विवेकचूडामणिः सव्याख्यः
२०. मनोमयकोशविवेकः
ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः ।
संज्ञादिभेदकलनाकलितो बलीयान्
तत्पूर्वकोशमनुपूर्य विजृम्भते यः ॥१६९॥
श्रवणदर्शनादिकार्यकरणानि ज्ञानेन्द्रियाणि श्रोत्रचक्षुस्त्वग्जिह्वाघ्राणानि मनः काम\-सङ्कल्पविचिकित्साश्रद्धादिवृत्तिकं मनश्च मनोमयः तथाशब्दितः कोशः स्यात् । सर्वेन्द्रियव्यापारस्यापि मनोऽधीनत्वात् इन्द्रियाभावेऽपि स्वप्ने सत्त्वाच्च मनसः तत्प्रधानतया मनोमय इति संज्ञा न तु श्रोत्रमय इति संज्ञा इति भावः । अत्रापि प्रत्येकाकाशादिपञ्चभूतसत्वकार्यत्वात् ज्ञानेन्द्रियाणां भूतपञ्चकसत्त्वसमष्टिकार्यत्वाच्च मनसः एकस्मिन्कोशे घटनं तेषामिति बोध्यम् । अहं शृणोमि अहं पश्यामि अहं स्पृशामि अहं रसये अहं जिघ्रामि अहं कामये सङ्कल्पये इत्यादिना सर्वत्र आत्मबुद्धेः सत्त्वात् ‘तस्माद्वा एतस्मात्प्राणमयात् । अन्योन्तर आत्मा मनोमयः’(तै.उ. २.३) इति श्रुत्या अयमपि स्वोपलब्ध्या आत्मयाथात्म्योपलब्धिं प्रतिबध्नातीति कोश इत्युच्यते । तस्य कार्यमाह ममाहमिति वस्तुविकल्पहेतुः, देहेन्द्रियादौ गृहक्षेत्रादौ अहन्तां ममतां च मन एव सङ्कल्पविकल्पात्मकत्वात् जनयतीति वस्तुषु देहगेहादिषु अहं ममेत्यादयः ये विकल्पाः तेषां हेतुरित्यर्थः । तस्य स्वरूपमाह संज्ञादिभेदकलनाकलित इति । संज्ञा नाम, आदिपदेन रूपं भिद्यत इति भेदः संज्ञादिरूपः यो भेदः अस्य वस्तुनः घटः कलशः कुम्भ इत्यादिसंज्ञा, पृथुबुध्नोदराद्याकारः रूपं नीलपीतादिकं च इति रीत्या सर्वपदार्थेष्वपि भिद्यमाननामरूपादिविषयकलनया कलितः विशिष्ट इत्यर्थः । सर्वा अपि वृत्तयः शब्दविषयिण्यः अर्थविषयिण्यश्च मन आश्रित्य वर्तन्ते । अतः शब्दार्थव्यतिरिक्तप्रपञ्चस्य अभावात् सर्वोऽपि प्रपञ्चः मनसि स्वविषयकवृत्तिमति वर्तत इति बलीयान् , बन्धस्य मोक्षस्य च एतदधीनत्वात् अन्नमये प्राणमये वा ज्ञानशक्त्यभावात् ततो बलिष्ठत्वम् अस्य । एतत्सम्बन्धाभावे तत्रात्मसम्बन्धाभावाच्च । तदाह तत्पूर्वकोशमनुपूर्य इति । तस्य पूर्वकोशः तत्पूर्वकोशः प्राणमयः तम् अनुपूर्य विज्ञानमयकोशेन स्वयं पूरितः तदनु प्राणमयं व्याप्य यो विजृम्भते निरर्गलं स्वकार्यं करोति स मनोमय इत्यन्वयः । तत्पर्यायेपि श्रुतिः ‘स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः’(तै.उ. २.३) इति ज्ञेया ॥१६९॥
तस्य बन्धकत्वं विशदयति पञ्चेन्द्रियैरित्यादिना चतुर्भिः −
पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेन्धनैः
मनोमयोऽग्निर्दहति प्रपञ्चम् ॥१७०॥
सुखप्रतिपत्तये मनोमयमग्नित्वेन श्रोत्रादीन्द्रियाणि होतृत्वेन पुनः पुनः सम्पततः विषयानाज्यधारात्वेन विषयवासनाः इन्धनत्वेन रूपयति । पञ्च च तानि इन्द्रियाणि च पञ्चेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि तैरेव पञ्चभिः होतृभिः हविरग्निसंयोगानुकूलव्यापारवद्भिः प्रक्षेप्तृभिः । विषयाज्यधारया विषयाः शब्दस्पर्शरूपरसगन्धाः त एव आज्यं तस्य धारा तया प्रचीयमानः संवर्ध्यमानः नैरन्तर्येण तत्तदिन्द्रियैः तत्तद्विषयाणां मनसि निपात्यमानत्वात् , इन्धनेषु सत्सु आज्यधारा चेत् ज्वलनमधिकम् । अत आह बहुवासनेन्धनैरिति । बह्व्यः याः वासनाः
दृढभावनया त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ (यो.वा. ५.९१.२९)
इति बन्धकत्वेऽपि विषयाणां सुखकरत्वभ्रान्त्या तेषु उपादेयत्वभावनाः ता एव इन्धनानि शुष्ककाष्ठानि इन्धनाभावे केवलाज्यधारायाः बहुकालज्वलनहेतुत्वाभावात् वासनाभावे विषयाणां बन्धकत्वाभावाच्च । तैः बहुवासनेन्धनैः जाज्वल्यमानः पौनःपुन्येन निरन्तरं ज्वलन् मनोमयः मनोरूपः अग्निः प्रपञ्चं दहति भस्मीकरोति सर्वान्पुरुषान् पुरुषार्थायोग्यान् करोतीति यावत् ॥१७०॥
अन्वयव्यतिरेकाभ्यां तस्य बन्धकत्वमाह न ह्यस्तीति −
नह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥१७१॥
सुषुप्तौ कारणाविद्यासद्भावेपि बन्धस्याभावात् तत्कार्यमनस एव बन्धकत्वं तदा तस्य लीनत्वात् बन्धाभाव इत्यभिप्रेत्य । मनसोतिरिक्ता अविद्या नास्ति इत्युक्तम् । हि निश्चितम् । हि यतः भवबन्धहेतुः अविद्या तत्कार्यत्वात् मन एव । मनस्सत्वे देहादावभिमान-रूपबन्धात् तदभावे तदभावात् मनो-भवबन्धयोः अन्वयव्यतिरेकौ । तदेवोपपादयति तस्मिन्विनष्टे मनसि विशेषेण निर्वासनं नष्टे सकलं विनष्टम् । स्पष्टं हि सुषुप्तौ जगदेव नास्तीति । अस्मिन्विजृम्भिते वर्धमाने सकलं विजृम्भते सर्वमपि वृद्धिमाप्नोतीत्यर्थः ॥१७१॥
तदेव विस्तरेणोपपादयति स्वप्न इत्यादिना −
स्वप्नेर्थशून्ये सृजतिस्वशक्त्या भोक्त्रादि विश्वं मन एवसर्वम् ।
तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ॥१७२॥
प्रथमेनान्वयमाह − अर्थशून्ये शरीरान्तर्वर्तिनाडीषु मनस्सञ्चारदशायां स्वप्नावस्थेति श्रुत्या बोधितत्वात् केशतोऽपि सूक्ष्मासु तासु नाडीषु गिरिनदीसमुद्रादीनां तदा प्रतीयमानानाम् असम्भाविततया चक्षुरादीनां तदा उपरतव्यापारत्वात् तद्द्वारा मनसः बहिर्निर्गमनाभावात् शरीराद्बहिर्वर्तमानानां प्रतीत्यभावाच्च केवलं मनोवर्तिवासनावशात् तदा अर्थाः बाह्या इव प्रतीयन्ते । नतु वस्तुसन्तः इति अर्थशून्ये इत्युक्तम् । तथाविधे स्वप्ने स्वशक्त्या वासनाभिः केवलं स्वस्मिन् आत्मप्रतिफलनसामर्थ्येन च सर्वं भोक्त्रादि विश्वं जगत् मन एव सृजति निर्मिमीते । यद्यपि जीवः भोक्ता वर्तत इति भोक्त्रादीति कथमिति शङ्का भवितुमर्हति । तथाऽपि भोग्याभावे भोक्तृत्वाभावात् भोग्यसृष्टिहेतोः मनस एव निरूपकदानेन भोक्तृस्रष्टृत्वं मन्तव्यम् । तथैव स्वप्नवदेव जाग्रत्यपि जाग्रदवस्थायामपि मन एव सर्वं सृजति नो विशेषः । तत् तस्मात् सर्वमेतत् जगत् मनसो विजृम्भणं विलासः ॥१७२॥
व्यतिरेकेण इममर्थं द्रढयति सुषुप्तीति −
सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चित् सकलप्रसिद्धेः ।
अतो मनःकल्पित एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ॥१७३॥
सुषुप्तिकाले सुषुप्त्यवस्थायां मनसि प्रलीने परिणामान् विहाय कारणात्मना अवतिष्ठमाने नैवास्ति किञ्चित् जगत् । सकलप्रसिद्धेः सर्वप्राण्यनुभवात् न किञ्चिदवेदिषमिति । अतः एतस्य बद्धस्य पुंसः संसारः मनःकल्पित एव । वस्तुतः परमार्थतः नास्ति मनस्सत्त्वे स्वप्नजाग्रतोः संसारोपलब्धेः मनसः असत्वे सुषुप्तावनुपलम्भात् । मृदन्वयव्यतिरेकानुविधायिघट इव मृद्व्यतिरेकेण मनोव्यतिरेकेण संसारो नास्तीति ‘तस्मिन्विनष्टे’(श्लो. १७१) इति यदुक्तं पूर्वं तदुपपादितम् ॥१७३॥
वायुदृष्टान्तेन एकस्यैव तस्य विरुद्धद्वयहेतुत्वमाह वायुनेति −
वायुना नीयते मेघः पुनस्तेनैव लीयते ।
मनसा कल्प्यते बन्धः मोक्षस्तेनैव कल्प्यते ॥१७४॥
स्पष्टम् ॥१७४॥
दार्ष्टान्तिके बन्धहेतुत्वं मोक्षहेतुत्वं च उपपादयति देहेति −
देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत् सुविधाय पश्चाद्-
एनं विमोचयति तन्मन एव बन्धात् ॥१७५॥
देहः आदिः यस्य सः, सर्वश्चासौ विषयश्च शब्दस्पर्शादिः पुत्रादिश्च देहादिश्चासौ सर्वविषयश्च । शब्दादौ रागस्यापि देहमूलकत्वात् देहादीति । तस्मिन् देहादिसर्वविषये । रागं परिकल्प्य दृढं जनयित्वा तेन रागेण गुणेन रज्ज्वा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सितपरमपदप्राप्त्ययोग्यं करोति । पश्चादनन्तरं तत् यद्बन्धं जनयामास तत् मन एव । अत्र देहादौ विषये वैरस्यं वैराग्यम् अनासक्तिं विषवत् विष इव अनर्थकरत्वज्ञापनेन सुविधाय सुष्टूत्पाद्य एनं पुमांसं बन्धात् देहाद्यभिमानलक्षणात् विमोचयति विशेषेण मोचयति । सदापि ब्रह्मणि संस्थया पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः ॥१७५॥
बन्धमोक्षहेतुत्वम् उपपादितं निगमयति तस्मादिति −
तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने ।
बन्धस्य हेतुः मलिनं रजोगुणैः
मोक्षस्य हेतुः विरजस्तमस्कम् ॥१७६॥
तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा विधाने उत्पादने । मनःकारणं ‘मन एव मनुष्याणां’(अ.बिं.उ. २) इति श्रुतेः । एकस्य विरुद्धद्वयहेतुत्वकथन्तायाम् आह रजोगुणैः, प्रवृत्तयः बहुविधाः रजःकार्या इति बहुवचनम् । नानाविधतया बहिर्मुखत्वापादकैः कामक्रोधलोभादिरजोधर्मैरिति वा अर्थः । मलिनं कलुषितं मनः बन्धस्य हेतुः । शुद्धं निर्मलं, तत्र हेतुमाह विरजस्तमस्कमिति । रजसा तमसा च नितरां रहितं मनः मोक्षस्य हेतुरित्यर्थः । अतो मनसः एकत्वेऽपि गुणभेदात् विरुद्धद्वयहेतुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥
मोक्षहेतुतया मनश्शुद्धिः कथं सम्पादनीयेति शङ्कायामुत्तरमाह विवेकेति −
विवेकवैराग्यगुणातिरेका-
च्छुद्धत्वमासाद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षो-
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७७॥
विवेकश्च वैराग्यं च विवेकवैराग्ये ते एव गुणौ सत्फलप्रदधर्मौ तयोरतिरेकः अतिशयः विवेकदार्ढ्यं वैराग्ये तीव्रतरत्वं च । तस्मात् विवेकवैराग्यगुणातिरेकात् । ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवं निश्चये मिथ्या वस्तुनि कामानुदयात् आब्रह्मलोकं वैराग्यं प्रकृष्यते । कामानुपहतेरेव शुद्धिशब्दार्थत्वात् । तदुभयगुणयुक्तं मनः शुद्धत्वं निर्मलत्वम् आसाद्य प्राप्य विमुक्त्यै बहिर्मुखत्वशून्यतया ऐदम्पर्येण ब्रह्मसंस्थम् आत्यन्तिकबन्धनिवृत्तये हेतुर्भवति । अतो विवेकवैराग्यातिरेकविशिष्टमनसो विमुक्ति हेतुत्वात् । बुद्धिमतः बुद्धिरस्यास्तीति बुद्धिमान् तस्य उपायकुशलस्येत्यर्थः मुमुक्षोः मोक्षरूपफलेच्छावतः अग्रे आदौ ताभ्यां विवेकवैराग्याभ्यां दृढाभ्याम् अशिथिलाभ्यां प्रकृष्यमाणाभ्यां च भवितव्यम् । उपायेच्छां प्रति फलेच्छायाः कारणत्वात् । मोक्षेच्छावान् पुमान् विवेकवैराग्ये आदौ प्रयत्नेन सम्पादयति चेत् फलमवर्जनीयमिति कथितं भवति ॥१७७॥
मोक्षार्थं मनो निर्विषयं कर्तुं विषयेभ्यः निवर्तयितुं विवेकवैरग्ये हेतू उक्त्वा,
रत्ने यदि शिलाबुद्धिः जायते वा भयं ततः । समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ (स.द.सि.सा.सं. ६८)
इति वस्तुविचारवत् भयस्यापि यतो भयं ततो निवृत्तिहेतुत्वात् तेषु भयमाह मन इति । दयया भयोत्पादनद्वारा तेभ्यो निवर्तयति −
मनो नाम महाव्याघ्रः विषयारण्यभूमिषु ।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥
विषयारण्यभूमिषु विषया एव अरण्यभूमयः अनेकानर्थसङ्कुलत्वात् ‘विषयांस्तेषु गोचरान्’(क.उ. ३.३) इति श्रुतेश्च । तासु मनो नाम महाव्याघ्रः मनस्संज्ञकचण्डपुण्डरीकः चरति सञ्चरति । ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः विषयप्रवणता मनसः स्वभावःनिम्नभूमिगमनमिव जलस्य । ततः ‘बन्धाय विषयासक्तम्’(अ.बिं.उ. २) इति श्रुतेः जीवस्य महाननर्थस्सम्भवति । तदुक्तं गीतासु
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशः बुद्धिनाशात्प्रणश्यति ॥ (२.६२.६३) इति ।
अतः ये साधवः सत्पुरुषाः मुमुक्षवः मोक्षकाङ्क्षिणः ते अत्र विषयारण्यभूमिषु न गच्छन्तु मा गमन् । विषयेभ्यः मनो निवर्तयन्तु मोक्षाय इत्यभिप्रायः । ‘कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्’(क.उ. ४.१) इति श्रुतेरिति भावः ॥१७८॥
‘न ह्यस्त्यविद्या मनसोऽतिरिक्ता’(श्लो. १७१) इत्युक्तमुपपादयन् तस्य बन्धकत्वं विशदयति मनःप्रसूत इत्यादिना चतुर्भिः −
मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम् ॥१७९॥
भोक्तुः जीवस्य जाग्रदवस्थायां स्थूलात्मना तत्तद्देवतानुगृहीततत्तदिन्द्रियजन्यानुभवविषयतया स्थूलात्मना, स्वप्नावस्थायामिन्द्रियाणामुपरतेः सूक्ष्मतया केवलसाक्षिवेद्यतया च अशेषान् सर्वान् विषयान् भोग्यपदार्थान् मनः प्रसूते उत्पादयति । ते विषयाः के इत्याकाङ्क्षायामाह शरीरवर्णाश्रमजातिभेदान् शरीरं च वर्णाश्च आश्रमाश्च जातयश्च शरीरवर्णाश्रमजातयः तासां भेदाः प्रकाराः तान् देवतिर्यङ्मनुष्यादिशरीराणि ब्राह्मणक्षत्रियवैश्यशूद्ररूपवर्णान् ब्रह्मचारिगृहस्थवानप्रस्थसंन्यास्याश्रमान् देवमनुष्यादिशरीरं च देवत्वादिजातीश्च प्रसूते । सुषुप्त्यादौ मनसोऽभावे एतेषां भेदानामभावात् सर्वमिदं मनसा कल्पितमेवेति भावः । एवं गुणक्रियाहेतुफलानि गुणाः शब्दादयः क्रियाः उत्क्षेपणादयः हेतवः तत्तत्कार्यनिमित्तोपादानानि । फलानि घटादीनि तत्तत्कार्याणि एतत्सर्वं मन एव नित्यं सदा प्रसूते । नान्यनिमित्तम् इदं मनसोऽभावे कस्याप्यभावात् । तदेव सर्वस्य मूलकारणमिति भावः । शरीरेत्यत्र भिद्यन्ते इति भेदाः इति व्युत्पत्त्या कर्मधारयो वा ॥१७९॥
असङ्गचिद्रूपममुं विमोह्य
देहेन्द्रियप्राणगुणैर्निबध्य ।
अहं ममेति भ्रमयत्यजस्रं
मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥
मनः कर्तृ असङ्गचिद्रूपम् असङ्गा सर्वसङ्गविधुरा या चित् अखण्डं ज्ञानं तदेव रूपं यस्य सः असङ्गचिद्रूपः तम् । अमुम् आत्मानम् । देहेन्द्रियप्राणगुणैः विमोह्य स्ववास्तवरूपं ज्ञातुमसमर्थं कृत्वा तेष्वेव देहेन्द्रियप्राणगुणेषु देहेन्द्रियप्राणेषु अहमिति तद्गुणेषु तद्धर्मेषु ममेति निबध्य । अजस्रं सततं स्वकृत्येषु लौकिकवैदिककर्मसु । फलोपभुक्तिषु तत्तत्कर्मजन्यफलभोगेषु भ्रमयति ऊर्ध्वमधश्च नयति । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । उक्तं हि श्रुत्या –
आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४.१२)
इति । अतः विज्ञातस्वकासङ्गचिदानन्दरूपः पुरुषः नैव किञ्चित्कामयते न वा कर्माणि करोति । ततः कर्तृत्वं वा भोक्तृत्वं वा देहेन्द्रियाद्यभिमाननिबन्धनम् । स चाभिमानः मनोमूलः सुषुप्तावदर्शनात् तदा मनसो लीनत्वात् । अतः स्वरूपसत्याः अविद्यायाः मनो विना बन्धहेतुत्वाभावात् सर्वबन्धहेतुत्वं मनस एवेति भावः ॥१८०॥
इदानीं तस्य बन्धद्वारा दुःखहेतुत्वमाह अध्यासेति −
अध्यासयोगात् पुरुषस्य संसृतिः
अध्यासबन्धस्त्वमुनैव कल्पितः ।
रजस्तमोदोषवतोऽविवेकिनो
जन्मादिदुःखस्य निदानमेतत् ॥१८१॥
रजस्तमोदोषवतः रजश्च तमश्च रजस्तमसी ते एव दोषौ तावस्य स्त इति तद्वान् तस्य रजस्तमोदोषवतः आवरणविक्षेपहेतुभूतदोषद्वयविशिष्टस्य अत एव अविवेकिनः आत्मानात्मभेदज्ञानरहितस्य पुरुषस्य अध्यासयोगात् अनात्मस्वात्मबुद्धियोगात् , संसृतिः जन्ममरणप्रबन्धाविच्छेदः । संसृतिहेत्वध्यासः मनोमूल इत्याह अध्यासबन्ध इति । अध्यासरूपो यो बन्धः स तु सोऽपि, शरीरेन्द्रियादयः मनसा प्रसूयन्ते इति ‘मनःप्रसूते’(श्लो. १७९) इत्यत्रोक्तम् । इदानीं तत्र अध्यासोऽपि अमुनैव कल्पितः जनितः इत्यपि शब्दार्थः । ततः जन्ममरणप्रबन्धाविच्छेदलक्षणसंसृतिहेतुभूताध्यासहेतुत्वेन । एतत् मन एव जन्मादिदुःखस्य जन्ममरणजरारोगादिजन्यसकलविधदुःखस्य निदानम् आदिकारणम् ॥१८१॥
अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः ।
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥१८२॥
तत्त्वदर्शिनः तत्त्वं द्रष्टुं शीलं येषां ते । पण्डिताः श्रुतवेदान्ताः पुरुषधौरेयाः । अतः संसृतिमूलकारणत्वान्मनसः मन एव अविद्यां प्राहुः अविद्याकार्यत्वात् केवलाविद्यायाः संसृतिहेतुत्वाभावाच्च । मन एवाविद्येति कथनं युक्तमिति बोधयितुं प्रेत्युपसर्गः । तत्र हेतुः येनैव मनसैव विश्वं सर्वं जगत् सर्वे जीवा इति यावत् । भ्राम्यते अन्यथाग्रहणेन ऊर्ध्वमधश्च नीयते । तत्र दृष्टान्तः वायुनेवाभ्रमण्डलं, मेघसमुदायः वायुना यथा सर्वासु दिक्षु भ्राम्यते तथा ॥१८२॥
इदानीं मुमुक्षुजनकर्तव्यमाह तदिति −
तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥१८३॥
तत् पूर्वकथितकारणात् रजस्तमोदोषवतः पुंसः अध्यासद्वारा संसृतिहेतुरिति रूपात् । मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्टयत्नेन मनश्शोधनं मनोगतरजस्तमोरूपदोषापनयनं कार्यं विधेयम् । चकारो हेत्वर्थः यत इति । एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने केवलसत्त्वप्रधाने, मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः ॥१८३॥
मनश्शुद्धिहेतुप्रयत्नप्रकारमाह मोक्षेति −
मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः ॥१८४॥
मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया, विषयेषु देहादिषु रागं सुखजनकत्वभ्रान्त्या आसक्तिं निर्मूल्य अहन्तानिरसनेन परित्यज्य, सर्वकर्म निष्कामकर्माणि नित्यनैमित्तिकानि च, संन्यस्य स्वरूपतोऽपि परित्यज्य सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती अचञ्चला वा या श्रद्धा गुरुवेदान्तवाक्यविश्वासः तया यः पुमान् श्रवणादिनिष्ठः श्रवणम् आदि ययोः मनननिदिध्यासनयोः तेषु श्रवणादिषु निष्ठा नितरां स्थितिः यस्य सः श्रवणादिनिष्ठः सः पुरुषः बुद्धेः रजस्स्वभावं रजसः स्वभावः विक्षेपः तम् । धुनोति चालयति नितरां नाशयतीति यावत् । देहादिषु रागसत्त्वे कर्म करोति कर्मसत्त्वे विक्षेपः । रागनिर्मूलनेन सर्वं कर्म त्यक्त्वा श्रवणादिभिः अन्तर्निष्ठस्य श्रद्धालोः बुद्धिविक्षेपस्य नैवावसरः । अतो विरक्तेन संन्यासिना श्रवणादिकं श्रद्धया बुद्धिदोषनिवृत्तये कार्यमित्युक्तं भवति ॥१८४॥
इदानीं मनोमयस्य अनात्मत्वं निगमयति मनोमय इति −
मनोमयो नापि भवेत्परात्मा
ह्याद्यन्तवत्त्वात् परिणामिभावात् ।
दुःखत्मकत्वाद् विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥
मनोमयोपि परात्मा परमात्मा न भवेदित्यन्वयः । तत्र हेतवः सङ्गृह्यन्ते आद्यन्तवत्त्वात् सुषुप्तौ लयात् जाग्रदादौ उत्पत्तेश्च आद्यन्तशून्यः आत्मा न भवति । एवं परिणामिभावात् परिणामिनः भावः परिणामिभावः विकारवत्वं कामसङ्कल्पाद्यात्मना परिणममानत्वात् अविकारी आत्मा न भवति । दुःखम् आत्मा स्वरूपं यस्य दुःखात्मकं तस्य भावः तत्त्वम् । अत एव निरुध्यते शोध्यते च । अध्यासद्वारा सर्वदुःखहेतुत्वमुपपादितम् । अतः आनन्दरूपः आत्मा न भवति । विषयत्वमेव हेतुः तस्मात् ‘अन्यत्रमना अभूवं नाद्राक्षम् अन्यत्रमना अभूवं नाश्रौषम्’(बृ.उ. १.५.३) इति श्रुतेः । साक्षिणा विषयीक्रियत इति विषयत्वरूपहेतोश्च सर्वसाक्षी आत्मा न भवति । तदिदमाह द्रष्टा हीत्यादिना, हि यतः द्रष्टा पश्यतीति द्रष्टा ज्ञाता यः सः दृश्यात्मतया विषयतया न दृष्टः न लोकसिद्धः इत्यर्थः । अतः सर्वदा मनस्स्थितिकाले तदभावे च साक्षिणा सद्भावाभावयोः ज्ञायमानतया कर्तृकर्मविरोधात् स्वद्रष्टृत्वस्य स्वस्मिन् विरुद्धत्वाच्च दृश्यं मनः न द्रष्टृस्वरूप आत्मा इत्यनात्मत्वं तस्य सिद्धम् ॥१८५॥
इदानीं विज्ञानमयकोशं निरूपयति बुद्धिरिति −