विवेकचूडामणिः सव्याख्यः
१८. अन्नमयकोशविवेकः
देहोऽयमन्नभवनोऽन्नमयस्तु कोशो
ह्यन्नेन जीवति विनश्यति तद्विहीनः ।
त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५६॥
अन्नाद्भवनमुत्पत्तिर्यस्य स अन्नभवनः मातापितृभुक्तान्नविकाराद्धि अस्योत्पत्तिरिति तथा । अयं देहः परिदृश्यमानः स्थूलदेहः अन्नमयस्तु कोशः, तुशब्दः इतरव्यावर्तकः । पञ्चानां कोशानां मध्ये स्थूलदेह एव अन्नमयःकोशःनेतर इत्यर्थः । ‘अन्नाद्वै प्रजाः प्रजायन्ते ।’ ‘अथो अन्नेनैवजीवन्ति’(तै.उ. २.२) इति श्रुतिः । न केवलमुत्पत्या अन्नविकारत्वम् उत्पत्यनन्तरमपि अन्नेन जीवति धृतप्राणो भवति । तद्विहीनः विनश्यति म्रियते उत्क्रान्तप्राणो भवतीत्यर्थः । अतः अन्वयव्यतिरेकाभ्याम् अन्नाधीनस्थितिकत्वं तस्य । हि निश्चयः । न केवलं पराधीनोत्पत्तिस्थितिकत्वम् अनात्मत्वे हेतुः अशुद्धत्वं चेत्याह त्वगिति । त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः स्पष्टम् । अयं देहः, नित्यशुद्धः ‘अजो नित्यः’(भ.गी. २.२०) , ‘शुद्धमपापविद्धम्’(ई.उ. ८) इत्यादि श्रुतिबोधितनित्यशुद्धत्वादिधर्मकः स्वयमात्मा भवितुं नार्हति । देहो नात्मा अनित्यत्वात् अशुद्धत्वात् केशादिवत् ॥१५६॥
पूर्वं जनेरपि मृतेरथ नायमस्ति
जातक्षणक्षणगुणोऽनियतस्वभावः ।
नैको जडश्च घटवत्परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता ॥१५७॥
जनेः उत्पत्तेः पूर्वं मरणस्य अथ अनन्तरम् अपिरुभयत्र सम्बध्यते ‘आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथा’(अला.शां. ३१) इति माण्डूक्यकारिकया अनिर्वचनीयः दृष्टनष्टस्वरूपतया इत्यर्थः । तदेवोपपादयति जातक्षणक्षणगुण इति । क्षणे क्षणे गुणः क्षणक्षणगुणः जातः क्षणक्षणगुणः यस्य सः तथा प्रतिक्षणम् उपचयापचयरूपधर्मवानिति भावः । वायुसंयोगादिना आध्यात्मिकवायुसञ्चारेण अन्तःशोषादिना च । अत एव हि पुनःपुनराहरणं जलपानादिकं च । अत एव अनियतस्वभावः नियतः स्वभावः यस्य सः नियतस्वभावः, न नियतस्वभावः अनियतस्वभावः एकरूपतया न व्यवस्थित इत्यर्थः । नैकः एकस्मिन्जन्मन्यपि बाल्ययौवनादिषु भिन्नत्वेन ज्ञायमानश्चेत्यर्थः । घटवत्परिदृश्यमानः । अत एव जडश्च पराधीनस्फूर्तिकः । एतादृशदेहः भावविकारवेत्ता इदानीं कृशः इदानीं स्थूलः इत्यादिना भावविकारवेत्ता ज्ञाता स्वात्मा कथं भवति स्वगतधर्मस्य स्वेनाज्ञायमानत्वात् , न हि घट एव घटं पश्यति, अतो देहो नात्मा दृश्यत्वात् घटवदित्युक्तं भवति । आत्मा तु नित्यः निर्गुणः एकरूपः एकः द्रष्टा च ॥१५७॥
तत्रैव हेत्वन्तरमाह पाणीति −
पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् ।
तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥१५८॥
पाणी च पादौ च तेषां समाहारः पाणिपादं तदादि यस्येतरस्य पक्षकुक्ष्याद्यवयवसमुदायस्य तदस्यास्तीति तद्वान् पाणिपादादिमान् । देहो नात्मा व्यङ्गेऽपि पाणिपादादिरहितेऽपि जीवनात् आत्मकार्यस्य प्राणधारणस्य सत्त्वात् । जीवन्ति हि लोके कुणिखञ्जादयः । दारुचर्मनिर्मितपाणिपादादिना आदानगमनादिकार्यं कुर्वन्तीति तत्तच्छक्तेः पाणिपादादिशक्तेः अनाशाच्च । पाण्यादिमान् देहो नात्मा इत्यन्वयः । उक्तं च कठोपनिषदि –
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ (२.५.७) इति ।
सर्वशक्त्याश्रयत्वमात्मनः । न नियम्यः आत्मा, नियामकः सर्वेषां देहेन्द्रियादीनाम् । देहस्तु नियम्यः जडत्वात् नियमकत्वाभाववांश्च । ततः सावयवत्वात् नियम्यत्वाच्च निरवयवः नियामकः आत्मा नेति समुदायार्थः ॥१५८॥
देहस्य आत्मभिन्नत्वमुपपाद्य आत्मनः तद्विलक्षणत्वं विवेकदार्ढ्यायोपदिशति देहेति −
देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।
सत एव स्वतस्सिद्धं तद्वैलक्षण्यमात्मनः ॥१५९॥
तस्य देहस्य धर्माः रूपस्पर्शगन्धादयः, तत्कर्माणि हिताहितप्राप्तिपरिहारार्थक्रियाः गमनादयः, तदवस्थाः उपवेशनस्थानशयनादयः आदिपदेन स्थौल्यकार्श्यादि विकाराः । देहश्च तद्धर्माश्च तत्कर्माणि च तदवस्थादि च देहतद्धर्मतत्कर्मतदवस्थादीनि तेषां साक्षाद्द्रष्टा । तस्य सत एव सर्वावस्थासु बाल्यादिषु भिन्नभिन्नकालिकास्वपि अविकारितया कालत्रयेप्यबाध्यतया वर्तमानस्यैव आत्मनः तद्वैलक्षण्यं तस्माद्वैलक्षण्यं तद्वैलक्षण्यं देहादिविलक्षणत्वं स्वतः साक्षित्वादेव हेत्वन्तरं विनैव सिद्धं निश्चितम् इत्यर्थः । आत्मा देहादिविलक्षणः तत्साक्षित्वात् यन्नैवं तन्नैवं यथा देहादि ॥१५९॥
एवं देहस्य अनित्यत्वात् दृश्यत्वात् च अनात्मत्वमुपपादितम् । इदानीम् अशुद्धत्वेन तदुपपादयति शल्येति −
शल्यराशिः मांसलिप्तो मलपूर्णोऽतिकश्मलः ।
कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥१६०॥
शल्यानां कीकसानां राशिः यत्र स शल्यराशिः मांसलिप्तः मांसेन लिप्तः उपदिग्धः मलपूर्णः मलेन पुरीषेण पूर्णः दूषिकासिङ्घाणपिञ्जूषादिभिः सहितश्च । अत एवातिकश्मलः अत्यन्तं कश्मलः अतिकश्मलः । स्वेददुर्गन्धादिभूयिष्ठतया बह्वशुद्धः अयं देहः एतद्विलक्षणः निर्मलः स्वयमात्मा कथं भवेत् इत्यन्वयः । अनुमानं तु पूर्वं दर्शितम् ॥१६०॥
एवं विवेकस्य फलमाह त्वगिति −
त्वङ्मांसमेदोऽस्थिपुरीषराशा-
वहम्मतिं मूढजनः करोति ।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥१६१॥
मूढश्चासौ जनश्च मूढजनः विचारहीनः भ्रान्तबुद्धिः मनुष्यः त्वङ्मांसमेदोऽस्थिपुरीषराशौ देहे अहं मतिम् अहमितितादात्म्यबुद्धिं करोति बध्नाति । विचारशीलः पुमांस्तु विलक्षणं देहविलक्षणं परमार्थभूतं कालत्रयेऽपि बाधायोग्यं निजस्वरूपं वास्तविकं स्वयाथात्म्यं परमात्मानमेव स्वात्मानं जानाति ॥१६१॥
तत्रापि −
देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहन्धीः ।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥१६२॥
जडस्य पामरस्य अहं देहः एव न तद्व्यतिरिक्तः कश्चित् इति बुद्धिः । विदुषस्तु शास्त्रजन्यपरोक्षज्ञानवतः देहे च जीवे च अहन्धीः लौकिकव्यवहारेषु देहे वैदिके स्वर्गार्थयागादिकरणार्थं देहव्यतिरिक्ते जीवे अहन्धीः । विवेकविज्ञानवतः विवेकाद्विज्ञानं विवेकविज्ञानम् आत्मानात्मविवेचनात् आत्मन्यनात्मप्रविलापनेन जातं तद्विज्ञानं साक्षात्कारः तदस्यास्तीति तद्वान् तस्य महान् परिच्छेदत्रयशून्यः आत्मा यस्य सः महात्मा । पूर्वं परिच्छिन्नेषु अनात्मसु कोशेषु आत्मत्वधिया अल्प आसीत् इदानीं तु सम्यग्ज्ञानवान् स्वात्मानं त्रिविधपरिच्छेदशून्यं मनुते ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) , ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ७.२४.१) इति श्रुतेः । तादृशस्य सदात्मनि सदा सर्वदापि आत्मनि स्वविषये ब्रह्माहमित्येव मतिः अनुभव इत्यर्थः ॥१६२॥
तस्मात् −
अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदोस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्तिं परमां भजस्व ॥१६३॥
मूढबुद्धे विवेचनरहितान्तःकरण, यद्वा मूढैः बुद्धे अहन्तया ज्ञाते अत्र त्वङ्मांसमेदोस्थिपुरीषराशौ अत्र स्थूलदेहे आत्मबुद्धिम् अहमिति मतिं त्यज विसृज । ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) , ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इति श्रुत्या सर्वोपादानत्वेन कल्पितसकलाधिष्ठानत्वेन सर्वस्य वस्तुनः वास्तविकरूपे निर्विकल्पे विविधकल्पनाशून्ये ब्रह्मणि परमात्मनि इदानीं देहे वर्तमानाम् आत्मबुद्धिम् अहमिति मतिं कुरुष्व अहमेव परं ब्रह्मेति जानीहि । तत्फलमाह − परमां मुक्तिसुखदां शान्तिं बुद्ध्युपशान्तिं ब्रह्म संस्थामिति यावत् भजस्व प्राप्नुहि । ‘शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति’(भ.गी. ६.१५) इति स्मृतेः ॥१६३॥
देहादावभिमानत्यागं विना केवलशास्त्रजन्यज्ञानान्न मुक्तिरित्याह देहेन्द्रियेति −
देहेन्द्रियादावसति भ्रमोदितां
विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदान्तनयान्तदर्शी ॥१६४॥
विद्वान् विवेचनकुशलः । असति मिथ्याभूते देहेन्द्रियादौ देहश्च इन्द्रियाणि च देहेन्द्रियाणि तानि आदीनि यस्य तत् प्राणमनोबुध्यादि तस्मिन् , यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनिताम् अहन्ताम् आत्मबुद्धिं न जहाति न परित्यजति तावत् तावत्कालपर्यन्तं तस्य पुंसः विमुक्तिवार्तापि नास्ति कुतो विमुक्तिरिति भावः । एष पुमान् वेदान्तनयान्तदर्श्यप्यस्तु वेदान्ता एव नयः शास्त्रं तस्य अन्तः पारः तं द्रष्टुं शीलमस्यास्तीति दर्शी वेदान्तनयान्तदर्शी । सोऽपि अभिमानत्यागं विना न मुक्तिमर्हति । अतः निरन्तरनिदिध्यासनेन विपरीतभावना त्यक्तव्येति भावः ॥१६४॥
तस्याः त्यागे विचारं सुलभोपायमाह छायेति −
छायाशरीरे प्रतिबिम्बगात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।
यथात्मबुद्धिस्तव नास्ति काचित्
जीवच्छरीरे च तथैव मास्तु ॥१६५॥
यत् यस्मात्कारणात् छायाशरीरे शरीरच्छायायां प्रतिबिम्बगात्रे दर्पणादौ प्रतीयमानगात्रप्रतिबिम्बे स्वप्नदेहे स्वप्नावस्थायां दृश्यमानशरीरे हृदि मनसि कल्पिताङ्गे कल्पितं च तत् अङ्गं च कल्पिताङ्गं तस्मिन् जाग्रदवस्थायां मनःकल्पितदेहे यथा तव काचित् आत्मबुद्धिः अहमितिमतिः नास्ति न विद्यते । तथैव जीवच्छरीरे च प्राणान्धरद्यच्छरीरं तस्मिन्नपि मास्तु । द्रष्टुः स्वस्माद् भिन्नत्वेन प्रतीतेः सर्वत्र अविशिष्टत्वात् इति भावः ॥१६५॥
अन्नमयकोशमुपसञ्जिहीर्षुः सर्वानर्थकरी देहात्मधीस्त्याज्येत्याह देहात्मधीरिति −
देहात्मधीरेव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥
यतः यस्मात् असत्सु ब्रह्मभिन्नेष्वनात्मसु धीर्येषां ते असद्धियः तेषां नृणां मनुजानां देहात्मधीरेव देह एवात्मा इति धीरेव जन्मादिदुःखप्रभवस्य जन्म उत्पत्तिरादिः येषां मरणादीनां तानि जन्मादीनि तैर्यद्दुःखं तस्य प्रभवः उत्पत्तिः तस्याः बीजं कारणं शरीरगतत्वात् जन्ममरणादेः । तदेवाहमिति जानानस्य तत्सर्वं स्वकीयमेवेति ज्ञानात् दुःखं दुष्परिहरमिति भावः । ततः सर्वदुःखहेतुत्वात् तां देहात्मधियं प्रयत्नात् श्रवणमनननिदिध्यासनरूपशास्त्रीयप्रयत्नात् जहि जहीहीत्यर्थः । नाशयेति वा । देहादौ चित्ते त्यक्ते तु मनसःसञ्चाराभावे वासनात्मनाप्यभिमानाभावे पुनः भवाशा संसाराशा नैवेत्यर्थः ।
अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ (श्लो. २८५)
इति वक्ष्यमाणत्वात् ।
देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स जीवन्नपि मुच्यते ॥ (पञ्चदशी ७.२०)
इति प्रमाणात् ॥१६६॥
अन्नमयं निरूप्य ततः आन्तरं प्राणमयं श्रौतक्रमेण अनात्मानं निरूपयति कर्मेन्द्रियैरित्यादिना द्वाभ्याम् −