विवेकचूडामणिः सव्याख्यः
१३. सूक्ष्मशरीरम्
निगद्यतेऽन्तःकरणं मनो धीः
अहङ्कृतिश्चित्तमिति स्ववृत्तिभिः ।
मनस्तु सङ्कल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः ॥९५॥
अत्राभिमानादहमित्यहङ्कृतिः
स्वार्थानुसन्धानगुणेन चित्तम् ॥९६॥
अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धीः बुद्धिः, अहङ्कृतिः अहङ्कारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः । नामचतुष्टयनिमित्तवृत्तीराह सङ्कल्पविकल्पनादिभिः मन इति, सङ्कल्पः सम्यक्त्वबुद्धिः विकल्पना विविधं कल्पना संशय इति यावत् । पदार्थाध्यवसायः पदार्थनिर्णयः तद्रूपधर्मतः वृत्तितः बुद्धिरुच्यते । अत्र शरीरादौ अभिमानात् अहमित्यध्यासात् अहङ्कृतिः अहङ्कार इति च उच्यते । स्वार्थानुसन्धानगुणेन स्मरणवृत्त्येत्यर्थः चित्तमिति कथ्यते ॥९६॥
एवं सत्त्वांशोपेतैः प्रत्येकं पञ्चभिः भूतैः क्रमेण जायमानानि ज्ञानेन्द्रियाणि प्रत्येकं तैरेव रजोगुणोपेतैः उत्पद्यमानानि कर्मेन्द्रियाणि, सत्वप्रधानानां तेषां समष्टिकार्यमन्तःकरणं च निरूप्य इदानीं रजोंशोपेतभूतपञ्चकसमष्टिकार्यं सूक्ष्मशरीरघटकं प्राणमाह प्राणापानेति −
प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।
स्वयमेव वृत्तिभेदाद्विकृतेर्भेदात्सुवर्णसलिलमिव ॥९७॥
यथा एकमेव सुवर्णं कटकं केयूरं कुण्डलमित्यादिविकृतिभेदेन भवति, यथा च विकृतेर्भेदेन एकमेव जलं नदी कुल्या तटाकमित्यादिरीत्या भेदेन भवति तथा असौ शरीरान्तस्सञ्चारी प्राणः स्वयमेव वृत्तिभेदात् प्राणनापाननव्याननसमाननोदाननरूपवृत्तिभेदात् प्राणापानव्यानोदानसमाना इति भेदेन भवति । सुवर्णसहितं सलिलं सुवर्णसलिलमिति विग्रहः । प्रत्येकमर्थो बोद्धव्यः । यथा विकृतेर्भेदात् एकमेव सुवर्णं भिन्नत्वेन व्यवह्रियते, यथा च विकृतेर्भेदादेव एकमेव जलं तरङ्गफेनबुद्बुदादिभेदेन व्यवह्रियते तद्वदित्यर्थः । तत्र प्राणनं मुखनासिकाभ्यां निष्क्रमणप्रवेशनम् , अपाननं मलादीनाम् अधोनयनं, व्याननम् अशितपीतान्नरसादेः नाडीमुखेषु वितननं, ऊर्ध्वं नयनम् उदाननं वमनकाले, भुक्तस्यान्नरसादेः पाकार्थं जाठराग्नेः समुन्नयनं समाननम् इति वृत्तयः पञ्च प्राणस्य ॥९७॥
इदानीं ज्ञानेन्द्रियादीनि यत्कथनार्थमभिहितानि तत्सूक्ष्मशरीरं विशिष्टमाह वागादीति −
वागादिपञ्च श्रवणादिपञ्च
प्राणादिपञ्चाभ्रमुखानि पञ्च ।
बुद्ध्याद्यविद्याऽपि च कामकर्मणी
पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥९८॥
वागादिपञ्च कर्मेन्द्रियाणि, श्रवणादिपञ्च ज्ञानेन्द्रियाणि, प्राणादिपञ्च प्राणपञ्चकम् , अभ्रमुखाणि पञ्च आकाशादिसूक्ष्मभूतपञ्चकम् । बुद्ध्यादि अन्तःकरणचतुष्टयम् , अविद्या अध्यासः, कामकर्मणी, कामः इच्छा, कर्म धर्माधर्माख्यम् । एतत्सर्वं मिलितं पदार्थाष्टकसमुदायोपेतं पुर्यष्टकं सूक्ष्मशरीरमाहुः वेदान्तिन इति शेषः । १. वागादिपञ्चकम् , २. श्रवणादिपञ्चकम् , ३. प्राणपञ्चकम् , ४. भूतपञ्चकम् , ५. बुद्ध्यादिचतुष्टयम् , ६. अविद्या, ७. कामः, ८. कर्म ॥९८॥
अस्याप्यनेक-पदार्थसङ्घातरूपत्वात् संहतानां गृहवत् परार्थत्वात् अनात्मत्वं स्पष्टं कथयति इदमिति −
इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वपञ्चीकृतभूतसम्भवम् ।
सवासनं कर्मफलानुभावकं
स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥९९॥
सूक्ष्मसंज्ञितं सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य सञ्जातेति सूक्ष्मसंज्ञितम् , इदं शरीरम् । तस्य जन्यत्वादपि नित्यात्मरूपत्वं नेत्याह अपञ्चीकृतभूतसम्भवम् । अपञ्चीकृतानि यानि भूतानि गगनादीनि पृथ्व्यन्तानि तेभ्यः सम्भवः उत्पत्तिः यस्य तत् , इदं सूक्ष्मसंज्ञितत्वे हेतुः । लिङ्गं लिगि इत्यस्माद्धातोः ज्ञापकमात्मन इत्यर्थः । वागादीनां करणानां जडानाम् अधिष्ठातारमन्तरा तत्तत्कार्ये प्रवृत्त्यनुपपत्तेः, अचेतनं चेतनाधिष्ठितं कार्यं करोतीति व्याप्तेः रथादौ दृष्टत्वात् । बहिरन्तःकरणघटितम् इदं शरीरमेव लिङ्गमित्युच्यते इत्यर्थः ।
तुरवधारणे, सुषुप्तौ ज्ञानस्य सर्वमतसिद्धत्वाभावात् जागरे स्वप्ने च मनोमूलकतयैव ज्ञानस्य जायमानत्वात् मनसोऽपि जडस्य आत्मप्रतिफलनमन्तरा इतरप्रकाशकत्वासम्भवादात्मप्रतिबिम्बग्राहित्वेन आत्मज्ञापकमनोघटितत्वाच्च अस्य शरीरस्य लिङ्गत्वमित्यपि बोध्यम् । नेदं स्थूलकारणयोः सम्भवतीति च । आत्मनः निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशित्वेन बहुत्वादामोक्षं स्थायित्वासम्भवात् पूर्वपूर्वसंस्काराणां जनिष्यमाणानुभवजन्यसंस्काराणां च आमोक्षं स्थायिलिङ्गशरीरमेवाश्रय इत्याह सवासनमिति । वासनाभिः अनुभवजन्यसंस्कारैः सह वर्तत इति सवासनम् । भोगहेतुत्वमप्यस्यैवेत्याह, कर्मफलानुभावकं कर्मणः पुण्यस्य पापस्य च क्रमेण फले ये सुखदुःखे तदनुभवः भोगः तज्जनकम् । सुषुप्तौ सवासनस्य लिङ्गशरीरस्य विलीनत्वादेव कर्मजसुखदुःखानुभवाभावः । जाग्रत्स्वप्नयोस्तु तथाविधस्य लिङ्गशरीरस्य सत्वात्तदनुभवः इत्यन्वयव्यतिरेकाभ्यां भोगहेतुत्वं तस्य ज्ञेयम् । आत्मनः अनादिरुपाधिः इदं लिङ्गशरीरं, सूक्ष्मभूतजन्यमपि महाप्रलयादावपि अभिव्यक्त्यनभिव्यक्तिभ्यामेकमेवाऽऽविदेहकैवल्यमवतिष्ठत इति स्थूलशरीरवत्सादित्वं नास्ति । ननु अविद्याशब्दिताध्यासकामकर्मणां भिन्नभिन्नानामेव तदा तदा जायमानत्वात् तद्घटितलिङ्गशरीरस्य कथमेकस्यैव स्थिरत्वं सम्भवतीति चेत् । तेषां तथात्वेऽपि वागादीन्द्रियाणां बाह्यानाम् अन्तःकरणस्य च बुद्ध्यादेरभिन्नानामेव आमोक्षं स्थितेरेकत्वं मन्तव्यम् । न च वागादावपि भेदो वक्तव्यः, गौरवात् । कर्मप्रतिबन्धान्मूकत्वाद्युपपादनसम्भवात् । सर्वकर्मसंस्कारास्पदस्य अन्तःकरणस्य भेदस्य सुतरां वक्तुमशक्यत्वात् । तत्रापि भेदे कृतहानाकृताभ्यागमापत्तेः । पूर्वकृतकर्माद्याश्रयस्य अन्तःकरणस्य नष्टत्वात् , नूतनान्तःकरणे कर्मवासनाद्यभावात् संसारानुपपत्तिश्च । बालकस्य स्तन्यपाने प्रवृत्तिर्नस्यात् । आत्मनः निर्धर्मकत्वात् अविद्याया एकत्वात् सुखदुःखादिसङ्करप्रसङ्गात् । सुषुप्तौ भोगस्मृत्याद्युत्पत्तिप्रसङ्गात् , अतो गौरवादुक्तदोषाच्च वागादीनां बुद्धेश्च आविदेहकैवल्यमभिन्नानामेव स्थितिरिति मन्तव्यम् । यद्यपि तेषां प्रागभावाप्रतियोगित्वरूपानादित्वम् अविद्याया इव न सम्भवति, तथापि सकृदुत्पन्नानाम् अभिन्नानामेव स्थितिरिति तात्पर्येण अनादित्वमुक्तम् । वस्तुतः आत्मनः एकत्वेऽपि ज्ञानिष्वपि वर्तमानस्य ब्रह्मवित् ब्रह्मविद्वरः ब्रह्मविद्वरीयान् ब्रह्मविद्वरिष्ठः इति भूमिकाभेदव्यवहारस्य अन्तःकरणभेदेनैव उपपादनीयत्वात् यावत्कार्यमवस्थायिभेदहेतोरुपाधिता इति लक्षणं लिङ्गशरीरस्य निष्प्रत्यूहमिति उपाधित्वं तस्य । ननु असङ्गत्वेन केनाप्यनुपधीयमानस्य आत्मनः कथं लिङ्गेन सोपाधिकत्वमित्यत आह स्वाज्ञानतः, स्वस्वरूपस्य इदानीमज्ञातत्वात् तन्मूलकः कल्पितः उपाधिरित्यर्थः ॥९९॥
अस्य सूक्ष्मशरीरस्य असाधारणीमवस्थामाह स्वप्न इति −
स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्कालीननानाविधवासनाभिः ।
कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयञ्ज्योतिरयं परात्मा ॥१००॥
अस्य सूक्ष्मशरीरस्य, विभक्त्यवस्था भेदकावस्था स्वप्नो भवति । जागरस्य स्थूलसाधारणत्वात् सुषुप्तावस्यैव लीनत्वात् स्वप्न एव सूक्ष्मस्य प्राधान्यमिति भावः । तत्र हेतुं सङ्गृह्णाति स्वमात्रेत्यादिना । स्वमेव स्वमात्रं तस्य शेषः अवशिष्टत्वम् अभिमन्यमानेन स्वेनैव केवलमित्यर्थः । तदा स्थूलदेहे अभिमानाभावात् सूक्ष्मदेहस्यैकस्यैव विशेषतोऽभिमन्यमानत्वमिति । यत्र स्वप्ने स्वमात्रपरिशेषेण स्थूलाभिमानं परित्यज्य सूक्ष्मशरीरमात्रविषयकेण अभिमानेन विभाति प्रकाशते, आत्मा इति शेषः । सङ्गृहीतमर्थं स्वमात्रशेषत्वं विवृणोति स्वप्नेत्वित्यादिना । स्वप्ने तु स्वप्नावस्थायां बुद्धिः अन्तःकरणं, स्वयमेव कारकान्तरनिरपेक्षं, जाग्रत्कालीननानाविधवासनाभिः जाग्रदवस्थायां जातैः बहुविधैः संस्कारैः, कर्त्रादिभावं कर्तृत्वं कर्मत्वं क्रियात्वं करणत्वम् अधिकरणत्वं सकलक्रियाकारकभावमिति यावत् । प्रतिपद्य प्राप्य, राजते प्रकाशते । ननु जडस्य अन्तःकरणस्य कथमीदृशी शक्तिः ? शरीरान्तर्गतनाडीषु हिताभिधानासु यदा मनः सञ्चरति तदा स्वप्न इति श्रुत्या प्रतीतेः तत्र प्रकाशस्य दूरापास्तत्वात् इति चेत्तत्राह यत्र स्वयं ज्योतिरयं परात्मा इति ।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ (क.उ. ५.१५)
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (भ.गी. १५.१२)
इति श्रुतिस्मृतिभ्यां जेगीयमानमहिम्नः पराप्रकाश्यस्य ज्योतीरूपस्य चैतन्यज्योतिषः परमात्मनः सम्बन्धात् अन्तःकरणस्य इयं शक्तिः जाग्रत्कालिकवासनासहकृतस्य । ननु ‘सत्यं ज्ञानं’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘प्रज्ञानं ब्रह्म’(ऐ.उ. ३.३) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इत्यादिश्रुतिभ्यः आत्मनः सार्वदिकचैतन्यज्योतीरूपत्वेन स्वयं ज्योतिष्ट्वस्य सर्वदा सत्त्वेन किं विशेषतः यत्र स्वयञ्ज्योतिरयं परात्मा इति स्वप्न एव तदुच्यते इति चेच्छृणु तत्र कारणम् । बृहदारण्यकगतज्योतिर्ब्राह्मणस्य आमूलचूडं परिशीलनेन इदं स्पष्टं सुज्ञानम् । तत्र हि ‘किं ज्योतिरयं पुरुषः’(बृ.उ. ४.३.२) इति जनकेन पृष्टो भगवान् याज्ञवल्क्यः आदौ सर्वलोकप्रसिद्धं सूर्यं, तस्मिन्नस्तमिते चन्द्रमसं तस्मिन्नस्तं याते अग्निं, तस्मिन् शान्ते वाचं, शान्तायां च तस्यामात्मानं ज्योतिरुवाच, ‘शान्तायां वाचि किं ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीति आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति’(बृ.उ ४.३.६) इत्यन्तेन । यद्यपीदं ज्योतिष्ट्वं सदातनं, तथापि जाग्रति करणाद्यनुग्राहकाणामितरेषामादित्यादीनां बाह्यानां ज्योतिषां सत्त्वदशायामान्तरबाह्यकार्यकरणसङ्घातव्यवहारस्य सङ्कुलतायां च न विविक्तं दर्शयितुं शक्यते । सुषुप्तौ विविक्तत्वेऽपि प्रकाश्यवस्तुनोऽभावात् तदा सर्वस्य दृश्यस्य लीनत्वात् । यद्यप्यस्ति अज्ञानं तथापि तद् अभावरूपत्वेन चर्चास्पदम्, अतः जाग्रत्काल इव यत्र व्यवहारः सर्वो वर्तते अपि तु बाह्यज्योतींषि न सन्ति स्थूलशरीरं नास्ति बाह्यकरणानां चोपरतव्यापारत्वं तदा मनः एकमेव आत्मज्योतिःप्रतिफलनमहिम्ना जाग्रद्वासनाविशिष्टं सर्वाकारतां भजते इति विविक्ते तस्मिन्काले स्वयञ्ज्योतिष्ट्वमुपदिश्यमानं सुग्रहं भवतीत्यभिप्रायेण ‘अत्रायं पुरुषः स्वयं ज्योतिः (बृ.उ. ४.३.९.१४) इत्युक्तिः । यथा सर्वदापि सजातीयविजातीयस्वगतभेदरहिताबाधितब्रह्मरूपेण जगतः सत्त्वेपि सृष्टेः प्राक् ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’(छा.उ. ६.२.१) इति श्रोतृबुध्यारोहाय छान्दोग्ये उपदिष्टं तद्वत् स्वप्ने मनसः जाग्रत्संस्कारयुक्तस्यापि जडस्य परप्रकाश्यत्वनियमात् चैतन्यज्योतिस्स्वरूपपरमात्मप्रतिफलनवशादेव सूर्यचन्द्रादिप्रकाशकरूपेण घटपटादिप्रकाश्यरूपेण परिणममानत्वयोग्यता । अत एव अन्धादयोऽपि स्वप्ने पदार्थान् पश्यन्ति । तेषां जागरे चक्षुरभावात् कथं दर्शनम् ? मन एव चक्ष्रूरूपेण आत्मशक्त्या परिणमत इत्येव वक्तव्यम् । एवं चक्षुरादित्यादिज्योतिरभावदशायां प्रतिभासमानसकलपदार्थभासकत्वम् आत्मन एवेति श्रोतृबुद्धौ स्फुटमारोहयितुं शक्यत्वात् यत्र स्वयं ज्योतिरयं परात्मा इति श्रुत्यनुसारेणोक्तं मूले ॥१००॥
आलोकदानेन सकलप्राणिप्रेरकोऽपि सूर्यः यथा तत्कर्मभिः न सज्यते एवमात्मापि बुद्धिकृतकर्मणेत्यसङ्गत्वमपि प्रसङ्गादाह ज्योतिष्ट्वस्वाभाव्यात् धीमात्रकोपाधिरिति −
धीमात्रकोपाधिरशेषसाक्षी
न लिप्यते तत्कृतकर्मलेपैः ।
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किञ्चिदुपाधिना कृतैः ॥१०१॥
धीरेव धीमात्रं स्वार्थे कप्रत्ययः, धीमात्रकम् उपाधिर्यस्य स्वप्ने धीमात्रकोपाधिः तत्कृतकर्मलेपैः तया धिया कृतानि यानि कर्माणि तेषां लेपैः सम्बन्धैः न लिप्यते विशिष्टो न भवति । तत्र हेतुः अशेषसाक्षीति, अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् , कर्तुरेव कर्मलेपात् , न हि लोकेऽपि वादिप्रतिवादिकर्मभिः सम्बध्यते साक्षी, तद्वदित्यर्थः । ‘असङ्गोह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो न हि सज्जते’(बृ.उ. ३.९.२६) इत्यादिश्रुत्यनुसारेणासङ्गत्वाच्च । बुद्ध्या वागादिना वा केनाप्युपाधिना क्रियमाणकर्मलेपोऽप्यस्य नास्तीत्याह यस्मादसङ्ग इति । तत एव असङ्गत्वरूपकारणादेव उपाधिना कृतैः शरीरेण वा वाचा वा मनसा वा केनाप्युपाधिना कृतैः कर्मभिः समीचीनासमीचीनकर्मभिः किञ्चिदपि न लिप्यते न सम्बद्धो भवति ॥१०१॥
सङ्गस्तूपाधिकल्पितः, वास्तविकमसङ्गत्वमित्युपपादयति −
सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥१०२॥
चिदात्मनः ज्ञानस्वरूपस्य, पुंसः पुरुषस्यात्मनः, इदं लिङ्गं बुध्यादिघटितं लिङ्गशरीरं, तक्ष्णः त्वष्टुः वास्यादिकमिव तक्षणकरणद्रव्यविशेषादिकमिव सर्वव्यापृतिकरणं सकलव्यापारासाधारणकारणं तक्ष्णोऽपि तक्षणकरणसत्व एव दार्वादितक्षणसामर्थ्यं न स्वाभाविकं, तथात्मनोऽपि आज्ञानिकलिङ्गशरीरसम्बन्ध एव सकलोव्यवहारः । अत एव सुषुप्तौ न व्यवहारः लिङ्गशरीरसम्बन्धस्य तदा अभावात् तेनैव लिङ्गशरीरसत्त्वे व्यापृतिः तदभावे तदभाव इति लोकसिद्धहेतुनैव । अयम् आत्मा, असङ्गः वास्तविकसकलव्यवहारसङ्गहीनः भवतीत्यर्थः ॥१०२॥
ननु अहंप्रतीतिविषयस्यैवात्मत्वात् अहमन्धः अहं बधिरः अहं मूकः अहमुच्छ्वसिमि क्षुत्पिपासापीडितोऽस्मि अहं करोमि सुखी दुःखीत्यादि बहुतरधर्मसम्बन्धात् असङ्गत्वमनुपपन्नमात्मन इति चेत् , तेषां सर्वेषां धर्माणां तत्तदुपाधिगतत्वादात्मनः कोऽपि धर्मः सांसारिकः नास्तीति वक्तुमुपाधिधर्मान् विभजते अन्धत्वेत्यादिना −
अन्धत्वमन्दत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।
बाधिर्यमूकत्वमुखास्तथैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥१०३॥
आदौ बहिरिन्द्रियधर्मानाह । चक्षुषः सौगुण्यवशात् पटुत्वं, वैगुण्यवशादन्धत्वं मन्दत्वम् । एवं श्रोत्रवैगुण्यात् बाधिर्यं मन्दत्वम् । तत्सौगुण्यात् पटुत्वम् । वागिन्द्रियवैगुण्ये मूकत्वं, तत्सौगुण्ये पटुत्वम् । एवं त्वग्घ्राणरसनरूपेषु ज्ञानेन्द्रियेषु पाणिपादादिषु कर्मेन्द्रियेषु च वेदितव्यम् । एतत्सर्वं नात्मनः । तत्र हेतुमाह वेत्तुरिति । चक्षुरादौ मन्दत्वपटुत्वादिकं वर्तमानं साक्षिणाऽऽत्मना वेद्यत इति न वेद्यस्य वेत्तृधर्मत्वं सम्भवतीति भावः । तुरवधारणे नैवेत्यर्थः ॥१०३॥
उच्छ्वासक्षुत्पिपासादेः प्राणधर्मत्वमाह उच्छ्वासेति −
उच्छ्वासनिश्वासविजृम्भणक्षुत्
प्रस्पन्दनाद्युत्क्रमणादिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे ॥१०४॥
प्राणादीत्यादिपदेन अपानादीनां नागादीनां च परिग्रहः । उच्छ्वासः प्राणस्य, निश्वासः अपानस्य, विजृम्भणं देवदत्तस्य, क्षुतं कृकरस्य, प्रस्पन्दनं प्रकर्षेण चलनं व्यानस्य धनञ्जयस्य वा । आदिपदेन उन्मीलनपरिग्रहः । तत्तु कूर्मस्य, उत्क्रमणमुदानस्य, आदिपदेन वमनं तदपि तस्यैव । एतानि कर्माणि प्राणादीनां तज्ज्ञाः वदन्ति । इदमिदं कर्म अस्येति विशेषज्ञाः इत्यर्थः । एवमशनापिपासे क्षुत् पिपासा च प्राणस्य धर्मौ । अत एव निद्रायां क्षुत्पिपासाद्यभावः तदा प्राणे अभिमानाभावात् ॥१०४॥
यद्येवमन्धत्वादीनामानात्मचक्षुरादिधर्मत्वं, कुतो वा अयमात्मा स्वात्मानं तद्धर्मवन्तं जानातीति शङ्कायामाह अन्तःकरणमिति −
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥१०५॥
अन्तःकरणं मनः, एतेषु चक्षुरादिषु ज्ञानेन्द्रियेषु वागादिकर्मेन्द्रियेषु प्राणादिषु, वर्ष्मणि स्थूलशरीरे च, आभासतेजसा चित्प्रतिफलनप्रयोज्यतेजसा जीवेनेत्यर्थः । अहमित्यभिमानेन अज्ञानप्रयोज्येन तादात्म्याभिमानेन तिष्ठति । यतः विवेकशून्यम् आत्मानात्मविवेकशून्यम् अन्तःकरणं स्वप्रतिबिम्बं गृहीत्वा चेतनीभूय चक्षुरादिकं शरीरान्तम् अहमित्यभिमन्यते । अतः तद्वशः आत्मापि तद्धर्मान् अन्धत्वादीन् स्वस्मिन्कल्पयित्वा अहमन्ध इत्यादिरीत्या व्यवहरतीत्यर्थः । सुषुप्तावन्तःकरणे आत्मप्रतिफलनमपि नास्ति अहमन्ध इत्यादि व्यवहारोऽपि नास्ति । एवं स्वप्ने प्रतिफलनसत्त्वेऽपि चक्षुरादौ आभासतेजसा अन्तःकरणं न तिष्ठति स्वप्ने बाह्यकरणगणस्य लयादित्यपि वेदितव्यम् । तेनैव स्वप्नेऽपि अन्धत्वादिव्यवहारः जाग्रतीव नास्तीति भावः ॥१०५॥
एवं बाह्यः सर्वः संसारः अन्तःकरणमूलकः आत्मन इत्युक्त्वा कर्तृत्वसुखदुःखादिकम् आन्तरं तस्यैवेत्याह अहङ्कार इति −
अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽभिमान्ययम् ।
सत्त्वादिगुणयोगेनावस्थात्रितयमश्नुते ॥१०६॥
एवं चित्प्रतिबिम्बविशिष्टमन्तःकरणमेव चक्षुरादौ शरीरे च अहमित्यभिमानेन वर्तमानम् अहङ्कार इति विज्ञेयम् । स इति विधेयप्राधान्यान्निर्देशः । अयमेव कर्ता भोक्ता इत्यभिमानी । अस्य सत्त्वरजस्तमोरूपगुणत्रयमयप्रकृतिकार्यत्वात् सत्त्वादिगुणयोगेन अवस्थात्रितयं जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयम् अयम् अश्नुते प्राप्नोति रजोगुणयोगेन जागरः, सत्त्वयोगेन स्वप्नः, तमसा सुषुप्तिरिति भेदः । सर्वदा गुणत्रयसत्वेऽपि तदा तदा तस्य औत्कट्यं ज्ञेयम् ॥१०६॥
एवं कर्तृत्वभोक्तृत्वे आन्तरे तद्धर्मावित्युक्त्वा सुखदुःखयोरपि तद्धर्मत्वमाह विषयाणामिति −
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥
विषयाणां शब्दादीनाम् आनुकूल्ये स्वकीयेच्छानुसारेण सम्प्राप्तौ सुखी, अहं सुखीति प्रतीतिः । विपर्यये प्रातिकूल्येन स्वेच्छाविरोधेन प्रसक्तौ दुःखी, अहं दुःखीत्यभिमानः । अतः सुखं दुःखं च तद्धर्मः तदिच्छानुरोधित्वात्तयोः, सदा सर्वदा आनन्दस्य आनन्दस्वरूपस्य ‘आनन्दो ब्रह्म’(तै.उ. ३.६) , ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) , ‘रसो वै सः’(तै.उ. २.८) , ‘यदेष आकाशः’(तै.उ. २.७) इत्यादिश्रुतिभ्यः, आत्मनः न धर्म इत्यनुषज्यते । युज्यते चैतत् विचार्यमाणे कालान्तरे यः शब्दः सुखमजीजनत् स एव कालान्तरे दुःखं जनयतीति प्रसिद्धं लोके । तत्र मनोभेदं विना नान्यस्य हेतुत्वं सुवचं विषयस्यैकरूपत्वात् कालस्य च । तेनैव शब्देन पुरुषान्तरसुखोत्पत्तेर्दर्शनात् तस्मिन्नेव कालेऽहेतुत्वायोगात् । मनस्तु पूर्वमिमं शब्दमनुकूलं व्यजानात् इदानीं तु प्रतिकूलं मन्यते इति तस्यैव सुखं दुःखं च धर्म इति ॥१०७॥
इदानीं श्रुतिप्रसिद्धं सदानन्दत्वमात्मनः युक्त्या प्रतिपादयति आत्मार्थत्वेनेति −
आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥१०८॥
हि यस्मात्कारणात् विषयः स्वतः विषयत्वेन हेतुना न प्रियः प्रीतिगोचरः किन्तु आत्मार्थत्वेन आत्मनः सुखं दुःखनिवृत्तिं वा जनयतीति प्रेयान् प्रेमविषयः । यदि स्वत एव विषयत्वेन शब्दादिरूपत्वेन प्रेयान् स्यात् कदापि प्रेयस्त्वं न व्यभिचरेत् । त्यजन्ति पूर्वमिष्टत्वेन ज्ञातमपि शब्दादिकं पुत्रमित्रकलत्रादिकं च । शरीरमपि दण्डयन्ति प्राणं निरुन्धन्ति मनश्च लयमापादयन्ति किमन्यत् , आनन्दमयकोशत्वेन प्रसिद्धम् अज्ञानमपि भञ्जयन्ति । तत्र कारणमितरत्र आनन्दरूपत्वाभावः आनन्दप्रयोजकत्वस्याप्यनियतत्वम् । आत्मनस्तु आनन्दरूपत्वस्य स्वतःसिद्धत्वात् सर्वदा प्रियतमत्वम् , उक्तं हि –
मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते (पं.द. १.८)
इति । कदापि मा भूवमिति न, अपि तु सर्वदा भूयासमिति तदर्थः । तत्तु आत्मनः एकस्यैव युज्यते । स्थूलं स्वप्ने न भासते, सूक्ष्मं सुषुप्तौ न, कारणं न समाधौ । शब्दादिविषयाश्च न सुषुप्तिसमाध्योः । यदा स्थितिस्तेषां जागरस्वप्नयोः तदापि नैयत्येन आनन्दजनकत्वाभावः । इदमुपपादितमधस्तात् । अतः सर्वावस्थासु अनुवर्तमानः विषयाद्यभावेऽपि सकलप्राणिसिद्धतया सुषुप्तौ, ज्ञान्यनुभवेन समाधौ च आनन्दरूपत्वेन अनुभवगोचरः आत्मा स्वत एव निरुपाधिकतया सर्वेषां प्राणिनां प्रियतमो मतः, हि यस्मात् ॥१०८॥
तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।
यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते ।
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥१०९॥
ततः सर्वदा सर्वप्राणिप्रियतमत्वात् आत्मा सदानन्दः सर्वदाप्यानन्दस्वरूपः । अस्य दुःखम् आनन्दस्वरूपस्य, कदाचन कदापि नास्तीत्यर्थः । तत्रानुभवं प्रमाणयति यदिति । यस्मात्सुषुप्तौ अवस्थायां, निर्विषयः आनन्दहेतुत्वेनाभिमत शब्दस्पर्शरूपरसगन्धादिसकलविषयसम्बन्धनिर्मुक्तः, आत्मानन्दः स्वरूपानन्दः स्वभावसिद्धः अनुभूयते, सर्वैरपीति शेषः । अस्यानुभवस्य देहात्मानुभववन्न भ्रान्तित्वं वक्तव्यमित्याह श्रुतिरिति । ‘एषोऽस्य परम आनन्दः’(बृ.उ. ४.३.३२) , ‘एषास्य परमा सम्पत्’(बृ.उ. ४.३.३२) इति सौषुप्तानन्दस्यैव अज्ञानिपरमानन्दत्वसङ्कीर्तनात् । युक्तं ह्येतत् वैषिकानन्दः सामयः अयं निरामय इति । अत एव किल सार्वभौमोऽपि सहस्रशः विषयान् लब्धुं भोक्तुं समर्थोऽपि निद्रां विना जीवितुं न प्रभवति । तत्र कारणं स्वरूपानन्दस्य दुःखालिप्तत्वम् । तदुक्तम् − ‘को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’(तै.उ. २.७) इति । आकाश आकाशवन्निर्लिप्त इत्यर्थः । सुषुप्तौ यद्यपि तमसा आव्रियते सुखम् , अथापि जाग्रत्स्वप्नसुखापेक्षया तस्य परमत्वे, किं वक्तव्यं तस्मिन् तमस्यपि ज्ञानेन नाश्यमाने आवरणनिवृत्त्या मिहिकाविगमे भ्राजमानः सूर्य इव स्वयं प्रकाशमानः आत्मानन्दः ईदृगिति । एवं श्रुतिः प्रत्यक्षं साक्षिप्रत्यक्षं सर्वजनसिद्धम् , ऐतिह्यम् अभियुक्तानां वचनम् , अनुमानम् आत्मा सदानन्दस्वरूपः सदा निरतिशयप्रेमास्पदत्वात् यन्नैवं तन्नैवं, यथा शब्दादिः इत्यादि च जाग्रति प्रमाणानि आत्मनः, सदानन्दत्वविषये ॥१०९॥
एवमियता प्रबन्धेन अनात्मनः स्थूलदेहं शब्दादिविषयान् सूक्ष्मदेहं च विभज्य तद्धर्मांश्च निर्धर्मकासङ्गात्मतत्वप्रतिपत्त्यर्थं विविच्य इदानीमुक्तानामनात्मनां हेतुं कारणदेहं निरूपयितुमारभते अव्यक्तेति −