विवेकचूडामणिः सव्याख्यः
१२. स्थूलशरीरम्
मज्जाऽस्थि-मेदः-पल-रक्त-चर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥७४॥
अहं ममेति प्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः ।
अशितस्य स्थूलमध्यमसूक्ष्मात्मना परिणममानस्य इति सर्वत्र ज्ञेयम् । तेजसो घृतादेः मध्यमो भागः मज्जा, तस्य स्थविष्ठो भागः अस्थि, तस्य पूर्वपरिणामः मेदः, पलं मांसम् , अशितस्य अन्नस्य मध्यमो भागः, रक्तं लोहितं, पीतानाम् अपां मध्यमो भागः चर्म स्थूलावरणं, त्वक् सूक्ष्मावरणम् , आन्तरान्धातून् नाड्यादींश्च सप्तावरणानि आवृण्वन्ति । तत्र अन्तर्बहिर्भावेन स्थूलसूक्ष्मविभागो ज्ञेयः । मज्जेत्यादिः येषाम् आह्वयः धातूनां तैः सप्तभिः धातुभिः अन्वितं युक्तम् । षडङ्गान्याह पादेत्यादिना, स्पष्टम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैः, इदं हस्तस्याप्युपलक्षणम् । उपाङ्गैः गुल्फजानुजङ्घादिभिः उपयुक्तं सहितम् , एतत् प्रत्यक्षसिद्धम् । अहं गच्छामि तिष्ठामि लङ्घयामि गृह्णामीत्यादि व्यवहारेण अहन्तास्पदं मम पादः हस्तः मस्तकं शरीरमिति प्रथितं प्रसिद्धं शरीरम् , अनेकविधदोषाश्रयत्वेऽपि अतिप्रेमास्पदत्वेन मोहास्पदम् आत्मत्वभ्रमस्याश्रयः विषयः स्थूलमिति बुधैरीर्यते । अस्य अनेकपदार्थसङ्घातरूपत्वात् संहतानां स्तम्भकुड्यादिरूपेण वर्तमानानां गृहादीनां यथा स्वाम्यर्थत्वम् , एवं परार्थत्वमिति ज्ञापयितुं मज्जास्थीत्याद्युक्तम् । एतेन आत्मभिन्नत्वम् उक्तप्रायम् । आत्मन एव स्वामित्वात् तदर्थत्वाच्छरीरस्य ॥७४-१/२॥
अनित्यत्वादपि नित्यात्मरूपत्वं तस्य नास्तीति वक्तुं तस्य कारणान्याह नभ इत्यादिना –
नभोनभस्वद्दहनाम्बुभूमयः
सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
परस्परांशैर्मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः ॥
नभश्च नभस्वांश्च दहनश्च अम्बु च भूमिश्च नभोनभस्वद्दहनाम्बुभूमयः । नभः गगनं नभस्वान् वायुः, दहनोऽग्निः, अम्बु जलं, भूमिः पृथ्वी, इदं भूतपञ्चकं जायमानं सूक्ष्मं जायते, पश्चात् स्रष्ट्र्या देवतया तासां ‘त्रिवृतं त्रिवृतमेकैकां करवाणि’(छा.उ. ६.३.२) इति सङ्कल्पवशात् एकैकं भूतं पञ्चीक्रियते । तैत्तिरीयकश्रुत्यनुसारेण आकाशवाय्वोः छान्दोग्ये तेजसः प्रथममुपसंहर्तव्यत्वात् त्रिवृत्करणस्य पञ्चीकरणोपलक्षणार्थत्वात् । तत्प्रकारस्तु – ‘पञ्चानां भूतानाम् एकैकं द्विधा विभज्य स्वार्धभागं विहाय अर्धभागं चतुर्धा विभज्य इतरेषु योजिते पञ्चीकरणं भवतीति’ भाष्यकारवाक्यनुसारेण ज्ञातव्यः । अयमर्थः श्लोकेन सङ्गृहीतः पञ्चदश्यां विद्यारण्यगुरुचरणैः –
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैः योजनात् पञ्च पञ्च ते ॥ (१.२६) इति ।
तथा च स्थूलेषु भूतेषु प्रत्येकं स्वीयोऽर्धभागः इतरस्य भूतस्य अष्टमोभागः । एवं परस्परांशैर्मिलितानि सम्बद्धानि भूत्वा स्थूलानि गगनादिशब्दव्यवहारार्हाणि, स्थूलशरीरहेतवश्च भवन्तीति योजना ॥७५ १/२॥
भूतप्रसङ्गात् तद्धर्मांश्छब्दादीन् विषयान् तत्र वैराग्योत्पत्त्यर्थं निरूपयति मात्रा इति –
मात्रास्तदीया विषया भवन्ति ।
शब्दादयः पञ्च सुखाय भोक्तुः ॥७६॥
मीयन्ते विषयीक्रियन्ते भुज्यन्त इति वा मात्राः, तदीयाः आकाशादिभूतसम्बन्धिन्यः, शब्दादयः क्रमेण शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः, विशेषेण सिन्वन्तीति विषयाः, षिञ्धातोः विपूर्वकात् बन्धनकर्मणः विषयशब्दस्य निष्पत्तेः । भोक्तुः संसारिणः जीवस्य, सुखाय सुखाभासाय भवन्ति । शब्दादयः शास्त्रे तत्र तत्र पञ्चतन्मात्रा इति व्यवह्रियन्ते इति मात्रास्तदीया इति कथितम् तत्तद्ग्रन्थसंवादाय ॥७६॥
इदानीं तेषां बन्धकत्वं विशदयति य एष्विति –
य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ॥७७॥
ये मूढा विवेकशून्याः, एषु विषयेषु शब्दादिषु पञ्चसु, सुदुर्दमेन सुष्ठु दुःखेन दमयितुं शक्येन दुर्निरसेन, रागोरुपाशेन उरुः दृढः पाशः बन्धहेतुरज्वादिः राग एव उरुपाशः तत्रासक्तिरूपेण दृढपाशेन बद्धाः, स्तम्भेषु पश्वादय इव, तत्र अत्यन्तकामविशिष्टा इति यावत् । यथा स्तम्भबद्धाः पशवः स्तम्भं विहाय गन्तुं न पारयन्ते, एवं विषयरागिणः विषयांस्त्यक्तुं न शक्नुवन्तीति तत्रैवाशया श्रेयोमार्गाद्भ्रश्यन्त इत्याह − ‘आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः’ स्वेषां कर्म धर्माधर्मरूपं तदेव ऊर्ध्वाधोगमनहेतुत्वाद् दूतवद्वर्तते । यथा न्यायस्थानादौ कश्चिद्दूतः विचार्यानूर्ध्वमधश्च नयति तद्वत् । तत्रापि शब्दादिकं सुखं जनयतीति बुध्या तत्सम्पत्तये पुण्यार्जनं करोति, तदा दिव्यशब्दादिकमनुभवितुं तदीयं पुण्यं कर्म तमुच्चै ऊर्ध्वं नयति स्वर्गादिकं प्रापयति । तत्रापि क्षीणे पुण्ये अधः आगमनमस्त्येव । अधर्मे पुनः किं वक्तव्यम् सर्वदा अधोगमनमेवेति । उच्चैरूर्ध्वम् , आयान्ति जन्मान्तरकृतसुकृतवशात् मानुष्यादिकं सम्पादयन्ति । पुनः रागे अधो निर्यान्ति । विषयेषु रागवतः कर्तव्यकार्यविस्मरणसम्भवात् निस्तारो न भवतीति भावः ॥७७॥
शब्दादीनां मध्ये एकैकं सेवमानस्यापि मृत्युः बन्धः दृष्टः । किं पुनः पञ्चापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये शब्दादिभिरिति –
शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः ।
कुरङ्ग-मातङ्ग-पतङ्ग-मीन-
भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥७८॥
कुरङ्गः हरिणः, मातङ्गः गजः, पतङ्गः शलभः, मीनः मत्स्यः, भृङ्गः भ्रमरः एते पञ्च स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धान्तानां पञ्चानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पञ्चत्वं मरणमापुः । एवम् एकैकस्यापि मरणपर्यन्तबन्धप्रयोजकत्वे एतैः पञ्चभिरपि अञ्चितः स्वकीयसक्त्याश्रयत्वेन विशिष्टः नरः किं मृत्युं प्राप्नोतीति वक्तव्यमित्यर्थः । यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दासक्तं तं चपलं शीघ्रं बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणासक्तं विस्मृतात्मानं गृह्णन्तीति शब्द एक एव हरिणस्य बन्धक इति प्रसिद्धम् । एवं वनमध्ये स्वच्छन्दं विहारि दुर्ग्रहः महानपि मातङ्गः स्पर्शसुखलोलुपः तज्जिघृक्षुभिः वशाद्वारा गृह्यते इति त्वगिन्द्रियतृप्तिहेतुः स्पर्श एक एव गजस्य बन्धको निर्वृत्तः । एवं पतङ्गः प्रकाशमाने दीपे भास्वररूपदर्शनेन भक्ष्यबुध्या तदीयं दाहात्म्यमजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् । एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चम्पकसुममाघ्राय तद्गन्धसेवनेन पञ्चत्वमाप्नोतीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं मरणान्तानर्थप्रयोजकम् । तत्रापि तिरश्चां पापाभावात् तदानीन्तनशरीरस्य परमनर्थः सम्भवति । शब्दादीनां पञ्चानामपि विषयाणां सेवनाय विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति भावः ॥७८॥
विषयानुभवः मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन् विषयः कृष्णसर्पविषादपि अतिरिच्यत इत्याह दोषेणेति –
दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥७९॥
विषयः रूपादिः कृष्णसर्पविषादपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये । तत्र हेतुमाह विषं निहन्ति भोक्तारमिति । कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा जिह्वासम्बद्धं विषं भवतीति स भोक्तेत्युच्यते । अत एव पादादौ सर्पेण दष्टा अपि तत्र बलवद्बद्धरज्ज्वादिना, न म्रियन्ते तद्विषस्य नाडीद्वारा जिह्वासम्बन्धाभावात् । एवं भोक्तारं निहन्ति विषं तस्यासत्त्वमापादयति । अयं विषयस्तु चक्षुषा द्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुन्दरं रूपादिकं दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति । यद्वा कलहाद्यभावेऽपि स्वयं तेन विषयेण दूरमाकृष्टचित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वाभानापादकव्यापारवान् नियमेन भवतीति भावः । तथा च निहन्तीत्यस्य असत्त्वापादकव्यापरः, अभानापादकव्यापारो वा अर्थः । यथायोग्यमर्थः स्वीकरणीयः । तत्र असत्त्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव । द्वितीयस्य तु असत्त्वापादकत्वं न सम्भवतीति । वस्तुतस्तु विषयाकृष्टचित्तस्य पुरुषस्य सत्त्वमपि पुरुषार्थोपयोगाभावात् असत्त्वमिव भवतीत्यपि सुवचम् ॥७९॥
एवमत्यन्तानर्थकरेऽपि विषये विचाराभावात्पुरुषः आशां बध्नाति, तत्रत्यदोषं न परिगणयति मौढ्यात् ततः पुरुषाथार्द् भ्रश्यते । अतः मुमुक्षुणा सर्वथापि तदाशा त्यक्तव्या । अन्यथा षडपि शास्त्राणि अर्थतो जानतोऽपि मोक्षो दुर्लभ इत्याह विषयाशेत्यादिना –
विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्छास्त्रवेद्यपि ॥८०॥
यः पुरुषः सुदुस्त्यजात् चिरकालादभ्यस्तत्वेन दृढविचारमन्तरा सुदुस्त्यजात् त्यक्तुमशक्यात् , विषयाशामहापाशात् विषयाशैव महापाशः अत्यन्तं बन्धकत्वात् तस्माद्विमुक्तः विशेषेण मुक्तः सुतरां तत्सम्बन्धरहित इत्यर्थः । स एव पुरुषः मुक्त्यै कल्पते समर्थो भवति । अन्यः तदाशापाशबद्धः षट्छास्त्रवेद्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥८०॥
विषयेषु तीव्रवैराग्याभावे अनर्थमाह आपातेति –
आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात् ॥८१॥
आपातवैराग्यवतः दुःखानुभवादिकालेषु धिक् संसार इति वैराग्यवतः, सार्वदिकवैराग्यशून्यानिति यावत् । भवाब्धिपारं संसारसागरान्तं ज्ञानं, प्रतियातुं प्राप्तुम् , उद्यतान् उद्युक्तान् , तत्र हेतुमाह मुमुक्षूनिति । मोक्षेच्छायाः सत्त्वात् संसाराम्बुधिं तर्तुम् उद्यता इति तादृशान् पुरुषान् आशैव ग्रहः महानक्रः, अन्तराले समुद्रमध्ये कण्ठे निगृह्य नितरां गृहीत्वा वेगाद्विनिवर्त्य भवाब्धिपारगमनाद्विनिवर्त्य मज्जयते मग्नान् करोति संसारसमुद्रमग्नान् पुनः कर्मादिकरणेषु तान् व्यापारयतीति भावः । यस्तावत् अत्यन्तं विषयेभ्यो विरक्तः शमादिगुणगणमण्डितः स सद्गुरुम् उपसद्य तन्मुखतः सम्यगात्मानं विदित्वा मुच्यते संसारात् , अयं तावत् आपातवैराग्यवान् दृढशान्त्यादिहीनः तथा प्रयतमानोऽपि मध्ये आशया पीडितः पुरुषार्थाद्भ्रश्यते । ज्ञानार्हो न भवतीति भावः ॥८१॥
पूर्वोक्तमर्थं व्यतिरेकमुखेनाह विषयाख्येति –
विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥८२॥
विषयाख्यग्रहः विषयनामकनक्रः, येन पुरुषेण, सुविरक्त्यसिना सुष्ठु विरक्तिः दृढतरतीव्रवैराग्यं सैवासिः खड्गः, तेन हतः नाशितः, सः पुमान् प्रत्यूहवर्जितः संसारसागरोत्तरणे विघ्नशून्यः, भवाम्भोधेः पारं संसारसमुद्रस्य जन्ममरणादिकल्लोलतरङ्गितस्य पारम् अन्तं ब्रह्मेति यावत् । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ. १.३.९) इति श्रुतेः । गच्छति प्राप्नोति, ब्रह्म साक्षात्कृत्य मुच्यत इत्यर्थः ॥८२॥
यस्त्वविज्ञानवान्भवति अमनस्कः सदाशुऽचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ (१.३.७-८)
इति कठोपनिषत्प्रतिपादितमर्थं पूर्वोक्तश्लोकद्वयसारं क्रोडीकृत्य उपदिशति विषमेति –
विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः
प्रतिपदमभिघातो मृत्युरप्येष सिद्धः ।
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३॥
विषमः बहुविधविक्षेपहेतुः अत्यन्तदुःखजटिलः यः विषयः शब्दादिः स एव मार्गः, ‘विषयांस्तेषु गोचरान्’ इति कठ (१.३.४) श्रुतेः, तत्र गच्छतः तत एव अनच्छबुद्धेः अशुद्धमनस्कस्य, यदि शुद्धं मनः अवश्यं विचारशीलं विषयेभ्यो निवर्तते । रजस्तमोभूयिष्ठत्वादेव विचारासमर्थम् −
यथा व्यालगलस्थोऽपि भेकः दंशानपेक्षते । तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥
इत्युक्तरीत्या विषयप्रवणता तस्य इति भावः । एतादृशाशुद्धमनस्कस्य प्रतिपदमभिघातः सर्वदापि दृढदुःखसंयोगः, एषः अनुभवसिद्धः मृत्युरपि सिद्धः मृत्युघटितः संसार इत्यर्थः ।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ (ब्र.बि. २)
इति वचनस्य पूर्वमुदाहृतत्वात् । स्मर्यते हि गीतासु –
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ (२.६२-६३) इति ।
तत्र कथितः प्रणाशः णशअदर्शने इति धातुना प्रतीयमानः, स्वस्वरूपासाक्षात्कार एव वा अत्र मृत्युपदार्थः । कामस्यैव कुतश्चित् अभिहतस्य क्रोधात्मना परिणममानत्वात् तत्र उक्तः कामाभिघात एव वा अत्रापि प्रतिपदमभिघात इत्यत्रार्थः । लोके यथा इच्छा तथा विषयानुभवस्य सुदुर्लभत्वात् , जातायामिच्छायामभिहन्यमानायामविचारयितुः पुरुषस्य क्रोधादिक्रमेण प्रणाश एवेति भावः । एवम् अविरक्तस्य जायमानं फलमुक्त्वा विरक्तस्य तदाह हितसुजनगुरूक्त्येत्यादिना । हिताः श्रेयस्कामिनः अत एव सुजनाः सत्पुरुषाः मित्रादयः तेषां गुरोश्च उक्त्या, गुरोस्तु हितत्वं सुजनत्वं च सिद्धमेव । गुरुलाभपर्यन्तं सुजनोक्तिः, ततः गुरूक्तिरिति विभागः । यद्वा हिता सर्वदा श्रेयोहेतुभूता सुजनानां गुरोश्च या उक्तिः तया, तद्दत्तया स्वस्य युक्त्या तदनुसार्यूहापोहेन च गच्छतः ‘पण्डितो मेधावी गन्धारानेवोपसम्पद्येत, एवमेवेहाचार्यवान् पुरुषो वेद’(छा.उ. ६.१४.१) इति श्रुतेरिति भावः । श्रेयोमार्ग एव गच्छतः फलसिद्धिः परमपुरुषार्थभूतमोक्षप्राप्तिः प्रभवति प्रकर्षेण निष्प्रत्यूहं भवति । सत्यमित्येव विद्धि । अत्र विषये ईषदपि शङ्कां मा कार्षीरिति भावः ॥८३॥
‘मात्रास्तदीया’(श्लो. ७६) इत्यारभ्य एतदन्तं कृतस्य विषयबन्धकत्वनिरूपणस्य फलमाह-मोक्षस्येति । यद्वा इदानीं मुमुक्षोः हेयोपादेये उपदिशति मोक्षस्येति –
मोक्षस्य काङ्क्षा यदि वै तवास्ति
त्यजातिदूराद् विषयान् विषं यथा ।
पीयूषवत्तोष-दया-क्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ ८४॥
आदौ हेयमाह – यदि तव मोक्षस्य, वै इत्यवधारणे, मोक्षस्यैवेत्यर्थः । काङ्क्षा इच्छा, अस्ति विषयान् शब्दादीन् , विषं यथा हालाहलमिव, अतिदूरात्त्यज मनसापि मा स्मार्षीरित्यर्थः ।
अकुर्वन्नपि विध्युक्तं निषिद्धं परिवर्जयेत् । निषिद्धपरिहारेण विहिते लभते मतिम् ॥ इति सूतसंहितोक्तेः । (४.१६.३४)
उपादेयमाह – तोषः सन्तोषः, दया करुणा, क्षमा तितिक्षा, आर्जवम् अकुटिलचित्तता, प्रशान्तिः प्रकर्षेण शमः, दान्तिः बहिरिन्द्रियनिग्रहः, तोषदयाक्षमार्जवानाम् अन्तःकरणधर्मत्वात् ‘अशान्तस्य कुतस्सुखम्’(२.६६) इति गीता वचनात् शमाभावे सन्तोषादेरसम्भवात् अत्र सर्वं शमाधीनमिति द्योतयितुं प्रशान्तीति प्रेत्युपसर्गसहित शान्तिपदप्रयोगः । एताः नित्यं सन्ततं, पीयूषवत् अमृतवत् , आदराद् अत्यन्तविश्वासेन भज सेवस्वेत्यर्थः ॥८४॥
एवं मोक्षसाधनत्वेन विषयवैराग्यं द्रढयित्वा तेष्वाशा यन्निबन्धना तस्मिन्स्थूलशरीरे आदौ अनात्मत्वेन दिदर्शयिषिते सक्तिः त्यक्तव्येत्याह तत्र सक्तौ त्यक्तायां विषयवैराग्यं सुलभमित्यभिप्रायेण अनुक्षणमिति –
अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबन्धमोक्षणम् ।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति ॥८५॥
यत् स्थूलशरीरं परिहृत्य तादात्म्याध्यासात् दूरीकृत्य, अनाद्यविद्याकृतबन्धमोक्षणम् अनादिः या अविद्या मूलाविद्या, तया कृतः बन्धः अहङ्कारादिदेहान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति शेषः । अत्यन्तं स्थूलतया भासमाने अस्मिञ्च्छरीरेऽहन्तायाः परित्यागे पश्चात् किल प्राणादौ सा त्यक्तुं शक्यत इति भावः । तत्रानात्मत्वं स्फुटयति अयं देहः परार्थ इति । कृतव्याख्यानोऽयमंशः मज्जास्थीत्यादिश्लोके (श्लो. ७४) । तस्मादनेकपदार्थसङ्घातरूपत्वेन अनात्मनः अमुष्य पोषणे यः सज्जते स्वात्मानं विस्मृत्य अयमेवाहमिति विशेषतोऽभिमन्यते तद्रक्षणे च विशेषतो यतते, सः स्वं स्वात्मानम् , अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातनिजस्वरूपं करोतीत्यर्थः । येन निजस्वरूपभानेन मुच्यते तत्प्रतिबन्धकस्थूलदेहाभिमानेन तदीयजन्ममरणादिधर्मवन्तं स्वात्मानं मत्वा सर्वदा दुःखमनुभवतीति भावः ॥८५॥
लोके तावत् नदीं तितीर्षवः नद्यां प्लवमानं दृढं दारु धृत्वा स्वयं नद्यां तत्साहाय्येन अमज्जन्तः नदीं तरन्तीति प्रसिद्धम् । न तु कदाचिदपि तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सति तेषां नद्यां मकरग्रस्तानां मरणं ध्रुवमिति प्रसिद्धम् । तथा शरीरपोषणासक्तस्य आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः रूढो भूत्वा संसाराम्बुधौ तं सम्मज्जयतीति भावेनाह शरीरेति –
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
शरीरस्य पोषणम् अर्थयितुं शीलम् अस्येति शरीरपोषणार्थी सर्वदा तत्पोषणव्यग्र इत्यर्थः । तादृशः सन् यो नरः आत्मानं स्वस्वरूपं दिदृक्षते साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदीतरणमिवासम्भावितमित्याह ग्राहमिति । स्पष्टम् ॥८६॥
अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह मोह इति –
मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥
वपुरादिषु शरीरकलत्रपुत्रादिषु, मोह एव अहं ममभाव एव, मुमुक्षोः महामृत्युः यथा मृतः किञ्चित्कार्यं न कर्तुं शक्नोति एवं शरीरादिषु अहं ममाभिमानवान् मुमुक्षुः मोक्षं सम्पादयितुं न शक्नोतीत्यर्थः । येन मोहो विनिर्जितः पूर्वोक्ताहन्तादिः शरीरादौ परित्यक्तः स मुक्तिपदं मुक्तिमार्गमर्हति स एव मुच्यत इत्यर्थः ॥८७॥
तस्मान्मोहं जहीति उपदिशति मोहमिति –
मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥८८॥
मुनयः मननशीलाः, यं देहादौ मोहं तादात्म्याभिमानं जित्वा, बहुकालाद्रूढमूलमपि देशिकदत्तयुक्त्या श्रुत्यवष्टम्भेन च सुतरां परित्यज्य, तत् श्रुतिप्रसिद्धं विष्णोः परमं पदं, राहोः शिर इतिवत् अभेदे षष्ठी, व्यापकं (परिच्छेदत्रयशून्यं) सर्वोत्कृष्टं ब्रह्मरूपं स्थानं यान्ति अभेदेन भजन्ते, ब्रह्मैव भवन्ति मुच्यन्त इत्यर्थः । तं देहदारसुतादिषु आदिपदेन मित्रधनादिग्रहः । तत्र मोहं भ्रान्तिं तव महामृत्युम् अत्यन्तं स्वस्वरूपप्रच्यावनेन स्वादर्शनहेतुं जहि नाशय वेदान्तार्थविचारणेनेत्यर्थः ॥८८॥
अत्यन्ताशुचिपदार्थभूयिष्ठत्वात् दूरतः परित्याज्ये सुतरामभिमानानर्हे स्थूले देहे तत्र जुगुप्सया हेयताबुद्धिं द्रढयति त्वगित्यादिना –
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥८९॥
स्नायवः सिराः नाड्यः । तत्र अत्यन्तं जुगुप्सां जनयति मूत्रपुरीषाभ्यां पूर्णमिति । न कश्चित् मलमूत्रभाण्डं स्प्रष्टुमिच्छति, कुतस्तत्राहन्तेति भावः । अत एव निन्द्यं कुत्सार्हम् । शिष्टं स्पष्टम् ॥८९॥
एवं तत्र वैराग्योत्पत्तये तं निन्दित्वा पूर्वारब्धमात्मानात्मविवेचनमनुवर्तयति पञ्चीकृतेभ्य इति –
पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥९०॥
पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्परांशैः मिलितानि स्थूलानि सन्ति स्थूलशरीरहेतव इत्युक्तम् । तत्र पञ्चीकरणं न शब्दतः स्पष्टं कथितम् । तदिदमुक्तं पञ्चीकृतेभ्य इति । अत एव स्थूलेभ्यः पृथिवीत्यादिव्यवहारयोग्येभ्यः भूतेभ्यः, तत्रापि देवतिर्यङ्मनुष्यादिशरीरप्रभेदे बीजमाह पूर्वकर्मणा इति । पुण्यपापमिश्रानुसारेण देवादिशरीरोत्पत्तिरिति भावः । इदं प्रत्यक्षसिद्धम् , आत्मनो जीवस्य, भोगायतनं यदवच्छेदेन भोगो जायते तद्भोगायतनं सुखदुःखसाक्षात्कारावच्छेदकमित्यर्थः । समुत्पन्नम् असङ्करेण जातमित्यर्थः । तत्तत्कर्मानुसारेण कर्मफलदाता सर्वज्ञः ईश्वरः तत्तच्छरीरं तस्मै तस्मै ददातीति सङ्करशङ्काया नावसरः इति समुपसर्गेण पूर्वकर्मणेति पदसहितेन द्योतितम् । इदानीं स्थूलदेहः यदात्मत्वेनाभिमन्यते तामवस्थामाह तस्य व्यावृत्तत्वमात्मनः अनुवृत्तत्वञ्च सम्यग्बोधयित्वा तत्रानात्मत्वं स्पष्टयितुम् । तस्य स्थूलदेहस्य अवस्था असाधारणी भोगहेतुत्वप्रयोजकः कालः जागरः, ‘इन्द्रियैरर्थोपलब्धिर्जागरितम्’(उ.गी.भा. १.७) इति लक्षणलक्षिता जाग्रदवस्थेत्यर्थः । तदेव विशदयति स्थूलार्थानुभवो यतः, अर्थेषु स्थूलत्वञ्च दिगाद्यभिमानिदेवतानुगृहीतश्रोत्रादीन्द्रियगृह्यमाणत्वं शब्दादिषु । स्वप्ने इन्द्रियाणामुपरतव्यापारत्वात् वासनामयानां शब्दादीनां देवतानुगृहीतेन्द्रियगृह्यमाणत्वं नास्ति । मनसः इन्द्रियत्वपक्षे इन्द्रियगृह्यमाणत्वेपि तत्र तद्ग्राहकत्वेन प्रसिद्धेन्द्रियगृह्यमाणत्वं नास्तीति भावः । यतः यस्मात् स्थूलशरीरात् तत्राभिमानात् स्थूलार्थानुभवः, ततः तत्कारणात् तस्य स्थूलदेहस्य जागरः अवस्थेत्यर्थः ॥९०॥
उक्तमर्थं विशदयति बाह्येन्द्रियैरिति −
बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् ।
करोति जीवः स्वयमेतदात्मना
तस्मात् प्रशस्तिर्वपुषोऽस्य जागरे ॥९१॥
बाह्येन्द्रियैः त्वग्घ्राणचक्षुरादिभिः, स्रक्चन्दनस्त्र्यादिविचित्ररूपां रूप्यन्ते विषयीक्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्च चन्दनं च स्त्री च आदिः येषां तानि स्रक्चन्दनस्त्र्यादीनि तानि विचित्ररूपाणि यस्यां सा स्रक्चन्दनस्त्र्यादिविचित्ररूपा तां स्रक्चन्दनस्त्र्यादिविचित्ररूपां, स्थूलपदार्थसेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम् , अभिमानिदेवतानुग्रहप्रयोज्यसुखदुःखानुभवं, जीवः प्रत्यगात्मा, एतदात्मना स्थूलदेहात्मना मनोद्वारा स्थूलशरीरप्रतिफलितस्वरूपेण स्थूलशरीराध्यस्तात्मभावेनेति यावत् , स्वयं करोति । स्वप्ने तावत् स्थूलदेहे मनस्संयोगाभावात् तत्र स्वरूपप्रतिफलनमपि नास्तीति तस्य तदा भोगहेतुत्वं नास्ति, अपितु तदा कल्पितस्य अन्यस्य स्थूलदेहस्यैव वासनामयस्य । प्रसिद्धं किल स्वप्ने प्रसिद्धस्थूलदेहव्यतिरिक्ततिर्यग्देवादि देहरूपेण भोगान्भुञ्जत इति । तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां प्रशस्तिः प्रामुख्यमित्यर्थः । स्वप्नसुषुप्त्योरत्र अभिमानस्यैवाभावादिति भावः । इत्थञ्च तयोरवस्थयोरभासमानस्य जाग्रति परं प्रतीयमानस्यानात्मत्वं व्यावृत्तत्वात् सिद्धमिति भावः । सर्वावस्थासाक्षिणस्त्वात्मनः अनुवृत्तत्वादेतद्भिन्नत्वं सुज्ञानम् ॥९१॥
यथा कश्चिदपि लोके स्वीयं गृहं स्वात्मत्वेन न मनुते तथा मन्तव्ये स्थूलदेहे अहन्ता सुतरां न कार्येत्यभिप्रायेणाह सर्व इति −
सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥९२॥
संसारो द्विविधः बाह्य आन्तरश्चेति । तत्र आन्तरः सुखदुःखकर्तृत्वभोक्तृत्वादिः । बाह्यः जन्मजरामरणस्थौल्यबाल्यादिः । उत्तरश्लोके निरूपयिष्यते बाह्यसर्वोऽपि संसारः । असंसारिणः पुरुषस्य यदाश्रयः यत्र तादात्म्याध्यासनिबन्धनः तत् इदं स्थूलं देहं गृहमेधिनः गृहस्थाश्रमिणः कुटुम्बिन इति यावत् । गृहवत् सदनवत् विद्धि जानीहि । प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कलत्रादिकमर्जयति । नहि गृहस्याप्यभावे विवाहादौ प्रयतते कश्चित् । तथा स्थूलदेहम् आत्मत्वेन मन्वान एव तदीयधर्मान् जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा । न हि सुषुप्तौ स्थूलदेहाभिमानशून्यस्य जरारोगादिपीडेति भावः । अतः गृहवदत्यन्तभिन्नत्वेन ज्ञेये अहन्ता न युक्तेति भावः ॥९२॥
तमेव बाह्यं संसारं विशदयति स्थूलस्येति −
स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।
वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः
पूजावमानबहुमानमुखा विशेषाः ॥९३॥
सम्भवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः, स्थौल्यम् अवयवोपचयः, आदिपदेन तदपचयरूपकार्श्यं शौक्ल्यकार्ष्ण्यादिवर्णाः बहुविधाः, बह्व्यः विधाः येषां ते धर्माः बहुविधाः । शिशुता आदिः यासां कुमारतायुवतावृद्धतानां ताः अवस्थाः, यद्यपि जराश्ब्देन पूर्वं वृद्धता अग्राहि, अथाप्यत्र शिशुताद्यवस्थामध्ये पुनर्ग्रहणे न दोषः । वर्णाश्रमादिनियमाः वर्णाः ब्राह्मणत्वक्षत्रियत्वविट्त्वशूद्रत्वानि आश्रमाः ब्रह्मचर्यगार्हस्थ्यवानप्रस्थत्वसंन्यासाः आदिपदेन गोत्रसूत्रादयः तेषां नियमाः, ब्राह्मणत्वब्रह्मचर्याद्युचितधर्माः कुलाद्याचाराश्च । बहुधा आमयाः ज्वरशिरोवेदनाप्रभृतयः । पूजावमानबहुमानमुखाः विशेषाश्च स्युः । पूजा गन्धपुष्पादिकृता, अवमानः वाचाप्यनादरणादिरूपतिरस्कारः अक्ष्णाप्यनीक्षणादिश्च । बहुमानः उच्चासनोपवेशनादिः एतन्मुखा विशेषाश्च स्युः । जातकर्मादिसंस्काराणां शरीरस्यैव क्रियमाणत्वात् तत्तदाश्रमचिन्हानां च शरीर एव उपलभ्यमानत्वात् वणार्श्रमादिनियमाः स्थूलस्य शरीरस्य इत्युक्तम् । यद्यप्यान्तराः नियमाः सन्त्येव अन्तरङ्गस्य । अथापि प्रत्यक्षाः नियमा अस्येत्यभिप्रायः । यद्वा यैर्नियमैः अयं ब्राह्मणः अयं ब्रह्मचारीत्यादिकं ज्ञातुं परेणापि शक्यते ते नियमा इत्यर्थः । ते तावन्नियमाः शरीरसंस्कारद्वारा चित्तं संस्कुर्वन्ति । तद्वारा ज्ञानोपयोगित्वं भजन्त इति अध्यासेनापि ते नियतमादर्तव्याः, इतरे धर्माः बन्धकत्वात् पूजावमानादयः नादर्तव्या इति भावः ॥९३॥
एवमनात्मानं स्थूलदेहं तन्मूलकं संसारबन्धं च वर्णाश्रमादिधर्मानुष्ठानेन तस्य मोचकत्वरीतिमपि निरूप्य इदानीं सूक्ष्मशरीरं निरूपयितुमारभते बुद्धीत्यादिना पञ्चभिः श्लोकैः −
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादं गुदमप्युपस्थं
कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९४॥
कर्णशष्कुल्यवच्छिन्नं नभः श्रवणं श्रोत्रं, त्वक् त्वचि स्थितम् इन्द्रियम् , अक्षि नेत्रगोलकावच्छिन्नं चक्षुरिन्द्रियं, घ्राणं नासावच्छिन्नं, जिह्वा रसनेन्द्रियम् , एतानि पञ्च शब्दस्पर्शरूपगन्धरसात्मकविषयावबोधनात् तत्तज्ज्ञानजननात् बुद्धीन्द्रियाणि ज्ञानेन्द्रियाणीति कथ्यन्त इति शेषः । वाग्वागिन्द्रियं वचनशीलं, पाणिः हस्तेन्द्रियम् आदानशीलं, पादः विहरणशीलं पादेन्द्रियं, गुदम् उपस्थम् अनयोः क्रमेण शारीरकठिनद्रवरूपहेयभागोत्सर्जनहेतुत्वम् । एतानि वचनादिकर्महेतुभूतानीति कर्मेन्द्रियाणीत्युच्यन्ते इति शेषः । तत्र हेतुः प्रवणानि, व्यग्राणि कर्मसु वचनादिष्वित्यर्थः ॥९४॥
एवं बाह्यानि दशेन्द्रियाण्युक्त्वा एतानि सर्वाण्यपीन्द्रियाणि यत्सम्बन्धे कार्यं कर्तुं ज्ञानं जनयितुं च प्रभवन्ति नेतरथा तादृशमन्तःकरणं प्रधानं निरूपयति चातुर्विध्येन सनिमित्तं निगद्यत इत्यादिना −