अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१०. मोक्षहेतवः

मोक्षस्य हेतुः प्रथमो निगद्यते
वैरा­ग्य­म­त्य­न्त­म­नि­त्य­व­स्तुषु ।
ततश्शमश्चापि दमस्तितिक्षा
न्यासः प्रस­क्ता­खि­ल­क­र्मणां भृशम् ॥७१॥

७१

स्फुटम् ।

तत­श्श्रु­ति­स्त­न्म­ननं सतत्वध्यानं चिरं नित्यनिरन्तरं मुनेः ।
ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥७२॥

७२

अनित्यवस्तुषु देहा­दि­ब्र­ह्म­प­र्य­न्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो हेतुर्निगद्यते, बहु­त­र­वि­क्षे­प­हे­तु­भू­ता­शा­शू­न्य­स्यैव मनसः स्वलक्ष्ये निय­ता­व­स्था­रू­प­श­मादेः सम्भवात् । ततश्शमश्च उक्तलक्षणः । च शब्दः उक्तसमुच्चायकः । अत्र सर्वेषामपि वैराग्यादीनां ज्ञान­का­लेऽ­प्या­व­श्य­क­त्वात् अन्तरङ्गत्वात् पूर्वा­प­र­भा­व­स­त्त्वेऽपि कुलालपितृवत् अन्य­था­सि­द्धि­शङ्का न कार्या अतः चशब्देन अपि शब्देन च समुच्चयः कथ्यते । तथा दमः तितिक्षा प्रस­क्ता­खि­ल­क­र्मणां वर्णा­श्र­म­वि­हि­त­त्त्वेन प्रसक्तानां प्राप्तानाम् अखिलानां सर्वेषां कर्मणां वैरा­ग्यो­त्प­त्ति­प­र्य­न्तम् अनुष्ठेयत्वात् , उत्पन्ने च तीव्रवैराग्ये भृशं न्यासः, स्वरूपतोऽपि परित्यागः, पूर्वं चित्त­शु­द्ध्य­प­र­प­र्या­य­वै­रा­ग्यार्थं फलमनभिसन्धाय ईश्व­रा­र्प­ण­बुध्या कर्म­णा­म­नु­ष्ठा­नम् , इदानीं फलस्य निष्पन्नत्वात् सुतरां तेषां परित्याग इति भावः । ततः सर्व­क­र्म­सं­न्या­सा­न­न्तरं, श्रुतिः अर्थतः गुरुमुखात् वेदा­न्त­वा­क्य­श्र­वणं, वेदा­न्त­वा­क्या­र्थ­नि­र्ण­या­नु­कू­ल­व्या­पारः, तन्मननं श्रुतार्थस्य दार्ढ्याय उप­प­त्ति­भि­श्चि­न्त­नम् ॥७१॥

ततः अस­म्भा­व­ना­सं­श­य­भा­व­नयोः श्रवणमननाभ्यां निरस्तयोः, सतत्त्वध्यानं पर­मा\-र्थ­त­त्त्वस्य ध्यानं, तदपि चिरं कर्तव्यम् , अना­त्म­स्वा­त्म­त्व­वा­स­नायाः अना­दि­का­ल­प्र­वृ­त्ताया निरासार्थं, चिरं क्रियमाणमपि यदि विच्छिद्य विच्छिद्य क्रियेत विच्छे­द­का­लि­क­वृ­त्तिभिः आत्म­वृ­त्ते­र­भि­भू­य­मा­न­त्वात् निदिध्यासनमेव न सिध्येत् , अतः नित्य­नि­र­न्त­र­मि­त्यु­क्तम् । तेन ‘स तु दीर्घ­का­ल­नै­र­न्त­र्य­स­त्का­र­से­वितो दृढभूमिः’(पा.यो. १.१४) इति योग­सू­त्रो­क्त­रीत्या दिवसैर्वा मासैर्वा निदिध्यासनं सिद्ध्यतीति न वाञ्छेत् । तदा विद्य­मा­ना­श्च­त्वार एव वेदाः तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः नाद्याप्यसौ समागत इति मूढ­व­च­ना­नु­सा­र्ययं ध्याता स्यात् । अपि तु संवत्सरैः जन्मभिर्वा आदरपूर्वकं सर्वदा सेवितव्यमिति चिरं, नित्यनिरन्तरम् इति विशेषणम् − ‘अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम्’(भ.गी. ६.४५) इति स्मृतेः । नित्यमविच्छेदेन बहुकालपर्यन्तं निदिध्यासनं सिद्ध्यति चेत् इहैव जन्मनि ततः परि­प­क्वा­न्नि­दि­ध्या­स­नात् अविकल्पं निर्वि­क­ल्प­क­स­माधिं, परं सविकल्पकात्परम् उत्कृष्टम् एत्य प्राप्य, विद्वान् आत्म­सा­क्षा­त्का­र­वान् , निर्वाणसुखं मुक्तिसौख्यं, समृच्छति निर­र्ग­ल­म­नु­भ­व­ती­त्यर्थः ॥७२॥

अस्मिन्नेव जन्मनि मोक्षं प्राप्तुं वक्तव्यं सङ्ग्र­हे­णोक्त्वा, विद्वानिहैव निर्वाणसुखं समृ­च्छ­ती­त्युक्त्या धनी सुखीत्यादौ यथा धनप्रयोज्यत्वं सुखे भासते ‘उद्दे­श्य­वि­धे­य­भा­व­स्थले असति बाधके उद्दे­श्य­ता­व­च्छे­द­क­प्र­यो­ज्यत्वं विधेये भासते’ इति लोकसिद्धत्वात् विद्व­द्वि­शे­ष­ण­भू­त­वि­द्या­प्र­यो­ज्य­त्वस्य निर्वाणसुखे भातत्वेन तस्याश्च विद्याया आत्मा­ना­त्म­वि­वे­चन जन्यत्वेन तदादौ विशदयति यद्बोद्धव्यमिति –