अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१३. सूक्ष्मशरीरम्

निग­द्य­तेऽ­न्तः­क­रणं मनो धीः
अह­ङ्कृ­ति­श्चि­त्त­मिति स्ववृत्तिभिः ।
मनस्तु सङ्क­ल्प­वि­क­ल्प­ना­दिभिः
बुद्धिः पदा­र्था­ध्य­व­सा­य­ध­र्मतः ॥९५॥

९५

अत्रा­भि­मा­ना­द­ह­मि­त्य­ह­ङ्कृतिः
स्वार्था­नु­स­न्धा­न­गु­णेन चित्तम् ॥९६॥

९६

अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धीः बुद्धिः, अहङ्कृतिः अहङ्कारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः । नाम­च­तु­ष्ट­य­नि­मि­त्त­वृ­त्ती­राह सङ्क­ल्प­वि­क­ल्प­ना­दिभिः मन इति, सङ्कल्पः सम्य­क्त्व­बुद्धिः विकल्पना विविधं कल्पना संशय इति यावत् । पदार्थाध्यवसायः पदार्थनिर्णयः तद्रूपधर्मतः वृत्तितः बुद्धिरुच्यते । अत्र शरीरादौ अभिमानात् अहमित्यध्यासात् अहङ्कृतिः अहङ्कार इति च उच्यते । स्वार्था­नु­स­न्धा­न­गु­णेन स्मर­ण­वृ­त्त्ये­त्यर्थः चित्तमिति कथ्यते ॥९६॥

एवं सत्त्वांशोपेतैः प्रत्येकं पञ्चभिः भूतैः क्रमेण जायमानानि ज्ञाने­न्द्रि­याणि प्रत्येकं तैरेव रजोगुणोपेतैः उत्पद्यमानानि कर्मे­न्द्रि­याणि, सत्वप्रधानानां तेषां सम­ष्टि­का­र्य­म­न्तः­क­रणं च निरूप्य इदानीं रजों­शो­पे­त­भू­त­प­ञ्च­क­स­म­ष्टि­कार्यं सूक्ष्मशरीरघटकं प्राणमाह प्राणापानेति −

प्राणा­पा­न­व्या­नो­दा­न­स­माना भवत्यसौ प्राणः ।
स्वयमेव वृत्ति­भे­दा­द्वि­कृ­ते­र्भे­दा­त्सु­व­र्ण­स­लि­ल­मिव ॥९७॥

९७

यथा एकमेव सुवर्णं कटकं केयूरं कुण्ड­ल­मि­त्या­दि­वि­कृ­ति­भे­देन भवति, यथा च विकृतेर्भेदेन एकमेव जलं नदी कुल्या तटा­क­मि­त्या­दि­रीत्या भेदेन भवति तथा असौ शरी­रा­न्त­स्स­ञ्चारी प्राणः स्वयमेव वृत्तिभेदात् प्राण­ना­पा­न­न­व्या­न­न­स­मा­न­नो­दा­न­न­रू­प­वृ­त्ति­भे­दात् प्राणा­पा­न­व्या­नो­दा­न­स­माना इति भेदेन भवति । सुवर्णसहितं सलिलं सुवर्णसलिलमिति विग्रहः । प्रत्येकमर्थो बोद्धव्यः । यथा विकृतेर्भेदात् एकमेव सुवर्णं भिन्नत्वेन व्यवह्रियते, यथा च विकृतेर्भेदादेव एकमेव जलं तर­ङ्ग­फे­न­बु­द्बु­दा­दि­भे­देन व्यवह्रियते तद्वदित्यर्थः । तत्र प्राणनं मुखनासिकाभ्यां निष्क्र­म­ण­प्र­वे­श­नम् , अपाननं मलादीनाम् अधोनयनं, व्याननम् अशि­त­पी­ता­न्न­र­सादेः नाडीमुखेषु वितननं, ऊर्ध्वं नयनम् उदाननं वमनकाले, भुक्त­स्या­न्न­र­सादेः पाकार्थं जाठराग्नेः समुन्नयनं समाननम् इति वृत्तयः पञ्च प्राणस्य ॥९७॥

इदानीं ज्ञाने­न्द्रि­या­दीनि यत्क­थ­ना­र्थ­म­भि­हि­तानि तत्सूक्ष्मशरीरं विशिष्टमाह वागादीति −

वागादिपञ्च श्रवणादिपञ्च
प्राणा­दि­प­ञ्चा­भ्र­मु­खानि पञ्च ।
बुद्ध्या­द्य­वि­द्याऽपि च कामकर्मणी
पुर्यष्टकं सूक्ष्म­श­री­र­माहुः ॥९८॥

९८

वागादिपञ्च कर्मे­न्द्रि­याणि, श्रवणादिपञ्च ज्ञाने­न्द्रि­याणि, प्राणादिपञ्च प्राणपञ्चकम् , अभ्रमुखाणि पञ्च आका­शा­दि­सू­क्ष्म­भू­त­प­ञ्च­कम् । बुद्ध्यादि अन्तः­क­र­ण­च­तु­ष्ट­यम् , अविद्या अध्यासः, कामकर्मणी, कामः इच्छा, कर्म धर्माधर्माख्यम् । एतत्सर्वं मिलितं पदा­र्था­ष्ट­क­स­मु­दा­यो­पेतं पुर्यष्टकं सूक्ष्म­श­री­र­माहुः वेदान्तिन इति शेषः । १. वागादिपञ्चकम् , २. श्रवणादिपञ्चकम् , ३. प्राणपञ्चकम् , ४. भूतपञ्चकम् , ५. बुद्ध्या­दि­च­तु­ष्ट­यम् , ६. अविद्या, ७. कामः, ८. कर्म ॥९८॥

अस्या­प्य­ने­क-प­दा­र्थ­स­ङ्घा­त­रू­प­त्वात् संहतानां गृहवत् परार्थत्वात् अनात्मत्वं स्पष्टं कथयति इदमिति −

इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वप­ञ्ची­कृ­त­भू­त­स­म्भ­वम् ।
सवासनं कर्मफलानुभावकं
स्वाज्ञा­न­तोऽ­ना­दि­रु­पा­धि­रा­त्मनः ॥९९॥

९९

सूक्ष्मसंज्ञितं सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य सञ्जातेति सूक्ष्म­सं­ज्ञि­तम् , इदं शरीरम् । तस्य जन्यत्वादपि नित्या­त्म­रू­पत्वं नेत्याह अप­ञ्ची­कृ­त­भू­त­स­म्भ­वम् । अपञ्चीकृतानि यानि भूतानि गगनादीनि पृथ्व्यन्तानि तेभ्यः सम्भवः उत्पत्तिः यस्य तत् , इदं सूक्ष्म­सं­ज्ञि­तत्वे हेतुः । लिङ्गं लिगि इत्यस्माद्धातोः ज्ञापकमात्मन इत्यर्थः । वागादीनां करणानां जडानाम् अधि­ष्ठा­ता­र­म­न्तरा तत्तत्कार्ये प्रवृ­त्त्य­नु­प­पत्तेः, अचेतनं चेतनाधिष्ठितं कार्यं करोतीति व्याप्तेः रथादौ दृष्टत्वात् । बहि­र­न्तः­क­र­ण­घ­टि­तम् इदं शरीरमेव लिङ्ग­मि­त्यु­च्यते इत्यर्थः ।

तुरवधारणे, सुषुप्तौ ज्ञानस्य सर्व­म­त­सि­द्ध­त्वा­भा­वात् जागरे स्वप्ने च मनोमूलकतयैव ज्ञानस्य जायमानत्वात् मनसोऽपि जडस्य आत्म­प्र­ति­फ­ल­न­म­न्तरा इत­र­प्र­का­श­क­त्वा­स­म्भ­वा­दा­त्म­प्र­ति­बि­म्ब­ग्रा­हि­त्वेन आत्म­ज्ञा­प­क­म­नो­घ­टि­त­त्वाच्च अस्य शरीरस्य लिङ्गत्वमित्यपि बोध्यम् । नेदं स्थूलकारणयोः सम्भवतीति च । आत्मनः निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशित्वेन बहुत्वादामोक्षं स्थायि­त्वा­स­म्भ­वात् पूर्व­पू­र्व­सं­स्का­राणां जनि­ष्य­मा­णा­नु­भ­व­ज­न्य­सं­स्का­राणां च आमोक्षं स्थायि­लि­ङ्ग­श­री­र­मे­वा­श्रय इत्याह सवासनमिति । वासनाभिः अनु­भ­व­ज­न्य­सं­स्कारैः सह वर्तत इति सवासनम् । भोग­हे­तु­त्व­म­प्य­स्यै­वे­त्याह, कर्मफलानुभावकं कर्मणः पुण्यस्य पापस्य च क्रमेण फले ये सुखदुःखे तदनुभवः भोगः तज्जनकम् । सुषुप्तौ सवासनस्य लिङ्गशरीरस्य विलीनत्वादेव कर्म­ज­सु­ख­दुः­खा­नु­भ­वा­भावः । जाग्र­त्स्व­प्न­योस्तु तथाविधस्य लिङ्गशरीरस्य सत्वात्तदनुभवः इत्य­न्व­य­व्य­ति­रे­काभ्यां भोगहेतुत्वं तस्य ज्ञेयम् । आत्मनः अनादिरुपाधिः इदं लिङ्गशरीरं, सूक्ष्म­भू­त­ज­न्य­मपि महाप्रलयादावपि अभि­व्य­क्त्य­न­भि­व्य­क्ति­भ्या­मे­क­मे­वाऽऽ­वि­दे­ह­कै­व­ल्य­म­व­ति­ष्ठत इति स्थूल­श­री­र­व­त्सा­दित्वं नास्ति । ननु अवि­द्या­श­ब्दि­ता­ध्या­स­का­म­क­र्मणां भिन्न­भि­न्ना­ना­मेव तदा तदा जायमानत्वात् तद्घ­टि­त­लि­ङ्ग­श­री­रस्य कथमेकस्यैव स्थिरत्वं सम्भवतीति चेत् । तेषां तथात्वेऽपि वागा­दी­न्द्रि­याणां बाह्यानाम् अन्तःकरणस्य च बुद्ध्या­दे­र­भि­न्ना­ना­मेव आमोक्षं स्थितेरेकत्वं मन्तव्यम् । न च वागादावपि भेदो वक्तव्यः, गौरवात् । कर्म­प्र­ति­ब­न्धा­न्मू­क­त्वा­द्यु­प­पा­द­न­स­म्भ­वात् । सर्व­क­र्म­सं­स्का­रा­स्प­दस्य अन्तःकरणस्य भेदस्य सुतरां वक्तु­म­श­क्य­त्वात् । तत्रापि भेदे कृत­हा­ना­कृ­ता­भ्या­ग­मा­पत्तेः । पूर्व­कृ­त­क­र्मा­द्या­श्र­यस्य अन्तःकरणस्य नष्टत्वात् , नूतनान्तःकरणे कर्म­वा­स­ना­द्य­भा­वात् संसा­रा­नु­प­प­त्तिश्च । बालकस्य स्तन्यपाने प्रवृ­त्ति­र्न­स्यात् । आत्मनः निर्धर्मकत्वात् अविद्याया एकत्वात् सुख­दुः­खा­दि­स­ङ्क­र­प्र­स­ङ्गात् । सुषुप्तौ भोग­स्मृ­त्या­द्यु­त्प­त्ति­प्र­स­ङ्गात् , अतो गौर­वा­दु­क्त­दो­षाच्च वागादीनां बुद्धेश्च आवि­दे­ह­कै­व­ल्य­म­भि­न्ना­ना­मेव स्थितिरिति मन्तव्यम् । यद्यपि तेषां प्राग­भा­वा­प्र­ति­यो­गि­त्व­रू­पा­ना­दि­त्वम् अविद्याया इव न सम्भवति, तथापि सकृ­दु­त्प­न्ना­नाम् अभिन्नानामेव स्थितिरिति तात्पर्येण अनादित्वमुक्तम् । वस्तुतः आत्मनः एकत्वेऽपि ज्ञानिष्वपि वर्तमानस्य ब्रह्मवित् ब्रह्मविद्वरः ब्रह्म­वि­द्व­री­यान् ब्रह्म­वि­द्व­रिष्ठः इति भूमि­का­भे­द­व्य­व­हा­रस्य अन्तःकरणभेदेनैव उपपादनीयत्वात् याव­त्का­र्य­म­व­स्था­यि­भे­द­हे­तो­रु­पा­धिता इति लक्षणं लिङ्गशरीरस्य निष्प्र­त्यू­ह­मिति उपाधित्वं तस्य । ननु असङ्गत्वेन केना­प्य­नु­प­धी­य­मा­नस्य आत्मनः कथं लिङ्गेन सोपा­धि­क­त्व­मि­त्यत आह स्वाज्ञानतः, स्वस्वरूपस्य इदा­नी­म­ज्ञा­त­त्वात् तन्मूलकः कल्पितः उपाधिरित्यर्थः ॥९९॥

अस्य सूक्ष्मशरीरस्य असा­धा­र­णी­म­व­स्था­माह स्वप्न इति −

स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्र­त्का­ली­न­ना­ना­वि­ध­वा­स­नाभिः ।
कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयञ्ज्योतिरयं परात्मा ॥१००॥

१००

अस्य सूक्ष्मशरीरस्य, विभक्त्यवस्था भेदकावस्था स्वप्नो भवति । जागरस्य स्थूल­सा­धा­र­ण­त्वात् सुषुप्तावस्यैव लीनत्वात् स्वप्न एव सूक्ष्मस्य प्राधान्यमिति भावः । तत्र हेतुं सङ्गृह्णाति स्वमा­त्रे­त्या­दिना । स्वमेव स्वमात्रं तस्य शेषः अवशिष्टत्वम् अभिमन्यमानेन स्वेनैव केवलमित्यर्थः । तदा स्थूलदेहे अभिमानाभावात् सूक्ष्म­दे­ह­स्यै­क­स्यैव विशे­ष­तोऽ­भि­म­न्य­मा­न­त्व­मिति । यत्र स्वप्ने स्वमा­त्र­प­रि­शे­षेण स्थूलाभिमानं परित्यज्य सूक्ष्म­श­री­र­मा­त्र­वि­ष­य­केण अभिमानेन विभाति प्रकाशते, आत्मा इति शेषः । सङ्गृहीतमर्थं स्वमात्रशेषत्वं विवृणोति स्वप्ने­त्वि­त्या­दिना । स्वप्ने तु स्वप्नावस्थायां बुद्धिः अन्तःकरणं, स्वयमेव कार­का­न्त­र­नि­र­पेक्षं, जाग्र­त्का­ली­न­ना­ना­वि­ध­वा­स­नाभिः जाग्रदवस्थायां जातैः बहुविधैः संस्कारैः, कर्त्रादिभावं कर्तृत्वं कर्मत्वं क्रियात्वं करणत्वम् अधिकरणत्वं सक­ल­क्रि­या­का­र­क­भा­व­मिति यावत् । प्रतिपद्य प्राप्य, राजते प्रकाशते । ननु जडस्य अन्तःकरणस्य कथमीदृशी शक्तिः ? शरी­रा­न्त­र्ग­त­ना­डीषु हिताभिधानासु यदा मनः सञ्चरति तदा स्वप्न इति श्रुत्या प्रतीतेः तत्र प्रकाशस्य दूरापास्तत्वात् इति चेत्तत्राह यत्र स्वयं ज्योतिरयं परात्मा इति ।

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ (क.उ. ५.१५)

यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (भ.गी. १५.१२)

इति श्रुति­स्मृ­तिभ्यां जेगीयमानमहिम्नः पराप्रकाश्यस्य ज्योतीरूपस्य चैतन्यज्योतिषः परमात्मनः सम्बन्धात् अन्तःकरणस्य इयं शक्तिः जाग्र­त्का­लि­क­वा­स­ना­स­ह­कृ­तस्य । ननु ‘सत्यं ज्ञानं’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘प्रज्ञानं ब्रह्म’(ऐ.उ. ३.३) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इत्या­दि­श्रु­तिभ्यः आत्मनः सार्व­दि­क­चै­त­न्य­ज्यो­ती­रू­प­त्वेन स्वयं ज्योतिष्ट्वस्य सर्वदा सत्त्वेन किं विशेषतः यत्र स्वयञ्ज्योतिरयं परात्मा इति स्वप्न एव तदुच्यते इति चेच्छृणु तत्र कारणम् । बृह­दा­र­ण्य­क­ग­त­ज्यो­ति­र्ब्रा­ह्म­णस्य आमूलचूडं परिशीलनेन इदं स्पष्टं सुज्ञानम् । तत्र हि ‘किं ज्योतिरयं पुरुषः’(बृ.उ. ४.३.२) इति जनकेन पृष्टो भगवान् याज्ञवल्क्यः आदौ सर्व­लो­क­प्र­सिद्धं सूर्यं, तस्मिन्नस्तमिते चन्द्रमसं तस्मिन्नस्तं याते अग्निं, तस्मिन् शान्ते वाचं, शान्तायां च तस्यामात्मानं ज्योतिरुवाच, ‘शान्तायां वाचि किं ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीति आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति’(बृ.उ ४.३.६) इत्यन्तेन । यद्यपीदं ज्योतिष्ट्वं सदातनं, तथापि जाग्रति कर­णा­द्य­नु­ग्रा­ह­का­णा­मि­त­रे­षा­मा­दि­त्या­दीनां बाह्यानां ज्योतिषां सत्त्व­द­शा­या­मा­न्त­र­बा­ह्य­का­र्य­क­र­ण­स­ङ्घा­त­व्य­व­हा­रस्य सङ्कुलतायां च न विविक्तं दर्शयितुं शक्यते । सुषुप्तौ विविक्तत्वेऽपि प्रका­श्य­व­स्तु­नोऽ­भा­वात् तदा सर्वस्य दृश्यस्य लीनत्वात् । यद्यप्यस्ति अज्ञानं तथापि तद् अभावरूपत्वेन चर्चास्पदम्, अतः जाग्रत्काल इव यत्र व्यवहारः सर्वो वर्तते अपि तु बाह्यज्योतींषि न सन्ति स्थूलशरीरं नास्ति बाह्यकरणानां चोप­र­त­व्या­पा­रत्वं तदा मनः एकमेव आत्म­ज्यो­तिः­प्र­ति­फ­ल­न­म­हिम्ना जाग्र­द्वा­स­ना­वि­शिष्टं सर्वाकारतां भजते इति विविक्ते तस्मिन्काले स्वय­ञ्ज्यो­ति­ष्ट्व­मु­प­दि­श्य­मानं सुग्रहं भव­ती­त्य­भि­प्रा­येण ‘अत्रायं पुरुषः स्वयं ज्योतिः (बृ.उ. ४.३.९.१४) इत्युक्तिः । यथा सर्वदापि सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हि­ता­बा­धि­त­ब्र­ह्म­रू­पेण जगतः सत्त्वेपि सृष्टेः प्राक् ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.१) इति श्रोतृ­बु­ध्या­रो­हाय छान्दोग्ये उपदिष्टं तद्वत् स्वप्ने मनसः जाग्र­त्सं­स्का­र­यु­क्त­स्यापि जडस्य पर­प्र­का­श्य­त्व­नि­य­मात् चैत­न्य­ज्यो­ति­स्स्व­रू­प­प­र­मा­त्म­प्र­ति­फ­ल­न­व­शा­देव सूर्य­च­न्द्रा­दि­प्र­का­श­क­रू­पेण घट­प­टा­दि­प्र­का­श्य­रू­पेण परि­ण­म­मा­न­त्व­यो­ग्यता । अत एव अन्धादयोऽपि स्वप्ने पदार्थान् पश्यन्ति । तेषां जागरे चक्षुरभावात् कथं दर्शनम् ? मन एव चक्ष्रूरूपेण आत्मशक्त्या परिणमत इत्येव वक्तव्यम् । एवं चक्षु­रा­दि­त्या­दि­ज्यो­ति­र­भा­व­द­शायां प्रति­भा­स­मा­न­स­क­ल­प­दा­र्थ­भा­स­क­त्वम् आत्मन एवेति श्रोतृबुद्धौ स्फुटमारोहयितुं शक्यत्वात् यत्र स्वयं ज्योतिरयं परात्मा इति श्रुत्य­नु­सा­रे­णोक्तं मूले ॥१००॥

आलोकदानेन सक­ल­प्रा­णि­प्रे­र­कोऽपि सूर्यः यथा तत्कर्मभिः न सज्यते एवमात्मापि बुद्धि­कृ­त­क­र्म­णे­त्य­स­ङ्ग­त्व­मपि प्रसङ्गादाह ज्योति­ष्ट्व­स्वा­भा­व्यात् धीमा­त्र­को­पा­धि­रिति −

धीमा­त्र­को­पा­धि­र­शे­ष­साक्षी
न लिप्यते तत्कृतकर्मलेपैः ।
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किञ्चिदुपाधिना कृतैः ॥१०१॥

१०१

धीरेव धीमात्रं स्वार्थे कप्रत्ययः, धीमात्रकम् उपाधिर्यस्य स्वप्ने धीमात्रकोपाधिः तत्कृतकर्मलेपैः तया धिया कृतानि यानि कर्माणि तेषां लेपैः सम्बन्धैः न लिप्यते विशिष्टो न भवति । तत्र हेतुः अशेषसाक्षीति, अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् , कर्तुरेव कर्मलेपात् , न हि लोकेऽपि वादि­प्र­ति­वा­दि­क­र्मभिः सम्बध्यते साक्षी, तद्वदित्यर्थः । ‘असङ्गोह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो न हि सज्जते’(बृ.उ. ३.९.२६) इत्या­दि­श्रु­त्य­नु­सा­रे­णा­स­ङ्ग­त्वाच्च । बुद्ध्या वागादिना वा केनाप्युपाधिना क्रिय­मा­ण­क­र्म­ले­पोऽ­प्यस्य नास्तीत्याह यस्मादसङ्ग इति । तत एव अस­ङ्ग­त्व­रू­प­का­र­णा­देव उपाधिना कृतैः शरीरेण वा वाचा वा मनसा वा केनाप्युपाधिना कृतैः कर्मभिः समी­ची­ना­स­मी­ची­न­क­र्मभिः किञ्चिदपि न लिप्यते न सम्बद्धो भवति ॥१०१॥

सङ्ग­स्तू­पा­धि­क­ल्पितः, वास्त­वि­क­म­स­ङ्ग­त्व­मि­त्यु­प­पा­द­यति −

सर्व­व्या­पृ­ति­क­रणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥१०२॥

१०२

चिदात्मनः ज्ञानस्वरूपस्य, पुंसः पुरुषस्यात्मनः, इदं लिङ्गं बुध्यादिघटितं लिङ्गशरीरं, तक्ष्णः त्वष्टुः वास्यादिकमिव तक्ष­ण­क­र­ण­द्र­व्य­वि­शे­षा­दि­क­मिव सर्व­व्या­पृ­ति­क­रणं सक­ल­व्या­पा­रा­सा­धा­र­ण­का­रणं तक्ष्णोऽपि तक्षणकरणसत्व एव दार्वा­दि­त­क्ष­ण­सा­मर्थ्यं न स्वाभाविकं, तथात्मनोऽपि आज्ञा­नि­क­लि­ङ्ग­श­री­र­स­म्बन्ध एव सकलोव्यवहारः । अत एव सुषुप्तौ न व्यवहारः लिङ्ग­श­री­र­स­म्ब­न्धस्य तदा अभावात् तेनैव लिङ्ग­श­री­र­सत्त्वे व्यापृतिः तदभावे तदभाव इति लोकसिद्धहेतुनैव । अयम् आत्मा, असङ्गः वास्त­वि­क­स­क­ल­व्य­व­हा­र­स­ङ्ग­हीनः भवतीत्यर्थः ॥१०२॥

ननु अहं­प्र­ती­ति­वि­ष­य­स्यै­वा­त्म­त्वात् अहमन्धः अहं बधिरः अहं मूकः अहमुच्छ्वसिमि क्षुत्पि­पा­सा­पी­डि­तोऽस्मि अहं करोमि सुखी दुःखीत्यादि बहु­त­र­ध­र्म­स­म्ब­न्धात् अस­ङ्ग­त्व­म­नु­प­प­न्न­मा­त्मन इति चेत् , तेषां सर्वेषां धर्माणां तत्त­दु­पा­धि­ग­त­त्वा­दा­त्मनः कोऽपि धर्मः सांसारिकः नास्तीति वक्तु­मु­पा­धि­ध­र्मान् विभजते अन्ध­त्वे­त्या­दिना −

अन्ध­त्व­म­न्द­त्व­प­टु­त्व­धर्माः
सौगु­ण्य­वै­गु­ण्य­व­शाद्धि चक्षुषः ।
बाधि­र्य­मू­क­त्व­मु­खा­स्त­थैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥१०३॥

१०३

आदौ बहि­रि­न्द्रि­य­ध­र्मा­नाह । चक्षुषः सौगुण्यवशात् पटुत्वं, वैगु­ण्य­व­शा­द­न्धत्वं मन्दत्वम् । एवं श्रोत्र­वै­गु­ण्यात् बाधिर्यं मन्दत्वम् । तत्सौगुण्यात् पटुत्वम् । वागि­न्द्रि­य­वै­गुण्ये मूकत्वं, तत्सौगुण्ये पटुत्वम् । एवं त्वग्घ्रा­ण­र­स­न­रू­पेषु ज्ञाने­न्द्रि­येषु पाणिपादादिषु कर्मेन्द्रियेषु च वेदितव्यम् । एतत्सर्वं नात्मनः । तत्र हेतुमाह वेत्तुरिति । चक्षुरादौ मन्द­त्व­प­टु­त्वा­दिकं वर्तमानं साक्षिणाऽऽत्मना वेद्यत इति न वेद्यस्य वेत्तृधर्मत्वं सम्भवतीति भावः । तुरवधारणे नैवेत्यर्थः ॥१०३॥

उच्छ्वा­स­क्षु­त्पि­पा­सादेः प्राणधर्मत्वमाह उच्छ्वासेति −

उच्छ्वा­स­नि­श्वा­स­वि­जृ­म्भ­ण­क्षुत्
प्रस्प­न्द­ना­द्यु­त्क्र­म­णा­दिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे ॥१०४॥

१०४

प्राणा­दी­त्या­दि­प­देन अपानादीनां नागादीनां च परिग्रहः । उच्छ्वासः प्राणस्य, निश्वासः अपानस्य, विजृम्भणं देवदत्तस्य, क्षुतं कृकरस्य, प्रस्पन्दनं प्रकर्षेण चलनं व्यानस्य धनञ्जयस्य वा । आदिपदेन उन्मीलनपरिग्रहः । तत्तु कूर्मस्य, उत्क्र­म­ण­मु­दा­नस्य, आदिपदेन वमनं तदपि तस्यैव । एतानि कर्माणि प्राणादीनां तज्ज्ञाः वदन्ति । इदमिदं कर्म अस्येति विशेषज्ञाः इत्यर्थः । एवमशनापिपासे क्षुत् पिपासा च प्राणस्य धर्मौ । अत एव निद्रायां क्षुत्पि­पा­सा­द्य­भावः तदा प्राणे अभिमानाभावात् ॥१०४॥

यद्ये­व­म­न्ध­त्वा­दी­ना­मा­ना­त्म­च­क्षु­रा­दि­ध­र्मत्वं, कुतो वा अयमात्मा स्वात्मानं तद्धर्मवन्तं जानातीति शङ्कायामाह अन्तःकरणमिति −

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥१०५॥

१०५

अन्तःकरणं मनः, एतेषु चक्षुरादिषु ज्ञाने­न्द्रि­येषु वागा­दि­क­र्मे­न्द्रि­येषु प्राणादिषु, वर्ष्मणि स्थूलशरीरे च, आभासतेजसा चित्प्र­ति­फ­ल­न­प्र­यो­ज्य­ते­जसा जीवेनेत्यर्थः । अहमित्यभिमानेन अज्ञा­न­प्र­यो­ज्येन तादा­त्म्या­भि­मा­नेन तिष्ठति । यतः विवेकशून्यम् आत्मा­ना­त्म­वि­वे­क­शू­न्यम् अन्तःकरणं स्वप्रतिबिम्बं गृहीत्वा चेतनीभूय चक्षुरादिकं शरीरान्तम् अहमित्यभिमन्यते । अतः तद्वशः आत्मापि तद्धर्मान् अन्धत्वादीन् स्वस्मि­न्क­ल्प­यित्वा अहमन्ध इत्यादिरीत्या व्यवहरतीत्यर्थः । सुषु­प्ता­व­न्तः­क­रणे आत्मप्रतिफलनमपि नास्ति अहमन्ध इत्यादि व्यवहारोऽपि नास्ति । एवं स्वप्ने प्रति­फ­ल­न­स­त्त्वेऽपि चक्षुरादौ आभासतेजसा अन्तःकरणं न तिष्ठति स्वप्ने बाह्यकरणगणस्य लयादित्यपि वेदितव्यम् । तेनैव स्वप्नेऽपि अन्ध­त्वा­दि­व्य­व­हारः जाग्रतीव नास्तीति भावः ॥१०५॥

एवं बाह्यः सर्वः संसारः अन्तःकरणमूलकः आत्मन इत्युक्त्वा कर्तृ­त्व­सु­ख­दुः­खा­दि­कम् आन्तरं तस्यैवेत्याह अहङ्कार इति −

अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽ­भि­मा­न्य­यम् ।
सत्त्वा­दि­गु­ण­यो­गे­ना­व­स्था­त्रि­त­य­म­श्नुते ॥१०६॥

१०६

एवं चित्प्र­ति­बि­म्ब­वि­शि­ष्ट­म­न्तः­क­र­ण­मेव चक्षुरादौ शरीरे च अहमित्यभिमानेन वर्तमानम् अहङ्कार इति विज्ञेयम् । स इति विधे­य­प्रा­धा­न्या­न्नि­र्देशः । अयमेव कर्ता भोक्ता इत्यभिमानी । अस्य सत्त्व­र­ज­स्त­मो­रू­प­गु­ण­त्र­य­म­य­प्र­कृ­ति­का­र्य­त्वात् सत्त्वा­दि­गु­ण­यो­गेन अवस्थात्रितयं जाग्र­त्स्व­प्न­सु­षु­प्ति­रू­पा­व­स्था­त्र­यम् अयम् अश्नुते प्राप्नोति रजोगुणयोगेन जागरः, सत्त्वयोगेन स्वप्नः, तमसा सुषुप्तिरिति भेदः । सर्वदा गुणत्रयसत्वेऽपि तदा तदा तस्य औत्कट्यं ज्ञेयम् ॥१०६॥

एवं कर्तृ­त्व­भो­क्तृत्वे आन्तरे तद्ध­र्मा­वि­त्युक्त्वा सुखदुःखयोरपि तद्धर्मत्वमाह विषयाणामिति −

विष­या­णा­मा­नु­कूल्ये सुखी दुःखी विपर्यये ।
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०७॥

१०७

विषयाणां शब्दादीनाम् आनुकूल्ये स्वकी­ये­च्छा­नु­सा­रेण सम्प्राप्तौ सुखी, अहं सुखीति प्रतीतिः । विपर्यये प्रातिकूल्येन स्वेच्छाविरोधेन प्रसक्तौ दुःखी, अहं दुःखीत्यभिमानः । अतः सुखं दुःखं च तद्धर्मः तदि­च्छा­नु­रो­धि­त्वा­त्तयोः, सदा सर्वदा आनन्दस्य आनन्दस्वरूपस्य ‘आनन्दो ब्रह्म’(तै.उ. ३.६) , ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) , ‘रसो वै सः’(तै.उ. २.८) , ‘यदेष आकाशः’(तै.उ. २.७) इत्या­दि­श्रु­तिभ्यः, आत्मनः न धर्म इत्यनुषज्यते । युज्यते चैतत् विचार्यमाणे कालान्तरे यः शब्दः सुखमजीजनत् स एव कालान्तरे दुःखं जनयतीति प्रसिद्धं लोके । तत्र मनोभेदं विना नान्यस्य हेतुत्वं सुवचं विष­य­स्यै­क­रू­प­त्वात् कालस्य च । तेनैव शब्देन पुरु­षा­न्त­र­सु­खो­त्प­त्ते­र्द­र्श­नात् तस्मिन्नेव कालेऽ­हे­तु­त्वा­यो­गात् । मनस्तु पूर्वमिमं शब्दमनुकूलं व्यजानात् इदानीं तु प्रतिकूलं मन्यते इति तस्यैव सुखं दुःखं च धर्म इति ॥१०७॥

इदानीं श्रुतिप्रसिद्धं सदा­न­न्द­त्व­मा­त्मनः युक्त्या प्रतिपादयति आत्मा­र्थ­त्वे­नेति −

आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥१०८॥

१०८

हि यस्मात्कारणात् विषयः स्वतः विषयत्वेन हेतुना न प्रियः प्रीतिगोचरः किन्तु आत्मार्थत्वेन आत्मनः सुखं दुःखनिवृत्तिं वा जनयतीति प्रेयान् प्रेमविषयः । यदि स्वत एव विषयत्वेन शब्दादिरूपत्वेन प्रेयान् स्यात् कदापि प्रेयस्त्वं न व्यभिचरेत् । त्यजन्ति पूर्वमिष्टत्वेन ज्ञातमपि शब्दादिकं पुत्र­मि­त्र­क­ल­त्रा­दिकं च । शरीरमपि दण्डयन्ति प्राणं निरुन्धन्ति मनश्च लयमापादयन्ति किमन्यत् , आनन्दमयकोशत्वेन प्रसिद्धम् अज्ञानमपि भञ्जयन्ति । तत्र कारणमितरत्र आन­न्द­रू­प­त्वा­भावः आन­न्द­प्र­यो­ज­क­त्व­स्या­प्य­नि­य­त­त्वम् । आत्मनस्तु आनन्दरूपत्वस्य स्वतः­सि­द्ध­त्वात् सर्वदा प्रियतमत्वम् , उक्तं हि –

मा न भूवं हि भूयासमिति प्रेमा­त्म­नी­क्ष्यते (पं.द. १.८)

इति । कदापि मा भूवमिति न, अपि तु सर्वदा भूयासमिति तदर्थः । तत्तु आत्मनः एकस्यैव युज्यते । स्थूलं स्वप्ने न भासते, सूक्ष्मं सुषुप्तौ न, कारणं न समाधौ । शब्दादिविषयाश्च न सुषु­प्ति­स­माध्योः । यदा स्थितिस्तेषां जागरस्वप्नयोः तदापि नैयत्येन आन­न्द­ज­न­क­त्वा­भावः । इद­मु­प­पा­दि­त­म­ध­स्तात् । अतः सर्वावस्थासु अनुवर्तमानः विषयाद्यभावेऽपि सक­ल­प्रा­णि­सि­द्ध­तया सुषुप्तौ, ज्ञान्यनुभवेन समाधौ च आनन्दरूपत्वेन अनुभवगोचरः आत्मा स्वत एव निरुपाधिकतया सर्वेषां प्राणिनां प्रियतमो मतः, हि यस्मात् ॥१०८॥

तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।
यत्सुषुप्तौ निर्विषय आत्मा­न­न्दोऽ­नु­भू­यते ।
श्रुतिः प्रत्य­क्ष­मै­ति­ह्य­म­नु­मानं च जाग्रति ॥१०९॥

१०९

ततः सर्वदा सर्व­प्रा­णि­प्रि­य­त­म­त्वात् आत्मा सदानन्दः सर्व­दा­प्या­न­न्द­स्व­रूपः । अस्य दुःखम् आनन्दस्वरूपस्य, कदाचन कदापि नास्तीत्यर्थः । तत्रानुभवं प्रमाणयति यदिति । यस्मात्सुषुप्तौ अवस्थायां, निर्विषयः आन­न्द­हे­तु­त्वे­ना­भि­मत शब्द­स्प­र्श­रू­प­र­स­ग­न्धा­दि­स­क­ल­वि­ष­य­स­म्ब­न्ध­नि­र्मुक्तः, आत्मानन्दः स्वरूपानन्दः स्वभावसिद्धः अनुभूयते, सर्वैरपीति शेषः । अस्यानुभवस्य देहा­त्मा­नु­भ­व­वन्न भ्रान्तित्वं वक्तव्यमित्याह श्रुतिरिति । ‘एषोऽस्य परम आनन्दः’(बृ.उ. ४.३.३२) , ‘एषास्य परमा सम्पत्’(बृ.उ. ४.३.३२) इति सौषु­प्ता­न­न्द­स्यैव अज्ञा­नि­प­र­मा­न­न्द­त्व­स­ङ्की­र्त­नात् । युक्तं ह्येतत् वैषिकानन्दः सामयः अयं निरामय इति । अत एव किल सार्वभौमोऽपि सहस्रशः विषयान् लब्धुं भोक्तुं समर्थोऽपि निद्रां विना जीवितुं न प्रभवति । तत्र कारणं स्वरूपानन्दस्य दुःखालिप्तत्वम् । तदुक्तम् − ‘को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’(तै.उ. २.७) इति । आकाश आका­श­व­न्नि­र्लिप्त इत्यर्थः । सुषुप्तौ यद्यपि तमसा आव्रियते सुखम् , अथापि जाग्र­त्स्व­प्न­सु­खा­पे­क्षया तस्य परमत्वे, किं वक्तव्यं तस्मिन् तमस्यपि ज्ञानेन नाश्यमाने आवरणनिवृत्त्या मिहिकाविगमे भ्राजमानः सूर्य इव स्वयं प्रकाशमानः आत्मानन्दः ईदृगिति । एवं श्रुतिः प्रत्यक्षं साक्षि­प्र­त्यक्षं सर्वजनसिद्धम् , ऐतिह्यम् अभियुक्तानां वचनम् , अनुमानम् आत्मा सदानन्दस्वरूपः सदा निर­ति­श­य­प्रे­मा­स्प­द­त्वात् यन्नैवं तन्नैवं, यथा शब्दादिः इत्यादि च जाग्रति प्रमाणानि आत्मनः, सदानन्दत्वविषये ॥१०९॥

एवमियता प्रबन्धेन अनात्मनः स्थूलदेहं शब्दादिविषयान् सूक्ष्मदेहं च विभज्य तद्धर्मांश्च निर्ध­र्म­का­स­ङ्गा­त्म­त­त्व­प्र­ति­प­त्त्यर्थं विविच्य इदा­नी­मु­क्ता­ना­म­ना­त्मनां हेतुं कारणदेहं निरूपयितुमारभते अव्यक्तेति −