विवेकचूडामणिः सव्याख्यः
१७. बन्धमोक्षोपायः
नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः ।
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मञ्जुना ॥१४९॥
अयं बन्धः धातुः प्रसादेन परमेश्वरस्यानुग्रहेण शितेन निशितेन तीक्ष्णेन दृढेनेति यावत् ‘यमेवैष वृणुते तेन लभ्यः’(क.उ. २.२२, मुं.उ. ३.२.३) इति श्रुतेः । मञ्जुना रमणीयेन, विवेकविज्ञानमहासिना विवेकात् आत्मानात्मविवेचनात् जातं यद्विज्ञानं ब्रह्मसाक्षात्कारः स एव महांश्चासौ असिश्च खड्गः तेन विना । अस्त्रैः आग्नेयादिभिः न च्छेत्तुं नाशयितुं शक्यः, शस्त्रैः लोहमयैः बाणादिभिः न च्छेत्तुं नाशयितुं शक्यः । एवम् अनिलेन वायुना न च्छेत्तुं नाशयितुं शक्यः । वह्निना अग्निना न दग्धुं शक्यः । न च कर्मकोटिभिः वेदोक्तैरपि कर्मणां कोटयः तैरपि न नाशयितुं शक्यः । अज्ञानमूलकत्वात् ज्ञानैकनिवर्त्य इति भावः । तथा च अस्य बन्धस्य विमोक्षः ईश्वरप्रसादजनितपरमात्माभेदसाक्षात्कारादित्युक्तं ‘कथं विमोक्ष’(श्लो. ५१) इत्यस्य प्रश्नस्य उत्तरम् ॥१४९॥
‘न च कर्मकोटिभिः’(श्लो. १४९) इत्युक्तत्वात् कर्मणां वैदिकानां नितरामनपेक्षेतिशङ्कायां तेषां बुद्धिशुध्यर्थम् अपेक्षां वदन् तां बन्धोच्छेदकविज्ञानहेतुमाह श्रुतीति −
श्रुतिप्रमाणैकमतेः स्वधर्मनिष्ठा तयैवात्मविशुद्धिरस्य ।
विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥
श्रुतिरेव प्रमाणं श्रुतिप्रमाणम् ,
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ (१६.२४)
इति गीतावचनात् । तत्र श्रुतिप्रमाणे एका अनन्यसक्ता मुख्या मतिः बुद्धिः यस्य सः श्रुतिप्रमाणैकमतिः तस्य, स्वश्रेयसे कर्तव्यकर्मविषये श्रुत्येकशरणस्येत्यर्थः । स्वधर्मनिष्ठा स्वस्य धर्मः स्ववर्णस्य आश्रमस्य च विहितः कर्मकलापः स्वधर्मः । तत्र निष्ठा नितरां स्थितिः ऐदम्पर्येण अनुष्ठानं स्वधर्मनिष्ठा तयैव स्वधर्मे अनन्यासक्ततया स्थित्यैव । अस्य साधकस्य जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षयः −
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषायपक्तिः कर्माणि ज्ञानं तु परमागतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥
इति प्रमाणानुसारेण विशुद्धा नष्टा रागद्वेषादिसकलविधदोषा बुद्धिः यस्य तस्य विशुद्धबुद्धेः । परमात्मवेदनम् अभेदेन परमात्मसाक्षात्कारः । तेनैव परमात्मवेदनेनैव संसारसमूलनाशः समूलं नाशः समूलनाशः संसारस्य समूलनाशः संसारसमूलनाशः । अज्ञानादिदुःखान्तस्य बन्धस्य अत्यन्तमुच्छेद इत्यर्थः ॥१५०॥
‘विवेकविज्ञानमहासिना’(श्लो. १४९) इत्यत्र विवेकजन्यं विज्ञानम् इत्युक्तम् ‘तयोर्विवेकः कथमेतदुच्यताम्’(श्लो. ५२) इति पूर्वं शिष्येण पृष्टं च । पूर्वं स्थूलसूक्ष्मकारणशरीराणां सामान्यतः कथनेन सङ्गृहीतं तद्विस्तरेण प्रपञ्चयितुं समारभते कोशैरित्यादिना −
कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति ।
निजशक्तिसमुत्पन्नैश्शैवलपटलैरिवाम्बु वापीस्थम् ॥१५१॥
‘सलिल एको द्रष्टा’(बृ.उ. ४.३.३२) इत्यादि श्रुतिभिः निर्मलजलवत्स्वच्छस्य आत्मनः स्फुटतया कुतो न भानमिति शङ्कायां तत्रापि तदेव जलं दृष्टान्तयन् स्फुटाभानहेतुमाह कोशैरिति । निजशक्तिसमुत्पन्नैः निजा स्वकीया स्वस्मिन्कल्पिता अविद्या तया समुत्पन्नैः जातैः अन्नमयाद्यैः वक्ष्यमाणैः पञ्चभिः कोशैः असेः कोशवत्स्थितैः आवरकैः आनन्दमयान्तैः । स्वोपलब्धिप्रतिबन्धकोपलब्धिविषयैः संवृतः आवृतः आत्मा न भाति न विविक्ततया स्फुटं भासते । तत्र दृष्टान्तः निजशक्तिसमुत्पन्नैः जलगतद्रवत्वधर्मसमुत्पन्नैः । शैवलपटलैः शैवालपङ्क्तिभिः । वापीस्थाम्ब्विव । यथा वापीगतं जलं तत एव जातैः शैवालैः संवृतम् आच्छादितं न स्फुटतया भाति तथा इत्यर्थः ॥१५१॥
दृष्टान्ते स्फुटभाने हेतुमाह तच्छैवालेति −
तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् ।
तृष्णासन्तापहरं सद्यस्सौख्यप्रदं परं पुंसाम् ॥१५२॥
तत् आवरकं यच्छैवालं तस्यापनये सम्यगपसारणे शुद्धं निर्मलं सलिलं सम्यक् अप्रतिबन्धं प्रतीयते । ततः फलमाह तृष्णासन्तापहरं तृष्णाया यः सन्तापः दुःखं हरतीति हरं तस्य नाशकम् । पुंसः पुरुषस्य पातुः सद्यस्सौख्यप्रदं दर्शनस्नानपानादिना प्रकर्षेण सन्तोषदम् । परं श्रेष्ठं प्रतीयत इति पूर्वेणान्वयः ॥१५२॥
दार्ष्टान्तिके तदाह पञ्चानामपीति −
पञ्चानामपि कोशानाम् अपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥१५३॥
पञ्चानामपि अपिशब्दः कार्त्स्न्येन निषेधार्थः । कोशानामावरकानामन्नमयाद्यानन्दमयान्तानां श्रुतिदत्तयुक्त्या अपवादे निषेधे कृते सति । नित्यानन्दैकरसः उत्पत्तिनाशशून्यदुःखासम्भिन्नानन्दैकस्वभावः । प्रत्यग्रूपः सर्वान्तरः स्वयञ्ज्योतिः पराप्रकाश्यः केवलज्ञानस्वरूपः । परः सर्वोत्कृष्टः अयमात्मा । शुद्धः स्वाभाविकागन्तुकमलासंस्पृष्टः । विभाति विशेषेण भाति अनात्मासंसृष्टतया भासत इत्यर्थः ॥१५३॥
यत एवं ततः −
आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा ।
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५४॥
विदुषा शास्त्रजन्यज्ञानवता पुरुषेण । बन्धमुक्तये अध्यासनिवृत्तये । आत्मानात्मविवेकः आत्मा च अनात्मानश्च आत्मानात्मानः तेषां विवेकः असङ्कीर्णतया ज्ञानम् । कर्तव्यः यत्नात् सम्पादनीयम् । तेनैव आत्मानात्मविवेचनेनैव स्वं स्वस्वरूपं सच्चिदानन्दं कालत्रयाबाध्यं ज्ञानम् आनन्दं विज्ञाय साक्षात्कृत्य, उक्तं हि द्वितीयश्लोके ‘आत्मानात्मविवेचनं स्वनुभव’ इति, आनन्दी भवति आनन्दः अस्यास्तीति आनन्दी निरतिशयसार्वदिकसुखवान्भवतीत्यर्थः ॥१५४॥
विवेचनप्रकारं दृष्टान्तेन बुद्धावारोहयन् ब्रह्मात्मना संस्थितिरूपमुक्त्यै विवेचनानन्तरकर्तव्यमाह मुञ्जादिति −
मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्यञ्चमात्मानमसङ्गमक्रियम् ।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥
मुञ्जात् मुञ्जं तृणविशेषः तस्मात् । इषीकामिव तन्मध्यवर्ती मृणालतन्तुनिभसूक्ष्मांशः इषीका तामिव । सा सूक्ष्मा परितस्तृणावृता तस्याः पृथक्करणे अत्यन्तमैकाग्र्यं त्रोटनादिकं विना सम्पूर्णेषीकाग्रहणे यत्नविशेषश्च अपेक्ष्यते तद्वत् –
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ (क.उ. १.३.१२)
इति श्रुत्या विहितकर्मभिः उपासनया च संस्कृतया बुध्या दृश्यवर्गात् अनात्मसमूहात् । प्रत्यञ्चं प्रातिलोम्येन अञ्चतीति प्रत्यङ् असज्जडदुःखाहङ्कारादिविलक्षणत्वेन सच्चित्सुखरूपतया प्रकाशत इत्यर्थः । तम् असङ्गम् अद्वितीयतया सर्वसङ्गरहितम् । अक्रियम् अपरिच्छिन्नतया क्रियारहितम् । आत्मानं विविच्य पृथक्कृत्य तत्र प्रत्यगात्मनि सर्वं दृश्यवर्गं प्रविलाप्य प्रकर्षेण विलाप्य अपुनस्स्मरणं प्रत्यगात्मव्यतिरेकेण किमपि नास्तीति विनिश्चित्य । तदात्मना अधिष्ठानभूतप्रत्यगात्मना यस्तिष्ठति सर्वदा वर्तते स मुक्तः सकलविधात् बन्धात् इति, ब्रह्मात्मना संस्थितिः आत्मानात्मविवेकेन आत्मनि समारोपितानात्मबाधेन लब्धव्या इति प्रपञ्चप्रविलापनं विवेकिना कर्तव्यमित्युक्तं भवति ॥१५५॥
इदानीं पञ्चसु कोशेषु अन्तिममपि प्रथमं स्थूलतया विवेकार्हम् अस्माल्लोकात्प्रेत्य, ‘एतमन्नमयमात्मानमुपसम्क्रामति’(तै.उ. २.८) इति श्रुत्युक्तक्रमेण सर्वान्तरमात्मानं ग्राहयितुं विवेचयति देहोऽयमित्यादिना दशभिः श्लोकैः −