अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१४. कारणशरीरम्

अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ॥११०॥

११०

अव्यक्तमिति नाम यस्याः, तस्याः प्रत्यक्षतः अनुपलम्भात् । तत्र हेतुः रूपादिरहितत्वम् । परमेशस्य परमेश्वरस्य ब्रह्मणः, शक्तिः अचि­न्त्या­द्भु­त­शक्तिः न विद्यते आदिः यस्याः अनादिः, सा च सा अविद्या च । वस्तुतः न विद्यते इत्यविद्या अनाद्यविद्या । त्रयो गुणाः सत्वरजस्तमांसि यस्य तथाविधः आत्मा स्वरूपं यस्याः त्रिगुणात्मिका । यद्वा त्रयो गुणाः त्रिगुणाः त एव आत्मा यस्याः गुण­त्र­य­स्व­रू­पे­त्यर्थः । परा हिर­ण्य­ग­र्भा­दि­स्व­का­र्येभ्यः परा उत्कृष्टा तत्कारणत्वात् । अव्यक्तनामत्वे हेतुमाह कार्यानुमेया रूपाद्यभावेन प्रत्य­क्ष­गो­च­र­त्वा­भा­वेऽपि शब्दादिभिः गगनादिकमिव कार्य­लि­ङ्गे­ना­नु­मेया । एत­च्छ­क्त्य­न­ङ्गी­कारे निर्गुणस्य ब्रह्मणः स्रष्टृ­त्वा­यो­गात् निष्कारणं कार्यो­त्प­त्त्य­यो­गात् खादि­स­क­ल­वि­का­र­हे­तु­त्वेन श्रुत्या प्रती­य­मा­ने­क्ष­ण­स­ङ्क­ल्पा­दि­प­रि­णा­मि­त्वेन मायायाः सिद्धिरिति भावः । अशब्दशरणाः अन्यथान्यथा जगदुत्पत्तिं तर्कयन्ति तदसङ्गतमिति सूचयति सुधियेति । सुष्ठुता च धियि श्रुत्य­नु­सा­रित्वं, तत्सूचितं परमेशशक्तिपदेन । तेन साङ्ख्यै­रु­च्य­मानं जडं स्वतन्त्रं प्रधानं सत्यं जग­न्मू­ल­मि­त्या­दि­क­म­पास्तं वेदितव्यम् । अत्र श्रुतिरप्यस्ति ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ. ४.१०) , ‘जीवेशावभासेन करोति माया चाविद्या च स्वयमेव भवति’(नृ.उ.ता. ९.३) , ‘इन्द्रो मायाभिः पुरुरूप ईयते’(ऋ.सं. ६.४७.१८) इत्याद्या । तथा च सुष्ठु शोभना श्रुत्यनुसारिणी धीः यस्य स सुधीः । तेन सुधिया कार्यानुमेया माया यया इदं सर्वं जगत् मह­त्त­त्वा­दि­ब्र­ह्मा­ण्डान्तं प्रसूयते ‘तत्कारणं नाम शरीरमात्मनः’(श्लो. १२२) इति व्यवहितेन सम्बन्धः ॥११०॥

तस्याः स्वरूपमाह सन्नापीति −

सन्ना­प्य­स­न्ना­प्यु­भ­या­त्मिका नो
भिन्ना­प्य­भि­न्ना­प्यु­भ­या­त्मिका नो ।
साङ्गा­प्य­न­ङ्गा­प्यु­भ­या­त्मिका नो
महा­द्भु­ताऽ­नि­र्व­च­नी­य­रूपा ॥१११॥

१११

लोके तावत् अबाधितस्य सत्त्वं बाध्यमानस्य असत्यत्वं प्रसिद्धं यथा ऋतस्यानृतस्य च । कदापि कस्यापि अप्रतीयमानस्य असत्त्वं शश­वि­षा­ण­ग­ग­न­कु­सु­मादेः । इयं तु माया ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे.उ. १.१०)

तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ (वि.पु. ५.१७.१५)

‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।’(भ.गी. ७.१४) इत्यादि श्रुति­स्मृ­तिभ्यः ज्ञान­बा­ध्य­त्वे­ना­व­ग­म्यते । अतः तस्याः आत्मवत्सत्त्वं दुर्वचम् ।‘नाभावो विद्यते सतः’(भ.गी. ७.१४) इति गीतायाश्च अस्याः ज्ञानानन्तरम् अभा­वा­व­श्य­म्भा­वात् न सत्त्वम् । ज्ञानात्प्राक् कार्यरूपेण प्रतीयमानत्वेन तत्परिणामित्वेन अनुमिति विषयत्वेन च न शश­वि­षा­ण­व­द­सत्त्वं सुवचम् । सत्त्वा­स­त्त्वयोः व्याप्य­वृ­त्ति­त्वेन कालभेदेन एकत्र स्वीक­र्तु­म­नु­चि­त­त्वेन नोभयात्मकत्वं तस्याः । एकैकरूपत्वाभावे उभयात्मकत्वस्य अत्य­न्ता­स­म्भ­वाच्च । यथा स्वाप्नि­क­प­दा­र्था­ना­मै­न्द्र­जा­लि­क­प­दा­र्थानां च दृष्ट­न­ष्ट­स्व­रू­प­त्वा­न्मि­थ्यात्वं सद­स­द्वि­ल­क्ष­ण­त्व­रूपं तथा अस्या अपीति भावः । उक्तं हि –

नासतो विद्यते भावः नाभावो विद्यते सतः । उभयोरपि दृष्टो­न्त­स्त्व­न­यो­स्त­त्त्व­द­र्शिभिः ॥ (भ.गी. २.१६)

इति गीतायाम् । यद्यपि लौकिकाः पूर्वमुत्पत्तेः अत्यन्तमसतः घटादेर्भावम् , उत्पत्त्यनन्तरं सत्त्वेन अभ्युपगतस्य तस्य नाशे अभावं चाङ्गीकुर्वन्ति तदसङ्गतमिति सर्वज्ञेन भगवतैवोक्तम् अनयोरुभयोः अन्तः निर्णयः तत्त्वदर्शिभिः दृष्ट इति कथयता । इत्थं च इयं माया सत् सद्वस्त्वपि न, असद्वस्त्वपि न उभयात्मिका सदसदात्मिका नो । अपि तु सत्त्वा­स­त्त्वाभ्यां निर्व­क्तु­म­श­क्य­त्वात् अनिर्वचनीयरूपा । यथा सत्त्वेन वा असत्त्वेन वा निर्वक्तुमशक्या एवं ब्रह्मणो भिन्नत्वेन अभिन्नत्वेन च अनि­र्व­च­नी­ये­त्याह । ब्रह्म­णोऽ­त्य­न्त­भि­न्नत्वे अद्वै­त­बो­ध­क­श्रु­ति­वि­रो­धात् लोकेऽपि शक्तेः शक्ति­म­तोऽ­त्य­न्त­भे­दा­भा­वाच्च । एवमभिन्नत्वे तस्याः बाधायोगात् ब्रह्मणः काल­त्र­या­बा­ध्य­त्वात् । भिन्नाभिन्नत्वे विरुद्धे अतः भिन्नापि न अभिन्नापि न उभयात्मिकापि नो भवतीत्यर्थः । एवमनादित्वेन साङ्गा सावयवा न भवति सावयवत्वे जन्यत्वापत्तेः । निरवयवत्वे परिणामासम्भवात् तदपि वक्तुमशक्यम् । अतः अनङ्गा अनवयवापि न । उभयात्मिकापि नो साव­य­व­त्व­नि­र­व­य­व­त्वयोः एकत्र विरोधादेव । अतः सत्त्वा­स­त्त्वाभ्यां भिन्न­त्वा­भि­न्न­त्वाभ्यां साङ्ग­त्वा­न­ङ्ग­त्वाभ्यां निर्वक्तुमशक्यं रूपं यस्याः सा अनिर्वचनीयरूपा महाद्भुता अत्य­न्ता­श्च­र्य­रूपा ॥१११॥

अस्याः अत्य­न्त­नि­वृ­त्ति­हे­तु­स­त्त्वाच्च नासत्त्वमित्याह शुद्धाद्वयेति −

शुद्धा­द्व­य­ब्र­ह्म­वि­बो­ध­नाश्या
सर्पभ्रमो रज्जुविवेकतो यथा ।
रज­स्त­म­स्स­त्त्व­मिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११२॥

११२

शुद्धं निर्गुणम् अद्वयं सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­शून्यं यद्ब्रह्म तस्य विबोधः अभेदेन साक्षात्कारः तेन नाश्या तज्ज­न्य­ध्वं­स­प्र­ति­यो­गिनी । तत्र दृष्टान्तमाह सर्पभ्रमः रज्वां जातः अयं सर्प इति भ्रमः, रज्जुविवेकतो यथा कल्पि­त­स­र्पा­धि­ष्ठा­न­भू­त­र­ज्जु­सा­क्षा­त्का­रे­णेव नायं सर्पः किन्तु रज्जु­रि­त्या­का­रेण । तेन निर्गुणे अद्वितीये कल्पितायाः मायायाः अधि­ष्ठा­न­त­त्त्व­सा­क्षा­त्का­र­बा­ध्य­त्व­मु­क्तम् । यदुक्तं पूर्वं ‘कार्यानुमेया सुधियैव माया’(श्लो. ११०) इति तद्विशदयति तद्ध­र्म­गु­ण­का­र्य­प्र­ति­पा­द­न­मु­खेन रज इत्यादिना । तदीयाः तस्याः इमे तदीयाः मायासम्बन्धिनः गुणाः धर्माः रजः तमः सत्वमिति तेषा­म­प्र­त्य­क्ष­त्वात् कार्यमुखेन प्रसिद्धिमाह प्रथितैरिति प्रसिद्धैः तत्त­द्गु­ण­कार्यैः वक्ष्यमाणैः ॥११२॥

क्रमेण रज­स्त­म­स्स­त्व­गु­णानां कार्याणि विवक्षन् आदौ रजो­गु­ण­का­र्या­ण्याह विक्षेपेति −

विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥११३॥

११३

मायायां सन्ति तिस्रः शक्तयः । विक्षेपशक्तिः आवरणशक्तिः ज्ञान­श­क्ति­श्चेति तत्राद्ययोः बन्धकर्तृत्वं, तृतीया मोक्षहेतुः । तत्र विक्षेपशक्तिः रजसः रजोगुणस्य, क्रियात्मिका कार्यरूपा । यदा उद्रिच्यते रजः तदा विक्षेपाः बहुधा भवन्तीति ज्ञेयमित्यर्थः । यतः रजः­का­र्य­भू­त­वि­क्षे­प­श­क्ते­स्स­का­शात् पुराणी अनादिकालसिद्धा प्रवृत्तिः संसारहेतुभूता प्रवृत्तिः प्रसृता विस्तृता, सा जीवीया वा प्रप­ञ्च­सृ­ष्टि­हे­तु­भूता ईश्वरीया वा भवतु प्रप­ञ्च­सृ­ष्टे­रपि विक्षे­प­श­क्ति­का­र्य­त्वात् । तत्रेश्वरस्य शुद्ध­स­त्त्व­प्र­धा­न­मा­यो­प­हि­त­त्वात् तस्याः स्वाधीनत्वाच्च न बन्धस्य प्रसक्तिरिति । जीवस्य तु मलि­न­स­त्त्व-प्र­धा­ना­वि­द्यो­पा­धि­क­त्वात् ज्ञानशक्तेः रजस्तमोभ्यां प्रति­ह­न्य­मा­न­त्वात् उपाध्यधीनत्वं तत्कृतबन्धवत्वं चेति । रागादय इत्यादिकं जीवविषये ज्ञेयम् । अस्याः रजः­का­र्य­वि­क्षे­प­शक्तेः सकाशात् रागादयः राग­द्वे­षा­दि­दोषाः प्रवृत्तिहेतवः नित्यं जीवस्य प्रभवन्ति । ततः ये मनसो विकाराः दुःखादयः, दुःख­ह­र्ष­त­र्षा­म­र्षा­दयः मनस एव न तु कदाचिदपि निर्वि­का­र­स्या­त्मनः इति बोधयितुं मनस इत्युक्तं, ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिः ह्रीर्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । तत्ता­दा­त्म्या­ध्या­सात् जीवे कल्प्यन्ते, न वस्तुतः तत्र सन्ति । ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६.११) , ‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ. ३.८.११) , ‘निष्कलं निष्क्रियं शान्तम्’(श्वे.उ. ६.१९) इत्यादिश्रुतेः ॥११३॥

इदानीं रागादय इत्यत्र आदिपदग्राह्यान् रजः­का­र्य­वि­क्षे­प­श­क्ति­का­र्य­त्वेन राजसान् धर्मान् तेषां घोरत्वेन दुःखहेतुत्वं तेषां सन्त­त­प्र­वृ­त्ति­हे­तु­त्वेन तन्मूलस्य रजसः बन्धकत्वं चाह काम इति −

कामः क्रोधो लोभ­द­म्भा­भ्य­सूया-
हङ्का­रे­र्ष्या­म­त्स­रा­द्यास्तु घोराः ।
धर्मा एते राजसाः पुम्प्रवृत्ति-
र्यस्मा­दे­त­त्त­द्रजो बन्धहेतुः ॥११४॥

११४

कामः विषयेच्छा, क्रोधः तदभिघाते जाय­मा­न­मा­न­स­वृत्तिः कोपाख्या । लोभः अर्थस्य प्राप्तौ तत्संरक्षणमतिः । दम्भः धर्मध्वजित्वम् । अभ्यसूया परोत्कर्षासहनम् । अहङ्कारः स्वोत्कृ­ष्ट­त्व­ज्ञा­नम् । ईर्ष्या गुणेषु दोषाविष्करणम् । मत्सरः अक्षी­य­मा­ण­व­स्त्व­प­रि­त्या­गेच्छा । यथा राजकीयोदपानात् मोदकम्पाः इति वृत्तिः । आदिपदेन मद­द­र्पा­दि­प­रि­ग्रहः । एते लोकद्वयेऽपि भयहेतवः अत एव घोरा इत्युक्तम् । यस्मा­त्का­म­क्रो­धा­दि­वि­शिष्टः पुमान् न प्रवृ­त्ते­र्वि­र­मति कदाचिदपि, सर्वदापि यत्कि­ञ्चि­त्कु­र्वाण एवावतिष्ठते । अतः एते धर्मा राजसाः । रजः कर्मणि भारत सञ्जयति (१४.९) इत्यु­क्त­त्वा­द्गी­तायां सर्वदा यत्कि­ञ्चि­त्क­र्म­हे­तू­ना­मे­तेषां राजसत्वम् । ‘प्रव­र्त­ना­ल­क्षणा दोषाः’(१.१.१८) इति न्यायसूत्रम् । सर्वतो निवृत्तौ हि सुखम् । अत्र कस्यापि निवृ­त्ति­प्र­यो­ज­क­त्वा­भा­वाच्च ।

लोभः प्रवृ­त्ति­रा­रम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥

इत्यपि गीता (१४.१२) । यस्मात् पुम्प्रवृत्तिः एतत् सर्व­ज­ना­नु­भ­व­सिद्धं तत् मायागुणत्वेन कथितं रजः बन्धहेतुः । कार्य­क­र­ण­स­ङ्घा­ता­ध्या­स­स्यैव बन्धकत्वात् अध्यासं विना कर्मासम्भवात् रजसः बन्धहेतुत्वं विज्ञेयम् । ‘न ह्यन­ध्य­स्ता­त्म­भा­वेन देहेन कश्चि­द्व्या­प्रि­यते’ इत्य­ध्या­स­भा­ष्यात् ॥ ११४ ॥

इदानीं तमसः शक्तिम् आवृतिं विक्षे­प­श­क्ति­प्र­स­र­हेतुं सक­ल­सं­सा­रा­दि­का­रणं निरूपयति एषेति −

एषावृतिर्नाम तमोगुणस्य
शक्तिर्यया वस्त्व­व­भा­स­तेऽ­न्यथा ।
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रसरस्य हेतुः ॥११५॥

११५

यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु अन्तः­क­र­ण­दे­हा­दि­रू­पेण भासते एषा आवृतिः आवरणं नाम तमोगुणस्य शक्तिः । पुरुषस्य संसृतेः दुःख­ज­न्म­ज­रा­म­र­णा­दि­रू­पायाः, निदानम् आदिकारणम् । भ्रान्त्या किला­ना­त्म­ध­र्मान् असंसारिणि मन्यते । अतः अय­था­व­स्त्व­व­भा­स­रू­प­भ्रा­न्ति­हे­त्वा­व­र­ण­श­क्ति­रेव संसारनिदानम् । एतस्याः अभावे विक्षे­प­श­क्ति­र­कि­ञ्चि­त्क­रे­त्याह विक्षेपशक्तेः प्रसरस्य हेतुरिति । आवृते रज्जुस्वरूपे सर्परूपविक्षेप उत्पद्य भयादिकं जनयति नान्यथेति भावः । अत एव ज्ञानिनां भग्नावरणत्वात् प्रार­ब्ध­क­र्मा­त्म­क­वि­क्षे­प­स­त्त्वेऽपि बन्धाभावः । इदं तावत् ‘कबलितदिननाथे’(श्लो. १४५) इति श्लोके स्पष्टं ज्ञास्यते । लोकेऽपि क्वचिद्वस्तुनि संशयो वा विपर्ययो वा यस्य तस्यैव विक्षे­प­क्षो­भ्य­मा­ण­त्वम् । यस्य निष्कृष्टं ज्ञानं तस्य विक्षेपः नैव भवति । अतः तमोगुणशक्तिः स्वरूपमावृत्य अन्यथा तद्व­स्त्व­व­भा­स­यन्ती विक्षे­प­ज­न­न­द्वारा बन्धहेतुरिति भावः ॥११५॥

बन्ध­हे­तु­श­क्ति­द्व­य­मध्ये अस्याः प्राबल्यमाह प्रज्ञावानपीति −

प्रज्ञावानपि पण्डितोऽपि चतु­रोऽ­प्य­त्य­न्त­सू­क्ष्मा­र्थ­दृक्
व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् ।
भ्रान्त्या­रो­पि­त­मेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्ति­र्म­ह­त्या­वृतिः ॥११६॥

११६

प्रज्ञावान् ‘प्रज्ञा त्रैकालिकी मता’ इति मानात् कालत्रयेऽपि निश्च­ल­बु­द्धि­मा­नि­त्यर्थः । सोऽपि पण्डीतोऽपि, शास्त्र­ज­न्य­ज्ञानं परोक्षं पण्डा, साऽस्य सञ्जातेति पण्डितः तथाविधोऽपि, चतुरोऽपि ऊहापोह विचक्षणोऽपि । अत्य­न्त­सू­क्ष्मा­र्थ­दृक् प्रज्ञा­पा­ण्डि­त्य­चा­तु­र्या­णाम् अत्यन्त सूक्ष्मा­र्थ­दृक्त्वे हेतुत्वं ज्ञेयम् । सर्वदा निश्चलबुद्धिमता शास्त्र­सा­हा­य्येन ऊहापोहकौशलेन च अत्य­न्त­सू­क्ष्मान् पदार्थानपि ग्रहीतुं शक्यत्वात् । एतादृगपि पुरुषः तमसा व्यालीढः विशेषेण आ समन्तात् लीढः आवृतस्वरूपः इत्यर्थः । पटुचक्षुरपि गाढान्धकारे किं कुर्यादिति भावः । बहुधा सम्बोधितोऽपि स्फुटं न वेत्ति ‘श्रुण्वन्तोपि बहवो यं न विद्युः’(क.उ. २.७) ‘नायमात्मा बलहीनेन लभ्यः’(मु.उ ३.२.४) ‘न मेधया न बहुना श्रुतेन’(क.उ. १.२.२३) , ‘आश्च­र्य­व­त्प­श्यति कश्चिदेनम्’(भ.गी. २.२९) इत्यादि श्रुतेः । भ्रान्त्या अत­स्मिं­स्त­द्बुध्या आरोपितमेव स्थूलादि देहं साधु कलयति अबाधितं जानाति । आलम्बते तद्गुणान् पूजावमानादीन् दृढ­त्वा­रो­ग­त्वा­दीन् कर्तृत्वादीन् सूक्ष्म­दे­ह­ग­तांश्च । इदं तावदनुभवसिद्धं किल लोके यत् श्रुत्या आचार्यैश्च आत्मव्यतिरिक्तं सर्वं मिथ्ये­त्यु­च्य­मा­नेऽपि न भ्रान्ति­र्ज­नानां नष्टेति । हन्त कष्टम् । असौ दुरन्ततमसः दुष्टः अन्तः पर्यवसानं यस्य दुरन्तं तच्च तत्तमश्च तस्य अन­र्थ­प­र्य­व­सा­यिनः तमोगुणस्य आवृतिः महती शक्तिः सत्त्वोत्कर्षं विना दुर्निरसा । विक्षे­प­श­क्त्य­पे­क्षया प्रबला, अत्यन्तं मोहहेतुत्वादिति भावः । आवृतिः आवरणम् नाम ॥११६॥

श्रव­ण­म­न­न­नि­दि­ध्या­स­न­ज­न्य­ज्ञा­न­ना­श्यत्वं तस्याः वक्तुं तत्त्रि­त­य­नि­र­स्य­दो­ष­हे­तु­रियं प्रत्य­ग­भि­न्न­ब्र­ह्मणि असम्भावनाम् अनात्मनि शरीरादौ विप­री­ता­त्म­त्व­भा­वनां श्रुत्या­चा­र्यो­क्तार्थे संश­यां­श्चो­त्पाद्य बहुधा मनः विक्षिपन्ती पुमांसम् अभा­स­मा­न­स्व­स्व­रूपं कुर्वती नाशयतीत्याह अभावनेति −

अभावना वा विपरीतभावना
सम्भावना विप्र­ति­प­त्ति­रस्याः ।
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥

११७

अभावना शास्त्रे­णो­च्य­मानं जीवब्रह्मैक्यं प्रप­ञ्च­मि­थ्यात्वं च न सम्भवतीति भावना । नास्तीति भावना वा नास्तिक्यमिति यावत् । विपरीतभावना शरीरादौ आत्मत्वभावना । विप्र­ति­प­त्तिः­वि­रु­द्ध­प्र­ति­पत्तिः । सम्भावना संश­य­भा­व­ने­त्यर्थः । एक­ध­र्मि­वि­शे­ष्य­क­वि­रु­द्ध­ना­ना­ध­र्म­प्र­का­र­क­ज्ञानं संशय इति तल्लक्षणात् । एतत्त्रयम् अस्याः­आ­व­र­ण­शक्तेः संसर्गयुक्तं सम्बन्धयुक्तं नरम् । ध्रुवं न विमुञ्चति नैव विमु­ञ्च­ती­त्यर्थः । तादृशं पुमांसं विक्षेपशक्तिः अजस्रं सर्वदा क्षपयति, ‘अज्ञ­श्चा­श्र­द्ध­धा­नश्च संशयात्मा विनश्यति’(४.४०) इति गीतोक्तेः ॥११७॥

इदानीं तमोगुणकार्याणि विशदयति अज्ञानेति −

अज्ञानमालस्य जड­त्व­नि­द्रा­प्र­मा­द­मू­ढ­त्व­मु­खा­स्त­मो­गुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किञ्चि­न्नि­द्रा­लु­व­त्स्त­म्भ­व­देव तिष्ठति ॥११८॥

११८

अज्ञानम् उक्त­स्या­प्य­र्थ­स्या­प्र­ति­पत्तिः, गीतोऽक्तम् ‘एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोन्यथा’(१३.११) इति अमानित्वादिकं वा । आलस्यम् अनुद्यमः, जडत्वं कार्य­क­र­णे­ष्व­पा­ट­वम् । निद्रा प्रसिद्धा, ‘अभा­व­प्र­त्य­या­ल­म्बना वृत्तिर्निद्रा’(यो.सू. १.१०) इति सूत्रिता । यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्त­मोऽ­भा­व­प्र­त्ययः तं विषयीकुर्वती वृत्तिर्निद्रा । प्रमादः कर्तव्यं कर्म कर्तुं शक्तावपि अकरणं तस्य, अजागरूकता, ‘प्रमा­दोऽ­न­व­धा­नता’(अ.को.श्लो. २३३) इति कोशात् । मूढत्वं यथावस्थितविषये अय­था­व­त्प्र­ति­पत्तिः । आल­स्य­ज­ड­त्व­नि­द्रा­प्र­मा­द­मू­ढ­त्वानि मुखानि येषां ते संशयादीनां ते तमोगुणाः तमःकार्याणि । तदुपपादयति, एतैः अज्ञानादिभिः धर्मैः प्रयुक्तः विशिष्टः किञ्चिदपि न हि वेत्ति जानाति । निद्रालुवत् यथा सुप्तो न किञ्चिद्वेत्ति तथा स्तम्भवदेव तिष्ठति । श्रेयसे किमपि न चेष्टत इत्यर्थः । प्राप्त­ज्ञा­य­मा­न­ता­कस्य अज्ञानं प्रमादः, प्राप्त­क­र्त­व्य­ता­कस्य अकरणमालस्यम् इति वा भेदः ॥११८॥

एवं राजसानां तामसानाञ्च धर्माणामत्यन्तं श्रेयो­वि­घा­त­क­त्व­क­थ­नेन सत्वं गुणं सम्यगाश्रित्य तयोर्द्वयोरपि गुणयोरत्यन्तं परित्यागः कार्य इत्युक्तं भवति । अधर्मोऽपि जिज्ञास्यः परिहारायेति न्यायेनैव तेषामेवं विवरणम् । इदा­नी­मु­पा­दे­य­त्वाय सत्वकार्याणि वक्तुं सत्वस्वभावं वर्णयति सत्त्वमिति −

सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥

११९

तथा­पी­त्यु­त्त­रत्र सत्त्वात् आदौ यद्यपीति पठितव्यम् । यद्यपि जलवत् यथा जलं स्वभावतो निर्मलं तथा सत्वं गुणः विशुद्धं निर्मल एव । तथापि ताभ्यां रजस्तमोभ्यां मिलित्वा सरणाय संसाराय कल्पते प्रभवति । तस्य विशुद्धिं स्पष्टयति यत्रेति । आत्मबिम्बः आत्मैव बिम्बः मुखादिवत् । यथा निर्मले जले साभ्रनक्षत्र आकाशः प्रतिफलितः स्पष्टं भासते यथा वा निर्मले दर्पणे मुखं तथा शुद्धे सत्त्वे प्रति­बि­म्बि­त­स्स­न्नात्मा अर्कवत् सूर्यवत् निर्मलदर्पणे प्रति­बि­म्बि­त­सूर्य इव वा अखिलं जडं सर्वमनात्मानं, प्रकाशयति ज्ञातस्वरूपं करोति । ‘सत्त्वात् सञ्जायते ज्ञानम्’(भ.गी. १४.१७) इति स्मृतेः ।

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥ (भ.गी. १४.११)

इति च ॥११९॥

रजस्तमसोः सत्वेऽपि ताभ्या­म­न­भि­भू­य­मा­नस्य सत्त्वस्य गुणानाह मिश्रस्येति −

मिश्रस्य सत्त्वस्य भवन्ति धर्मा-
स्त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च
दैवी च सम्प­त्ति­र­स­न्नि­वृत्तिः ॥१२०॥

१२०

मिश्रस्य सर्वात्मना तमश्शून्यस्य ईषद्रजोमिश्रस्य सत्वस्य इत्यर्थः । ताभ्याम् अभिभूयमानत्वे वक्ष्य­मा­ण­गु­ण­स­त्वा­नु­प­पत्तेः । तुशब्दः इतरगुणद्वयस्य ताभ्या­म­भि­भू­य­मा­न­स­त्वस्य च व्यावर्तकः । अमानिता आद्या येषाम् अदम्भित्वादीनां ते, ते कथिता गीतायाम् –

अमा­नि­त्व­म­द­म्भि­त्व­म­हिंसा क्षान्ति­रा­र्ज­वम् । आचार्योपासनं शौचं स्थैर्य­मा­त्म­वि­नि­ग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्म­मृ­त्यु­ज­रा­व्या­धि­दुः­ख­दो­षा­नु­द­र्श­नम् ॥ अस­क्ति­र­न­भि­ष्वङ्गः पुत्र­दा­र­गृ­हा­दिषु । नित्यं च सम­चि­त­त्त्व­मि­ष्टा­नि­ष्टो­प­प­त्तिषु ॥ मयि चानन्ययोगेन भक्ति­र­व्य­भि­चा­रिणी । विवि­क्त­दे­श­से­वि­त्व­म­र­ति­र्ज­ज­न­सं­सदि ॥ अध्या­त्म­ज्ञा­न­नि­त्यत्वं तत्त्व­ज्ञा­ना­र्थ­द­र्श­नम् ॥ (१३.७-११) इति ।

तत्र अमानित्वं, विद्य­मा­नै­र­वि­द्य­मा­नैर्वा गुणैः आत्मनः श्लाघा­रू­प­स­म्मानं मानित्वं, तद्रा­हि­त्य­म­मा­नि­त्वम् । ख्याति­ला­भ­पू­जार्थं स्वधर्मप्रकटनं दम्भः तद्रहितत्वम् अदम्भित्वम् । त्रिकरण्या परपीडावर्जनम् अहिंसा । परै­र­भि­भू­य­मा­न­स्यापि तान्प्र­त्य­वि­कृ­त­चि­त्तत्त्वं क्षान्तिः । मनो­वा­क्का­या­ना­मै­क­रू­प्य­मा­र्ज­वम् । प्रणि­पा­त­प­रि­प्र­श्न­से­वा­दिभिः आचा­र्या­नु­व­र्त­नम् आचार्योपासनम् । बाह्यमलानां मृज्ज­ला­भ्या­म­न्त­र्म­लानां रागादीनां मैत्र्या­दि­वा­स­नया विष­य­दो­ष­द­र्श­ना­भ्या­सेन च प्रक्षालनया बहि­र­न्त­श्शु­चि­त्वम् । स्थैर्यं मुक्ति­सा­ध­न­प्र­वृ­त्तस्य विघ्नसम्भवेऽपि तदपरित्यागेन पुनः­पु­न­र्य­त्ना­धि­क्यम् । आत्मविनिग्रहः आत्मनः देहेन्द्रियादेः मोक्ष­सा­ध­न­प्रा­ति­कू­ल्य­स्व­भा­व­नि­रो­ध­नेन तदनुकूलतया व्यवस्थापनम् । इन्द्रियार्थेषु शब्द­स्प­र्श­रू­पा­दिषु दृष्टा­नु­श्र­वि­केषु वैराग्यम् । अनहङ्कारः अहमेव सर्वोत्कृष्ट इति गर्वराहित्यम् । जन्म­मृ­त्यु­ज­रेति, गर्भ­वा­स­यो­नि­द्वारा निस्सरणं जन्म, मृत्युः सर्व­म­र्म­च्छे­द­न­रूपः, जरा बुद्धि­ब­ल­ते­जो­ना­श­स­र्व­प­रि­भ­व­रूपा । व्याधयो ज्वरादयः । दुःखानि अनि­ष्ट­सं­यो­गे­ष्ट­वि­यो­ग­ज­न्या­न्या­ध्या­त्मि­का­दीनि । दोषास्तु वात­पि­त्त­श्ले­ष्माणः मल­मू­त्र­दु­र्ग­न्ध­रू­पाश्च तेषामनुदर्शनं पुनःपुनरालोचनम् । असक्तिः पुत्रादिषु प्रीतित्यागः । तेष्वनभिष्वङ्गः तेषां सुखे दुःखे अहमेव सुखी दुःखी­त्य­ध्या­सा­भावः । इष्टा­नि­ष्ट­यो­रु­प­प­त्तिषु प्राप्तिषु । नित्यं सर्वदा समचित्तत्वं हर्षविषाद शुन्यत्वम् । अनन्ययोगेन अपृथक्समाधिना अहमेव भगवान्वासुदेव इति निश्चयेन अत एव स्वात्मभूते मयि अव्यभिचारिणी ऐकान्तिकी भक्तिः । विविक्तः शुद्धः चित्तप्रसादको यो देशः तत्सेवित्वम् जनानां वैषयिकाणां संसदि रत्यभावः । आत्मानमधिकृत्य प्रवृत्तम् आत्मा­ना­त्म­वि­वे­क­ज्ञा­नम् अध्यात्मज्ञानं तस्मि­न्नि­त्यत्वं तत्रैव निष्ठा । त्वम्प­दा­र्थ­शो­ध­नै­क­प­र­त्व­मिति यावत् । पदा­र्थ­वि­वे­क­प­रस्य वाक्या­र्थ­ज्ञा­ना­धि­ग­म­नात् । तत्त्वज्ञानस्य वाक्या­र्थ­ज्ञा­न­रू­पस्य योऽर्थः फलं मोक्षः तस्य दर्शनमालोचनम् । तत्त्व­ज्ञा­न­फ­ला­लो­चने हि तत्साधने प्रवृत्तिः स्यादिति भावः । अत्र यद्यपि यमघटकीभूतायाः अहिंसायाः नियमघटकस्य शौचस्य च घटनमस्ति तथापि उत्तरत्र नियमा यमाद्या इत्यत्र तदु­भ­या­ति­रि­क्त­स्यैव ग्रहणं सम्भवतीति बोध्यम् । नियमाः ‘शौच­स­न्तो­ष­त­प­स्स्वा­ध्या­ये­श्व­र­प्र­णि­धा­नानि नियमाः’(यो.सू. २.३२) इति सूत्रानुसारेण शौचादयः जन्महेतून् काम्य­ध­र्मा­न्नि­वर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमा इत्युच्यन्ते । तत्र शौचं पूर्वं निरुक्तम् । सन्तोषः यथा­ला­भ­प­रि­तुष्टिः । तपः कायशोषणं तदुक्तं योगयाज्ञवल्क्ये –

विधिनोक्तेन मार्गेण कृच्छ्र­चा­न्द्रा­य­णा­दिभिः । शरीरशोषणं प्राहुः तापसाःतप उत्तमम् ॥ (२.२,३) इति ।

स्वाध्यायः प्रण­व­गा­य­त्री­प्र­भृ­तीनां मन्त्राणां जपः । ईश्वरप्रणिधानम् अभि­हि­ता­ना­म­न­भि­हि­तानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदुक्तम् –

कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहम् ॥

इति । फलाभिसन्धेः उप­घा­त­क­त्व­म­भि­हितं महद्भिः –

अपि प्रयत्नसम्पन्नं कामेनोपहतं तपः । न तुष्टये महेशस्य श्वलीढमिव पायसम् ॥ इति ।

एतानि पञ्च नियमाः । यमाः ‘अहिं­सा­स­त्या­स्ते­य­ब्र­ह्म­च­र्या­प­रि­ग्रहाः यमाः’(यो.सू. २.३०) इति सूत्रानुसारेण अहिंसादयः पञ्च । तत्र अहिंसा विवृता । सत्यं सर्वदा अनृतानभिभाषणम् । अस्तेयं परस्वानपहारः । ब्रह्म­च­र्य­म­ष्ट­वि­ध­मै­थु­न­त्यागः । अपरिग्रहः शरी­र­स्थि­ति­मा­त्र­हे­तु­व्य­ति­रि­क्त­भो­ग­सा­ध­ना­स्वी­कारः । यमा आद्या येषाम् आस­न­प्रा­णा­या­म­प्र­त्या­हा­र­धा­र­णा­ध्या­न­स­मा­धीनां तेऽपि समाध्यन्तानि योगाङ्गानि आदिपदेन गृह्यन्ते । श्रद्धा सर्व­श्रे­यो­नि­दा­नम् आस्तिक्यबुद्धिः । भक्तिः सा परापरभेदेन द्विविधा । अपरैव साध­न­भ­क्ति­रि­त्यु­च्यते । ‘भक्त्या सञ्जातया भक्त्या बिभ्र­त्यु­त्पु­लकां तनुम्’(११.३.३१) इति भागवतोक्तेः ।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्य­मा­त्म­नि­वे­द­नम् ॥ (भाग. ७.५.२३)

इति नवविधा भक्तिः पर­म­प्रे­म­ल­क्ष­णायाः परभक्तेस्साधनम् । मुमुक्षुता स्वस्व­रू­प­सा­क्षा­त्का­रेण आविद्यकानाम् अह­ङ्का­रा­दि-दे­हा­न्तानां बन्धानां निवृत्तीच्छा । दैवीसम्पत्तिः सापि गीतासु षोडशाध्याये ‘अभयं सत्त्व­सं­शुद्धिः’(१६.१-३) इत्यादिना कथिता ।

अभयं सत्व­सं­शु­द्धि-र्ज्ञा­न­यो­ग­व्य­व­स्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । अहिंसा सत्य­म­क्रो­ध­स्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् । तेजः क्षमा धृति­श्शौ­च­म­द्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ (१६.१-३) इति

तत्राभयं नाम इष्टा­नि­ष्ट­सं­यो­ग­वि­यो­ग­हे­तु­द­र्श­न­जन्यं यद्दुःखभयं तद्राहित्यं, यद्वा शास्त्रो­प­दि­ष्टार्थे सन्देहं विना­नु­ष्ठा­न­नि­ष्ठ­त्वम् । सत्व­स्या­न्तः­क­र­णस्य सम्यक्छुद्धिः निर्मलता सत्वसंशुद्धिः । शुद्धेः सम्यक्त्वं नाम भग­व­त्त­त्त्व­स्फू­र्ति­यो­ग्य­त्वम् । शास्त्रा­चा­र्यो­प­दे­शा­भ्या­मा­त्म­त­त्त्वा­व­गतिः ज्ञानम् । अवगतस्यार्थस्य चित्तैकाग्रतया स्वानु­भ­वा­रू­ढ­त्वा­पा­दनं योगः । तयो­र्वि­शे­षे­णा­व­स्थितिः सदा तन्निष्ठता ज्ञान­यो­ग­व्य­व­स्थितिः । यथाधिकारं स्वद्रव्यस्य पात्रे प्रतिपादनं दानम् । बाह्ये­न्द्रि­य­सं­यमो दमः । श्रौतः अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सादिः, स्मार्तश्च देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञ इति चतुर्विधो यज्ञो यज्ञः, ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । स्वाध्यायो ब्रह्मयज्ञः अदृ­ष्टा­र्थ­मृ­ग्वे­दा­द्य­ध्य­य­न­रूपः । तपः शारीरादिभेदेन त्रिविधम् ।

देव­द्वि­ज­गु­रु­प्रा­ज्ञ­पू­जनं शौचमार्जवं । ब्रह्म­च­र्य­म­हिंसा च शारीरं तप उच्यते ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्या­या­भ्य­सनं चैव वाड्मयं तप उच्यते ॥ मनःप्रसादः सौम्यत्वं मौन­मा­त्म­वि­नि­ग्रहः । भाव­सं­शु­द्धि­रि­त्ये­त­त्तपो मानसमुच्यते ॥ (भ.गी. १७.१४-१६) इति ।

अवक्रत्वम् आर्जवं मनो­वा­क्का­य­वृ­त्ती­ना­मै­क­रू­प्य­मिति यावत् । पर­पी­डा­व­र्ज­न­म­हिंसा । यथादृष्टवचनं सत्यम् । परैराक्रोशे ताडने वा कृते सति सद्यःप्राप्तस्य क्रोधस्य तत्का­ल­मु­प­श­म­न­म­क्रोधः । दानस्य प्रागुक्तेः त्यागो दुःख­स­ङ्ग­प­रि­त्यागः । शान्ति­र­न्त­रि­न्द्रि­यो­प­रतिः । परदोषप्रकाशनं पैशुनम् । तदभावोऽपैशुनम् । दुःखितेषु भूतेषु तदी­य­दुः­खा­स­हि­ष्णुत्वं दया । अलोलुत्वम् अलोलुप्त्वम् इन्द्रियाणां विष­य­स­न्नि­धा­नेऽ­प्य­वि­क्रि­य­त्व­मिति यावत् । पवर्णलोप आर्षः । अलोलुप्त्वमिति वा पाठः । मृदुत्वं मार्दवं साधु­ज­न­सं­श्ले­षा­र्ह­ते­त्यर्थः । अकार्यकरणे लज्जा ह्रीः । वृथा­चे­ष्टा­रा­हि­त्यम् अचापलम् । प्रागल्भ्यं तेजः स्त्रीबा­ल­का­दि­मू­ढ­जनैः अन­भि­भ­व­नी­य­त्व­मि­त्यर्थः । सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्रोधा­नु­त्पत्तिः क्षमा । उत्पन्नस्य क्रोधस्य सद्यश्शमनमक्रोध इति ततो भेदः । दुःखादिभिः सीदतः चित्तस्य स्थिरीकरणं धृतिः । बाह्या­न्त­र­शुद्धिः शौचम् । परजिघांसया शस्त्रा­द्य­ग्र­ह­णम् अद्रोहः । आत्मनि पूज्य­त्वा­ति­श­य­भा­वना अतिमानिता तदभावो नातिमानिता । तया च तत्कार्यं पूज्येषु नम्र­त्व­मु­प­ल­क्ष्यते । त एते षड्विं­श­ति­र­भ­या­दयो धर्माः देव­यो­ग्य­सा­त्त्वि­क­शु­भ­वा­स­ना­रू­प­स­म्पत्तिं शरीरारम्भकाले पुण्यकर्मभिः अभि­व्य­क्ता­म­भि­लक्ष्य जातस्य पुरुषस्य भवन्ति निष्पद्यन्ते । ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) ‘पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति’(बृ.उ. ३.२.१३) श्रुतेरिति भावः । असन्निवृत्तिः असतः ब्रह्म­व्य­ति­रि­क्तात् निवृत्तिः । यद्वा ‘नाविरतो दुश्चरितात्’(क.उ. २.२४) इति श्रुतेः अवृजिनत्वमर्थः ॥१२०॥

एवं रजस्तमसोः सत्त्वेऽपि ताभ्या­म­न­भि­भ­व­नी­य­स­त्त्व­ध­र्मा­नुक्त्वा ताभ्यां सुत­रा­म­सं­स्पृ­श्य­मा­न­स­त्व­ध­र्मा­नाह विशुद्धेति −

विशु­द्ध­स­त्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ॥१२१॥

१२१

विशुद्धत्वं च रज­स्त­मोऽ­श­ब­लि­त­त्वम् । केवलसत्वस्य गुणाः कार्यभूतधर्माः, प्रसादः मनोनैर्मल्यम् । आवरकस्य तमसः विक्षेपकस्य रजसश्च अभावात् अप्रतिबन्धं स्वात्मानुभूतिः । यदा तमसाव्रियते आत्मतत्वं तदा तस्य स्पष्टमभानात् अन्नमयादीनां भानम् । केवलसत्वे तु स्वस्वरूपं निष्प्रत्यूहम् अनुभूयत इति भावः । अत एव परमा निरतिशया प्रकृष्टा शान्तिः । वक्ष्यते चोत्तरत्र –

कस्तां परा­न­न्द­र­सा­नु­भू­तिम् उत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रे­न्दु­मा­लो­क­यितुं क इच्छेत् ॥ (श्लो. ५२३)

इति । पूर्वं साधकदशायां प्रयत्नेन सम्पाद्यमाना शान्तिः आत्मदर्शने स्वभावभूता भवतीति भावः । अत एव फल्गु­प्र­प­ञ्च­स­ञ्चा­रा­भा­वात् मनसः तृप्तिः अलम्बुद्धिः निरङ्कुशा । प्रहर्षः साधनानधीनः स्वयं सर्वदा स्फुरन्नानन्दः । यद्वा कृतं कृत्यं प्रापणीयं प्राप्तम् इत्येवं स्वात्मानं धन्यं मत्वा हृष्यतीति प्रकृष्टो हर्षः । यया सदानन्दरसं समृच्छति सम्यगश्नुते सा परमात्मनिष्ठा परमात्मन्येव नितरां स्थितिः । स्वरू­पा­न­न्द­वि­लो­क­नेन मनो व्युत्था­तु­म­शक्तं लीनं निर्वि­क­ल्प­क­स­मा­धि­म­नु­भ­व­तीति भावः ॥१२१॥

इदानीं गुणत्रयमयस्य माया­वि­द्या­दि­श­ब्दै­र­भि­हि­तस्य अव्यक्तस्य कार्यानुमेयस्य स्थूल­सू­क्ष्मा­दि­स­क­ल­का­र्य­हे­तु­त्वात् ज्ञान­ना­श्य­त्वाच्च शीर्यत इति व्युत्पत्त्या कारणशरीरत्वं च वदन् ‘अव्यक्तनाम्नि’(श्लो. ११०) इत्यादिना उपक्रान्तां मायामुपसंहरति अव्यक्तमेतदिति −

अव्य­क्त­मे­त­त्त्रि­गु­णै­र्नि­रुक्तं
तत्कारणं नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृत्तिः ॥१२२॥

१२२

अव्यक्तं स्वस्वरूपतः साक्षादस्पष्टम् । एतत्त्रिगुणैः त्रयश्च ते गुणाश्च त्रिगुणाः एते च ते त्रिगुणाश्च एतत्त्रिगुणाः, काम­क्रो­धा­ज्ञा­ना­ल­स्या­मा­नि­त्वा­दि­भि­र्ध­र्मै­र­नु­मेयैः रज­स्त­म­स्स­त्व­गुणैः, निरुक्तं त्रिगुणात्मिका कार्यानुमेया इति पूर्वं कथितं कृत­नि­र्व­च­न­मि­त्यर्थः । तत् अव्यक्तम् अवि­द्या­दि­श­ब्द­वा­च्यम् आत्मनः कारणं नाम शरीरम् । शास्त्रे कारणशरीरमिति प्रसि­द्ध­मि­त्यर्थः । अस्या­सा­धा­र­णी­म­व­स्था­माह सुषुप्तिरिति । एतस्य कारणशरीरस्य अव्यक्तस्य । प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृ­त्ति­रिति सुषु­प्ते­र्वि­शे­ष­णम् । सर्वाणि च तानीन्द्रियाणि च सर्वेन्द्रियाणि तानि च बुद्धिश्च सर्वे­न्द्रि­य­बु­द्धयः तासां वृत्तयः सर्वे­न्द्रि­य­बु­द्धि­वृ­त्तयः प्रलीना यस्यां सुषुप्तौ सा प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृत्तिः । एतेन सर्वे­न्द्रि­य­वृ­त्ति­मत्या जाग्रदवस्थायाः केव­ल­बु­द्धि­वृ­त्ति­म­त्याः­स्व­प्ना­व­स्था­याश्च व्यावृत्तिः कृता । विभक्त्यवस्था विभाजकावस्था । अज्ञानस्य अवस्थात्रये सत्वेऽपि इतरावस्थयोः स्वेत­र­सा­धा­र­ण­त्वात् स्वमात्रस्य सुषु­प्ति­र­सा­धा­र­ण्य­व­स्थेति भावः ॥१२२॥

अन्तिमपादार्थम् अनुभवेन स्पष्टयति सर्वेति −

सर्व­प्र­का­र­प्र­मि­ति­प्र­शान्तिः
बीजा­त्म­ना­व­स्थि­ति­रेव बुद्धेः ।
सुषु­प्ति­र­त्रास्य किल प्रतीतिः
किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥१२३॥

१२३

सर्वे प्रकाराः प्रत्य­क्ष­त्वा­नु­मि­ति­त्वा­दयः यासां प्रमितीनां तासां प्रकर्षेण शान्तिः प्रशान्तिः उपरमः यत्र सुषुप्तौ सा सर्व­प्र­का­र­प्र­मि­ति­प्र­शान्तिः । तर्हि परदिने व्यवहारः कथमिति चेत् तत्राह बीजात्मनेति । बुद्धे­र­न्तः­क­र­णस्य बीजात्मना संस्कारात्मना कार­णा­ज्ञा­ना­त्म­ने­त्यर्थः । अवस्थितिरेव न स्वका­र्य­वृ­त्त्या­त्म­ना­व­स्थितिः तदेत्येवकारेण प्रतीयते । सैव सुषुप्तिः । तदा सर्व­प्र­का­र­ज्ञा­ना­भावे सर्वानुभवं प्रमाणयति । अत्र सुषुप्तिविषये । अस्य सुप्त­प्र­बु­द्धस्य जीवस्य किञ्चिन्न वेद्मीति जानामीति प्रतीतिः । किल प्रसिद्धा इत्यर्थः । यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा किञ्चिन्न वेद्मीति प्रतीतिर्न स्यात् । जाग्र­त्स्व­प्न­यो­स्त­था­प्र­ती­ते­र­भा­वा­दिति भावः । अनुभवे विवदमानं प्रत्याह जग­त्प्र­सि­द्धे­रिति । तथा च सर्व­प्र­सि­द्ध­प्र­तीतौ विवादोऽसङ्गत इत्यभिप्रायः ॥१२३॥

इदा­नी­मा­त्मा­ना­त्म­वि­वे­च­नार्थं प्रति­पि­पा­द­यि­षि­त­म­ना­त्मा­न­मु­प­सं­ह­रति देहेति −

देहे­न्द्रि­य­प्रा­ण­म­नोऽ­ह­मा­दयः
सर्वे विकारा विषयाः सुखादयः ।
व्योमा­दि­भू­ता­न्य­खिलं च विश्वं
अव्य­क्त­प­र्य­न्त­मिदं ह्यनात्मा ॥१२४॥

१२४

देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहे­न्द्रि­य­प्रा­ण­म­नो­हमः आदयः येषां बुद्ध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः । विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः । सुखादयः सुखम् आदिर्येषां दुःख­मो­ह­स­ङ्क­ल्पा­दि­वृ­त्तीनां भयान्तानां मनःपरिणामानां ते सुखादयः । व्योम आकाशम् आदि येषां तानि पृथिव्यन्तानि भूतानि । किं बहुना इदं परिदृश्यमानम् अव्य­क्त­प­र्य­न्तम् अखिलं समस्तं, विश्वं जगत् , अनात्मा । एतेन ‘कोसावनात्मा’(श्लो. ५१) इत्यस्य उत्तरं दत्तम् ॥१२४॥

अन्ति­म­का­र्य­प्र­भृति आदि­म­प­रि­णा­म्यु­पा­दा­न­प­र्यन्तं सर्वम् अना­त्मे­त्यु­क्तम् । तद्वैपरीत्येन आदि­म­प­रि­णा­म्यु­पा­दा­नात् अन्ति­म­का­र्य­प­र्यन्तं सर्वं तथेति दार्ढ्यार्थं वदन् तस्य मिथ्यात्वमपि कथयति मायेति −

माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् ।
अस­दि­द­म­ना­त्म­तत्त्वं विद्धि त्वं मरु­म­री­चि­का­क­ल्पम् ॥१२५॥

१२५

माया मूलप्रकृतिः, महत् महत्तत्त्वं ‘तदैक्षत’(छा.उ. ६.२.३) इति श्रुतिसिद्धम् ईक्षणं तदादि यस्य देहपर्यन्तस्य मायाकार्यस्य तन्महदादि । अहङ्कारः ईश्वरसङ्कल्पः ‘सोऽकामयत’(तै.उ. २.६) इति श्रुतिसिद्धः । ततः पञ्च सूक्ष्मभूतानि, ततः पञ्चीकृतानि स्थूलभूतानि, ततः ब्रह्माण्डं, तत्र चतुर्दशभुवनानि तद­न्त­र्व­र्ति­स्थू­ल­दे­हा­दयः एतत्सर्वं देहपर्यन्तं मायाकार्यं त्वम् इदं मायां मायाकार्यं च अनात्मतत्त्वम् आत्म­व्य­ति­रि­क्त­प­दार्थं कोऽसावनात्मेति प्रश्नो­त्त­र­वि­ष­यम् असत् सद्रू­पा­त्म­भि­न्नम् । अत एव पूर्वो­क्त­शु­द्धा­द्व­य­ब्र­ह्म­वि­बो­ध­ना­श्य­त्वा­दि­हे­तुना मरुमरीचिकाकल्पं मृग­तृ­ष्णि­का­स­दृशं दृष्ट­न­ष्ट­स्व­रू­प­त्वेन मिथ्याभूतं विद्धि जानीहि । घर्मकाले मरुभूमौ मिहिरमरीचयः पतिताः महा­वा­रि­प्र­वा­ह­बुद्धिं जनयन्ति । वस्तुतस्तु विशेषदर्शने तत्र जलं किञ्चिदपि नास्ति । तथा ब्रह्मज्ञानात् प्राक् माया तत्कार्यं च भासते । तत्साक्षात्कारे च प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यतीति दृष्ट­न­ष्ट­स्व­रू­पत्वं तेषां, ततो मरु­म­री­चि­का­व­न्मि­थ्या­त्वम् । मरुषु मरीचिकाः मरुमरीचिकाः । उक्तार्थमिदं पदम् ॥१२५॥

एवमनात्मानं निरवशेषमुक्त्वा ‘परमः क आत्मा’(श्लो. ५१) इति प्रश्नस्य उत्तरं वक्तुमारभते अथेति −