अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२०. मनोमयकोशविवेकः

ज्ञाने­न्द्रि­याणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तु­वि­क­ल्प­हेतुः ।
संज्ञा­दि­भे­द­क­ल­ना­क­लितो बलीयान्
तत्पू­र्व­को­श­म­नु­पूर्य विजृम्भते यः ॥१६९॥

१६९

श्रव­ण­द­र्श­ना­दि­का­र्य­क­र­णानि ज्ञाने­न्द्रि­याणि श्रोत्र­च­क्षु­स्त्व­ग्जि­ह्वा­घ्रा­णानि मनः काम\-स­ङ्क­ल्प­वि­चि­कि­त्सा­श्र­द्धा­दि­वृ­त्तिकं मनश्च मनोमयः तथाशब्दितः कोशः स्यात् । सर्वे­न्द्रि­य­व्या­पा­र­स्यापि मनोऽधीनत्वात् इन्द्रि­या­भा­वेऽपि स्वप्ने सत्त्वाच्च मनसः तत्प्रधानतया मनोमय इति संज्ञा न तु श्रोत्रमय इति संज्ञा इति भावः । अत्रापि प्रत्ये­का­का­शा­दि­प­ञ्च­भू­त­स­त्व­का­र्य­त्वात् ज्ञाने­न्द्रि­याणां भूत­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वाच्च मनसः एकस्मिन्कोशे घटनं तेषामिति बोध्यम् । अहं शृणोमि अहं पश्यामि अहं स्पृशामि अहं रसये अहं जिघ्रामि अहं कामये सङ्कल्पये इत्यादिना सर्वत्र आत्मबुद्धेः सत्त्वात् ‘तस्माद्वा एत­स्मा­त्प्रा­ण­म­यात् । अन्योन्तर आत्मा मनोमयः’(तै.उ. २.३) इति श्रुत्या अयमपि स्वोपलब्ध्या आत्म­या­था­त्म्यो­प­लब्धिं प्रतिबध्नातीति कोश इत्युच्यते । तस्य कार्यमाह ममाहमिति वस्तु­वि­क­ल्प­हेतुः, देहेन्द्रियादौ गृहक्षेत्रादौ अहन्तां ममतां च मन एव सङ्क­ल्प­वि­क­ल्पा­त्म­क­त्वात् जनयतीति वस्तुषु देहगेहादिषु अहं ममेत्यादयः ये विकल्पाः तेषां हेतुरित्यर्थः । तस्य स्वरूपमाह संज्ञा­दि­भे­द­क­ल­ना­क­लित इति । संज्ञा नाम, आदिपदेन रूपं भिद्यत इति भेदः संज्ञादिरूपः यो भेदः अस्य वस्तुनः घटः कलशः कुम्भ इत्यादिसंज्ञा, पृथु­बु­ध्नो­द­रा­द्या­कारः रूपं नीलपीतादिकं च इति रीत्या सर्व­प­दा­र्थे­ष्वपि भिद्य­मा­न­ना­म­रू­पा­दि­वि­ष­य­क­ल­नया कलितः विशिष्ट इत्यर्थः । सर्वा अपि वृत्तयः शब्दविषयिण्यः अर्थविषयिण्यश्च मन आश्रित्य वर्तन्ते । अतः शब्दा­र्थ­व्य­ति­रि­क्त­प्र­प­ञ्चस्य अभावात् सर्वोऽपि प्रपञ्चः मनसि स्ववि­ष­य­क­वृ­त्ति­मति वर्तत इति बलीयान् , बन्धस्य मोक्षस्य च एतदधीनत्वात् अन्नमये प्राणमये वा ज्ञान­श­क्त्य­भा­वात् ततो बलिष्ठत्वम् अस्य । एत­त्स­म्ब­न्धा­भावे तत्रा­त्म­स­म्ब­न्धा­भा­वाच्च । तदाह तत्पू­र्व­को­श­म­नु­पूर्य इति । तस्य पूर्वकोशः तत्पूर्वकोशः प्राणमयः तम् अनुपूर्य विज्ञानमयकोशेन स्वयं पूरितः तदनु प्राणमयं व्याप्य यो विजृम्भते निरर्गलं स्वकार्यं करोति स मनोमय इत्यन्वयः । तत्पर्यायेपि श्रुतिः ‘स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः’(तै.उ. २.३) इति ज्ञेया ॥१६९॥

तस्य बन्धकत्वं विशदयति पञ्चे­न्द्रि­यै­रि­त्या­दिना चतुर्भिः −

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेन्धनैः
मनो­म­योऽ­ग्नि­र्द­हति प्रपञ्चम् ॥१७०॥

१७०

सुखप्रतिपत्तये मनोमयमग्नित्वेन श्रोत्रा­दी­न्द्रि­याणि होतृत्वेन पुनः पुनः सम्पततः विष­या­ना­ज्य­धा­रा­त्वेन विषयवासनाः इन्धनत्वेन रूपयति । पञ्च च तानि इन्द्रियाणि च पञ्चेन्द्रियाणि श्रोत्र­त्व­क्च­क्षु­र्जि­ह्वा­घ्रा­णानि तैरेव पञ्चभिः होतृभिः हवि­र­ग्नि­सं­यो­गा­नु­कू­ल­व्या­पा­र­वद्भिः प्रक्षेप्तृभिः । विषयाज्यधारया विषयाः शब्द­स्प­र्श­रू­प­र­स­गन्धाः त एव आज्यं तस्य धारा तया प्रचीयमानः संवर्ध्यमानः नैरन्तर्येण तत्तदिन्द्रियैः तत्तद्विषयाणां मनसि निपा­त्य­मा­न­त्वात् , इन्धनेषु सत्सु आज्यधारा चेत् ज्वलनमधिकम् । अत आह बहु­वा­स­ने­न्ध­नै­रिति । बह्व्यः याः वासनाः

दृढभावनया त्यक्त­पू­र्वा­प­र­वि­चा­र­णम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ (यो.वा. ५.९१.२९)

इति बन्धकत्वेऽपि विषयाणां सुख­क­र­त्व­भ्रान्त्या तेषु उपादेयत्वभावनाः ता एव इन्धनानि शुष्ककाष्ठानि इन्धनाभावे केवलाज्यधारायाः बहु­का­ल­ज्व­ल­न­हे­तु­त्वा­भा­वात् वासनाभावे विषयाणां बन्ध­क­त्वा­भा­वाच्च । तैः बहुवासनेन्धनैः जाज्वल्यमानः पौनःपुन्येन निरन्तरं ज्वलन् मनोमयः मनोरूपः अग्निः प्रपञ्चं दहति भस्मीकरोति सर्वान्पुरुषान् पुरु­षा­र्था­यो­ग्यान् करोतीति यावत् ॥१७०॥

अन्व­य­व्य­ति­रे­काभ्यां तस्य बन्धकत्वमाह न ह्यस्तीति −

नह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृ­म्भि­तेऽ­स्मिन् सकलं विजृम्भते ॥१७१॥

१७१

सुषुप्तौ कार­णा­वि­द्या­स­द्भा­वेपि बन्धस्याभावात् तत्कार्यमनस एव बन्धकत्वं तदा तस्य लीनत्वात् बन्धाभाव इत्यभिप्रेत्य । मनसोतिरिक्ता अविद्या नास्ति इत्युक्तम् । हि निश्चितम् । हि यतः भवबन्धहेतुः अविद्या तत्कार्यत्वात् मन एव । मनस्सत्वे देहा­दा­व­भि­मा­न-रू­प­ब­न्धात् तदभावे तदभावात् मनो-भवबन्धयोः अन्वयव्यतिरेकौ । तदेवोपपादयति तस्मिन्विनष्टे मनसि विशेषेण निर्वासनं नष्टे सकलं विनष्टम् । स्पष्टं हि सुषुप्तौ जगदेव नास्तीति । अस्मि­न्वि­जृ­म्भिते वर्धमाने सकलं विजृम्भते सर्वमपि वृद्धि­मा­प्नो­ती­त्यर्थः ॥१७१॥

तदेव विस्त­रे­णो­प­पा­द­यति स्वप्न इत्यादिना −

स्वप्ने­र्थ­शून्ये सृजतिस्वशक्त्या भोक्त्रादि विश्वं मन एवसर्वम् ।
तथैव जाग्रत्यपि नो विशेषः तत्स­र्व­मे­त­न्म­नसो विजृम्भणम् ॥१७२॥

१७२

प्रथमेनान्वयमाह − अर्थशून्ये शरी­रा­न्त­र्व­र्ति­ना­डीषु मन­स्स­ञ्चा­र­द­शायां स्वप्नावस्थेति श्रुत्या बोधितत्वात् केशतोऽपि सूक्ष्मासु तासु नाडीषु गिरि­न­दी­स­मु­द्रा­दीनां तदा प्रतीयमानानाम् असम्भाविततया चक्षुरादीनां तदा उप­र­त­व्या­पा­र­त्वात् तद्द्वारा मनसः बहि­र्नि­र्ग­म­ना­भा­वात् शरी­रा­द्ब­हि­र्व­र्त­मा­नानां प्रतीत्यभावाच्च केवलं मनो­व­र्ति­वा­स­ना­व­शात् तदा अर्थाः बाह्या इव प्रतीयन्ते । नतु वस्तुसन्तः इति अर्थशून्ये इत्युक्तम् । तथाविधे स्वप्ने स्वशक्त्या वासनाभिः केवलं स्वस्मिन् आत्म­प्र­ति­फ­ल­न­सा­म­र्थ्येन च सर्वं भोक्त्रादि विश्वं जगत् मन एव सृजति निर्मिमीते । यद्यपि जीवः भोक्ता वर्तत इति भोक्त्रादीति कथमिति शङ्का भवितुमर्हति । तथाऽपि भोग्याभावे भोक्तृ­त्वा­भा­वात् भोग्य­सृ­ष्टि­हेतोः मनस एव निरूपकदानेन भोक्तृ­स्र­ष्टृत्वं मन्तव्यम् । तथैव स्वप्नवदेव जाग्रत्यपि जाग्र­द­व­स्था­या­मपि मन एव सर्वं सृजति नो विशेषः । तत् तस्मात् सर्वमेतत् जगत् मनसो विजृम्भणं विलासः ॥१७२॥

व्यतिरेकेण इममर्थं द्रढयति सुषुप्तीति −

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चित् सकलप्रसिद्धेः ।
अतो मनःकल्पित एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ॥१७३॥

१७३

सुषुप्तिकाले सुषु­प्त्य­व­स्थायां मनसि प्रलीने परिणामान् विहाय कारणात्मना अवतिष्ठमाने नैवास्ति किञ्चित् जगत् । सकलप्रसिद्धेः सर्व­प्रा­ण्य­नु­भ­वात् न किञ्चि­द­वे­दि­ष­मिति । अतः एतस्य बद्धस्य पुंसः संसारः मनःकल्पित एव । वस्तुतः परमार्थतः नास्ति मनस्सत्त्वे स्वप्नजाग्रतोः संसारोपलब्धेः मनसः असत्वे सुषु­प्ता­व­नु­प­ल­म्भात् । मृद­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­घट इव मृद्व्यतिरेकेण मनोव्यतिरेकेण संसारो नास्तीति ‘तस्मि­न्वि­नष्टे’(श्लो. १७१) इति यदुक्तं पूर्वं तदुपपादितम् ॥१७३॥

वायुदृष्टान्तेन एकस्यैव तस्य विरु­द्ध­द्व­य­हे­तु­त्व­माह वायुनेति −

वायुना नीयते मेघः पुनस्तेनैव लीयते ।
मनसा कल्प्यते बन्धः मोक्षस्तेनैव कल्प्यते ॥१७४॥

१७४

स्पष्टम् ॥१७४॥

दार्ष्टान्तिके बन्धहेतुत्वं मोक्षहेतुत्वं च उपपादयति देहेति −

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत् सुविधाय पश्चाद्-
एनं विमोचयति तन्मन एव बन्धात् ॥१७५॥

१७५

देहः आदिः यस्य सः, सर्वश्चासौ विषयश्च शब्दस्पर्शादिः पुत्रादिश्च देहादिश्चासौ सर्वविषयश्च । शब्दादौ रागस्यापि देहमूलकत्वात् देहादीति । तस्मिन् देहादिसर्वविषये । रागं परिकल्प्य दृढं जनयित्वा तेन रागेण गुणेन रज्ज्वा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सि­त­प­र­म­प­द­प्रा­प्त्य­योग्यं करोति । पश्चादनन्तरं तत् यद्बन्धं जनयामास तत् मन एव । अत्र देहादौ विषये वैरस्यं वैराग्यम् अनासक्तिं विषवत् विष इव अन­र्थ­क­र­त्व­ज्ञा­प­नेन सुविधाय सुष्टूत्पाद्य एनं पुमांसं बन्धात् देहा­द्य­भि­मा­न­ल­क्ष­णात् विमोचयति विशेषेण मोचयति । सदापि ब्रह्मणि संस्थया पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः ॥१७५॥

बन्ध­मो­क्ष­हे­तु­त्वम् उपपादितं निगमयति तस्मादिति −

तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने ।
बन्धस्य हेतुः मलिनं रजोगुणैः
मोक्षस्य हेतुः विरजस्तमस्कम् ॥१७६॥

१७६

तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा विधाने उत्पादने । मनःकारणं ‘मन एव मनुष्याणां’(अ.बिं.उ. २) इति श्रुतेः । एकस्य विरु­द्ध­द्व­य­हे­तु­त्व­क­थ­न्ता­याम् आह रजोगुणैः, प्रवृत्तयः बहुविधाः रजःकार्या इति बहुवचनम् । नानाविधतया बहि­र्मु­ख­त्वा­पा­दकैः काम­क्रो­ध­लो­भा­दि­र­जो­ध­र्मै­रिति वा अर्थः । मलिनं कलुषितं मनः बन्धस्य हेतुः । शुद्धं निर्मलं, तत्र हेतुमाह विरजस्तमस्कमिति । रजसा तमसा च नितरां रहितं मनः मोक्षस्य हेतुरित्यर्थः । अतो मनसः एकत्वेऽपि गुणभेदात् विरु­द्ध­द्व­य­हे­तुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥

मोक्षहेतुतया मनश्शुद्धिः कथं सम्पादनीयेति शङ्का­या­मु­त्त­र­माह विवेकेति −

विवे­क­वै­रा­ग्य­गु­णा­ति­रेका-
च्छुद्ध­त्व­मा­साद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षो-
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७७॥

१७७

विवेकश्च वैराग्यं च विवेकवैराग्ये ते एव गुणौ सत्फलप्रदधर्मौ तयोरतिरेकः अतिशयः विवेकदार्ढ्यं वैराग्ये तीव्रतरत्वं च । तस्मात् विवे­क­वै­रा­ग्य­गु­णा­ति­रे­कात् । ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवं निश्चये मिथ्या वस्तुनि कामानुदयात् आब्रह्मलोकं वैराग्यं प्रकृष्यते । कामानुपहतेरेव शुद्धि­श­ब्दा­र्थ­त्वात् । तदुभयगुणयुक्तं मनः शुद्धत्वं निर्मलत्वम् आसाद्य प्राप्य विमुक्त्यै बहि­र्मु­ख­त्व­शू­न्य­तया ऐदम्पर्येण ब्रह्मसंस्थम् आत्य­न्ति­क­ब­न्ध­नि­वृ­त्तये हेतुर्भवति । अतो विवे­क­वै­रा­ग्या­ति­रे­क­वि­शि­ष्ट­म­नसो विमुक्ति हेतुत्वात् । बुद्धिमतः बुद्धि­र­स्या­स्तीति बुद्धिमान् तस्य उपा­य­कु­श­ल­स्ये­त्यर्थः मुमुक्षोः मोक्ष­रू­प­फ­ले­च्छा­वतः अग्रे आदौ ताभ्यां विवे­क­वै­रा­ग्याभ्यां दृढाभ्याम् अशिथिलाभ्यां प्रकृ­ष्य­मा­णाभ्यां च भवितव्यम् । उपायेच्छां प्रति फलेच्छायाः कारणत्वात् । मोक्षेच्छावान् पुमान् विवेकवैराग्ये आदौ प्रयत्नेन सम्पादयति चेत् फलमवर्जनीयमिति कथितं भवति ॥१७७॥

मोक्षार्थं मनो निर्विषयं कर्तुं विषयेभ्यः निवर्तयितुं विवेकवैरग्ये हेतू उक्त्वा,

रत्ने यदि शिलाबुद्धिः जायते वा भयं ततः । समी­ची­न­त्व­धी­र्नैति नोपादेयत्वधीरपि ॥ (स.द.सि.सा.सं. ६८)

इति वस्तुविचारवत् भयस्यापि यतो भयं ततो निवृ­त्ति­हे­तु­त्वात् तेषु भयमाह मन इति । दयया भयोत्पादनद्वारा तेभ्यो निवर्तयति −

मनो नाम महाव्याघ्रः विषयारण्यभूमिषु ।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥

१७८

विषयारण्यभूमिषु विषया एव अरण्यभूमयः अने­का­न­र्थ­स­ङ्कु­ल­त्वात् ‘विषयांस्तेषु गोचरान्’(क.उ. ३.३) इति श्रुतेश्च । तासु मनो नाम महाव्याघ्रः मन­स्सं­ज्ञ­क­च­ण्ड­पु­ण्ड­रीकः चरति सञ्चरति । ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः विषयप्रवणता मनसः स्वभा­वः­नि­म्न­भू­मि­ग­म­न­मिव जलस्य । ततः ‘बन्धाय विषयासक्तम्’(अ.बिं.उ. २) इति श्रुतेः जीवस्य महा­न­न­र्थ­स्स­म्भ­वति । तदुक्तं गीतासु

सङ्गात्सञ्जायते कामः कामा­त्क्रो­धोऽ­भि­जा­यते । क्रोधाद्भवति सम्मोहः सम्मो­हा­त्स्मृ­ति­वि­भ्रमः । स्मृति­भ्रं­शा­द्बु­द्धि­नाशः बुद्धि­ना­शा­त्प्र­ण­श्यति ॥ (२.६२.६३) इति ।

अतः ये साधवः सत्पुरुषाः मुमुक्षवः मोक्षकाङ्क्षिणः ते अत्र विषयारण्यभूमिषु न गच्छन्तु मा गमन् । विषयेभ्यः मनो निवर्तयन्तु मोक्षाय इत्यभिप्रायः । ‘कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्षत् आवृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क.उ. ४.१) इति श्रुतेरिति भावः ॥१७८॥

‘न ह्यस्त्यविद्या मनसोऽतिरिक्ता’(श्लो. १७१) इत्यु­क्त­मु­प­पा­द­यन् तस्य बन्धकत्वं विशदयति मनःप्रसूत इत्यादिना चतुर्भिः −

मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरी­र­व­र्णा­श्र­म­जा­ति­भे­दान्
गुण­क्रि­या­हे­तु­फ­लानि नित्यम् ॥१७९॥

१७९

भोक्तुः जीवस्य जाग्रदवस्थायां स्थूलात्मना तत्त­द्दे­व­ता­नु­गृ­ही­त­त­त्त­दि­न्द्रि­य­ज­न्या­नु­भ­व­वि­ष­य­तया स्थूलात्मना, स्वप्ना­व­स्था­या­मि­न्द्रि­या­णा­मु­प­रतेः सूक्ष्मतया केव­ल­सा­क्षि­वे­द्य­तया च अशेषान् सर्वान् विषयान् भोग्यपदार्थान् मनः प्रसूते उत्पादयति । ते विषयाः के इत्या­का­ङ्क्षा­या­माह शरी­र­व­र्णा­श्र­म­जा­ति­भे­दान् शरीरं च वर्णाश्च आश्रमाश्च जातयश्च शरी­र­व­र्णा­श्र­म­जा­तयः तासां भेदाः प्रकाराः तान् देव­ति­र्य­ङ्म­नु­ष्या­दि­श­री­राणि ब्राह्म­ण­क्ष­त्रि­य­वै­श्य­शू­द्र­रू­प­व­र्णान् ब्रह्म­चा­रि­गृ­ह­स्थ­वा­न­प्र­स्थ­सं­न्या­स्या­श्र­मान् देव­म­नु­ष्या­दि­श­रीरं च देव­त्वा­दि­जा­तीश्च प्रसूते । सुषुप्त्यादौ मनसोऽभावे एतेषां भेदानामभावात् सर्वमिदं मनसा कल्पितमेवेति भावः । एवं गुण­क्रि­या­हे­तु­फ­लानि गुणाः शब्दादयः क्रियाः उत्क्षेपणादयः हेतवः तत्त­त्का­र्य­नि­मि­त्तो­पा­दा­नानि । फलानि घटादीनि तत्तत्कार्याणि एतत्सर्वं मन एव नित्यं सदा प्रसूते । नान्यनिमित्तम् इदं मनसोऽभावे कस्याप्यभावात् । तदेव सर्वस्य मूलकारणमिति भावः । शरीरेत्यत्र भिद्यन्ते इति भेदाः इति व्युत्पत्त्या कर्मधारयो वा ॥१७९॥

अस­ङ्ग­चि­द्रू­प­ममुं विमोह्य
देहे­न्द्रि­य­प्रा­ण­गु­णै­र्नि­बध्य ।
अहं ममेति भ्रमयत्यजस्रं
मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥

१८०

मनः कर्तृ असङ्गचिद्रूपम् असङ्गा सर्वसङ्गविधुरा या चित् अखण्डं ज्ञानं तदेव रूपं यस्य सः असङ्गचिद्रूपः तम् । अमुम् आत्मानम् । देहे­न्द्रि­य­प्रा­ण­गुणैः विमोह्य स्ववास्तवरूपं ज्ञातुमसमर्थं कृत्वा तेष्वेव देहे­न्द्रि­य­प्रा­ण­गु­णेषु देहे­न्द्रि­य­प्रा­णेषु अहमिति तद्गुणेषु तद्धर्मेषु ममेति निबध्य । अजस्रं सततं स्वकृत्येषु लौकि­क­वै­दि­क­क­र्मसु । फलोपभुक्तिषु तत्त­त्क­र्म­ज­न्य­फ­ल­भो­गेषु भ्रमयति ऊर्ध्वमधश्च नयति । ‘कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते’(पञ्च. १.३०) इत्युक्तेः । उक्तं हि श्रुत्या –

आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४.१२)

इति । अतः विज्ञा­त­स्व­का­स­ङ्ग­चि­दा­न­न्द­रूपः पुरुषः नैव किञ्चित्कामयते न वा कर्माणि करोति । ततः कर्तृत्वं वा भोक्तृत्वं वा देहे­न्द्रि­या­द्य­भि­मा­न­नि­ब­न्ध­नम् । स चाभिमानः मनोमूलः सुषु­प्ता­व­द­र्श­नात् तदा मनसो लीनत्वात् । अतः स्वरूपसत्याः अविद्यायाः मनो विना बन्ध­हे­तु­त्वा­भा­वात् सर्व­ब­न्ध­हे­तुत्वं मनस एवेति भावः ॥१८०॥

इदानीं तस्य बन्धद्वारा दुःखहेतुत्वमाह अध्यासेति −

अध्यासयोगात् पुरुषस्य संसृतिः
अध्या­स­ब­न्ध­स्त्व­मु­नैव कल्पितः ।
रज­स्त­मो­दो­ष­व­तोऽ­वि­वे­किनो
जन्मादिदुःखस्य निदानमेतत् ॥१८१॥

१८१

रजस्तमोदोषवतः रजश्च तमश्च रजस्तमसी ते एव दोषौ तावस्य स्त इति तद्वान् तस्य रजस्तमोदोषवतः आव­र­ण­वि­क्षे­प­हे­तु­भू­त­दो­ष­द्व­य­वि­शि­ष्टस्य अत एव अविवेकिनः आत्मा­ना­त्म­भे­द­ज्ञा­न­र­हि­तस्य पुरुषस्य अध्यासयोगात् अना­त्म­स्वा­त्म­बु­द्धि­यो­गात् , संसृतिः जन्म­म­र­ण­प्र­ब­न्धा­वि­च्छेदः । संसृ­ति­हे­त्व­ध्यासः मनोमूल इत्याह अध्यासबन्ध इति । अध्यासरूपो यो बन्धः स तु सोऽपि, शरी­रे­न्द्रि­या­दयः मनसा प्रसूयन्ते इति ‘मनःप्रसूते’(श्लो. १७९) इत्यत्रोक्तम् । इदानीं तत्र अध्यासोऽपि अमुनैव कल्पितः जनितः इत्यपि शब्दार्थः । ततः जन्म­म­र­ण­प्र­ब­न्धा­वि­च्छे­द­ल­क्ष­ण­सं­सृ­ति­हे­तु­भू­ता­ध्या­स­हे­तु­त्वेन । एतत् मन एव जन्मादिदुःखस्य जन्म­म­र­ण­ज­रा­रो­गा­दि­ज­न्य­स­क­ल­वि­ध­दुः­खस्य निदानम् आदिकारणम् ॥१८१॥

अतः प्राहु­र्म­नोऽ­विद्यां पण्डि­ता­स्त­त्त्व­द­र्शिनः ।
येनैव भ्राम्यते विश्वं वायु­ने­वा­भ्र­म­ण्ड­लम् ॥१८२॥

१८२

तत्त्वदर्शिनः तत्त्वं द्रष्टुं शीलं येषां ते । पण्डिताः श्रुतवेदान्ताः पुरुषधौरेयाः । अतः संसृ­ति­मू­ल­का­र­ण­त्वा­न्म­नसः मन एव अविद्यां प्राहुः अवि­द्या­का­र्य­त्वात् केवलाविद्यायाः संसृ­ति­हे­तु­त्वा­भा­वाच्च । मन एवाविद्येति कथनं युक्तमिति बोधयितुं प्रेत्युपसर्गः । तत्र हेतुः येनैव मनसैव विश्वं सर्वं जगत् सर्वे जीवा इति यावत् । भ्राम्यते अन्यथाग्रहणेन ऊर्ध्वमधश्च नीयते । तत्र दृष्टान्तः वायु­ने­वा­भ्र­म­ण्डलं, मेघसमुदायः वायुना यथा सर्वासु दिक्षु भ्राम्यते तथा ॥१८२॥

इदानीं मुमु­क्षु­ज­न­क­र्त­व्य­माह तदिति −

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥१८३॥

१८३

तत् पूर्व­क­थि­त­का­र­णात् रजस्तमोदोषवतः पुंसः अध्यासद्वारा संसृतिहेतुरिति रूपात् । मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्टयत्नेन मनश्शोधनं मनो­ग­त­र­ज­स्त­मो­रू­प­दो­षा­प­न­यनं कार्यं विधेयम् । चकारो हेत्वर्थः यत इति । एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने केव­ल­स­त्त्व­प्र­धाने, मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः ॥१८३॥

मन­श्शु­द्धि­हे­तु­प्र­य­त्न­प्र­का­र­माह मोक्षेति −

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः ॥१८४॥

१८४

मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया, विषयेषु देहादिषु रागं सुख­ज­न­क­त्व­भ्रान्त्या आसक्तिं निर्मूल्य अहन्तानिरसनेन परित्यज्य, सर्वकर्म निष्कामकर्माणि नित्य­नै­मि­त्ति­कानि च, संन्यस्य स्वरूपतोऽपि परित्यज्य सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती अचञ्चला वा या श्रद्धा गुरु­वे­दा­न्त­वा­क्य­वि­श्वासः तया यः पुमान् श्रवणादिनिष्ठः श्रवणम् आदि ययोः मन­न­नि­दि­ध्या­स­नयोः तेषु श्रवणादिषु निष्ठा नितरां स्थितिः यस्य सः श्रवणादिनिष्ठः सः पुरुषः बुद्धेः रजस्स्वभावं रजसः स्वभावः विक्षेपः तम् । धुनोति चालयति नितरां नाशयतीति यावत् । देहादिषु रागसत्त्वे कर्म करोति कर्मसत्त्वे विक्षेपः । रागनिर्मूलनेन सर्वं कर्म त्यक्त्वा श्रवणादिभिः अन्तर्निष्ठस्य श्रद्धालोः बुद्धि­वि­क्षे­पस्य नैवावसरः । अतो विरक्तेन संन्यासिना श्रवणादिकं श्रद्धया बुद्धि­दो­ष­नि­वृ­त्तये कार्यमित्युक्तं भवति ॥१८४॥

इदानीं मनोमयस्य अनात्मत्वं निगमयति मनोमय इति −

मनोमयो नापि भवेत्परात्मा
ह्याद्य­न्त­व­त्त्वात् परिणामिभावात् ।
दुःखत्मकत्वाद् विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥

१८५

मनोमयोपि परात्मा परमात्मा न भवेदित्यन्वयः । तत्र हेतवः सङ्गृह्यन्ते आद्य­न्त­व­त्त्वात् सुषुप्तौ लयात् जाग्रदादौ उत्पत्तेश्च आद्यन्तशून्यः आत्मा न भवति । एवं परिणामिभावात् परिणामिनः भावः परिणामिभावः विकारवत्वं काम­स­ङ्क­ल्पा­द्या­त्मना परिणममानत्वात् अविकारी आत्मा न भवति । दुःखम् आत्मा स्वरूपं यस्य दुःखात्मकं तस्य भावः तत्त्वम् । अत एव निरुध्यते शोध्यते च । अध्यासद्वारा सर्व­दुः­ख­हे­तु­त्व­मु­प­पा­दि­तम् । अतः आनन्दरूपः आत्मा न भवति । विषयत्वमेव हेतुः तस्मात् ‘अन्यत्रमना अभूवं नाद्राक्षम् अन्यत्रमना अभूवं नाश्रौषम्’(बृ.उ. १.५.३) इति श्रुतेः । साक्षिणा विषयीक्रियत इति विष­य­त्व­रू­प­हे­तोश्च सर्वसाक्षी आत्मा न भवति । तदिदमाह द्रष्टा हीत्यादिना, हि यतः द्रष्टा पश्यतीति द्रष्टा ज्ञाता यः सः दृश्यात्मतया विषयतया न दृष्टः न लोकसिद्धः इत्यर्थः । अतः सर्वदा मनस्स्थितिकाले तदभावे च साक्षिणा सद्भावाभावयोः ज्ञायमानतया कर्तृ­क­र्म­वि­रो­धात् स्वद्र­ष्टृ­त्वस्य स्वस्मिन् विरुद्धत्वाच्च दृश्यं मनः न द्रष्टृस्वरूप आत्मा इत्यनात्मत्वं तस्य सिद्धम् ॥१८५॥

इदानीं विज्ञानमयकोशं निरूपयति बुद्धिरिति −