अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

१९. प्राणमयकोशविवेकः

कर्मेन्द्रियैः पञ्च­भि­र­ञ्चि­तोऽयं
प्राणो भवे­त्प्रा­ण­म­यस्तु कोशः ।
येना­त्म­वा­न­न्न­म­यो­नु­पूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥१६७॥

१६७

पञ्चभिः वाक्पा­णि­पा­द­पा­यू­प­स्थाख्यैः कर्मेन्द्रियैः वच­ना­दा­न­वि­ह­र­णो­त्स­र्गा­न­न्द­रू­प­क­र्म­ज­नकैः इन्द्रियैः क्रमेण आका­शा­दि­प­ञ्च­भू­त­र­जों­श­जातैः अञ्चितः विशिष्ट इत्यर्थः । भूत­प­ञ्च­क­स­म­ष्टि­र­जः­कार्यः प्राणः शरी­रा­न्त­स्स­ञ्चारी वायुः प्राणमयः तच्छब्दशब्दितः । कोशः अश­ना­या­पि­पा­सा­दि­धर्मैः आत्मानमावृण्वन् अपि­पा­स­वि­जि­घ­त्सा­त्मो­प­ल­ब्धि­प्र­ति­ब­न्धिका या अहं पिपासार्तः क्षुत्पीडितः इत्या­दि­रु­प­लब्धिः तद्विषयो भवतीत्यर्थः । ‘तेनैष पूर्णः, स वा एष पुरुषविध एव, तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति प्राण­म­य­प­र्या­य­स्थ­श्रु­त्य­र्थ­माह, येन प्राणमयेन आन­न्द­म­य­वि­ज्ञा­न­म­य­म­नो­म­य­द्वारा आत्म­प्र­ति­फ­ल­न­व­त्त्वेन आत्मवता अन्नमयः ‘तस्माद्वा एत­स्मा­द­न्न­र­स­म­यात् अन्योन्तर आत्मा प्राणमयः’(तै.उ. २.२) इति श्रुतेः आत्मवान् आत्म­प्र­ति­फ­ल­न­वान् । तत्र हेतुः अनुपूर्ण इति, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’(बृ.उ. १.४.७) इति श्रुतेः प्राणस्य पूर्ण­ता­म­नु­पूर्णः ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति श्रुतेः । तथाविधस्सन् सकलक्रियासु हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थासु प्रवर्तते । अचेतनं चेतनाधिष्ठितं कार्यं करोतीति न्यायात् । यद्भागे प्राणसम्बन्धो नास्ति तत्र निर्व्यापारत्वं लोकसिद्धमिति प्राण­स­म्ब­न्धा­देव शरीरे व्यापारः, मृते तदभावादेव आत्म­स­म्ब­न्ध­द्वा­रा­भा­वात् अचेतनत्वम् । अत्र सम­ष्टि­व्य­ष्टि­का­र्य­त्व­वि­शे­ष­स­त्त्वेऽपि रजोगुणकार्यत्वं समानमिति कर्मे­न्द्रि­याणां प्राण­म­येऽ­न्त­र्भाव इति मन्तव्यम् ॥१६७॥

इदानीं तस्य अनात्मत्वमाह नैवेति −

नैवात्मायं प्राणमयो वायुविकारो
गन्तागन्ता वायु­व­द­न्त­र्ब­हि­रेषः ।
यस्मा­त्कि­ञ्चि­त्क्वापि न वेत्ती­ष्ट­म­निष्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥१६८॥

१६८

वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः अयं प्राणमयः नैवात्मेति प्रतिज्ञा । तत्र हेतुः वायुवत् एषः प्राणमयः अन्तः बहिः गन्ता आगन्ता निश्वासे अन्तर्गन्ता उच्छ्वासे वहिरागन्ता । यथा बाह्यवायुः । सक्रियः परि­च्छि­न्न­श्चायं सर्वव्यापी निष्क्रियः आत्मा न भवतीति भावः । सक्रियत्वात् परि­च्छि­न्न­त्वात् बाह्यवायुवदिति सदृष्टान्तो हेतुः । एवमचेतनत्वं परतन्त्रत्वं च अनात्मत्वे हेतुमाह उत्तरार्धेन । यस्मादयं प्राणमयः इष्टमनिष्टं वा सुखं दुःखं वेत्यर्थः क्वापि कस्मिन्नपि काले देशे वा स्वं वा अन्यं वा स्वात्मानं परं वा न वेत्ति न जानाति नित्यं परतन्त्रः जीव­न­यो­नि­य­त्न­ज­न्य­स­ञ्चा­र­व­त्त्वात् , प्राणा­या­मा­दि­काले तस्य निरुध्यमानत्वं प्रसिद्धम् । अतः सक्रि­य­त्व­प­रि­च्छि­न्न­त्वा­चे­त­न­त्व­प­रा­धी­नत्व हेतुभिः एतद्विलक्षणः आत्मा न भवति । यद्ययमात्मा तर्हि सुषुप्तिदशायां जागरूकत्वात् चोरादिबाधां जानीयात् । आत्मनः सर्व­प्र­धा­न­त्वात् स्वभृत्येषु चक्षुरादिषु स्वपत्सु स्वयं व्यापारवानिति विरुद्धं च अतः नैवात्मायं प्राणमयः ॥१६८॥

इदानीं मनोमयं निरूपयति ज्ञाने­न्द्रि­या­णीति −