विवेकचूडामणिः सव्याख्यः
१०. मोक्षहेतवः
मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमनित्यवस्तुषु ।
ततश्शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
स्फुटम् ।
ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरन्तरं मुनेः ।
ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥७२॥
अनित्यवस्तुषु देहादिब्रह्मपर्यन्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो हेतुर्निगद्यते, बहुतरविक्षेपहेतुभूताशाशून्यस्यैव मनसः स्वलक्ष्ये नियतावस्थारूपशमादेः सम्भवात् । ततश्शमश्च उक्तलक्षणः । च शब्दः उक्तसमुच्चायकः । अत्र सर्वेषामपि वैराग्यादीनां ज्ञानकालेऽप्यावश्यकत्वात् अन्तरङ्गत्वात् पूर्वापरभावसत्त्वेऽपि कुलालपितृवत् अन्यथासिद्धिशङ्का न कार्या अतः चशब्देन अपि शब्देन च समुच्चयः कथ्यते । तथा दमः तितिक्षा प्रसक्ताखिलकर्मणां वर्णाश्रमविहितत्त्वेन प्रसक्तानां प्राप्तानाम् अखिलानां सर्वेषां कर्मणां वैराग्योत्पत्तिपर्यन्तम् अनुष्ठेयत्वात् , उत्पन्ने च तीव्रवैराग्ये भृशं न्यासः, स्वरूपतोऽपि परित्यागः, पूर्वं चित्तशुद्ध्यपरपर्यायवैराग्यार्थं फलमनभिसन्धाय ईश्वरार्पणबुध्या कर्मणामनुष्ठानम् , इदानीं फलस्य निष्पन्नत्वात् सुतरां तेषां परित्याग इति भावः । ततः सर्वकर्मसंन्यासानन्तरं, श्रुतिः अर्थतः गुरुमुखात् वेदान्तवाक्यश्रवणं, वेदान्तवाक्यार्थनिर्णयानुकूलव्यापारः, तन्मननं श्रुतार्थस्य दार्ढ्याय उपपत्तिभिश्चिन्तनम् ॥७१॥
ततः असम्भावनासंशयभावनयोः श्रवणमननाभ्यां निरस्तयोः, सतत्त्वध्यानं परमा\-र्थतत्त्वस्य ध्यानं, तदपि चिरं कर्तव्यम् , अनात्मस्वात्मत्ववासनायाः अनादिकालप्रवृत्ताया निरासार्थं, चिरं क्रियमाणमपि यदि विच्छिद्य विच्छिद्य क्रियेत विच्छेदकालिकवृत्तिभिः आत्मवृत्तेरभिभूयमानत्वात् निदिध्यासनमेव न सिध्येत् , अतः नित्यनिरन्तरमित्युक्तम् । तेन ‘स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिः’(पा.यो. १.१४) इति योगसूत्रोक्तरीत्या दिवसैर्वा मासैर्वा निदिध्यासनं सिद्ध्यतीति न वाञ्छेत् । तदा विद्यमानाश्चत्वार एव वेदाः तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः नाद्याप्यसौ समागत इति मूढवचनानुसार्ययं ध्याता स्यात् । अपि तु संवत्सरैः जन्मभिर्वा आदरपूर्वकं सर्वदा सेवितव्यमिति चिरं, नित्यनिरन्तरम् इति विशेषणम् − ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’(भ.गी. ६.४५) इति स्मृतेः । नित्यमविच्छेदेन बहुकालपर्यन्तं निदिध्यासनं सिद्ध्यति चेत् इहैव जन्मनि ततः परिपक्वान्निदिध्यासनात् अविकल्पं निर्विकल्पकसमाधिं, परं सविकल्पकात्परम् उत्कृष्टम् एत्य प्राप्य, विद्वान् आत्मसाक्षात्कारवान् , निर्वाणसुखं मुक्तिसौख्यं, समृच्छति निरर्गलमनुभवतीत्यर्थः ॥७२॥
अस्मिन्नेव जन्मनि मोक्षं प्राप्तुं वक्तव्यं सङ्ग्रहेणोक्त्वा, विद्वानिहैव निर्वाणसुखं समृच्छतीत्युक्त्या धनी सुखीत्यादौ यथा धनप्रयोज्यत्वं सुखे भासते ‘उद्देश्यविधेयभावस्थले असति बाधके उद्देश्यतावच्छेदकप्रयोज्यत्वं विधेये भासते’ इति लोकसिद्धत्वात् विद्वद्विशेषणभूतविद्याप्रयोज्यत्वस्य निर्वाणसुखे भातत्वेन तस्याश्च विद्याया आत्मानात्मविवेचन जन्यत्वेन तदादौ विशदयति यद्बोद्धव्यमिति –