अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१६. बन्धः

अत्रा­ना­त्म­न्य­ह­मिति मतिर्बन्ध एषोस्य पुंसः
प्राप्तोऽ­ज्ञा­ना­ज्ज­न­न­म­र­ण­क्ले­श­स­म्पा­त­हेतुः ।
येनैवायं वपु­रि­द­म­स­त्स­त्य­मि­त्या­त्म­बुध्या
पुष्य­त्यु­क्ष­त्य­वति विषयैस्तन्तुभिः कोशकृद्वत् ॥१३९॥

१३९

अत्र पूर्वोक्तरीत्या वस्तुतः परमात्मन एव स्वस्व­रू­प­त्वेऽपि, अज्ञानात् अना­दि­सि­द्धा­वि­द्या­व­शात् प्राप्तः अस्य पुंसः अनात्मनि देहादौ अहमितिमतिः अहं मनुष्यः अहं क्षुत्पि­पा­सा­दि­मान् इच्छामि करोमि भुञ्जे इत्याद्या या मतिः एष बन्ध इत्यन्वयः । तत्र हेतुः अज्ञा­ना­त्प्राप्त इति । भ्रमसामान्यस्य दोषजन्यत्वात् शरीरादौ आत्मत्वभ्रमे स्वरूपाज्ञानमेव दोषत्वेनापि कारणमिति भावः । अत्र प्रत्यक्षे देहादावनात्मनि इत्यप्यर्थः । साङ्ख्यादिमते मूला­ज्ञा­ना­न­ङ्गी­का­रेण बन्ध­मो­क्ष­व्य­व­स्थै­वा­नु­प­प­न्नेति ज्ञेयम् । आज्ञानिकत्वे बन्धस्य अज्ञानस्य ज्ञाना­न्नि­वृत्तौ तन्मूलकस्य बन्धस्यापि निवृत्तेः । अन्यथा बन्धस्य सत्यत्वात् ज्ञान­मा­त्र­नि­व­र्त्य­त्वस्य दुर्वचत्वात् दोषाभावे भ्रमस्य उत्प­त्तु­म­श­क्य­त्वाच्च । बन्धस्य कार्यमाह जन­न­म­र­ण­क्ले­श­स­म्पा­त­हे­तु­रिति । जननं च मरणं च जननमरणे ताभ्यां क्लेशः दुःखं तत्र सम्पातः सम्मग्नत्वं, तस्य हेतुः । जन­न­म­र­णे­त्यु­प­ल­क्षणं दुःखहेतूनां क्षुत्पि­पा­सा­दीनां सर्वेषां, यद्वा जननं च मरणं च क्लेशाश्च जननमरणक्लेशाः तेषां सम्पातः स्वधर्मत्वेन ज्ञानं तत्र हेतुरित्यर्थः । अधुना क्लेशपदेन अस्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­शानां परिग्रहः । पञ्चक्लेशमध्ये आदिमक्लेशस्यैव ‘अना­त्म­न्य­ह­मि­ति­म­ति­र्बन्ध’ इत्युक्तत्वात् । ‘अनि­त्या­शु­चि­दुः­खा­ना­त्मसु नित्य­शु­चि­सु­खा­त्म­त्व­ख्या­ति­र­विद्या’(२.५) इति योगसूत्रात् । तत्र देहे स्थूलेऽभिमानात् जननमरणसम्पातः आन­न्द­म­या­दा­व­भि­मा­नात् राग­द्वे­षा­भि­नि­वे­शानां सम्पातः इति सक­ल­वि­ध­दुः­ख­हे­तु­त्वम् आदिमक्लेशस्य कार्याविद्याया बन्धशब्दिताया इति बोध्यम् । येनैव अना­त्म­न्या­त्म­म­ति­रू­प­ब­न्धे­नैव अयं पुरुषः इदमसद्वपुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन । विषयैः बन्ध­कै­र­प्य­नु­कू­लै­रिव प्रतीयमानैः रसादिभिः पुष्यति वर्धयति उक्षति सिञ्चति अवति रक्षति । तत्रानुरूपः दृष्टान्तः तन्तुभिः कोशकृद्वदिति । यथा कोशकारः क्रिमिः स्वदे­ह­ग­त­ला­ला­व्य­येन तन्तून् कृत्वा तैः रक्षितो भवामीति भ्रान्त्या तन्मध्यलग्नः अन्यत्र गन्तुमशक्तः वृथा म्रियते एवं जीवोऽपि शरीरमात्मत्वेन मत्वा विषयैः पोषयन् तद्वशः जन्म­म­र­णा­दि­स­क­ल­वि­ध­दुः­ख­म­नु­भ­व­तीति भावः । उक्तं हि –

कोश­क्रि­मि­स्त­न्तु­भि­रा­त्म­दे­हम् आवेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनि­र्ग­न्तु­म­शक्त एव सन् तत­स्त­द­न्त­र्म्रि­यते च लग्नः ॥ (स.सं. ४४) इति ।

तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं तु तदुपचायकत्वमिति भेदः ॥१३९॥

अधि­ष्ठा­ना­रो­प्ययोः भेदग्रहे अध्यासासम्भवात् अज्ञानस्य मूलकारणस्य अविवेकद्वारा बन्धहेतुत्वं सदृष्टान्तं विशदयन् अध्यासं बन्धशब्दार्थमाह अतस्मिन्निति −

अत­स्मिं­स्त­द्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥१४०॥

१४०

तमसा अज्ञानेन विमूढस्य विवे­क­र­हि­त­चि­त्तस्य पुरुषस्य अत­स्मि­न्न­ना­त्मनि देहादौ तद्बुद्धिः आत्मबुद्धिः प्रभवति जायते । तद्यथा विवेकाभावात् स्फुरति भासमाने भुजगे सर्पे नेयं रज्जुरिति भेदज्ञानाभावात् , वै एव रज्जुधिषणा रज्जुरिति बुद्धिः जायते । ततः रज्जु­बु­ध्य­न­न्त­रम् उपादेयत्वधिया समादातुः भुजङ्गं स्वीकर्तुः अधिकः अनर्थव्रातः मर­ण­प­र्य­न्त­ब­हु­वि­ध­दुः­ख­स­मु­दायः निपतति प्राप्तो भवति । ततः तस्मात्कारणात् योऽसद्ग्राहः अन्य­था­व­र्त­मा­नस्य अन्यथाग्रहणं सः बन्धः भवति हि निश्चयः । सखे शृणु स्पष्टम् । तत्र रज्ज्वां भुज­ग­धि­ष­णा­म­दृ­ष्टा­न्त­यित्वा भुजगे रज्जुधिषणा अनात्मन्यध्यासे दृष्टान्तीकृता अत्य­न्ता­न­र्थ­क­र­त्व­द्यो­त­नाय ॥१४०॥

इदानीं ‘कथमेष आगत’(श्लो. ५२) इत्यस्य प्रश्नस्य उत्तरं वक्तुमारभते अखण्डेति −

अख­ण्ड­नि­त्या­द्व­य­बो­ध­शक्त्या
स्फुर­न्त­मा­त्मा­न­म­न­न्त­वै­भ­वम् ।
समा­वृ­णो­त्या­वृ­ति­श­क्ति­रेषा
तमोमयी राहु­रि­वा­र्क­बि­म्बम् ॥१४१॥

१४१

अज्ञानस्य द्वे शक्ती बन्धहेतुभूते आवरणशक्तिः विक्षे­प­श­क्ति­श्चेति । क्रमेण तयोः बन्ध­हे­तु­त्व­मु­प­पा­द­यति । अखण्डा अपरिच्छिन्ना अत एव नित्या उत्प­त्ति­ना­श­शून्या । अद्वया द्वितीयशून्या या बोधरूपा शक्तिः ‘स्वाभाविकी ज्ञानबलक्रिया च’(श्वे.उ. ६.८) इति श्रुतेः ‘अयमात्मा ब्रह्म सर्वानुभूः’(मां.उ. २) ‘सत्यं ज्ञानमनन्तम्’(तै.उ. २.१) ‘विज्ञानमानन्दं ब्रह्म’(बृ.उ. ३.९.३४) ‘कृत्स्नः प्रज्ञानघन एव’(बृ.उ. ४.५.१३) इति श्रुतिभ्यश्च । तया शक्त्या स्फुरन्तं प्रकाशमानम् । अनन्तवैभवं विभोर्भावः वैभवं, तस्य गग­ना­दि­व­दा­पे­क्षि­कत्वं वारयति अनन्तेति । अनन्तं निरपेक्षं वैभवं यस्य इति निर­ति­श­य­म­ह­त्त्व­मु­क्तम् अतिपरिच्छिन्ने देहादौ अहं मतिः अत्य­न्त­म­यु­क्तेति बोधयितुम् । एतादृशे परि­च्छि­न्न­त्वा­नि­त्य­त्व­स­द्व­य­त्व­ज­ड­त्वा­दि­क­मा­रो­प्यते अज्ञानात् । तत्र हेतुं स्फुटयति − तमनन्तवैभवम् अख­ण्ड­नि­त्या­द्व­य­बो­ध­शक्त्या प्रकाशमानम् आत्मानं तमोमयी तमःप्रचुरा एषा विवे­कि­ज­न­प्र­त्यक्षा आवृतिशक्तिः । अर्कबिम्बं महता प्रकाशेन भासमानं सूर्यमण्डलं तमोमयो राहुरिव समावृणोति अभा­स­मा­न­स्वा­सा­धा­र­ण­ध­र्माणं करोति । यथा महा­प्र­का­श­वा­न­प्यर्कः राहुणावृतः न भासत इत्युच्यते तथा तत्ता­दृ­शोऽ­प्यात्मा आवृतिशक्त्या समावृतः अज्ञा­त­वा­स्त­व­रूपो भवतीति भावः ॥१४१॥

पूर्वार्धेन आवरणकार्यम् उत्तरार्धेन विक्षे­प­श­क्ति­कार्यं च क्रमेणाह तिरोभूत इत्यादिना −

तिरोभूते स्वात्म­न्य­म­ल­त­र­ते­जो­वति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति ।
ततः काम­क्रो­ध­प्र­भृ­ति­भि­रमुं बन्धकगुणैः
परं विक्षेपाख्या रजस उरु­श­क्ति­र्व्य­थ­यति ॥१४२॥

१४२

अमलतरतेजोवति अति­स्व­च्छ­प्र­का­श­वति स्वात्मनि स्वस्वरूपे परमात्मनि अज्ञा­न­ग­ता­व­र­ण­शक्त्या तिरोभूते न्यग्भूते स्पष्टमभासमाने सति, पुमान् जीवः मोहात् अविवेकात् , अनात्मानम् आत्मभिन्नं शरीरं देहम् अहमिति तादात्म्येन कलयति जानाति अभिमन्यते । ततः शरीरे तादा­त्म्या­भि­मा­ना­न­न्त­रम् अमुं पुरुषं विक्षेपाख्या विक्षेपनाम्नी रजसः रजोगुणस्य उरुशक्तिः प्रबला शक्तिः काम­क्रो­ध­प्र­भृ­तिभिः कामश्च क्रोधश्च कामक्रोधौ तौ प्रभृती आदी येषां लोभ­द­म्भा­भ्य­सू­या­ह­ङ्का­रेर्ष्या मत्सराद्यानां ते काम­क्रो­ध­प्र­भृ­तयः तैः बन्धकगुणैः अध्या­स­वृ­द्धि­हे­तु­भूतैः धर्मैः परमत्यन्तं व्यथयति शोचयति । दुःखजटिलं करोतीत्यर्थः । प्रसिद्धं हि शरीराभिमानवतः तदनुकूले वस्तुनि कामः तदलाभे क्रोधः तल्लाभे लोभः इत्यादि । उक्तं हि गीतायाम् –

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभ­स्त­स्मा­दे­त­त्रयं त्यजेत् इति ॥ (१६.२१) १४२ ॥

एवमज्ञानम् आव­र­ण­वि­क्षे­प­श­क्तिभ्यां सर्वा­न­र्थ­मू­ल­मि­त्युक्तं पुनर्विशदयति महामोहेत्यादिना −

महा­मो­ह­ग्रा­ह­ग्र­स­न­ग­लि­ता­त्मा­व­ग­मनो
धियो नानावस्थाः स्वय­म­भि­न­यं­स्त­द्गु­ण­तया ।
अपारे संसारे विषयविषपूरे जलनिधौ
निम­ज्यो­न्म­ज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥

१४३

महा­मो­ह­ग्रा­ह­ग्र­स­न­ग­लि­ता­त्मा­व­ग­मनः महांश्चासौ मोहश्च महामोहः दृढतराविवेकः स एव ग्राहः मकरः तस्य ग्रसनं तत्कर्तृकनिगरणं तेन गलितं नष्टम् आत्मावगमनम् आत्मनः अवगमनं सम्यग्ज्ञानं यस्य सः अन­व­बु­ध्य­मा­न­या­थात्म्य इत्यर्थः । धियः बुद्धेः नानावस्थाः बहुविधान् परिणामान् , तद्गुणतया तस्याः गुणाः यस्य सः तद्गुणः तदुपहिततया तदधीनतयेति यावत् उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् । प्रसिद्धं हि जले चलति तत्र भास­मा­न­सू­र्य­प्र­ति­बि­म्बोऽपि चलतीति । ‘समानस्सन् उभौ लोकौ अनुसञ्चरति’(ब्र.सू.भा. २.३.३०) , ‘सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः । स्वयमभिनयन् स्वस्मि­न्ना­रो­प­यन् । अपारे अनवधौ विषयविषपूरे विषया एव विषं विषयविषं तस्य पूरः प्रवाहः यत्र स विषयविषपूरः तस्मिन्संसारे जलनिधौ संसाररूपसमुद्रे । सप्तमी समा­ना­धि­क­र­ण­त्वा­र्थिका । कुमतिः कुत्सिता अब्रह्मगामिनी मतिः बुद्धिः यस्य सः कुमतिः अत एव कुत्सितगतिः कुत्सिता निन्दिता गतिरवगतिः नर­का­द्य­धो­लो­क­ग­तिर्वा यस्य स कुत्सितगतिः अयं पुमान् निमज्योन्मज्य अस्वतन्त्रः अधो गत्वा ऊर्ध्वमागत्य भ्रमति । अवशीकृतबुद्धेः इन्द्रियलौल्येन विषयाधीनतया भ्रान्तिपरम्परा न संसा­र­पा­र­ब्र­ह्म­प्रा­प्ति­रिति भावः ॥१४३॥

स्वकार्यस्यापि स्वतिरोधायकत्वं सदृष्टान्तमाह भान्विति −

भानु­प्र­भा­स­ञ्ज­नि­ता­भ्र­पङ्क्तिः
भानुं तिरोधाय यथा विजृम्भते ।
आत्मो­दि­ता­ह­ङ्कृ­ति­रा­त्म­तत्त्वं
तथा तिरोधाय विजृम्भते स्वयम् ॥१४४॥

१४४

भानोः सूर्यस्य प्रभया किरणैः सञ्जनिता समुत्पादिता अभ्रपङ्क्तिः आपः बिभ्रतीति अभ्राणि मेघाः तेषां पङ्क्तिः माला, ग्रीष्मे सूर्यकिरणैः आकृष्टा आप एव मेघात्मना भवन्तीति प्रसिद्धिः । सा मेघमाला स्वोत्पादकं भानुं सूर्यं तिरोधाय आवृत्य यथा विजृम्भते स्वयं पुरोभवति । तत्किरणेरैव जातत्वं तत्तिरोधाय स्वय­म­व­भा­स­मा­नत्वं चेति सर्वांशे दृष्टान्तः । तथा आत्मो­दि­ता­ह­ङ्कृतिः आत्मनः सकाशादुदिता उत्पन्ना याहङ्कृतिः देहा­दा­व­ह­म्प्र­त्ययः आत्मा­धी­न­स­त्ता­स्फू­र्ति­मा­नपि आत्मतत्त्वम् आत्मयाथात्म्यं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वत्वं तिरोधाय तदीयस्फुटभानं प्रतिबध्य स्वयं विजृम्भते पुरस्स्फूर्तिको भवतीत्यर्थः । अहङ्कृतिः बुद्धिर्वा तस्या अपि आत्मनः सका­शा­दु­त्प­न्न­त्वात् विज्ञा­न­म­य­को­श­त्वेन तदावरकत्वाच्च ॥१४४॥

इदा­नी­मा­व­र­ण­वि­क्षे­प­श­क्ति­कार्यं सदृष्टान्तमाह कबलितेति −

कबलितदिननाथे दुर्दिने सान्द्रमेघैः
व्यथयति हिम­झ­ञ्झा­वा­यु­रुग्रो यथैतान् ।
अवि­र­त­त­म­सा­त्म­न्या­वृते मूढबुद्धिं
क्षपयति बहु­दुः­खै­स्ती­व्र­वि­क्षे­प­शक्तिः ॥१४५॥

१४५

सान्द्रमेघैः सान्द्राः निविडाः ते च ते मेघाश्च सान्द्रमेघाः तैः निरन्तरमेघैः । कबलितदिननाथे कबलितः ग्रस्तः दिननाथः सूर्यः यस्मिन् तत् कबलितदिननाथं तस्मिन् । दुर्दिने ‘मेघ­च्छ­न्नेऽह्नि दुर्दिनम्’(अ.को. १.३.१०१) इति कोशात् । सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयङ्करः । हिमझञ्झावायुः ‘झञ्झावातः सवृष्टिकः’(अ.को. १.१.७२) इति कोशात् हिमसहितः सवृष्टिकवायुः यथा एतान् पथिकान् जनान् व्यथयति दुःखाकरोति । सूर्यातपो नास्ति मध्येमार्गं स्थितिः हिमवर्षसहितः महान् वायुश्चेति तदाऽध्वगानां पीडा दुर्वचा । एवम् अविरततमसा सान्द्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कबलिते स्फुटतया अप्रतीयमाने नष्टप्राये तीव्र­वि­क्षे­प­शक्तिः राजसी काम­क्रो­धा­दि­रू­पेण परिणममाना प्रब­ल­वि­क्षे­प­शक्तिः । मूढबुद्धिं तामस्या आवरणशक्त्या मूढा प्राप्त­ज्ञा­य­मा­न­ता­क­ज्ञा­ना­स­मर्था बुद्धिः यस्य स मूढबुद्धिः तं पुमांसम् । बहुदुःखैः बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्म­मृ­त्यु­ज­रा­रो­गा­दि­जन्यैः क्षपयति नाशयतीत्यर्थः । सन्त­त­दुः­ख­प­र­म्प­रा­म­ग्नस्य क्वान­न्द­रू­प­स्वा­त्म­ज्ञा­नम् । तदभावे स्वात्मा­द­र्श­नात् नष्ट इव भवत्यात्मेति भावः ॥१४५॥

कथमेष आगत इति प्रश्नो­त्त­र­मुक्तं स्फुट­ज्ञा­ना­र्थ­मु­प­सं­ह­रति एताभ्यामिति −

एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥१४६॥

१४६

एताभ्यां गुण­त्र­य­म­या­ज्ञा­न­ग­त­त­मो­र­ज­श्श­क्ति­भ्याम् आवृ­ति­वि­क्षे­प­रू­पाभ्यां पुंसः पुरुषस्य बन्धः अत­स्मि­न्त­द्बु­द्धि­रू­पा­ध्यासः समागतः । स्थिर­त­र­सा­ध­न­च­तु­ष्ट­य­पु­र­स्स­र­वे­दा­न्त­वि­चा­र­ज­न्य­स्वा­त्म­सा­क्षा­त्कारं विना दुर्निरसः प्राप्तः । याभ्यां पूर्वो­क्त­श­क्तिभ्यां विमोहितः ज्ञात­व्य­ज्ञा­न­शून्यः देहं स्थूलादिकम् आत्मानं मत्वा अहमिति विज्ञाय अयं पुमान् भ्रमति संसा­र­दी­र्घा­ट­व्याम् ॥१४६॥

मुमुक्षूणां सुखबोधार्थं समूलं समग्रं संसारं वृक्षत्वेन रूपयति बीजमित्यादिना −

बीजं संसृतिभूमिजस्य तु तमो देहा­त्म­धी­र­ङ्कुरः
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः ।
अग्रा­णी­न्द्रि­य­सं­ह­तिश्च विषयाः पुष्पाणि दुःखं फलं
नाना­क­र्म­स­मु­द्भवं बहुविधं भोक्तात्र जीवः खगः ॥१४७॥

१४७

संसृतिभूमिजस्य संसृतिरेव भूमिजः वृक्षः तस्य बीजं मूलकारणं तमः अज्ञानम् । तुरवधारणे । अज्ञानमेव मूलं नान्यदित्यर्थः । देहा­त्म­धी­र­ङ्कुरः अना­त्म­न्या­त्म­धियः अज्ञा­नै­क­नि­ब­न्ध­न­त्वात् । रागः पल्लवं किसलयः अङ्कु­रो­त्प­त्त्य­न­न्त­र­का­लि­क­त्वा­त्प­ल्ल­वस्य । शरी­रा­त्म­धी­स­म­न­न्तरं शरीरानुकूले आत्मा­नु­कू­ल­त्व­ज्ञा­नात् रागः इच्छा वैषयिकी । अम्बु जलं वृक्ष­वृ­द्धि­हेतुः कर्म तु कर्मैवेत्यर्थः । तुःपूर्ववत् । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । कर्म पुण्या­पु­ण्या­त्म­कम् । वपुःस्कन्धः यतश्शाखा उत्पद्यन्ते स मध्यभागः वृक्षस्य स्कन्ध इत्युच्यते । असवः पञ्च प्राणादयो वायवः स्कन्धतः प्रसृमरत्वात् शाखिकाः शाखा एव शाखिकाः । अग्रा­णी­न्द्रि­य­सं­हतिः इन्द्रियाणां संहतिः इन्द्रियसंहतिः इन्द्रियसमुदायः चक्षुरादीनां वागादीनां च इन्द्रियाणां प्राणा­धी­न­स्थि­ति­क­त्वात् । इदं तु इन्द्रि­य­प्रा­ण­सं­वा­द­श्रुतौ प्रसिद्धम् । अग्राणां शाखा­धी­न­स्थि­ति­कत्वं सिद्धमेव । विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः पुष्पाणि अग्रसम्बन्धात् कुसुमानि । दुःखं फलं विष­ये­न्द्रि­य­स­म्ब­न्धा­न­न्त­र­का­लि­क­त्वात् । शाखाग्रेषु पुष्पो­त्प­त्त्य­न­न्तरं हि फलं जायते । यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्मशब्देन पुण्या­पु­ण्य­रू­पस्य कर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च अथापि वैषयिकसुखमपि दुःखमित्येव परिगण्यते विवेकिभिः । तत्साधनार्थं तन्नाशे च दुःख­स्यै­वा­नु­भ­वात्

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (५.२२)

इति गीतायामुक्तेः । अत एव एक­विं­श­ति­दुः­ख­मध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरं सुखं दुःखं चेति दुःखत्वेन सुखमपि परिगणितं न्यायशास्त्रे । तच्च दुःखं नाना­क­र्म­स­मु­द्भवं नाना बहुविधानि यानि कर्माणि तेभ्यः समुद्भवो यस्य तत् नाना­क­र्म­स­मु­द्भवं । अतो हेतोः कर्मणः बहुविधत्वात् फलं स्वयमपि बहुविधम् अनेकप्रकारम् । अत्र वृक्षे खगः पक्षी जीवः भोक्ता दुःख­रू­प­फ­ला­नु­भ­वी­त्यर्थः । तथा च अज्ञानमूलकः दुःखैकफलकः अयं संसारवृक्षः विषवृक्षवद्धेय इति भावः । अनेन देहा­त्म­धी­रू­प­ब­न्धस्य राग­द्वे­षा­दि­दो­षो­त्पा­द­न­द्वारा धर्मा­ध­र्म­रू­प­क­र्म­हे­तु­तया, तेन च कर्मणा शरीरपरम्परया तत्राहमभिमानः इत्येवं रूढमूलतया स्थितिरिति ‘कथं प्रतिष्ठास्य’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं दत्तं भवति ॥१४७॥

इदानीं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरं वक्तुं पूर्वोक्तं बन्धं सहेतुकं सफलमनुवदति अज्ञानेति −

अज्ञा­न­मू­लोऽ­य­म­ना­त्म­बन्धो
नैस­र्गि­को­ना­दि­र­नन्त ईरितः ।
जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुःख-
प्रवाहतापं जनयत्यमुष्य ॥१४८॥

१४८

अयं सर्व­लो­क­प्र­सिद्धः अनात्मबन्धः शरी­रा­द्य­ना­त्म­ता­दा­त्म्या­भि­मानः अज्ञानमूलः अज्ञानं स्वस्व­रू­पा­ज्ञानं मूलं हेतुर्यस्य सः । नैसर्गिकः पूर्व­पू­र्वा­ध्या­स­ज­न्य­सं­स्का­र­हे­तुकः । अनादिः अना­द्य­ज्ञा­न­का­र्य­त्वात् कस्मिन् समये उत्पन्न इति वक्तुं ज्ञातुं च अशक्यः । अनन्तः ज्ञानं विना अन्तः नाशः न विद्यते अस्येत्यनन्तः । ईरितः अभियुक्तैरिति शेषः । ‘नान्तो न चादिः’(भ.गी. १५.३) इति स्मृतिश्च । एतादृगयं बन्धः । अमुष्य जीवस्य जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुः­ख­प्र­वा­ह­तापं जन्म उत्पत्तिः शरीरस्य, अप्ययः मरणं, व्याधिः रोगः, जरा वार्धक्यम् आदिपदेन आधि­भौ­ति­का­धि­दै­वि­क­ता­प­प­रि­ग्रहः । तैर्जन्यानि यानि दुःखानि तेषां प्रवाहः परम्परा उपर्युपरि सन्निपातः तेन तापम् उद्वेगं जनयति उत्पादयति । पातमिति पाठे स्पष्टोऽर्थः प्रवाहपातमिति ॥१४८॥

अस्य पर­मे­श्व­रा­नु­ग्र­ह­ल­ब्ध­दृ­ढ­त­र­वि­वे­क­ज­न्य­स्व­स्व­रू­पा­नु­भ­व­म­न्तरा केना­प्य­नु­च्छे­द्य­त्व­माह नास्त्रैरिति −