणी च पादौ च तेषां समाहारः पाणिपादं तदादि यस्येतरस्य पक्ष­कु­क्ष्या­द्य­व­य­व­स­मु­दा­यस्य तदस्यास्तीति तद्वान् पाणिपादादिमान् । देहो नात्मा व्यङ्गेऽपि पाणि­पा­दा­दि­र­हि­तेऽपि जीवनात् आत्मकार्यस्य प्राणधारणस्य सत्त्वात् । जीवन्ति हि लोके कुणिखञ्जादयः । दारु­च­र्म­नि­र्मि­त­पा­णि­पा­दा­दिना आदा­न­ग­म­ना­दि­कार्यं कुर्वन्तीति तत्तच्छक्तेः पाणि­पा­दा­दि­शक्तेः अनाशाच्च । पाण्यादिमान् देहो नात्मा इत्यन्वयः । उक्तं च कठोपनिषदि –

न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ ॥ (२.५.७) इति ।

सर्व­श­क्त्या­श्र­य­त्व­मा­त्मनः । न नियम्यः आत्मा, नियामकः सर्वेषां देहे­न्द्रि­या­दी­नाम् । देहस्तु नियम्यः जडत्वात् निय­म­क­त्वा­भा­व­वांश्च । ततः सावयवत्वात् नियम्यत्वाच्च निरवयवः नियामकः आत्मा नेति समुदायार्थः ॥१५८॥

देहस्य आत्म­भि­न्न­त्व­मु­प­पाद्य आत्मनः तद्विलक्षणत्वं विवे­क­दा­र्ढ्या­यो­प­दि­शति देहेति −

देह­त­द्ध­र्म­त­त्क­र्म­त­द­व­स्था­दि­सा­क्षिणः ।
सत एव स्वतस्सिद्धं तद्वै­ल­क्ष­ण्य­मा­त्मनः ॥१५९॥

१५९

तस्य देहस्य धर्माः रूप­स्प­र्श­ग­न्धा­दयः, तत्कर्माणि हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थ­क्रियाः गमनादयः, तदवस्थाः उप­वे­श­न­स्था­न­श­य­ना­दयः आदिपदेन स्थौल्य­का­र्श्यादि विकाराः । देहश्च तद्धर्माश्च तत्कर्माणि च तदवस्थादि च देह­त­द्ध­र्म­त­त्क­र्म­त­द­व­स्था­दीनि तेषां साक्षाद्द्रष्टा । तस्य सत एव सर्वावस्थासु बाल्यादिषु भिन्न­भि­न्न­का­लि­का­स्वपि अविकारितया काल­त्र­ये­प्य­बा­ध्य­तया वर्तमानस्यैव आत्मनः तद्वैलक्षण्यं तस्मा­द्वै­ल­क्षण्यं तद्वैलक्षण्यं देहा­दि­वि­ल­क्ष­णत्वं स्वतः साक्षित्वादेव हेत्वन्तरं विनैव सिद्धं निश्चितम् इत्यर्थः । आत्मा देहादिविलक्षणः तत्साक्षित्वात् यन्नैवं तन्नैवं यथा देहादि ॥१५९॥

एवं देहस्य अनित्यत्वात् दृश्यत्वात् च अना­त्म­त्व­मु­प­पा­दि­तम् । इदानीम् अशुद्धत्वेन तदुपपादयति शल्येति −

शल्यराशिः मांसलिप्तो मल­पू­र्णोऽ­ति­क­श्मलः ।
कथं भवेदयं वेत्ता स्वय­मे­त­द्वि­ल­क्षणः ॥१६०॥

१६०

शल्यानां कीकसानां राशिः यत्र स शल्यराशिः मांसलिप्तः मांसेन लिप्तः उपदिग्धः मलपूर्णः मलेन पुरीषेण पूर्णः दूषि­का­सि­ङ्घा­ण­पि­ञ्जू­षा­दिभिः सहितश्च । अत एवातिकश्मलः अत्यन्तं कश्मलः अतिकश्मलः । स्वेद­दु­र्ग­न्धा­दि­भू­यि­ष्ठ­तया बह्वशुद्धः अयं देहः एतद्विलक्षणः निर्मलः स्वयमात्मा कथं भवेत् इत्यन्वयः । अनुमानं तु पूर्वं दर्शितम् ॥१६०॥

एवं विवेकस्य फलमाह त्वगिति −

त्वङ्मां­स­मे­दोऽ­स्थि­पु­री­ष­राशा-
वहम्मतिं मूढजनः करोति ।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥१६१॥

१६१

मूढश्चासौ जनश्च मूढजनः विचारहीनः भ्रान्तबुद्धिः मनुष्यः त्वङ्मां­स­मे­दोऽ­स्थि­पु­री­ष­राशौ देहे अहं मतिम् अह­मि­ति­ता­दा­त्म्य­बुद्धिं करोति बध्नाति । विचारशीलः पुमांस्तु विलक्षणं देहविलक्षणं परमार्थभूतं कालत्रयेऽपि बाधायोग्यं निजस्वरूपं वास्तविकं स्वयाथात्म्यं परमात्मानमेव स्वात्मानं जानाति ॥१६१॥

तत्रापि −

देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदु­ष­स्त्व­हन्धीः ।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥१६२॥

१६२

जडस्य पामरस्य अहं देहः एव न तद्व्यतिरिक्तः कश्चित् इति बुद्धिः । विदुषस्तु शास्त्र­ज­न्य­प­रो­क्ष­ज्ञा­न­वतः देहे च जीवे च अहन्धीः लौकिकव्यवहारेषु देहे वैदिके स्वर्गा­र्थ­या­गा­दि­क­र­णार्थं देहव्यतिरिक्ते जीवे अहन्धीः । विवेकविज्ञानवतः विवे­का­द्वि­ज्ञानं विवेकविज्ञानम् आत्मा­ना­त्म­वि­वे­च­नात् आत्म­न्य­ना­त्म­प्र­वि­ला­प­नेन जातं तद्विज्ञानं साक्षात्कारः तदस्यास्तीति तद्वान् तस्य महान् परि­च्छे­द­त्र­य­शून्यः आत्मा यस्य सः महात्मा । पूर्वं परिच्छिन्नेषु अनात्मसु कोशेषु आत्मत्वधिया अल्प आसीत् इदानीं तु सम्यग्ज्ञानवान् स्वात्मानं त्रिवि­ध­प­रि­च्छे­द­शून्यं मनुते ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ७.२४.१) इति श्रुतेः । तादृशस्य सदात्मनि सदा सर्वदापि आत्मनि स्वविषये ब्रह्माहमित्येव मतिः अनुभव इत्यर्थः ॥१६२॥

तस्मात् −

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्तिं परमां भजस्व ॥१६३॥

१६३

मूढबुद्धे विवे­च­न­र­हि­ता­न्तः­क­रण, यद्वा मूढैः बुद्धे अहन्तया ज्ञाते अत्र त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशौ अत्र स्थूलदेहे आत्मबुद्धिम् अहमिति मतिं त्यज विसृज । ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) , ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इति श्रुत्या सर्वोपादानत्वेन कल्पि­त­स­क­ला­धि­ष्ठा­न­त्वेन सर्वस्य वस्तुनः वास्तविकरूपे निर्विकल्पे विवि­ध­क­ल्प­ना­शून्ये ब्रह्मणि परमात्मनि इदानीं देहे वर्तमानाम् आत्मबुद्धिम् अहमिति मतिं कुरुष्व अहमेव परं ब्रह्मेति जानीहि । तत्फलमाह − परमां मुक्तिसुखदां शान्तिं बुद्ध्यु­प­शान्तिं ब्रह्म संस्थामिति यावत् भजस्व प्राप्नुहि । ‘शान्तिं निर्वाणपरमां मत्सं­स्था­म­धि­ग­च्छति’(भ.गी. ६.१५) इति स्मृतेः ॥१६३॥

देहा­दा­व­भि­मा­न­त्यागं विना केव­ल­शा­स्त्र­ज­न्य­ज्ञा­नान्न मुक्तिरित्याह देहेन्द्रियेति −

देहे­न्द्रि­या­दा­व­सति भ्रमोदितां
विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदा­न्त­न­या­न्त­दर्शी ॥१६४॥

१६४

विद्वान् विवेचनकुशलः । असति मिथ्याभूते देहेन्द्रियादौ देहश्च इन्द्रियाणि च देहेन्द्रियाणि तानि आदीनि यस्य तत् प्राण­म­नो­बु­ध्यादि तस्मिन् , यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनिताम् अहन्ताम् आत्मबुद्धिं न जहाति न परित्यजति तावत् ताव­त्का­ल­प­र्यन्तं तस्य पुंसः विमु­क्ति­वा­र्तापि नास्ति कुतो विमुक्तिरिति भावः । एष पुमान् वेदा­न्त­न­या­न्त­द­र्श्य­प्यस्तु वेदान्ता एव नयः शास्त्रं तस्य अन्तः पारः तं द्रष्टुं शीलमस्यास्तीति दर्शी वेदा­न्त­न­या­न्त­दर्शी । सोऽपि अभिमानत्यागं विना न मुक्तिमर्हति । अतः निर­न्त­र­नि­दि­ध्या­स­नेन विपरीतभावना त्यक्तव्येति भावः ॥१६४॥

तस्याः त्यागे विचारं सुलभोपायमाह छायेति −

छायाशरीरे प्रति­बि­म्ब­गात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।
यथा­त्म­बु­द्धि­स्तव नास्ति काचित्
जीवच्छरीरे च तथैव मास्तु ॥१६५॥

१६५

यत् यस्मात्कारणात् छायाशरीरे शरीरच्छायायां प्रति­बि­म्ब­गात्रे दर्पणादौ प्रती­य­मा­न­गा­त्र­प्र­ति­बिम्बे स्वप्नदेहे स्वप्नावस्थायां दृश्यमानशरीरे हृदि मनसि कल्पिताङ्गे कल्पितं च तत् अङ्गं च कल्पिताङ्गं तस्मिन् जाग्रदवस्थायां मनःकल्पितदेहे यथा तव काचित् आत्मबुद्धिः अहमितिमतिः नास्ति न विद्यते । तथैव जीवच्छरीरे च प्राणा­न्ध­र­द्य­च्छ­रीरं तस्मिन्नपि मास्तु । द्रष्टुः स्वस्माद् भिन्नत्वेन प्रतीतेः सर्वत्र अविशिष्टत्वात् इति भावः ॥१६५॥

अन्न­म­य­को­श­मु­प­स­ञ्जि­हीर्षुः सर्वानर्थकरी देहा­त्म­धी­स्त्या­ज्ये­त्याह देहात्मधीरिति −

देहात्मधीरेव नृणामसद्धियां
जन्मा­दि­दुः­ख­प्र­भ­वस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥

१६६

यतः यस्मात् असत्सु ब्रह्म­भि­न्ने­ष्व­ना­त्मसु धीर्येषां ते असद्धियः तेषां नृणां मनुजानां देहात्मधीरेव देह एवात्मा इति धीरेव जन्मा­दि­दुः­ख­प्र­भ­वस्य जन्म उत्पत्तिरादिः येषां मरणादीनां तानि जन्मादीनि तैर्यद्दुःखं तस्य प्रभवः उत्पत्तिः तस्याः बीजं कारणं शरीरगतत्वात् जन्ममरणादेः । तदेवाहमिति जानानस्य तत्सर्वं स्वकीयमेवेति ज्ञानात् दुःखं दुष्परिहरमिति भावः । ततः सर्व­दुः­ख­हे­तु­त्वात् तां देहात्मधियं प्रयत्नात् श्रव­ण­म­न­न­नि­दि­ध्या­स­न­रू­प­शा­स्त्री­य­प्र­य­त्नात् जहि जहीहीत्यर्थः । नाशयेति वा । देहादौ चित्ते त्यक्ते तु मनसःसञ्चाराभावे वास­ना­त्म­ना­प्य­भि­मा­ना­भावे पुनः भवाशा संसाराशा नैवेत्यर्थः ।

अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ (श्लो. २८५)

इति वक्ष्यमाणत्वात् ।

देहा­त्म­ज्ञा­न­व­ज्ज्ञानं देहा­त्म­ज्ञा­न­बा­ध­कम् । आत्मन्येव भवेद्यस्य स जीवन्नपि मुच्यते ॥ (पञ्चदशी ७.२०)

इति प्रमाणात् ॥१६६॥

अन्नमयं निरूप्य ततः आन्तरं प्राणमयं श्रौतक्रमेण अनात्मानं निरूपयति कर्मे­न्द्रि­यै­रि­त्या­दिना द्वाभ्याम् −