विवेकचूडामणिः सव्याख्यः
१५. परमात्मा
अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः ।
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥१२६॥
अथशब्दः अनात्मप्रतिपादनानन्तर्यार्थकः । यत्परमात्मस्वरूपं विज्ञाय साक्षात्कृत्य, नरः विद्याधिकारी पुरुषः, बन्धात् अहङ्कारादि देहान्ताद् बन्धात् मुक्तः त्यक्ततत्तादात्म्याध्यासः कैवल्यं सर्वोपाधिसम्बन्धविनिर्मुक्तत्वेन केवलदृग्रूपत्वं निर्भेदसच्चिदानन्दरूपत्वं च अश्नुते प्राप्नोति । तत् परमात्मनः स्वरूपं याथात्म्यं ते तव सम्प्रवक्ष्यामि सम्यक् स्पष्टं प्रकर्षेण विस्तरेण वक्ष्यामि कथयिष्यामीत्यर्थः ॥१२६॥
आत्मानं वक्तुं प्रक्रमते अस्तीति −
अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः ।
अवस्थात्रयसाक्षी सन् पञ्चकोशविलक्षणः ॥१२७॥
स्वयं, सत्तास्फूर्तिविषये परानपेक्षः, अहंप्रत्ययलम्बनः अहमाकारवृत्तिमन्मनस्तादात्म्यापन्नतया अहं वृत्तेराश्रयः । अहंप्रत्ययः अहंवृत्तिः लम्बनं बिम्बग्राहिणी यस्य सः अहंप्रत्ययलम्बनः अहंवृत्तिविषय इत्यप्यर्थः । अवस्थात्रयसाक्षी सन् जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयसाक्षाद्द्द्रष्टा सन् । पञ्चकोशविलक्षणः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयव्यतिरिक्तः । स नित्यं सर्वदा कश्चिदस्ति स एव आत्मेति शेषः । अत्र कालत्रयाबाध्यत्वरूपसद्रूपत्वमुक्तम् ॥१२७॥
अवस्थात्रयसाक्षित्वमुपपादयति य इत्यादिना −
यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु ।
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥१२८॥
इदमिदं पश्याम्यनुमिनोमि शब्दात् प्रत्येमि स्मरामीत्यादिप्रकारेण जाग्रत्स्वप्नयोः बुद्धितद्वृत्तिसद्भावम् । न किञ्चिदवेदिषमिति सुषुप्त्यनन्तरकालिकस्मृत्यनुसारेण सुषुप्तौ बुद्धितद्वृत्त्यभावं च यो विजानाति सकलं जाग्रद्भावान् स्वाप्नपदार्थान् सुषुप्तावज्ञानञ्च अहमहमिदं जानामि अज्ञासिषं ज्ञास्यामीत्यनुभवात् । अयमात्मा इत्यन्वयः ॥१२८॥
इतरावेद्यत्वेन सर्वद्रष्टृत्वेन च ज्ञानस्वरूपत्वमाह यः पश्यतीत्यादिना −
यः पश्यति स्वयं सर्वं यं न पश्यति किञ्चन ।
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥१२९॥
यः पश्यति स्वयं सर्वं ‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ. ३.७.२३) इति श्रुतेः । यं न पश्यति किञ्चन ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः’(के.उ. १.३) ‘न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः’(मु.उ १.३.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) इत्यादिश्रुतिभ्यः । यः बुद्ध्यादि जडं चेतयति स्वप्रतिफलनेन चेतनवत् करोति । तत् बुद्ध्यादि यं न चेतयति स्वतः चेतनत्वात् । जडं हि स्वकार्यार्थं चेतनमपेक्षते न चेतनस्य पराकाङ्क्षा । अयमात्मा इत्यन्वयः ॥१२९॥
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन ।
अभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥१३०॥
सर्वोपादानतया येन सर्वान्तरेण इदं विश्वं जगत् व्याप्तं विशेषेणाप्तं सम्बद्धम् । किञ्चन किमपि वस्तु यमात्मानं न व्याप्प्नोति अस्य सर्वस्य बाह्यत्वाद् ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’(भ.गी. १०.४२) ‘विकारावर्ति च तथाहि स्थितिमाह’(ब्र.सू. ४.४.१९) ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.उ. ३.१२.६) इति स्मृतिसूत्रश्रुतिभ्यः, ‘ज्यायान्पृथिव्याः ज्यायानन्तरिक्षाज्ज्यायानेभ्यो लोकेभ्यः’(छा.उ. ३.१४.३) इत्यादि श्रुतेश्च । अभारूपम् अप्रकाशरूपं जडमित्यर्थः । इदं सर्वं चिद्रूपं यं भान्तमनुभाति ‘तमेव भान्तमनुभाति सर्वं’(क.उ. ५.१५) इति श्रुतेः अयमात्मा इत्यन्वयः । अत्र ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति श्रुत्युक्तमानन्त्यं देशपरिच्छेदशून्यत्वकथनेन कथितं बोध्यम् ॥१३०॥
यश्चेतयति बुद्ध्यादि इत्युक्तं विवृणोति यस्येत्यादिना −
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः ।
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥१३१॥
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ (के.उ. १.१)
इति पृष्ट्वा श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुः (के.उ. १.२) इत्युत्तरितमर्थमाह − यस्य आत्मनः सन्निधिमात्रेण अभिमानरूपसम्बन्धवशात् । देहेन्द्रियमनोधियः, अत्र देहशब्देन वाक्पाणिपादादीनि कर्मेन्द्रियाणि गृह्यन्ते । इन्द्रियपदेन श्रोत्रादीनि ज्ञानेन्द्रियाणि मनः अन्तःकरणम् । धीः कर्त्री न बुद्धिः । स्वकीयेषु विषयेषु वचनादानगमनादिषु श्रवणदर्शनस्पर्शनादिषु सङ्कल्पनविकल्पनादिषु लौकिकवैदिककार्येषु च प्रेरिता इव स्पष्टं जडानां स्वतो व्यापाराभावात् । वर्तन्ते स आत्मा इत्यन्वयः ॥१३१॥
अहङ्कारादिदेहान्ता विषयाश्च सुखादयः ।
वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ॥१३२॥
दृश्यस्य द्रष्टृधर्मत्वाभावात् अहङ्कारादिदेहान्ताः पञ्चकोशाः । विषयाः शब्दादयः, सुखादयःतत्प्रयोज्याश्च । नित्यबोधस्वरूपिणा स्वतस्सिद्धज्ञानस्वरूपेण येन घटवत् घट इव वेद्यन्ते ज्ञायन्ते । स आत्मा इत्यन्वयः । तेन सुखादीनां दृश्यत्वात् द्रष्टृधर्मत्वं नास्तीत्यसङ्गत्वमुक्तमात्मनः ।
अहङ्कारादिदेहान्तानां पञ्चानां कोशानां वेद्यत्वकथनेन सूत्रस्थानीयप्रथमश्लोकोक्तं पञ्चकोशविलक्षणत्वं सङ्ग्रहेण कथितम् । इदमुत्तरत्र स्पष्टयिष्यते ‘देहोयमन्नभवन’(श्लो. १५६) इत्यादिना ॥१३२॥
एषोन्तरात्मा पुरुषः पुराणो
निरन्तराखण्डसुखानुभूतिः ।
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति ॥१३३॥
येन इषिताः सन्निधिमात्रेण प्रेरिताः । वाक्चासवश्च वागसवः । इदं सर्वस्य कार्यकरणसङ्घातस्योपलक्षणं । वाक् असव इति भिन्नं वा पदम् । वागिन्न्द्रियं प्राणाश्चरन्ति शब्दोच्चारणोच्छ्वासनिश्वासादीनि कर्माणि स्वकीयानि कुर्वन्ति । एषः अन्तरात्मा लोकसिद्धानां श्रुत्यापि ब्रह्मप्रतिपत्तिहेतुत्वेन अन्नमयाद्यानन्दमयान्तानां कोशानां कल्पितानां बाह्यानां कल्पनाधिष्ठानत्वेन सर्वानुगततया भूच्छिद्रसर्पदण्डजलधारादिष्विव रज्जुर्भासमानः अन्तरात्मा । पुरुषः पूर्णः पुरि शरीरे शेत इति वा पुरुषः । पुराणः पुरापि नव एव सनातनः । निरन्तराखण्डसुखानुभूतिः निरन्तरं निरवधिकम् अत एव अखण्डम् अपरिच्छिन्नं यत्सुखम् आनन्दः या च निरन्तरा अखण्डा च अनुभूतिः ‘यत्साक्षादपरोक्षाद्ब्रह्म’(बृ.उ. ३.४.१) इति श्रुतेः तत्स्वरूपः । सदैकरूपः निर्विकार इत्यर्थः । प्रतिबोधमात्रः बोधे बोधे प्रतिबोधं, मीयत इति मात्रः सकलबुद्धिवृत्तिषु अनुगततया काष्ठादिष्विवाग्निः ज्ञात इत्यर्थः । ‘प्रतिबोधविदितं मतम्’(के.उ. २.४) इति श्रुतेः । ज्ञानस्वरूपत्वं निरन्तराखण्डसुखानुभूतिरित्यत्रोक्तम् । गुरूपदेशजन्यबोधो वा प्रतिबोधः तत्र विषय इत्यर्थः गुरुणा प्रतिबोधित इति प्रसिद्धेः । सुप्तप्रतिबुद्ध इति प्रसिद्धेः अविद्यास्वापनाशकः महावाक्यजन्याखण्डाकारवृत्तिरूपबोधः प्रतिबोधः तत्र विषय इति वाऽर्थः ॥१३३॥
सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते । (तै.आ. ३.१२.७)
इत्यादिश्रुत्यनुसारेण ‘अवस्थितेरिति काशकृत्स्नः’(ब्र.सू. १.४.२२) इति सूत्रानुसारेण च परमात्मन एव जीवभावेनावतिष्ठमानत्वात् शोधितत्वम्पदार्थत्वेन आत्मानमभिधाय तत्पदार्थत्वेन ‘अनश्नन्नन्यो अभिचाकशीति’(मु.उ. ३.१.१) इत्यादि श्रुत्यभिप्रेतमर्थमाह अत्रैवेत्यादिना −
अत्रैव सत्त्वात्मनि धीगुहायाम्
अव्याकृताकाश उरुप्रकाशः ।
आकाश उच्चैरविवत्प्रकाशते
स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४॥
अत्रैव साधकशरीर एव सत्त्वम् आत्मा यस्याः धीगुहायाः सा सत्त्वात्मा सत्त्वप्रधाना या धीः सैव गुहा । गूहू संवरणे इति धातुना, विज्ञानमयकोशत्वेन आत्मानं संवृणोतीति तस्यां धीगुहायाम् । उपादानत्वेन अनुस्यूतः यः अव्याकृताकाशः माया तस्मिन् अव्याकृताकाशे । उरुप्रकाशः उरुः अधिकः प्रकाशः ज्ञानरूपतया सर्वावभासकत्वात् ‘तद्देवा ज्योतिषां ज्योतिः’(बृ.उ. ४.४.१६) इति श्रुतेः । आकाशः परमात्मा स्वतेजसा सूर्यादिसकलज्योतिरवभासकज्ञानरूपप्रकाशेन ‘येन सूर्यस्तपति तेजसेद्धः’(कृ.य. ३.९.५५) इति श्रुतेः । इदं विश्वं दृश्यं सर्वम् । प्रकाशयन् स्फोरयन् रविवत् सूर्यवत् । उच्चैः प्रकाशते सर्वोत्कर्षेण भासते । उच्चैरविवदिति वाऽन्वयः आकाशमध्यवर्तिसूर्य इव इत्यर्थः । एतेन “पूर्वश्लोके (१३३) ‘एषोन्तरात्मा पुरुष’ इत्यत्र कथितः पुरि शरीरे शेत इत्यर्थः” अत्रेति स्थूलशरीरे धीगुहायामिति सूक्ष्मशरीरे अव्याकृताकाश इति कारणशरीरे प्रकाशत इति कथनात् विवृतः । सकलदिगवस्थितवस्तुभासकत्वं गगनतलमध्यवर्तिरवेः प्रसिद्धम् । तद्वत् सर्वान्तर आत्मा सकलवस्त्ववभासक इति भावः ॥१३४॥
ज्ञाता मनोऽहङ्कृतिविक्रियाणां
देहेन्द्रियप्राणकृतक्रियाणाम् ।
अयोऽग्निवत्ताननुवर्तमानो
न चेष्टते नो विकरोति किञ्चन ॥१३५॥
मनोऽहङ्कृतिविक्रियाणां मनश्च अहङ्कृतिश्च मनोऽहङ्कृती तयोर्विक्रियाः तासां ज्ञाता कामसङ्कल्पादीनां मनोविक्रियाणां गर्वदर्पादीनाम् अहङ्कारविकाराणाम् आन्तराणां ज्ञाता । तथा बाह्यानां देहेन्द्रियप्राणकृतक्रियाणां देहश्च इन्द्रियाणि च प्राणश्च देहेन्द्रियप्राणाः तैः कृताः क्रियाः । देहशब्देन कर्मेन्द्रियाणां विवक्षितत्वात् वचनादीनां चक्षुरादिज्ञानेन्द्रियव्यापाराणां दर्शनश्रवणादीनां प्राणव्यापारस्य उच्छ्वासनिःश्वासादेश्च ज्ञाता इत्यर्थः । सकलान्तरबाह्यविकारसाक्षिणस्तस्य निर्विकारत्वमाह अयोऽग्निवदित्यादिना । अग्निरिवाग्निवत् यथाग्निः दीर्घं वा वर्तुलं वा अयः अनुवर्तमानः तथा तथा व्यवह्रियते न वस्तुतः दीर्घवर्तुलतादिभाक् एवं तान् मनोहङ्कृतिदेहेन्द्रियप्राणान् अनुवर्तमानः व्यापित्वेन स्वच्छत्वेन च सर्वत्र प्रतिबिम्बमानोऽपि तत्तद्व्यापारत्वेन व्यवह्रियमाणोऽपि वस्तुतः न चेष्टते । स्वयं न विक्रियते । न विकरोति किञ्चनकुत्रापि विक्रियां नोत्पादयति च । सूर्यस्येव सान्निध्यमात्रात् जडप्रवृत्तिहेतुत्वमात्मनः न तु किञ्चिद्व्यापारवत इति भावः ॥१३५॥
तमेवार्थं सहेतुकं विशदयति न जायत इति −
न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम् ॥१३६॥
जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते नश्यतीति जननस्थितिविपरिणामवृध्यपक्षयविनाशाः शरीरादेः दृष्टाः षड् विकाराः । अयं परमात्मा नित्यः उत्पत्तिविनाशादिशून्यः । अतः न जायते नोत्पद्यते, नो म्रियते न नश्यति अतः आद्यन्तविकारशून्यत्वात् न वर्धते न वृद्धिरूपविकारवान्भवति । एवं न क्षीयते अपक्षयरूपविक्रियावान्न भवति । उत्पत्तेः अभावात्तदनन्तरकालिकस्थितिरपि नैवास्ति । नित्यत्वेन निरवयवत्वात् विपरिणामो नास्तीति भावः । स्वयं विक्रियावत एव अन्यत्र विकारहेतुत्वात् सर्वविधविकारशून्यः नो विकरोतीति पूर्वश्लोकार्थः । सहेतुकतया कथितोऽत्रेति मन्तव्यम् । अन्यत्र विक्रियां नोत्पादयतीत्यर्थः । अमुष्मिन्वपुषि शरीरे विलीयमानेऽपि नश्यत्यपि कुम्भे नश्यत्यम्बरमिव आकाशमिव स्वयं न लीयते स्वतः परतो वा विकारो नास्तीति भावः ॥१३६॥
सम्यग्ज्ञानार्थं विज्ञानात्मपरमात्मनोः स्वरूपमेकीकृत्याह प्रकृतीति −
प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निर्विशेषः ।
विलसति परमात्मा जाग्रदादिष्ववस्था-
स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥१३७॥
प्रकृतिरविद्या, विकृतयः आकाशादयः तद्भिन्नः कार्यकारणव्यतिरिक्त इत्यर्थः । शुद्धबोधस्वभावः शुद्धः निर्विषयः यः बोधः ज्ञानं तदेव स्वभावः स्वरूपं यस्य सः केवलदृग्रूप इत्यर्थः । इदं प्रत्यक्षादिप्रमेयं सत् तेजआदि मूर्तम् , असत् अमूर्तम् आकाशवाय्वादिकम् अशेषं समस्तं भासयन् प्रकाशयन् निर्विशेषः निर्धर्मकः । परमात्मा जाग्रदादिषु जाग्रत्स्वप्नसुषुप्त्यादिषु अवस्थासु बुद्धेः साक्षिरूपेण सुषुप्तावपि बीजात्मना बुद्धेः सत्त्वात् । अहमहमिति साक्षात् प्रत्यक्तया विलसति प्रकाशते ॥१३७॥
अभेदेन परमात्मविज्ञाने मनोनियमनं तद् द्वारा बुद्धिप्रसादं च हेतूकुर्वन् ‘ब्रह्मसंस्थोऽमृतत्वमेति’(छा.उ. २.२३.१) इति श्रुत्यर्थं शिष्यं प्रत्युपदिशति नियमितेति −
नियमितमनसाऽमुं त्वं स्वमात्मानमात्म-
न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनिमरणतरङ्गापारसंसारसिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥१३८॥
त्वमात्मनि नियमितमनसा पञ्चभ्यः कोशेभ्यो व्यावर्तितं परमात्मन्येव श्रवणमनननिदिध्यासनैः स्थापितं यन्मनः तेन करणेन ‘मनसैवेदमाप्तव्यम्’(क.उ. ४.११) इति श्रुतेः । बुद्धिप्रसादात् असम्भावनासंशयभावनाविपरीतभावनारूपदोषनाशेन (श्लो. ११७) विशुद्धा सकलविधदोषशून्या या बुद्धिः तस्याः प्रसादात् अनुग्रहात् ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेश्च । स्वस्वरूपभूतम् आत्मनं परमात्मानं ‘स आत्मा तत्त्वमसि’(छा.उ. ६.८) इति श्रुतेः ‘असन्नेव स भवति’ ‘असद्ब्रह्मेति वेद चेत्’(तै.उ. २.६) इति श्रुतेश्च । परमात्मन एव मुख्यत्वात् । अयमहमिति साक्षाद्विद्धि अन्योऽसावन्योऽहम् इत्येतावन्तं कालं स्थितां बुद्धिं विहाय अभेदेन साक्षात्कुरुष्वेत्यर्थः । तत्फलमाह जनिमरणतरङ्गापारसंसारसिन्धुं प्रतरेति । ‘पुनरपि जननं पुनरपि मरणम्’ इति रीत्या ब्रह्मज्ञानालाभे अविरततया प्रसज्यमानजन्ममरणरूपतरङ्गविशिष्टः अपारः ब्रह्मरूपपाराज्ञानात् अपारः यः संसारः स एव सिन्धुः समुद्रः तं, प्रतर प्रकर्षेण तर सद्योमुक्तिमाप्नुहीत्यर्थः । सततमपि ब्रह्मरूपेण संस्थः कृतार्थो भव कर्तव्यान्तररहितो भवेत्यर्थः ।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किञ्चित्कर्तव्यम् अस्ति चेन्न स तत्त्ववित् ॥ (जा.द.उ. १.२३)
इति प्रमाणात् ॥१३८॥
एतावता ग्रन्थेन ‘अस्ति कश्चित्स्वयं नित्यम्’(श्लो. १२७) इत्यारभ्य एकादशभिः श्लोकैः ‘परमः क आत्मा’ इत्यस्य प्रश्नस्य उत्तरमुक्त्वा ‘को नाम बन्धः’(श्लो. ५२) इति शिष्यस्य प्रथमप्रश्नस्य उत्तरमाह अत्रानात्मनीत्यादिना द्वाभ्याम् −