अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१२. स्थूलशरीरम्

मज्जाऽ­स्थि-मे­दः-प­ल-र­क्त-च­र्म­त्व­गा­ह्व­यै­र्धा­तु­भि­रे­भि­र­न्वि­तम् ।
पादो­रु­व­क्षो­भु­ज­पृ­ष्ठ­म­स्त­कै­र­ङ्गै­रु­पा­ङ्गै­रु­प­यु­क्त­मे­तत् ॥७४॥

७४

अहं ममेति प्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः ।

७४

अशितस्य स्थूल­म­ध्य­म­सू­क्ष्मा­त्मना परिणममानस्य इति सर्वत्र ज्ञेयम् । तेजसो घृतादेः मध्यमो भागः मज्जा, तस्य स्थविष्ठो भागः अस्थि, तस्य पूर्वपरिणामः मेदः, पलं मांसम् , अशितस्य अन्नस्य मध्यमो भागः, रक्तं लोहितं, पीतानाम् अपां मध्यमो भागः चर्म स्थूलावरणं, त्वक् सूक्ष्मावरणम् , आन्तरान्धातून् नाड्यादींश्च सप्तावरणानि आवृण्वन्ति । तत्र अन्त­र्ब­हि­र्भा­वेन स्थूल­सू­क्ष्म­वि­भागो ज्ञेयः । मज्जेत्यादिः येषाम् आह्वयः धातूनां तैः सप्तभिः धातुभिः अन्वितं युक्तम् । षडङ्गान्याह पादेत्यादिना, स्पष्टम् । पादो­रु­व­क्षो­भु­ज­पृ­ष्ठ­म­स्त­कै­रङ्गैः, इदं हस्त­स्या­प्यु­प­ल­क्ष­णम् । उपाङ्गैः गुल्फ­जा­नु­ज­ङ्घा­दिभिः उपयुक्तं सहितम् , एतत् प्रत्य­क्ष­सि­द्धम् । अहं गच्छामि तिष्ठामि लङ्घयामि गृह्णामीत्यादि व्यवहारेण अहन्तास्पदं मम पादः हस्तः मस्तकं शरीरमिति प्रथितं प्रसिद्धं शरीरम् , अने­क­वि­ध­दो­षा­श्र­य­त्वेऽपि अति­प्रे­मा­स्प­द­त्वेन मोहास्पदम् आत्म­त्व­भ्र­म­स्या­श्रयः विषयः स्थूलमिति बुधैरीर्यते । अस्य अने­क­प­दा­र्थ­स­ङ्घा­त­रू­प­त्वात् संहतानां स्तम्भ­कु­ड्या­दि­रू­पेण वर्तमानानां गृहादीनां यथा स्वाम्यर्थत्वम् , एवं परार्थत्वमिति ज्ञापयितुं मज्जा­स्थी­त्या­द्यु­क्तम् । एतेन आत्मभिन्नत्वम् उक्तप्रायम् । आत्मन एव स्वामित्वात् तद­र्थ­त्वा­च्छ­री­रस्य ॥७४-१/२॥

अनित्यत्वादपि नित्या­त्म­रू­पत्वं तस्य नास्तीति वक्तुं तस्य कारणान्याह नभ इत्यादिना –

नभो­न­भ­स्व­द्द­ह­ना­म्बु­भू­मयः
सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥

७५

पर­स्प­रां­शै­र्मि­लि­तानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः ॥

७५

नभश्च नभस्वांश्च दहनश्च अम्बु च भूमिश्च नभो­न­भ­स्व­द्द­ह­ना­म्बु­भू­मयः । नभः गगनं नभस्वान् वायुः, दहनोऽग्निः, अम्बु जलं, भूमिः पृथ्वी, इदं भूतपञ्चकं जायमानं सूक्ष्मं जायते, पश्चात् स्रष्ट्र्या देवतया तासां ‘त्रिवृतं त्रिवृतमेकैकां करवाणि’(छा.उ. ६.३.२) इति सङ्कल्पवशात् एकैकं भूतं पञ्चीक्रियते । तैत्ति­री­य­क­श्रु­त्य­नु­सा­रेण आकाशवाय्वोः छान्दोग्ये तेजसः प्रथ­म­मु­प­सं­ह­र्त­व्य­त्वात् त्रिवृत्करणस्य पञ्ची­क­र­णो­प­ल­क्ष­णा­र्थ­त्वात् । तत्प्रकारस्तु – ‘पञ्चानां भूतानाम् एकैकं द्विधा विभज्य स्वार्धभागं विहाय अर्धभागं चतुर्धा विभज्य इतरेषु योजिते पञ्चीकरणं भवतीति’ भाष्य­का­र­वा­क्य­नु­सा­रेण ज्ञातव्यः । अयमर्थः श्लोकेन सङ्गृहीतः पञ्चदश्यां विद्या­र­ण्य­गु­रु­च­रणैः –

द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वे­त­र­द्वि­ती­यांशैः योजनात् पञ्च पञ्च ते ॥ (१.२६) इति ।

तथा च स्थूलेषु भूतेषु प्रत्येकं स्वीयोऽर्धभागः इतरस्य भूतस्य अष्टमोभागः । एवं पर­स्प­रां­शै­र्मि­लि­तानि सम्बद्धानि भूत्वा स्थूलानि गग­ना­दि­श­ब्द­व्य­व­हा­रा­र्हाणि, स्थूल­श­री­र­हे­त­वश्च भवन्तीति योजना ॥७५ १/२॥

भूतप्रसङ्गात् तद्ध­र्मां­श्छ­ब्दा­दीन् विषयान् तत्र वैरा­ग्यो­त्प­त्त्यर्थं निरूपयति मात्रा इति –

मात्रास्तदीया विषया भवन्ति ।
शब्दादयः पञ्च सुखाय भोक्तुः ॥७६॥

७६

मीयन्ते विषयीक्रियन्ते भुज्यन्त इति वा मात्राः, तदीयाः आका­शा­दि­भू­त­स­म्ब­न्धिन्यः, शब्दादयः क्रमेण शब्द­स्प­र्श­रू­प­र­स­गन्धाः पञ्च विषयाः, विशेषेण सिन्वन्तीति विषयाः, षिञ्धातोः विपूर्वकात् बन्धनकर्मणः विषयशब्दस्य निष्पत्तेः । भोक्तुः संसारिणः जीवस्य, सुखाय सुखाभासाय भवन्ति । शब्दादयः शास्त्रे तत्र तत्र पञ्चतन्मात्रा इति व्यवह्रियन्ते इति मात्रास्तदीया इति कथितम् तत्त­द्ग्र­न्थ­सं­वा­दाय ॥७६॥

इदानीं तेषां बन्धकत्वं विशदयति य एष्विति –

य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ॥७७॥

७७

ये मूढा विवेकशून्याः, एषु विषयेषु शब्दादिषु पञ्चसु, सुदुर्दमेन सुष्ठु दुःखेन दमयितुं शक्येन दुर्निरसेन, रागोरुपाशेन उरुः दृढः पाशः बन्ध­हे­तु­र­ज्वादिः राग एव उरुपाशः तत्रासक्तिरूपेण दृढपाशेन बद्धाः, स्तम्भेषु पश्वादय इव, तत्र अत्य­न्त­का­म­वि­शिष्टा इति यावत् । यथा स्तम्भबद्धाः पशवः स्तम्भं विहाय गन्तुं न पारयन्ते, एवं विषयरागिणः विष­यां­स्त्यक्तुं न शक्नुवन्तीति तत्रैवाशया श्रेयो­मा­र्गा­द्भ्र­श्यन्त इत्याह − ‘आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः’ स्वेषां कर्म धर्माधर्मरूपं तदेव ऊर्ध्वा­धो­ग­म­न­हे­तु­त्वाद् दूतवद्वर्तते । यथा न्यायस्थानादौ कश्चिद्दूतः विचा­र्या­नू­र्ध्व­म­धश्च नयति तद्वत् । तत्रापि शब्दादिकं सुखं जनयतीति बुध्या तत्सम्पत्तये पुण्यार्जनं करोति, तदा दिव्य­श­ब्दा­दि­क­म­नु­भ­वितुं तदीयं पुण्यं कर्म तमुच्चै ऊर्ध्वं नयति स्वर्गादिकं प्रापयति । तत्रापि क्षीणे पुण्ये अधः आगमनमस्त्येव । अधर्मे पुनः किं वक्तव्यम् सर्वदा अधोगमनमेवेति । उच्चैरूर्ध्वम् , आयान्ति जन्मा­न्त­र­कृ­त­सु­कृ­त­व­शात् मानुष्यादिकं सम्पादयन्ति । पुनः रागे अधो निर्यान्ति । विषयेषु रागवतः कर्त­व्य­का­र्य­वि­स्म­र­ण­स­म्भ­वात् निस्तारो न भवतीति भावः ॥७७॥

शब्दादीनां मध्ये एकैकं सेवमानस्यापि मृत्युः बन्धः दृष्टः । किं पुनः पञ्चापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये शब्दादिभिरिति –

शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः ।
कुर­ङ्ग-मा­त­ङ्ग-प­त­ङ्ग-मीन-
भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥७८॥

७८

कुरङ्गः हरिणः, मातङ्गः गजः, पतङ्गः शलभः, मीनः मत्स्यः, भृङ्गः भ्रमरः एते पञ्च स्वगुणेन स्वस्व­स­क्ति­वि­ष­येण गुणेन शब्दादीनां गन्धान्तानां पञ्चानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पञ्चत्वं मरणमापुः । एवम् एकैकस्यापि मर­ण­प­र्य­न्त­ब­न्ध­प्र­यो­ज­कत्वे एतैः पञ्चभिरपि अञ्चितः स्वकी­य­स­क्त्या­श्र­य­त्वेन विशिष्टः नरः किं मृत्युं प्राप्नोतीति वक्त­व्य­मि­त्यर्थः । यथा लोके हरिणं जिघृक्षवः वेणु­गा­ना­दि­म­धु­र­श­ब्दा­सक्तं तं चपलं शीघ्रं बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छ­ब्द­श्र­व­णा­सक्तं विस्मृतात्मानं गृह्णन्तीति शब्द एक एव हरिणस्य बन्धक इति प्रसिद्धम् । एवं वनमध्ये स्वच्छन्दं विहारि दुर्ग्रहः महानपि मातङ्गः स्पर्शसुखलोलुपः तज्जिघृक्षुभिः वशाद्वारा गृह्यते इति त्वगि­न्द्रि­य­तृ­प्ति­हेतुः स्पर्श एक एव गजस्य बन्धको निर्वृत्तः । एवं पतङ्गः प्रकाशमाने दीपे भास्व­र­रू­प­द­र्श­नेन भक्ष्यबुध्या तदीयं दाहात्म्यमजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् । एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चम्पकसुममाघ्राय तद्गन्धसेवनेन पञ्च­त्व­मा­प्नो­तीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं मर­णा­न्ता­न­र्थ­प्र­यो­ज­कम् । तत्रापि तिरश्चां पापाभावात् तदा­नी­न्त­न­श­री­रस्य परमनर्थः सम्भवति । शब्दादीनां पञ्चानामपि विषयाणां सेवनाय विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति भावः ॥७८॥

विषयानुभवः मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन् विषयः कृष्ण­स­र्प­वि­षा­दपि अतिरिच्यत इत्याह दोषेणेति –

दोषेण तीव्रो विषयः कृष्ण­स­र्प­वि­षा­दपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥७९॥

७९

विषयः रूपादिः कृष्ण­स­र्प­वि­षा­दपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये । तत्र हेतुमाह विषं निहन्ति भोक्तारमिति । कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा जिह्वासम्बद्धं विषं भवतीति स भोक्तेत्युच्यते । अत एव पादादौ सर्पेण दष्टा अपि तत्र बल­व­द्ब­द्ध­र­ज्ज्वा­दिना, न म्रियन्ते तद्विषस्य नाडीद्वारा जिह्वा­स­म्ब­न्धा­भा­वात् । एवं भोक्तारं निहन्ति विषं तस्या­स­त्त्व­मा­पा­द­यति । अयं विषयस्तु चक्षुषा द्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुन्दरं रूपादिकं दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति । यद्वा कलहाद्यभावेऽपि स्वयं तेन विषयेण दूर­मा­कृ­ष्ट­चित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वाभा­ना­पा­द­क­व्या­पा­र­वान् नियमेन भवतीति भावः । तथा च निहन्तीत्यस्य अस­त्त्वा­पा­द­क­व्या­परः, अभा­ना­पा­द­क­व्या­पारो वा अर्थः । यथायोग्यमर्थः स्वीकरणीयः । तत्र अस­त्त्वा­पा­द­क­व्या­पा­रस्य अभानापादकत्वं सिद्धमेव । द्वितीयस्य तु अस­त्त्वा­पा­द­कत्वं न सम्भवतीति । वस्तुतस्तु विष­या­कृ­ष्ट­चि­त्तस्य पुरुषस्य सत्त्वमपि पुरु­षा­र्थो­प­यो­गा­भा­वात् असत्त्वमिव भवतीत्यपि सुवचम् ॥७९॥

एव­म­त्य­न्ता­न­र्थ­क­रेऽपि विषये विचा­रा­भा­वा­त्पु­रुषः आशां बध्नाति, तत्रत्यदोषं न परिगणयति मौढ्यात् ततः पुरुषाथार्द् भ्रश्यते । अतः मुमुक्षुणा सर्वथापि तदाशा त्यक्तव्या । अन्यथा षडपि शास्त्राणि अर्थतो जानतोऽपि मोक्षो दुर्लभ इत्याह विषयाशेत्यादिना –

विष­या­शा­म­हा­पा­शाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्छा­स्त्र­वे­द्यपि ॥८०॥

८०

यः पुरुषः सुदुस्त्यजात् चिर­का­ला­द­भ्य­स्त­त्वेन दृढविचारमन्तरा सुदुस्त्यजात् त्यक्तुमशक्यात् , विष­या­शा­म­हा­पा­शात् विषयाशैव महापाशः अत्यन्तं बन्धकत्वात् तस्माद्विमुक्तः विशेषेण मुक्तः सुतरां तत्सम्बन्धरहित इत्यर्थः । स एव पुरुषः मुक्त्यै कल्पते समर्थो भवति । अन्यः तदाशापाशबद्धः षट्छा­स्त्र­वे­द्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥८०॥

विषयेषु तीव्र­वै­रा­ग्या­भावे अनर्थमाह आपातेति –

आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रति­या­तु­मु­द्य­तान् ।
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात् ॥८१॥

८१

आपातवैराग्यवतः दुःखा­नु­भ­वा­दि­का­लेषु धिक् संसार इति वैराग्यवतः, सार्व­दि­क­वै­रा­ग्य­शू­न्या­निति यावत् । भवाब्धिपारं संसारसागरान्तं ज्ञानं, प्रतियातुं प्राप्तुम् , उद्यतान् उद्युक्तान् , तत्र हेतुमाह मुमुक्षूनिति । मोक्षेच्छायाः सत्त्वात् संसाराम्बुधिं तर्तुम् उद्यता इति तादृशान् पुरुषान् आशैव ग्रहः महानक्रः, अन्तराले समुद्रमध्ये कण्ठे निगृह्य नितरां गृहीत्वा वेगा­द्वि­नि­वर्त्य भवा­ब्धि­पा­र­ग­म­ना­द्वि­नि­वर्त्य मज्जयते मग्नान् करोति संसा­र­स­मु­द्र­म­ग्नान् पुनः कर्मादिकरणेषु तान् व्यापारयतीति भावः । यस्तावत् अत्यन्तं विषयेभ्यो विरक्तः शमा­दि­गु­ण­ग­ण­म­ण्डितः स सद्गुरुम् उपसद्य तन्मुखतः सम्यगात्मानं विदित्वा मुच्यते संसारात् , अयं तावत् आपातवैराग्यवान् दृढ­शा­न्त्या­दि­हीनः तथा प्रयतमानोऽपि मध्ये आशया पीडितः पुरु­षा­र्था­द्भ्र­श्यते । ज्ञानार्हो न भवतीति भावः ॥८१॥

पूर्वोक्तमर्थं व्यतिरेकमुखेनाह विषयाख्येति –

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥८२॥

८२

विषयाख्यग्रहः विषयनामकनक्रः, येन पुरुषेण, सुविरक्त्यसिना सुष्ठु विरक्तिः दृढ­त­र­ती­व्र­वै­राग्यं सैवासिः खड्गः, तेन हतः नाशितः, सः पुमान् प्रत्यूहवर्जितः संसा­र­सा­ग­रो­त्त­रणे विघ्नशून्यः, भवाम्भोधेः पारं संसारसमुद्रस्य जन्म­म­र­णा­दि­क­ल्लो­ल­त­र­ङ्गि­तस्य पारम् अन्तं ब्रह्मेति यावत् । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ. १.३.९) इति श्रुतेः । गच्छति प्राप्नोति, ब्रह्म साक्षात्कृत्य मुच्यत इत्यर्थः ॥८२॥

यस्त्व­वि­ज्ञा­न­वा­न्भ­वति अमनस्कः सदाशुऽचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ (१.३.७-८)

इति कठो­प­नि­ष­त्प्र­ति­पा­दि­त­मर्थं पूर्वो­क्त­श्लो­क­द्व­य­सारं क्रोडीकृत्य उपदिशति विषमेति –

विषमविषयमार्गे गच्छ­तोऽ­न­च्छ­बुद्धेः
प्रतिपदमभिघातो मृत्युरप्येष सिद्धः ।
हित­सु­ज­न­गु­रूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३॥

८३

विषमः बहु­वि­ध­वि­क्षे­प­हेतुः अत्य­न्त­दुः­ख­ज­टिलः यः विषयः शब्दादिः स एव मार्गः, ‘विषयांस्तेषु गोचरान्’ इति कठ (१.३.४) श्रुतेः, तत्र गच्छतः तत एव अनच्छबुद्धेः अशुद्धमनस्कस्य, यदि शुद्धं मनः अवश्यं विचारशीलं विषयेभ्यो निवर्तते । रज­स्त­मो­भू­यि­ष्ठ­त्वा­देव विचारासमर्थम् −

यथा व्यालगलस्थोऽपि भेकः दंशानपेक्षते । तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥

इत्युक्तरीत्या विषयप्रवणता तस्य इति भावः । एता­दृ­शा­शु­द्ध­म­न­स्कस्य प्रतिपदमभिघातः सर्वदापि दृढदुःखसंयोगः, एषः अनुभवसिद्धः मृत्युरपि सिद्धः मृत्युघटितः संसार इत्यर्थः ।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ (ब्र.बि. २)

इति वचनस्य पूर्व­मु­दा­हृ­त­त्वात् । स्मर्यते हि गीतासु –

ध्यायतो विषयान् पुंसः सङ्ग­स्ते­षू­प­जा­यते । सङ्गात्सञ्जायते कामः कामा­त्क्रो­धोऽ­भि­जा­यते ॥ क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ (२.६२-६३) इति ।

तत्र कथितः प्रणाशः णशअदर्शने इति धातुना प्रतीयमानः, स्वस्व­रू­पा­सा­क्षा­त्कार एव वा अत्र मृत्युपदार्थः । कामस्यैव कुतश्चित् अभिहतस्य क्रोधात्मना परिणममानत्वात् तत्र उक्तः कामाभिघात एव वा अत्रापि प्रतिपदमभिघात इत्यत्रार्थः । लोके यथा इच्छा तथा विषयानुभवस्य सुदुर्लभत्वात् , जाता­या­मि­च्छा­या­म­भि­ह­न्य­मा­ना­या­म­वि­चा­र­यितुः पुरुषस्य क्रोधादिक्रमेण प्रणाश एवेति भावः । एवम् अविरक्तस्य जायमानं फलमुक्त्वा विरक्तस्य तदाह हित­सु­ज­न­गु­रू­क्त्ये­त्या­दिना । हिताः श्रेयस्कामिनः अत एव सुजनाः सत्पुरुषाः मित्रादयः तेषां गुरोश्च उक्त्या, गुरोस्तु हितत्वं सुजनत्वं च सिद्धमेव । गुरुलाभपर्यन्तं सुजनोक्तिः, ततः गुरूक्तिरिति विभागः । यद्वा हिता सर्वदा श्रेयोहेतुभूता सुजनानां गुरोश्च या उक्तिः तया, तद्दत्तया स्वस्य युक्त्या तद­नु­सा­र्यू­हा­पो­हेन च गच्छतः ‘पण्डितो मेधावी गन्धा­रा­ने­वो­प­स­म्प­द्येत, एव­मे­वे­हा­चा­र्य­वान् पुरुषो वेद’(छा.उ. ६.१४.१) इति श्रुतेरिति भावः । श्रेयोमार्ग एव गच्छतः फलसिद्धिः पर­म­पु­रु­षा­र्थ­भू­त­मो­क्ष­प्राप्तिः प्रभवति प्रकर्षेण निष्प्रत्यूहं भवति । सत्यमित्येव विद्धि । अत्र विषये ईषदपि शङ्कां मा कार्षीरिति भावः ॥८३॥

‘मात्रास्तदीया’(श्लो. ७६) इत्यारभ्य एतदन्तं कृतस्य विष­य­ब­न्ध­क­त्व­नि­रू­प­णस्य फल­मा­ह-मो­क्ष­स्येति । यद्वा इदानीं मुमुक्षोः हेयोपादेये उपदिशति मोक्षस्येति –

मोक्षस्य काङ्क्षा यदि वै तवास्ति
त्यजातिदूराद् विषयान् विषं यथा ।
पीयू­ष­व­त्तो­ष-द­या-क्ष­मा­र्जव-
प्रशा­न्ति­दा­न्ती­र्भज नित्यमादरात् ॥ ८४॥

८४

आदौ हेयमाह – यदि तव मोक्षस्य, वै इत्यवधारणे, मोक्ष­स्यै­वे­त्यर्थः । काङ्क्षा इच्छा, अस्ति विषयान् शब्दादीन् , विषं यथा हालाहलमिव, अतिदूरात्त्यज मनसापि मा स्मार्षी­रि­त्यर्थः ।

अकुर्वन्नपि विध्युक्तं निषिद्धं परिवर्जयेत् । निषिद्धपरिहारेण विहिते लभते मतिम् ॥ इति सूतसंहितोक्तेः । (४.१६.३४)

उपादेयमाह – तोषः सन्तोषः, दया करुणा, क्षमा तितिक्षा, आर्जवम् अकुटिलचित्तता, प्रशान्तिः प्रकर्षेण शमः, दान्तिः बहि­रि­न्द्रि­य­नि­ग्रहः, तोष­द­या­क्ष­मा­र्ज­वा­नाम् अन्तः­क­र­ण­ध­र्म­त्वात् ‘अशान्तस्य कुतस्सुखम्’(२.६६) इति गीता वचनात् शमाभावे सन्तो­षा­दे­र­स­म्भ­वात् अत्र सर्वं शमाधीनमिति द्योतयितुं प्रशान्तीति प्रेत्यु­प­स­र्ग­स­हित शान्तिपदप्रयोगः । एताः नित्यं सन्ततं, पीयूषवत् अमृतवत् , आदराद् अत्य­न्त­वि­श्वा­सेन भज सेवस्वेत्यर्थः ॥८४॥

एवं मोक्षसाधनत्वेन विषयवैराग्यं द्रढयित्वा तेष्वाशा यन्निबन्धना तस्मि­न्स्थू­ल­श­रीरे आदौ अनात्मत्वेन दिदर्शयिषिते सक्तिः त्यक्तव्येत्याह तत्र सक्तौ त्यक्तायां विषयवैराग्यं सुल­भ­मि­त्य­भि­प्रा­येण अनुक्षणमिति –

अनुक्षणं यत्परिहृत्य कृत्यं
अना­द्य­वि­द्या­कृ­त­ब­न्ध­मो­क्ष­णम् ।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति ॥८५॥

८५

यत् स्थूलशरीरं परिहृत्य तादा­त्म्या­ध्या­सात् दूरीकृत्य, अना­द्य­वि­द्या­कृ­त­ब­न्ध­मो­क्ष­णम् अनादिः या अविद्या मूलाविद्या, तया कृतः बन्धः अह­ङ्का­रा­दि­दे­हान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति शेषः । अत्यन्तं स्थूलतया भासमाने अस्मि­ञ्च्छ­री­रेऽ­ह­न्तायाः परित्यागे पश्चात् किल प्राणादौ सा त्यक्तुं शक्यत इति भावः । तत्रानात्मत्वं स्फुटयति अयं देहः परार्थ इति । कृत­व्या­ख्या­नोऽ­य­मंशः मज्जा­स्थी­त्या­दि­श्लोके (श्लो. ७४) । तस्मा­द­ने­क­प­दा­र्थ­स­ङ्घा­त­रू­प­त्वेन अनात्मनः अमुष्य पोषणे यः सज्जते स्वात्मानं विस्मृत्य अयमेवाहमिति विशे­ष­तोऽ­भि­म­न्यते तद्रक्षणे च विशेषतो यतते, सः स्वं स्वात्मानम् , अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातनिजस्वरूपं करोतीत्यर्थः । येन निजस्वरूपभानेन मुच्यते तत्प्र­ति­ब­न्ध­क­स्थू­ल­दे­हा­भि­मा­नेन तदी­य­ज­न्म­म­र­णा­दि­ध­र्म­वन्तं स्वात्मानं मत्वा सर्वदा दुःखमनुभवतीति भावः ॥८५॥

लोके तावत् नदीं तितीर्षवः नद्यां प्लवमानं दृढं दारु धृत्वा स्वयं नद्यां तत्साहाय्येन अमज्जन्तः नदीं तरन्तीति प्रसिद्धम् । न तु कदाचिदपि तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सति तेषां नद्यां मकरग्रस्तानां मरणं ध्रुवमिति प्रसिद्धम् । तथा शरी­र­पो­ष­णा­स­क्तस्य आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः रूढो भूत्वा संसाराम्बुधौ तं सम्मज्जयतीति भावेनाह शरीरेति –

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥

८६

शरीरस्य पोषणम् अर्थयितुं शीलम् अस्येति शरीरपोषणार्थी सर्वदा तत्पोषणव्यग्र इत्यर्थः । तादृशः सन् यो नरः आत्मानं स्वस्वरूपं दिदृक्षते साक्षा­त्क­र्तु­मि­च्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदी­त­र­ण­मि­वा­स­म्भा­वि­त­मि­त्याह ग्राहमिति । स्पष्टम् ॥८६॥

अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह मोह इति –

मोह एव महामृत्युः मुमु­क्षो­र्व­पु­रा­दिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥

८७

वपुरादिषु शरी­र­क­ल­त्र­पु­त्रा­दिषु, मोह एव अहं ममभाव एव, मुमुक्षोः महामृत्युः यथा मृतः किञ्चित्कार्यं न कर्तुं शक्नोति एवं शरीरादिषु अहं ममाभिमानवान् मुमुक्षुः मोक्षं सम्पादयितुं न शक्नोतीत्यर्थः । येन मोहो विनिर्जितः पूर्वो­क्ता­ह­न्तादिः शरीरादौ परित्यक्तः स मुक्तिपदं मुक्ति­मा­र्ग­म­र्हति स एव मुच्यत इत्यर्थः ॥८७॥

तस्मान्मोहं जहीति उपदिशति मोहमिति –

मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥८८॥

८८

मुनयः मननशीलाः, यं देहादौ मोहं तादा­त्म्या­भि­मानं जित्वा, बहु­का­ला­द्रू­ढ­मू­ल­मपि देशि­क­द­त्त­युक्त्या श्रुत्य­व­ष्ट­म्भेन च सुतरां परित्यज्य, तत् श्रुतिप्रसिद्धं विष्णोः परमं पदं, राहोः शिर इतिवत् अभेदे षष्ठी, व्यापकं (परि­च्छे­द­त्र­य­शून्यं) सर्वोत्कृष्टं ब्रह्मरूपं स्थानं यान्ति अभेदेन भजन्ते, ब्रह्मैव भवन्ति मुच्यन्त इत्यर्थः । तं देहदारसुतादिषु आदिपदेन मित्रधनादिग्रहः । तत्र मोहं भ्रान्तिं तव महामृत्युम् अत्यन्तं स्वस्व­रू­प­प्र­च्या­व­नेन स्वादर्शनहेतुं जहि नाशय वेदा­न्ता­र्थ­वि­चा­र­णे­ने­त्यर्थः ॥८८॥

अत्य­न्ता­शु­चि­प­दा­र्थ­भू­यि­ष्ठ­त्वात् दूरतः परित्याज्ये सुत­रा­म­भि­मा­ना­नर्हे स्थूले देहे तत्र जुगुप्सया हेयताबुद्धिं द्रढयति त्वगित्यादिना –

त्वङ्मां­स­रु­धि­र­स्ना­यु­मे­दो­म­ज्जा­स्थि­स­ङ्कु­लम् ।
पूर्णं मूत्र­पु­री­षाभ्यां स्थूलं निन्द्यमिदं वपुः ॥८९॥

८९

स्नायवः सिराः नाड्यः । तत्र अत्यन्तं जुगुप्सां जनयति मूत्र­पु­री­षाभ्यां पूर्णमिति । न कश्चित् मलमूत्रभाण्डं स्प्रष्टु­मि­च्छति, कुत­स्त­त्रा­ह­न्तेति भावः । अत एव निन्द्यं कुत्सार्हम् । शिष्टं स्पष्टम् ॥८९॥

एवं तत्र वैरा­ग्यो­त्प­त्तये तं निन्दित्वा पूर्वा­र­ब्ध­मा­त्मा­ना­त्म­वि­वे­च­न­म­नु­व­र्त­यति पञ्चीकृतेभ्य इति –

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥९०॥

९०

पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्परांशैः मिलितानि स्थूलानि सन्ति स्थूलशरीरहेतव इत्युक्तम् । तत्र पञ्चीकरणं न शब्दतः स्पष्टं कथितम् । तदिदमुक्तं पञ्चीकृतेभ्य इति । अत एव स्थूलेभ्यः पृथि­वी­त्या­दि­व्य­व­हा­र­यो­ग्येभ्यः भूतेभ्यः, तत्रापि देव­ति­र्य­ङ्म­नु­ष्या­दि­श­री­र­प्र­भेदे बीजमाह पूर्वकर्मणा इति । पुण्य­पा­प­मि­श्रा­नु­सा­रेण देवा­दि­श­री­रो­त्प­त्ति­रिति भावः । इदं प्रत्य­क्ष­सि­द्धम् , आत्मनो जीवस्य, भोगायतनं यदवच्छेदेन भोगो जायते तद्भोगायतनं सुख­दुः­ख­सा­क्षा­त्का­रा­व­च्छे­द­क­मि­त्यर्थः । समुत्पन्नम् असङ्करेण जातमित्यर्थः । तत्त­त्क­र्मा­नु­सा­रेण कर्मफलदाता सर्वज्ञः ईश्वरः तत्तच्छरीरं तस्मै तस्मै ददातीति सङ्करशङ्काया नावसरः इति समुपसर्गेण पूर्वकर्मणेति पदसहितेन द्योतितम् । इदानीं स्थूलदेहः यदा­त्म­त्वे­ना­भि­म­न्यते तामवस्थामाह तस्य व्यावृ­त्त­त्व­मा­त्मनः अनुवृत्तत्वञ्च सम्यग्बोधयित्वा तत्रानात्मत्वं स्पष्टयितुम् । तस्य स्थूलदेहस्य अवस्था असाधारणी भोग­हे­तु­त्व­प्र­यो­जकः कालः जागरः, ‘इन्द्रि­यै­र­र्थो­प­ल­ब्धि­र्जा­ग­रि­तम्’(उ.गी.भा. १.७) इति लक्षणलक्षिता जाग्र­द­व­स्थे­त्यर्थः । तदेव विशदयति स्थूलार्थानुभवो यतः, अर्थेषु स्थूलत्वञ्च दिगा­द्य­भि­मा­नि­दे­व­ता­नु­गृ­ही­त­श्रो­त्रा­दी­न्द्रि­य­गृ­ह्य­मा­णत्वं शब्दादिषु । स्वप्ने इन्द्रि­या­णा­मु­प­र­त­व्या­पा­र­त्वात् वासनामयानां शब्दादीनां देव­ता­नु­गृ­ही­ते­न्द्रि­य­गृ­ह्य­मा­णत्वं नास्ति । मनसः इन्द्रि­य­त्व­पक्षे इन्द्रि­य­गृ­ह्य­मा­ण­त्वेपि तत्र तद्ग्राहकत्वेन प्रसि­द्धे­न्द्रि­य­गृ­ह्य­मा­णत्वं नास्तीति भावः । यतः यस्मात् स्थूलशरीरात् तत्राभिमानात् स्थूला­र्था­नु­भवः, ततः तत्कारणात् तस्य स्थूलदेहस्य जागरः अवस्थेत्यर्थः ॥९०॥

उक्तमर्थं विशदयति बाह्ये­न्द्रि­यै­रिति −

बाह्येन्द्रियैः स्थूल­प­दा­र्थ­सेवां
स्रक्च­न्द­न­स्त्र्या­दि­वि­चि­त्र­रू­पाम् ।
करोति जीवः स्वयमेतदात्मना
तस्मात् प्रश­स्ति­र्व­पु­षोऽस्य जागरे ॥९१॥

९१

बाह्येन्द्रियैः त्वग्घ्रा­ण­च­क्षु­रा­दिभिः, स्रक्च­न्द­न­स्त्र्या­दि­वि­चि­त्र­रूपां रूप्यन्ते विषयीक्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्च चन्दनं च स्त्री च आदिः येषां तानि स्रक्च­न्द­न­स्त्र्या­दीनि तानि विचित्ररूपाणि यस्यां सा स्रक्च­न्द­न­स्त्र्या­दि­वि­चि­त्र­रूपा तां स्रक्च­न्द­न­स्त्र्या­दि­वि­चि­त्र­रूपां, स्थूल­प­दा­र्थ­सेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम् , अभि­मा­नि­दे­व­ता­नु­ग्र­ह­प्र­यो­ज्य­सु­ख­दुः­खा­नु­भवं, जीवः प्रत्यगात्मा, एतदात्मना स्थूलदेहात्मना मनोद्वारा स्थूल­श­री­र­प्र­ति­फ­लि­त­स्व­रू­पेण स्थूल­श­री­रा­ध्य­स्ता­त्म­भा­वे­नेति यावत् , स्वयं करोति । स्वप्ने तावत् स्थूलदेहे मन­स्सं­यो­गा­भा­वात् तत्र स्वरू­प­प्र­ति­फ­ल­न­मपि नास्तीति तस्य तदा भोगहेतुत्वं नास्ति, अपितु तदा कल्पितस्य अन्यस्य स्थूलदेहस्यैव वासनामयस्य । प्रसिद्धं किल स्वप्ने प्रसि­द्ध­स्थू­ल­दे­ह­व्य­ति­रि­क्त­ति­र्य­ग्दे­वादि देहरूपेण भोगान्भुञ्जत इति । तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां प्रशस्तिः प्रामु­ख्य­मि­त्यर्थः । स्वप्न­सु­षु­प्त्यो­रत्र अभि­मा­न­स्यै­वा­भा­वा­दिति भावः । इत्थञ्च तयो­र­व­स्थ­यो­र­भा­स­मा­नस्य जाग्रति परं प्रती­य­मा­न­स्या­ना­त्मत्वं व्यावृत्तत्वात् सिद्धमिति भावः । सर्वा­व­स्था­सा­क्षि­ण­स्त्वा­त्मनः अनु­वृ­त्त­त्वा­दे­त­द्भि­न्नत्वं सुज्ञानम् ॥९१॥

यथा कश्चिदपि लोके स्वीयं गृहं स्वात्मत्वेन न मनुते तथा मन्तव्ये स्थूलदेहे अहन्ता सुतरां न कार्ये­त्य­भि­प्रा­ये­णाह सर्व इति −

सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥९२॥

९२

संसारो द्विविधः बाह्य आन्तरश्चेति । तत्र आन्तरः सुख­दुः­ख­क­र्तृ­त्व­भो­क्तृ­त्वादिः । बाह्यः जन्म­ज­रा­म­र­ण­स्थौ­ल्य­बा­ल्यादिः । उत्तरश्लोके निरूपयिष्यते बाह्यसर्वोऽपि संसारः । असंसारिणः पुरुषस्य यदाश्रयः यत्र तादा­त्म्या­ध्या­स­नि­ब­न्धनः तत् इदं स्थूलं देहं गृहमेधिनः गृहस्थाश्रमिणः कुटुम्बिन इति यावत् । गृहवत् सदनवत् विद्धि जानीहि । प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कल­त्रा­दि­क­म­र्ज­यति । नहि गृहस्याप्यभावे विवाहादौ प्रयतते कश्चित् । तथा स्थूलदेहम् आत्मत्वेन मन्वान एव तदीयधर्मान् जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा । न हि सुषुप्तौ स्थूल­दे­हा­भि­मा­न­शू­न्यस्य जरारोगादिपीडेति भावः । अतः गृह­व­द­त्य­न्त­भि­न्न­त्वेन ज्ञेये अहन्ता न युक्तेति भावः ॥९२॥

तमेव बाह्यं संसारं विशदयति स्थूलस्येति −

स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।
वर्णा­श्र­मा­दि­नि­यमा बहुधाऽऽमयाः स्युः
पूजा­व­मा­न­ब­हु­मा­न­मुखा विशेषाः ॥९३॥

९३

सम्भवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः, स्थौल्यम् अवयवोपचयः, आदिपदेन तद­प­च­य­रू­प­कार्श्यं शौक्ल्य­का­र्ष्ण्या­दि­वर्णाः बहुविधाः, बह्व्यः विधाः येषां ते धर्माः बहुविधाः । शिशुता आदिः यासां कुमा­र­ता­यु­व­ता­वृ­द्ध­तानां ताः अवस्थाः, यद्यपि जराश्ब्देन पूर्वं वृद्धता अग्राहि, अथाप्यत्र शिशु­ता­द्य­व­स्था­मध्ये पुनर्ग्रहणे न दोषः । वर्णा­श्र­मा­दि­नि­यमाः वर्णाः ब्राह्म­ण­त्व­क्ष­त्रि­य­त्व­वि­ट्त्व­शू­द्र­त्वानि आश्रमाः ब्रह्म­च­र्य­गा­र्ह­स्थ्य­वा­न­प्र­स्थ­त्व­सं­न्यासाः आदिपदेन गोत्रसूत्रादयः तेषां नियमाः, ब्राह्म­ण­त्व­ब्र­ह्म­च­र्या­द्यु­चि­त­धर्माः कुलाद्याचाराश्च । बहुधा आमयाः ज्वर­शि­रो­वे­द­ना­प्र­भृ­तयः । पूजा­व­मा­न­ब­हु­मा­न­मुखाः विशेषाश्च स्युः । पूजा गन्ध­पु­ष्पा­दि­कृता, अवमानः वाचा­प्य­ना­द­र­णा­दि­रू­प­ति­र­स्कारः अक्ष्णा­प्य­नी­क्ष­णा­दिश्च । बहुमानः उच्चा­स­नो­प­वे­श­नादिः एतन्मुखा विशेषाश्च स्युः । जात­क­र्मा­दि­सं­स्का­राणां शरीरस्यैव क्रियमाणत्वात् तत्त­दा­श्र­म­चि­न्हानां च शरीर एव उपलभ्यमानत्वात् वणा­र्श्र­मा­दि­नि­यमाः स्थूलस्य शरीरस्य इत्युक्तम् । यद्यप्यान्तराः नियमाः सन्त्येव अन्तरङ्गस्य । अथापि प्रत्यक्षाः नियमा अस्ये­त्य­भि­प्रायः । यद्वा यैर्नियमैः अयं ब्राह्मणः अयं ब्रह्म­चा­री­त्या­दिकं ज्ञातुं परेणापि शक्यते ते नियमा इत्यर्थः । ते तावन्नियमाः शरी­र­सं­स्का­र­द्वारा चित्तं संस्कुर्वन्ति । तद्वारा ज्ञानोपयोगित्वं भजन्त इति अध्यासेनापि ते निय­त­मा­द­र्तव्याः, इतरे धर्माः बन्धकत्वात् पूजावमानादयः नादर्तव्या इति भावः ॥९३॥

एवमनात्मानं स्थूलदेहं तन्मूलकं संसारबन्धं च वर्णा­श्र­मा­दि­ध­र्मा­नु­ष्ठा­नेन तस्य मोचकत्वरीतिमपि निरूप्य इदानीं सूक्ष्मशरीरं निरूपयितुमारभते बुद्धीत्यादिना पञ्चभिः श्लोकैः −

बुद्धी­न्द्रि­याणि श्रवणं त्वगक्षि
घ्राणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादं गुदमप्युपस्थं
कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९४॥

९४

कर्ण­श­ष्कु­ल्य­व­च्छिन्नं नभः श्रवणं श्रोत्रं, त्वक् त्वचि स्थितम् इन्द्रियम् , अक्षि नेत्र­गो­ल­का­व­च्छिन्नं चक्षु­रि­न्द्रियं, घ्राणं नासावच्छिन्नं, जिह्वा रसनेन्द्रियम् , एतानि पञ्च शब्द­स्प­र्श­रू­प­ग­न्ध­र­सा­त्म­क­वि­ष­या­व­बो­ध­नात् तत्त­ज्ज्ञा­न­ज­न­नात् बुद्धी­न्द्रि­याणि ज्ञाने­न्द्रि­या­णीति कथ्यन्त इति शेषः । वाग्वा­गि­न्द्रियं वचनशीलं, पाणिः हस्तेन्द्रियम् आदानशीलं, पादः विहरणशीलं पादेन्द्रियं, गुदम् उपस्थम् अनयोः क्रमेण शारी­र­क­ठि­न­द्र­व­रू­प­हे­य­भा­गो­त्स­र्ज­न­हे­तु­त्वम् । एतानि वच­ना­दि­क­र्म­हे­तु­भू­ता­नीति कर्मे­न्द्रि­या­णी­त्यु­च्यन्ते इति शेषः । तत्र हेतुः प्रवणानि, व्यग्राणि कर्मसु वच­ना­दि­ष्वि­त्यर्थः ॥९४॥

एवं बाह्यानि दशे­न्द्रि­या­ण्युक्त्वा एतानि सर्वा­ण्य­पी­न्द्रि­याणि यत्सम्बन्धे कार्यं कर्तुं ज्ञानं जनयितुं च प्रभवन्ति नेतरथा तादृशमन्तःकरणं प्रधानं निरूपयति चातुर्विध्येन सनिमित्तं निगद्यत इत्यादिना −