विवेकचूडामणिः सव्याख्यः
१९. प्राणमयकोशविवेकः
कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं
प्राणो भवेत्प्राणमयस्तु कोशः ।
येनात्मवानन्नमयोनुपूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥१६७॥
पञ्चभिः वाक्पाणिपादपायूपस्थाख्यैः कर्मेन्द्रियैः वचनादानविहरणोत्सर्गानन्दरूपकर्मजनकैः इन्द्रियैः क्रमेण आकाशादिपञ्चभूतरजोंशजातैः अञ्चितः विशिष्ट इत्यर्थः । भूतपञ्चकसमष्टिरजःकार्यः प्राणः शरीरान्तस्सञ्चारी वायुः प्राणमयः तच्छब्दशब्दितः । कोशः अशनायापिपासादिधर्मैः आत्मानमावृण्वन् अपिपासविजिघत्सात्मोपलब्धिप्रतिबन्धिका या अहं पिपासार्तः क्षुत्पीडितः इत्यादिरुपलब्धिः तद्विषयो भवतीत्यर्थः । ‘तेनैष पूर्णः, स वा एष पुरुषविध एव, तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति प्राणमयपर्यायस्थश्रुत्यर्थमाह, येन प्राणमयेन आनन्दमयविज्ञानमयमनोमयद्वारा आत्मप्रतिफलनवत्त्वेन आत्मवता अन्नमयः ‘तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः’(तै.उ. २.२) इति श्रुतेः आत्मवान् आत्मप्रतिफलनवान् । तत्र हेतुः अनुपूर्ण इति, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’(बृ.उ. १.४.७) इति श्रुतेः प्राणस्य पूर्णतामनुपूर्णः ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’(तै.उ. २.२) इति श्रुतेः । तथाविधस्सन् सकलक्रियासु हिताहितप्राप्तिपरिहारार्थासु प्रवर्तते । अचेतनं चेतनाधिष्ठितं कार्यं करोतीति न्यायात् । यद्भागे प्राणसम्बन्धो नास्ति तत्र निर्व्यापारत्वं लोकसिद्धमिति प्राणसम्बन्धादेव शरीरे व्यापारः, मृते तदभावादेव आत्मसम्बन्धद्वाराभावात् अचेतनत्वम् । अत्र समष्टिव्यष्टिकार्यत्वविशेषसत्त्वेऽपि रजोगुणकार्यत्वं समानमिति कर्मेन्द्रियाणां प्राणमयेऽन्तर्भाव इति मन्तव्यम् ॥१६७॥
इदानीं तस्य अनात्मत्वमाह नैवेति −
नैवात्मायं प्राणमयो वायुविकारो
गन्तागन्ता वायुवदन्तर्बहिरेषः ।
यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥१६८॥
वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः अयं प्राणमयः नैवात्मेति प्रतिज्ञा । तत्र हेतुः वायुवत् एषः प्राणमयः अन्तः बहिः गन्ता आगन्ता निश्वासे अन्तर्गन्ता उच्छ्वासे वहिरागन्ता । यथा बाह्यवायुः । सक्रियः परिच्छिन्नश्चायं सर्वव्यापी निष्क्रियः आत्मा न भवतीति भावः । सक्रियत्वात् परिच्छिन्नत्वात् बाह्यवायुवदिति सदृष्टान्तो हेतुः । एवमचेतनत्वं परतन्त्रत्वं च अनात्मत्वे हेतुमाह उत्तरार्धेन । यस्मादयं प्राणमयः इष्टमनिष्टं वा सुखं दुःखं वेत्यर्थः क्वापि कस्मिन्नपि काले देशे वा स्वं वा अन्यं वा स्वात्मानं परं वा न वेत्ति न जानाति नित्यं परतन्त्रः जीवनयोनियत्नजन्यसञ्चारवत्त्वात् , प्राणायामादिकाले तस्य निरुध्यमानत्वं प्रसिद्धम् । अतः सक्रियत्वपरिच्छिन्नत्वाचेतनत्वपराधीनत्व हेतुभिः एतद्विलक्षणः आत्मा न भवति । यद्ययमात्मा तर्हि सुषुप्तिदशायां जागरूकत्वात् चोरादिबाधां जानीयात् । आत्मनः सर्वप्रधानत्वात् स्वभृत्येषु चक्षुरादिषु स्वपत्सु स्वयं व्यापारवानिति विरुद्धं च अतः नैवात्मायं प्राणमयः ॥१६८॥
इदानीं मनोमयं निरूपयति ज्ञानेन्द्रियाणीति −