विवेकचूडामणिः सव्याख्यः
१४. कारणशरीरम्
अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ॥११०॥
अव्यक्तमिति नाम यस्याः, तस्याः प्रत्यक्षतः अनुपलम्भात् । तत्र हेतुः रूपादिरहितत्वम् । परमेशस्य परमेश्वरस्य ब्रह्मणः, शक्तिः अचिन्त्याद्भुतशक्तिः न विद्यते आदिः यस्याः अनादिः, सा च सा अविद्या च । वस्तुतः न विद्यते इत्यविद्या अनाद्यविद्या । त्रयो गुणाः सत्वरजस्तमांसि यस्य तथाविधः आत्मा स्वरूपं यस्याः त्रिगुणात्मिका । यद्वा त्रयो गुणाः त्रिगुणाः त एव आत्मा यस्याः गुणत्रयस्वरूपेत्यर्थः । परा हिरण्यगर्भादिस्वकार्येभ्यः परा उत्कृष्टा तत्कारणत्वात् । अव्यक्तनामत्वे हेतुमाह कार्यानुमेया रूपाद्यभावेन प्रत्यक्षगोचरत्वाभावेऽपि शब्दादिभिः गगनादिकमिव कार्यलिङ्गेनानुमेया । एतच्छक्त्यनङ्गीकारे निर्गुणस्य ब्रह्मणः स्रष्टृत्वायोगात् निष्कारणं कार्योत्पत्त्ययोगात् खादिसकलविकारहेतुत्वेन श्रुत्या प्रतीयमानेक्षणसङ्कल्पादिपरिणामित्वेन मायायाः सिद्धिरिति भावः । अशब्दशरणाः अन्यथान्यथा जगदुत्पत्तिं तर्कयन्ति तदसङ्गतमिति सूचयति सुधियेति । सुष्ठुता च धियि श्रुत्यनुसारित्वं, तत्सूचितं परमेशशक्तिपदेन । तेन साङ्ख्यैरुच्यमानं जडं स्वतन्त्रं प्रधानं सत्यं जगन्मूलमित्यादिकमपास्तं वेदितव्यम् । अत्र श्रुतिरप्यस्ति ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ. ४.१०) , ‘जीवेशावभासेन करोति माया चाविद्या च स्वयमेव भवति’(नृ.उ.ता. ९.३) , ‘इन्द्रो मायाभिः पुरुरूप ईयते’(ऋ.सं. ६.४७.१८) इत्याद्या । तथा च सुष्ठु शोभना श्रुत्यनुसारिणी धीः यस्य स सुधीः । तेन सुधिया कार्यानुमेया माया यया इदं सर्वं जगत् महत्तत्वादिब्रह्माण्डान्तं प्रसूयते ‘तत्कारणं नाम शरीरमात्मनः’(श्लो. १२२) इति व्यवहितेन सम्बन्धः ॥११०॥
तस्याः स्वरूपमाह सन्नापीति −
सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो ।
साङ्गाप्यनङ्गाप्युभयात्मिका नो
महाद्भुताऽनिर्वचनीयरूपा ॥१११॥
लोके तावत् अबाधितस्य सत्त्वं बाध्यमानस्य असत्यत्वं प्रसिद्धं यथा ऋतस्यानृतस्य च । कदापि कस्यापि अप्रतीयमानस्य असत्त्वं शशविषाणगगनकुसुमादेः । इयं तु माया ‘भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे.उ. १.१०)
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ (वि.पु. ५.१७.१५)
‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।’(भ.गी. ७.१४) इत्यादि श्रुतिस्मृतिभ्यः ज्ञानबाध्यत्वेनावगम्यते । अतः तस्याः आत्मवत्सत्त्वं दुर्वचम् ।‘नाभावो विद्यते सतः’(भ.गी. ७.१४) इति गीतायाश्च अस्याः ज्ञानानन्तरम् अभावावश्यम्भावात् न सत्त्वम् । ज्ञानात्प्राक् कार्यरूपेण प्रतीयमानत्वेन तत्परिणामित्वेन अनुमिति विषयत्वेन च न शशविषाणवदसत्त्वं सुवचम् । सत्त्वासत्त्वयोः व्याप्यवृत्तित्वेन कालभेदेन एकत्र स्वीकर्तुमनुचितत्वेन नोभयात्मकत्वं तस्याः । एकैकरूपत्वाभावे उभयात्मकत्वस्य अत्यन्तासम्भवाच्च । यथा स्वाप्निकपदार्थानामैन्द्रजालिकपदार्थानां च दृष्टनष्टस्वरूपत्वान्मिथ्यात्वं सदसद्विलक्षणत्वरूपं तथा अस्या अपीति भावः । उक्तं हि –
नासतो विद्यते भावः नाभावो विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ (भ.गी. २.१६)
इति गीतायाम् । यद्यपि लौकिकाः पूर्वमुत्पत्तेः अत्यन्तमसतः घटादेर्भावम् , उत्पत्त्यनन्तरं सत्त्वेन अभ्युपगतस्य तस्य नाशे अभावं चाङ्गीकुर्वन्ति तदसङ्गतमिति सर्वज्ञेन भगवतैवोक्तम् अनयोरुभयोः अन्तः निर्णयः तत्त्वदर्शिभिः दृष्ट इति कथयता । इत्थं च इयं माया सत् सद्वस्त्वपि न, असद्वस्त्वपि न उभयात्मिका सदसदात्मिका नो । अपि तु सत्त्वासत्त्वाभ्यां निर्वक्तुमशक्यत्वात् अनिर्वचनीयरूपा । यथा सत्त्वेन वा असत्त्वेन वा निर्वक्तुमशक्या एवं ब्रह्मणो भिन्नत्वेन अभिन्नत्वेन च अनिर्वचनीयेत्याह । ब्रह्मणोऽत्यन्तभिन्नत्वे अद्वैतबोधकश्रुतिविरोधात् लोकेऽपि शक्तेः शक्तिमतोऽत्यन्तभेदाभावाच्च । एवमभिन्नत्वे तस्याः बाधायोगात् ब्रह्मणः कालत्रयाबाध्यत्वात् । भिन्नाभिन्नत्वे विरुद्धे अतः भिन्नापि न अभिन्नापि न उभयात्मिकापि नो भवतीत्यर्थः । एवमनादित्वेन साङ्गा सावयवा न भवति सावयवत्वे जन्यत्वापत्तेः । निरवयवत्वे परिणामासम्भवात् तदपि वक्तुमशक्यम् । अतः अनङ्गा अनवयवापि न । उभयात्मिकापि नो सावयवत्वनिरवयवत्वयोः एकत्र विरोधादेव । अतः सत्त्वासत्त्वाभ्यां भिन्नत्वाभिन्नत्वाभ्यां साङ्गत्वानङ्गत्वाभ्यां निर्वक्तुमशक्यं रूपं यस्याः सा अनिर्वचनीयरूपा महाद्भुता अत्यन्ताश्चर्यरूपा ॥१११॥
अस्याः अत्यन्तनिवृत्तिहेतुसत्त्वाच्च नासत्त्वमित्याह शुद्धाद्वयेति −
शुद्धाद्वयब्रह्मविबोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा ।
रजस्तमस्सत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११२॥
शुद्धं निर्गुणम् अद्वयं सजातीयविजातीयस्वगतभेदशून्यं यद्ब्रह्म तस्य विबोधः अभेदेन साक्षात्कारः तेन नाश्या तज्जन्यध्वंसप्रतियोगिनी । तत्र दृष्टान्तमाह सर्पभ्रमः रज्वां जातः अयं सर्प इति भ्रमः, रज्जुविवेकतो यथा कल्पितसर्पाधिष्ठानभूतरज्जुसाक्षात्कारेणेव नायं सर्पः किन्तु रज्जुरित्याकारेण । तेन निर्गुणे अद्वितीये कल्पितायाः मायायाः अधिष्ठानतत्त्वसाक्षात्कारबाध्यत्वमुक्तम् । यदुक्तं पूर्वं ‘कार्यानुमेया सुधियैव माया’(श्लो. ११०) इति तद्विशदयति तद्धर्मगुणकार्यप्रतिपादनमुखेन रज इत्यादिना । तदीयाः तस्याः इमे तदीयाः मायासम्बन्धिनः गुणाः धर्माः रजः तमः सत्वमिति तेषामप्रत्यक्षत्वात् कार्यमुखेन प्रसिद्धिमाह प्रथितैरिति प्रसिद्धैः तत्तद्गुणकार्यैः वक्ष्यमाणैः ॥११२॥
क्रमेण रजस्तमस्सत्वगुणानां कार्याणि विवक्षन् आदौ रजोगुणकार्याण्याह विक्षेपेति −
विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥११३॥
मायायां सन्ति तिस्रः शक्तयः । विक्षेपशक्तिः आवरणशक्तिः ज्ञानशक्तिश्चेति तत्राद्ययोः बन्धकर्तृत्वं, तृतीया मोक्षहेतुः । तत्र विक्षेपशक्तिः रजसः रजोगुणस्य, क्रियात्मिका कार्यरूपा । यदा उद्रिच्यते रजः तदा विक्षेपाः बहुधा भवन्तीति ज्ञेयमित्यर्थः । यतः रजःकार्यभूतविक्षेपशक्तेस्सकाशात् पुराणी अनादिकालसिद्धा प्रवृत्तिः संसारहेतुभूता प्रवृत्तिः प्रसृता विस्तृता, सा जीवीया वा प्रपञ्चसृष्टिहेतुभूता ईश्वरीया वा भवतु प्रपञ्चसृष्टेरपि विक्षेपशक्तिकार्यत्वात् । तत्रेश्वरस्य शुद्धसत्त्वप्रधानमायोपहितत्वात् तस्याः स्वाधीनत्वाच्च न बन्धस्य प्रसक्तिरिति । जीवस्य तु मलिनसत्त्व-प्रधानाविद्योपाधिकत्वात् ज्ञानशक्तेः रजस्तमोभ्यां प्रतिहन्यमानत्वात् उपाध्यधीनत्वं तत्कृतबन्धवत्वं चेति । रागादय इत्यादिकं जीवविषये ज्ञेयम् । अस्याः रजःकार्यविक्षेपशक्तेः सकाशात् रागादयः रागद्वेषादिदोषाः प्रवृत्तिहेतवः नित्यं जीवस्य प्रभवन्ति । ततः ये मनसो विकाराः दुःखादयः, दुःखहर्षतर्षामर्षादयः मनस एव न तु कदाचिदपि निर्विकारस्यात्मनः इति बोधयितुं मनस इत्युक्तं, ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिः ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । तत्तादात्म्याध्यासात् जीवे कल्प्यन्ते, न वस्तुतः तत्र सन्ति । ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६.११) , ‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ. ३.८.११) , ‘निष्कलं निष्क्रियं शान्तम्’(श्वे.उ. ६.१९) इत्यादिश्रुतेः ॥११३॥
इदानीं रागादय इत्यत्र आदिपदग्राह्यान् रजःकार्यविक्षेपशक्तिकार्यत्वेन राजसान् धर्मान् तेषां घोरत्वेन दुःखहेतुत्वं तेषां सन्ततप्रवृत्तिहेतुत्वेन तन्मूलस्य रजसः बन्धकत्वं चाह काम इति −
कामः क्रोधो लोभदम्भाभ्यसूया-
हङ्कारेर्ष्यामत्सराद्यास्तु घोराः ।
धर्मा एते राजसाः पुम्प्रवृत्ति-
र्यस्मादेतत्तद्रजो बन्धहेतुः ॥११४॥
कामः विषयेच्छा, क्रोधः तदभिघाते जायमानमानसवृत्तिः कोपाख्या । लोभः अर्थस्य प्राप्तौ तत्संरक्षणमतिः । दम्भः धर्मध्वजित्वम् । अभ्यसूया परोत्कर्षासहनम् । अहङ्कारः स्वोत्कृष्टत्वज्ञानम् । ईर्ष्या गुणेषु दोषाविष्करणम् । मत्सरः अक्षीयमाणवस्त्वपरित्यागेच्छा । यथा राजकीयोदपानात् मोदकम्पाः इति वृत्तिः । आदिपदेन मददर्पादिपरिग्रहः । एते लोकद्वयेऽपि भयहेतवः अत एव घोरा इत्युक्तम् । यस्मात्कामक्रोधादिविशिष्टः पुमान् न प्रवृत्तेर्विरमति कदाचिदपि, सर्वदापि यत्किञ्चित्कुर्वाण एवावतिष्ठते । अतः एते धर्मा राजसाः । रजः कर्मणि भारत सञ्जयति (१४.९) इत्युक्तत्वाद्गीतायां सर्वदा यत्किञ्चित्कर्महेतूनामेतेषां राजसत्वम् । ‘प्रवर्तनालक्षणा दोषाः’(१.१.१८) इति न्यायसूत्रम् । सर्वतो निवृत्तौ हि सुखम् । अत्र कस्यापि निवृत्तिप्रयोजकत्वाभावाच्च ।
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥
इत्यपि गीता (१४.१२) । यस्मात् पुम्प्रवृत्तिः एतत् सर्वजनानुभवसिद्धं तत् मायागुणत्वेन कथितं रजः बन्धहेतुः । कार्यकरणसङ्घाताध्यासस्यैव बन्धकत्वात् अध्यासं विना कर्मासम्भवात् रजसः बन्धहेतुत्वं विज्ञेयम् । ‘न ह्यनध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते’ इत्यध्यासभाष्यात् ॥ ११४ ॥
इदानीं तमसः शक्तिम् आवृतिं विक्षेपशक्तिप्रसरहेतुं सकलसंसारादिकारणं निरूपयति एषेति −
एषावृतिर्नाम तमोगुणस्य
शक्तिर्यया वस्त्ववभासतेऽन्यथा ।
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रसरस्य हेतुः ॥११५॥
यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु अन्तःकरणदेहादिरूपेण भासते एषा आवृतिः आवरणं नाम तमोगुणस्य शक्तिः । पुरुषस्य संसृतेः दुःखजन्मजरामरणादिरूपायाः, निदानम् आदिकारणम् । भ्रान्त्या किलानात्मधर्मान् असंसारिणि मन्यते । अतः अयथावस्त्ववभासरूपभ्रान्तिहेत्वावरणशक्तिरेव संसारनिदानम् । एतस्याः अभावे विक्षेपशक्तिरकिञ्चित्करेत्याह विक्षेपशक्तेः प्रसरस्य हेतुरिति । आवृते रज्जुस्वरूपे सर्परूपविक्षेप उत्पद्य भयादिकं जनयति नान्यथेति भावः । अत एव ज्ञानिनां भग्नावरणत्वात् प्रारब्धकर्मात्मकविक्षेपसत्त्वेऽपि बन्धाभावः । इदं तावत् ‘कबलितदिननाथे’(श्लो. १४५) इति श्लोके स्पष्टं ज्ञास्यते । लोकेऽपि क्वचिद्वस्तुनि संशयो वा विपर्ययो वा यस्य तस्यैव विक्षेपक्षोभ्यमाणत्वम् । यस्य निष्कृष्टं ज्ञानं तस्य विक्षेपः नैव भवति । अतः तमोगुणशक्तिः स्वरूपमावृत्य अन्यथा तद्वस्त्ववभासयन्ती विक्षेपजननद्वारा बन्धहेतुरिति भावः ॥११५॥
बन्धहेतुशक्तिद्वयमध्ये अस्याः प्राबल्यमाह प्रज्ञावानपीति −
प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थदृक्
व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् ।
भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥११६॥
प्रज्ञावान् ‘प्रज्ञा त्रैकालिकी मता’ इति मानात् कालत्रयेऽपि निश्चलबुद्धिमानित्यर्थः । सोऽपि पण्डीतोऽपि, शास्त्रजन्यज्ञानं परोक्षं पण्डा, साऽस्य सञ्जातेति पण्डितः तथाविधोऽपि, चतुरोऽपि ऊहापोह विचक्षणोऽपि । अत्यन्तसूक्ष्मार्थदृक् प्रज्ञापाण्डित्यचातुर्याणाम् अत्यन्त सूक्ष्मार्थदृक्त्वे हेतुत्वं ज्ञेयम् । सर्वदा निश्चलबुद्धिमता शास्त्रसाहाय्येन ऊहापोहकौशलेन च अत्यन्तसूक्ष्मान् पदार्थानपि ग्रहीतुं शक्यत्वात् । एतादृगपि पुरुषः तमसा व्यालीढः विशेषेण आ समन्तात् लीढः आवृतस्वरूपः इत्यर्थः । पटुचक्षुरपि गाढान्धकारे किं कुर्यादिति भावः । बहुधा सम्बोधितोऽपि स्फुटं न वेत्ति ‘श्रुण्वन्तोपि बहवो यं न विद्युः’(क.उ. २.७) ‘नायमात्मा बलहीनेन लभ्यः’(मु.उ ३.२.४) ‘न मेधया न बहुना श्रुतेन’(क.उ. १.२.२३) , ‘आश्चर्यवत्पश्यति कश्चिदेनम्’(भ.गी. २.२९) इत्यादि श्रुतेः । भ्रान्त्या अतस्मिंस्तद्बुध्या आरोपितमेव स्थूलादि देहं साधु कलयति अबाधितं जानाति । आलम्बते तद्गुणान् पूजावमानादीन् दृढत्वारोगत्वादीन् कर्तृत्वादीन् सूक्ष्मदेहगतांश्च । इदं तावदनुभवसिद्धं किल लोके यत् श्रुत्या आचार्यैश्च आत्मव्यतिरिक्तं सर्वं मिथ्येत्युच्यमानेऽपि न भ्रान्तिर्जनानां नष्टेति । हन्त कष्टम् । असौ दुरन्ततमसः दुष्टः अन्तः पर्यवसानं यस्य दुरन्तं तच्च तत्तमश्च तस्य अनर्थपर्यवसायिनः तमोगुणस्य आवृतिः महती शक्तिः सत्त्वोत्कर्षं विना दुर्निरसा । विक्षेपशक्त्यपेक्षया प्रबला, अत्यन्तं मोहहेतुत्वादिति भावः । आवृतिः आवरणम् नाम ॥११६॥
श्रवणमनननिदिध्यासनजन्यज्ञाननाश्यत्वं तस्याः वक्तुं तत्त्रितयनिरस्यदोषहेतुरियं प्रत्यगभिन्नब्रह्मणि असम्भावनाम् अनात्मनि शरीरादौ विपरीतात्मत्वभावनां श्रुत्याचार्योक्तार्थे संशयांश्चोत्पाद्य बहुधा मनः विक्षिपन्ती पुमांसम् अभासमानस्वस्वरूपं कुर्वती नाशयतीत्याह अभावनेति −
अभावना वा विपरीतभावना
सम्भावना विप्रतिपत्तिरस्याः ।
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥
अभावना शास्त्रेणोच्यमानं जीवब्रह्मैक्यं प्रपञ्चमिथ्यात्वं च न सम्भवतीति भावना । नास्तीति भावना वा नास्तिक्यमिति यावत् । विपरीतभावना शरीरादौ आत्मत्वभावना । विप्रतिपत्तिःविरुद्धप्रतिपत्तिः । सम्भावना संशयभावनेत्यर्थः । एकधर्मिविशेष्यकविरुद्धनानाधर्मप्रकारकज्ञानं संशय इति तल्लक्षणात् । एतत्त्रयम् अस्याःआवरणशक्तेः संसर्गयुक्तं सम्बन्धयुक्तं नरम् । ध्रुवं न विमुञ्चति नैव विमुञ्चतीत्यर्थः । तादृशं पुमांसं विक्षेपशक्तिः अजस्रं सर्वदा क्षपयति, ‘अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति’(४.४०) इति गीतोक्तेः ॥११७॥
इदानीं तमोगुणकार्याणि विशदयति अज्ञानेति −
अज्ञानमालस्य जडत्वनिद्राप्रमादमूढत्वमुखास्तमोगुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किञ्चिन्निद्रालुवत्स्तम्भवदेव तिष्ठति ॥११८॥
अज्ञानम् उक्तस्याप्यर्थस्याप्रतिपत्तिः, गीतोऽक्तम् ‘एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोन्यथा’(१३.११) इति अमानित्वादिकं वा । आलस्यम् अनुद्यमः, जडत्वं कार्यकरणेष्वपाटवम् । निद्रा प्रसिद्धा, ‘अभावप्रत्ययालम्बना वृत्तिर्निद्रा’(यो.सू. १.१०) इति सूत्रिता । यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्तमोऽभावप्रत्ययः तं विषयीकुर्वती वृत्तिर्निद्रा । प्रमादः कर्तव्यं कर्म कर्तुं शक्तावपि अकरणं तस्य, अजागरूकता, ‘प्रमादोऽनवधानता’(अ.को.श्लो. २३३) इति कोशात् । मूढत्वं यथावस्थितविषये अयथावत्प्रतिपत्तिः । आलस्यजडत्वनिद्राप्रमादमूढत्वानि मुखानि येषां ते संशयादीनां ते तमोगुणाः तमःकार्याणि । तदुपपादयति, एतैः अज्ञानादिभिः धर्मैः प्रयुक्तः विशिष्टः किञ्चिदपि न हि वेत्ति जानाति । निद्रालुवत् यथा सुप्तो न किञ्चिद्वेत्ति तथा स्तम्भवदेव तिष्ठति । श्रेयसे किमपि न चेष्टत इत्यर्थः । प्राप्तज्ञायमानताकस्य अज्ञानं प्रमादः, प्राप्तकर्तव्यताकस्य अकरणमालस्यम् इति वा भेदः ॥११८॥
एवं राजसानां तामसानाञ्च धर्माणामत्यन्तं श्रेयोविघातकत्वकथनेन सत्वं गुणं सम्यगाश्रित्य तयोर्द्वयोरपि गुणयोरत्यन्तं परित्यागः कार्य इत्युक्तं भवति । अधर्मोऽपि जिज्ञास्यः परिहारायेति न्यायेनैव तेषामेवं विवरणम् । इदानीमुपादेयत्वाय सत्वकार्याणि वक्तुं सत्वस्वभावं वर्णयति सत्त्वमिति −
सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥
तथापीत्युत्तरत्र सत्त्वात् आदौ यद्यपीति पठितव्यम् । यद्यपि जलवत् यथा जलं स्वभावतो निर्मलं तथा सत्वं गुणः विशुद्धं निर्मल एव । तथापि ताभ्यां रजस्तमोभ्यां मिलित्वा सरणाय संसाराय कल्पते प्रभवति । तस्य विशुद्धिं स्पष्टयति यत्रेति । आत्मबिम्बः आत्मैव बिम्बः मुखादिवत् । यथा निर्मले जले साभ्रनक्षत्र आकाशः प्रतिफलितः स्पष्टं भासते यथा वा निर्मले दर्पणे मुखं तथा शुद्धे सत्त्वे प्रतिबिम्बितस्सन्नात्मा अर्कवत् सूर्यवत् निर्मलदर्पणे प्रतिबिम्बितसूर्य इव वा अखिलं जडं सर्वमनात्मानं, प्रकाशयति ज्ञातस्वरूपं करोति । ‘सत्त्वात् सञ्जायते ज्ञानम्’(भ.गी. १४.१७) इति स्मृतेः ।
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥ (भ.गी. १४.११)
इति च ॥११९॥
रजस्तमसोः सत्वेऽपि ताभ्यामनभिभूयमानस्य सत्त्वस्य गुणानाह मिश्रस्येति −
मिश्रस्य सत्त्वस्य भवन्ति धर्मा-
स्त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च
दैवी च सम्पत्तिरसन्निवृत्तिः ॥१२०॥
मिश्रस्य सर्वात्मना तमश्शून्यस्य ईषद्रजोमिश्रस्य सत्वस्य इत्यर्थः । ताभ्याम् अभिभूयमानत्वे वक्ष्यमाणगुणसत्वानुपपत्तेः । तुशब्दः इतरगुणद्वयस्य ताभ्यामभिभूयमानसत्वस्य च व्यावर्तकः । अमानिता आद्या येषाम् अदम्भित्वादीनां ते, ते कथिता गीतायाम् –
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचितत्त्वमिष्टानिष्टोपपत्तिषु ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जजनसंसदि ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ॥ (१३.७-११) इति ।
तत्र अमानित्वं, विद्यमानैरविद्यमानैर्वा गुणैः आत्मनः श्लाघारूपसम्मानं मानित्वं, तद्राहित्यममानित्वम् । ख्यातिलाभपूजार्थं स्वधर्मप्रकटनं दम्भः तद्रहितत्वम् अदम्भित्वम् । त्रिकरण्या परपीडावर्जनम् अहिंसा । परैरभिभूयमानस्यापि तान्प्रत्यविकृतचित्तत्त्वं क्षान्तिः । मनोवाक्कायानामैकरूप्यमार्जवम् । प्रणिपातपरिप्रश्नसेवादिभिः आचार्यानुवर्तनम् आचार्योपासनम् । बाह्यमलानां मृज्जलाभ्यामन्तर्मलानां रागादीनां मैत्र्यादिवासनया विषयदोषदर्शनाभ्यासेन च प्रक्षालनया बहिरन्तश्शुचित्वम् । स्थैर्यं मुक्तिसाधनप्रवृत्तस्य विघ्नसम्भवेऽपि तदपरित्यागेन पुनःपुनर्यत्नाधिक्यम् । आत्मविनिग्रहः आत्मनः देहेन्द्रियादेः मोक्षसाधनप्रातिकूल्यस्वभावनिरोधनेन तदनुकूलतया व्यवस्थापनम् । इन्द्रियार्थेषु शब्दस्पर्शरूपादिषु दृष्टानुश्रविकेषु वैराग्यम् । अनहङ्कारः अहमेव सर्वोत्कृष्ट इति गर्वराहित्यम् । जन्ममृत्युजरेति, गर्भवासयोनिद्वारा निस्सरणं जन्म, मृत्युः सर्वमर्मच्छेदनरूपः, जरा बुद्धिबलतेजोनाशसर्वपरिभवरूपा । व्याधयो ज्वरादयः । दुःखानि अनिष्टसंयोगेष्टवियोगजन्यान्याध्यात्मिकादीनि । दोषास्तु वातपित्तश्लेष्माणः मलमूत्रदुर्गन्धरूपाश्च तेषामनुदर्शनं पुनःपुनरालोचनम् । असक्तिः पुत्रादिषु प्रीतित्यागः । तेष्वनभिष्वङ्गः तेषां सुखे दुःखे अहमेव सुखी दुःखीत्यध्यासाभावः । इष्टानिष्टयोरुपपत्तिषु प्राप्तिषु । नित्यं सर्वदा समचित्तत्वं हर्षविषाद शुन्यत्वम् । अनन्ययोगेन अपृथक्समाधिना अहमेव भगवान्वासुदेव इति निश्चयेन अत एव स्वात्मभूते मयि अव्यभिचारिणी ऐकान्तिकी भक्तिः । विविक्तः शुद्धः चित्तप्रसादको यो देशः तत्सेवित्वम् जनानां वैषयिकाणां संसदि रत्यभावः । आत्मानमधिकृत्य प्रवृत्तम् आत्मानात्मविवेकज्ञानम् अध्यात्मज्ञानं तस्मिन्नित्यत्वं तत्रैव निष्ठा । त्वम्पदार्थशोधनैकपरत्वमिति यावत् । पदार्थविवेकपरस्य वाक्यार्थज्ञानाधिगमनात् । तत्त्वज्ञानस्य वाक्यार्थज्ञानरूपस्य योऽर्थः फलं मोक्षः तस्य दर्शनमालोचनम् । तत्त्वज्ञानफलालोचने हि तत्साधने प्रवृत्तिः स्यादिति भावः । अत्र यद्यपि यमघटकीभूतायाः अहिंसायाः नियमघटकस्य शौचस्य च घटनमस्ति तथापि उत्तरत्र नियमा यमाद्या इत्यत्र तदुभयातिरिक्तस्यैव ग्रहणं सम्भवतीति बोध्यम् । नियमाः ‘शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः’(यो.सू. २.३२) इति सूत्रानुसारेण शौचादयः जन्महेतून् काम्यधर्मान्निवर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमा इत्युच्यन्ते । तत्र शौचं पूर्वं निरुक्तम् । सन्तोषः यथालाभपरितुष्टिः । तपः कायशोषणं तदुक्तं योगयाज्ञवल्क्ये –
विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुः तापसाःतप उत्तमम् ॥ (२.२,३) इति ।
स्वाध्यायः प्रणवगायत्रीप्रभृतीनां मन्त्राणां जपः । ईश्वरप्रणिधानम् अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदुक्तम् –
कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहम् ॥
इति । फलाभिसन्धेः उपघातकत्वमभिहितं महद्भिः –
अपि प्रयत्नसम्पन्नं कामेनोपहतं तपः । न तुष्टये महेशस्य श्वलीढमिव पायसम् ॥ इति ।
एतानि पञ्च नियमाः । यमाः ‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः’(यो.सू. २.३०) इति सूत्रानुसारेण अहिंसादयः पञ्च । तत्र अहिंसा विवृता । सत्यं सर्वदा अनृतानभिभाषणम् । अस्तेयं परस्वानपहारः । ब्रह्मचर्यमष्टविधमैथुनत्यागः । अपरिग्रहः शरीरस्थितिमात्रहेतुव्यतिरिक्तभोगसाधनास्वीकारः । यमा आद्या येषाम् आसनप्राणायामप्रत्याहारधारणाध्यानसमाधीनां तेऽपि समाध्यन्तानि योगाङ्गानि आदिपदेन गृह्यन्ते । श्रद्धा सर्वश्रेयोनिदानम् आस्तिक्यबुद्धिः । भक्तिः सा परापरभेदेन द्विविधा । अपरैव साधनभक्तिरित्युच्यते । ‘भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम्’(११.३.३१) इति भागवतोक्तेः ।
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ (भाग. ७.५.२३)
इति नवविधा भक्तिः परमप्रेमलक्षणायाः परभक्तेस्साधनम् । मुमुक्षुता स्वस्वरूपसाक्षात्कारेण आविद्यकानाम् अहङ्कारादि-देहान्तानां बन्धानां निवृत्तीच्छा । दैवीसम्पत्तिः सापि गीतासु षोडशाध्याये ‘अभयं सत्त्वसंशुद्धिः’(१६.१-३) इत्यादिना कथिता ।
अभयं सत्वसंशुद्धि-र्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् । तेजः क्षमा धृतिश्शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ (१६.१-३) इति
तत्राभयं नाम इष्टानिष्टसंयोगवियोगहेतुदर्शनजन्यं यद्दुःखभयं तद्राहित्यं, यद्वा शास्त्रोपदिष्टार्थे सन्देहं विनानुष्ठाननिष्ठत्वम् । सत्वस्यान्तःकरणस्य सम्यक्छुद्धिः निर्मलता सत्वसंशुद्धिः । शुद्धेः सम्यक्त्वं नाम भगवत्तत्त्वस्फूर्तियोग्यत्वम् । शास्त्राचार्योपदेशाभ्यामात्मतत्त्वावगतिः ज्ञानम् । अवगतस्यार्थस्य चित्तैकाग्रतया स्वानुभवारूढत्वापादनं योगः । तयोर्विशेषेणावस्थितिः सदा तन्निष्ठता ज्ञानयोगव्यवस्थितिः । यथाधिकारं स्वद्रव्यस्य पात्रे प्रतिपादनं दानम् । बाह्येन्द्रियसंयमो दमः । श्रौतः अग्निहोत्रदर्शपूर्णमासादिः, स्मार्तश्च देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञ इति चतुर्विधो यज्ञो यज्ञः, ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपः । तपः शारीरादिभेदेन त्रिविधम् ।
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवं । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाड्मयं तप उच्यते ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ (भ.गी. १७.१४-१६) इति ।
अवक्रत्वम् आर्जवं मनोवाक्कायवृत्तीनामैकरूप्यमिति यावत् । परपीडावर्जनमहिंसा । यथादृष्टवचनं सत्यम् । परैराक्रोशे ताडने वा कृते सति सद्यःप्राप्तस्य क्रोधस्य तत्कालमुपशमनमक्रोधः । दानस्य प्रागुक्तेः त्यागो दुःखसङ्गपरित्यागः । शान्तिरन्तरिन्द्रियोपरतिः । परदोषप्रकाशनं पैशुनम् । तदभावोऽपैशुनम् । दुःखितेषु भूतेषु तदीयदुःखासहिष्णुत्वं दया । अलोलुत्वम् अलोलुप्त्वम् इन्द्रियाणां विषयसन्निधानेऽप्यविक्रियत्वमिति यावत् । पवर्णलोप आर्षः । अलोलुप्त्वमिति वा पाठः । मृदुत्वं मार्दवं साधुजनसंश्लेषार्हतेत्यर्थः । अकार्यकरणे लज्जा ह्रीः । वृथाचेष्टाराहित्यम् अचापलम् । प्रागल्भ्यं तेजः स्त्रीबालकादिमूढजनैः अनभिभवनीयत्वमित्यर्थः । सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्रोधानुत्पत्तिः क्षमा । उत्पन्नस्य क्रोधस्य सद्यश्शमनमक्रोध इति ततो भेदः । दुःखादिभिः सीदतः चित्तस्य स्थिरीकरणं धृतिः । बाह्यान्तरशुद्धिः शौचम् । परजिघांसया शस्त्राद्यग्रहणम् अद्रोहः । आत्मनि पूज्यत्वातिशयभावना अतिमानिता तदभावो नातिमानिता । तया च तत्कार्यं पूज्येषु नम्रत्वमुपलक्ष्यते । त एते षड्विंशतिरभयादयो धर्माः देवयोग्यसात्त्विकशुभवासनारूपसम्पत्तिं शरीरारम्भकाले पुण्यकर्मभिः अभिव्यक्तामभिलक्ष्य जातस्य पुरुषस्य भवन्ति निष्पद्यन्ते । ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) ‘पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति’(बृ.उ. ३.२.१३) श्रुतेरिति भावः । असन्निवृत्तिः असतः ब्रह्मव्यतिरिक्तात् निवृत्तिः । यद्वा ‘नाविरतो दुश्चरितात्’(क.उ. २.२४) इति श्रुतेः अवृजिनत्वमर्थः ॥१२०॥
एवं रजस्तमसोः सत्त्वेऽपि ताभ्यामनभिभवनीयसत्त्वधर्मानुक्त्वा ताभ्यां सुतरामसंस्पृश्यमानसत्वधर्मानाह विशुद्धेति −
विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ॥१२१॥
विशुद्धत्वं च रजस्तमोऽशबलितत्वम् । केवलसत्वस्य गुणाः कार्यभूतधर्माः, प्रसादः मनोनैर्मल्यम् । आवरकस्य तमसः विक्षेपकस्य रजसश्च अभावात् अप्रतिबन्धं स्वात्मानुभूतिः । यदा तमसाव्रियते आत्मतत्वं तदा तस्य स्पष्टमभानात् अन्नमयादीनां भानम् । केवलसत्वे तु स्वस्वरूपं निष्प्रत्यूहम् अनुभूयत इति भावः । अत एव परमा निरतिशया प्रकृष्टा शान्तिः । वक्ष्यते चोत्तरत्र –
कस्तां परानन्दरसानुभूतिम् उत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ॥ (श्लो. ५२३)
इति । पूर्वं साधकदशायां प्रयत्नेन सम्पाद्यमाना शान्तिः आत्मदर्शने स्वभावभूता भवतीति भावः । अत एव फल्गुप्रपञ्चसञ्चाराभावात् मनसः तृप्तिः अलम्बुद्धिः निरङ्कुशा । प्रहर्षः साधनानधीनः स्वयं सर्वदा स्फुरन्नानन्दः । यद्वा कृतं कृत्यं प्रापणीयं प्राप्तम् इत्येवं स्वात्मानं धन्यं मत्वा हृष्यतीति प्रकृष्टो हर्षः । यया सदानन्दरसं समृच्छति सम्यगश्नुते सा परमात्मनिष्ठा परमात्मन्येव नितरां स्थितिः । स्वरूपानन्दविलोकनेन मनो व्युत्थातुमशक्तं लीनं निर्विकल्पकसमाधिमनुभवतीति भावः ॥१२१॥
इदानीं गुणत्रयमयस्य मायाविद्यादिशब्दैरभिहितस्य अव्यक्तस्य कार्यानुमेयस्य स्थूलसूक्ष्मादिसकलकार्यहेतुत्वात् ज्ञाननाश्यत्वाच्च शीर्यत इति व्युत्पत्त्या कारणशरीरत्वं च वदन् ‘अव्यक्तनाम्नि’(श्लो. ११०) इत्यादिना उपक्रान्तां मायामुपसंहरति अव्यक्तमेतदिति −
अव्यक्तमेतत्त्रिगुणैर्निरुक्तं
तत्कारणं नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥१२२॥
अव्यक्तं स्वस्वरूपतः साक्षादस्पष्टम् । एतत्त्रिगुणैः त्रयश्च ते गुणाश्च त्रिगुणाः एते च ते त्रिगुणाश्च एतत्त्रिगुणाः, कामक्रोधाज्ञानालस्यामानित्वादिभिर्धर्मैरनुमेयैः रजस्तमस्सत्वगुणैः, निरुक्तं त्रिगुणात्मिका कार्यानुमेया इति पूर्वं कथितं कृतनिर्वचनमित्यर्थः । तत् अव्यक्तम् अविद्यादिशब्दवाच्यम् आत्मनः कारणं नाम शरीरम् । शास्त्रे कारणशरीरमिति प्रसिद्धमित्यर्थः । अस्यासाधारणीमवस्थामाह सुषुप्तिरिति । एतस्य कारणशरीरस्य अव्यक्तस्य । प्रलीनसर्वेन्द्रियबुद्धिवृत्तिरिति सुषुप्तेर्विशेषणम् । सर्वाणि च तानीन्द्रियाणि च सर्वेन्द्रियाणि तानि च बुद्धिश्च सर्वेन्द्रियबुद्धयः तासां वृत्तयः सर्वेन्द्रियबुद्धिवृत्तयः प्रलीना यस्यां सुषुप्तौ सा प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः । एतेन सर्वेन्द्रियवृत्तिमत्या जाग्रदवस्थायाः केवलबुद्धिवृत्तिमत्याःस्वप्नावस्थायाश्च व्यावृत्तिः कृता । विभक्त्यवस्था विभाजकावस्था । अज्ञानस्य अवस्थात्रये सत्वेऽपि इतरावस्थयोः स्वेतरसाधारणत्वात् स्वमात्रस्य सुषुप्तिरसाधारण्यवस्थेति भावः ॥१२२॥
अन्तिमपादार्थम् अनुभवेन स्पष्टयति सर्वेति −
सर्वप्रकारप्रमितिप्रशान्तिः
बीजात्मनावस्थितिरेव बुद्धेः ।
सुषुप्तिरत्रास्य किल प्रतीतिः
किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥१२३॥
सर्वे प्रकाराः प्रत्यक्षत्वानुमितित्वादयः यासां प्रमितीनां तासां प्रकर्षेण शान्तिः प्रशान्तिः उपरमः यत्र सुषुप्तौ सा सर्वप्रकारप्रमितिप्रशान्तिः । तर्हि परदिने व्यवहारः कथमिति चेत् तत्राह बीजात्मनेति । बुद्धेरन्तःकरणस्य बीजात्मना संस्कारात्मना कारणाज्ञानात्मनेत्यर्थः । अवस्थितिरेव न स्वकार्यवृत्त्यात्मनावस्थितिः तदेत्येवकारेण प्रतीयते । सैव सुषुप्तिः । तदा सर्वप्रकारज्ञानाभावे सर्वानुभवं प्रमाणयति । अत्र सुषुप्तिविषये । अस्य सुप्तप्रबुद्धस्य जीवस्य किञ्चिन्न वेद्मीति जानामीति प्रतीतिः । किल प्रसिद्धा इत्यर्थः । यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा किञ्चिन्न वेद्मीति प्रतीतिर्न स्यात् । जाग्रत्स्वप्नयोस्तथाप्रतीतेरभावादिति भावः । अनुभवे विवदमानं प्रत्याह जगत्प्रसिद्धेरिति । तथा च सर्वप्रसिद्धप्रतीतौ विवादोऽसङ्गत इत्यभिप्रायः ॥१२३॥
इदानीमात्मानात्मविवेचनार्थं प्रतिपिपादयिषितमनात्मानमुपसंहरति देहेति −
देहेन्द्रियप्राणमनोऽहमादयः
सर्वे विकारा विषयाः सुखादयः ।
व्योमादिभूतान्यखिलं च विश्वं
अव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२४॥
देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहेन्द्रियप्राणमनोहमः आदयः येषां बुद्ध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः । विषयाः शब्दस्पर्शरूपरसगन्धाः । सुखादयः सुखम् आदिर्येषां दुःखमोहसङ्कल्पादिवृत्तीनां भयान्तानां मनःपरिणामानां ते सुखादयः । व्योम आकाशम् आदि येषां तानि पृथिव्यन्तानि भूतानि । किं बहुना इदं परिदृश्यमानम् अव्यक्तपर्यन्तम् अखिलं समस्तं, विश्वं जगत् , अनात्मा । एतेन ‘कोसावनात्मा’(श्लो. ५१) इत्यस्य उत्तरं दत्तम् ॥१२४॥
अन्तिमकार्यप्रभृति आदिमपरिणाम्युपादानपर्यन्तं सर्वम् अनात्मेत्युक्तम् । तद्वैपरीत्येन आदिमपरिणाम्युपादानात् अन्तिमकार्यपर्यन्तं सर्वं तथेति दार्ढ्यार्थं वदन् तस्य मिथ्यात्वमपि कथयति मायेति −
माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् ।
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२५॥
माया मूलप्रकृतिः, महत् महत्तत्त्वं ‘तदैक्षत’(छा.उ. ६.२.३) इति श्रुतिसिद्धम् ईक्षणं तदादि यस्य देहपर्यन्तस्य मायाकार्यस्य तन्महदादि । अहङ्कारः ईश्वरसङ्कल्पः ‘सोऽकामयत’(तै.उ. २.६) इति श्रुतिसिद्धः । ततः पञ्च सूक्ष्मभूतानि, ततः पञ्चीकृतानि स्थूलभूतानि, ततः ब्रह्माण्डं, तत्र चतुर्दशभुवनानि तदन्तर्वर्तिस्थूलदेहादयः एतत्सर्वं देहपर्यन्तं मायाकार्यं त्वम् इदं मायां मायाकार्यं च अनात्मतत्त्वम् आत्मव्यतिरिक्तपदार्थं कोऽसावनात्मेति प्रश्नोत्तरविषयम् असत् सद्रूपात्मभिन्नम् । अत एव पूर्वोक्तशुद्धाद्वयब्रह्मविबोधनाश्यत्वादिहेतुना मरुमरीचिकाकल्पं मृगतृष्णिकासदृशं दृष्टनष्टस्वरूपत्वेन मिथ्याभूतं विद्धि जानीहि । घर्मकाले मरुभूमौ मिहिरमरीचयः पतिताः महावारिप्रवाहबुद्धिं जनयन्ति । वस्तुतस्तु विशेषदर्शने तत्र जलं किञ्चिदपि नास्ति । तथा ब्रह्मज्ञानात् प्राक् माया तत्कार्यं च भासते । तत्साक्षात्कारे च प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यतीति दृष्टनष्टस्वरूपत्वं तेषां, ततो मरुमरीचिकावन्मिथ्यात्वम् । मरुषु मरीचिकाः मरुमरीचिकाः । उक्तार्थमिदं पदम् ॥१२५॥
एवमनात्मानं निरवशेषमुक्त्वा ‘परमः क आत्मा’(श्लो. ५१) इति प्रश्नस्य उत्तरं वक्तुमारभते अथेति −