विवेकचूडामणिः सव्याख्यः
२१. विज्ञानमयकोशविवेकः
बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञानमयकोशस्स्यात् पुंसः संसारकारणम् ॥१८६॥
बुद्धीन्द्रियैः पञ्चभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः सार्धं सह । सवृत्तिः वृत्त्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः कर्तृलक्षणः कर्तृलक्षणं ज्ञानेच्छाकृतिमत्त्वं यस्य सः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् तत्संज्ञकः कोशो भवति । तस्य कार्यमाह पुंस इत्यादिना, पुंसः आत्मनः संसारकारणं ‘स समानस्सन्नुभौ लोकावनुसञ्चरति, सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३७) इत्यादिश्रुतिभ्यः एकमेवान्तःकरणं संशयात्मकवृत्तिमत् मन इति, निश्चयात्मकवृत्तिमत् बुद्धिरिति कथ्यते । तत्र मनसः करणत्वं बुद्धेः कर्तृत्वम् । निश्चित्य हि करोति । अतः पूर्वापरीभाववत्त्वेन मनोबुध्योः बहिरन्तर्भाव इति मनोमयानन्तरं बुध्यात्मकविज्ञानमयस्य पार्थक्येन कथनम् । नो चेत् पञ्चानां ज्ञानेन्द्रियाणाम् उभयत्राविशिष्टत्वात् भेदानापत्तेरिति बोध्यम् ‘तस्माद्वा एतस्मान्मनोमयात्’ ‘अन्योन्तर आत्मा विज्ञानमयः’(तै.उ. २.४) इति श्रुतेश्च । तत्राप्ययमेवाभिप्रायः ॥१८६॥
अनुव्रजच्चित्प्रतिबिम्बशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावान् अहमित्यजस्रं
देहेन्द्रियादिष्वभिमन्यते भृशम् ॥१८७॥
भूतपञ्चकसत्त्वसमष्टिकार्यत्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं प्रतिबिम्बत इति अनुव्रजन् यः चितेः चिद्रूपस्य परमात्मनः प्रतिबिम्बः जीवः तस्य शक्तिर्भासकत्वरूपा यस्य भासकप्रतिबिम्बस्यापि भासकत्वात् , प्रसिद्धं हि लोके दर्पणादिबिम्बितसूर्यप्रतिबिम्बस्यापिसूर्यप्रवेशायोग्यान्धकारावृतभूविवरादिगतवस्तुभासकत्वमिति । अनुव्रजच्चित्प्रतिबिम्बशक्तिः चिदनुप्रवेशाच्चिच्छक्तिविशिष्टः अत एव विज्ञानसंज्ञः विज्ञानमिति संज्ञा यस्य सः ‘विज्ञानं यज्ञं तनुते’(तै.उ. २.५) इति श्रुतेः । प्रकृतेः मूलप्रकृतेः अविद्यायाः विकारः सूक्ष्मभूतपञ्चकसत्त्वसमष्टिकार्यत्वात् सूक्ष्मभूतपञ्चकस्य अविद्याकार्यतया परम्परया अविद्याकार्यत्वमस्यकोशस्य । ज्ञानक्रियावान् ज्ञानं च वृत्त्यात्मकं क्रिया च विषयविचारध्यानलोकान्तरगमनादिरूपा ज्ञानक्रिये ते अस्य स्त इति ज्ञानक्रियावान् देहेन्द्रियादिषु उक्तं हि पूर्वम् −
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ (श्लो. १०५) इति ।
अतः जीवस्य योऽभिमानः देहादौ तस्य बुद्धिं विना असम्भवात् जीवत्वस्यापि बुद्ध्युपाधिनिबन्धनत्वात् अयं कोश एव आध्यासिकतादात्म्यापन्नतया जीवाभिन्नत्वेन विवक्षित इत्यजस्रं सर्वदा जाग्रत्स्वप्नयोः भृशम् अत्यन्तम् अहमित्यभिमन्यते । अहं मनुष्यः स्थूलः गच्छामि तिष्ठामि लङ्घयामि अहं पश्यामि अहं शृणोमि अहमुच्छ्वसिमि निश्वसिमीत्यादिप्रकारेण तादात्म्याभिमानवान् भवतीति ज्ञानवत्त्वमुपपादितम् ॥१८७॥
क्रियावत्त्वमुपपादयति अनादीत्यादिना −
अनादिकालोऽयमहंस्वभावो
जीवस्समस्तव्यवहारवोढा ।
करोति कर्माण्यनुपूर्ववासनः
पुण्यान्यपुण्यानि च तत्फलानि ॥१८८॥
भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्
आयाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥१८९॥
यद्यपि प्रकृतेर्विकार इत्युक्तत्वात् सादित्वं वक्तव्यम् । अथापि महाप्रलयेऽपि कारणात्मना अव्यक्ततया वर्तमानत्वात् पूर्वकर्मवासनाश्रयबुद्धेः अत्यन्तनाशे पुनःसृष्टेरनुपपत्तेः सृष्टिकाल एव ‘अनेन जीवेनात्मना’(छा.उ. ६.३.२) इति परदेवतया नामरूपव्याकरणार्थमीक्षणश्रुतेश्च आविदेहकैवल्यम् आत्यन्तिकनाशो नास्तीति पुंसः संसारकारणभूतायाः बुद्धेरपि अनादित्वम् अवश्यं वक्तव्यमिति तत्प्रयोज्यदेहेन्द्रियाद्यभिमानोऽपि स्वप्रागभावकालत्वव्यापकस्वसजातीयकत्वरूपानादित्ववान् भवति । अनादिः कालः यस्य अनादिकालः इदमिदानीम् आरब्धमिति वक्तुमशक्यत्वात् । अयं देहेन्द्रियादिषु अहमिति स्वभावः अभिमानः वासना यस्य सः अहंस्वभावः जीवः समस्तव्यवहारवोढा ‘विज्ञानं यज्ञं तनुते’ ‘कर्माणि तनुतेऽपि च’(तै.उ. २.५) इति श्रुतेः लौकिकवैदिकसर्वव्यवहारकर्ता । तदुपपादयति अनुपूर्ववासनः अनुगताः पूर्ववासनाः यं सः अनुपूर्ववासनः ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) इति श्रुतेः । ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ.उ. ३.२.१३) इति च श्रुतेः । पुण्यानि शास्त्रविहितानि अपुण्यानि तन्निषिद्धानि विहितनिषिद्धान्यानि उदासीनानि भोजनस्वापादीनी च करोति । भोक्तृत्वं वक्ति − तत्फलानि तेषां कृतविहितनिषिद्धकर्मणां फलानि । विचित्रासु देवतिर्यङ्मनुष्यादि चतुरशीतिलक्षप्रभेदासु योनिषु व्रजन् भुङ्क्तेऽपि सुखदुःखानुभववान्भवत्यपि । तदर्थम् अधः नरकादौ आयाति आगच्छति, ऊर्ध्वं स्वर्गादौ निर्याति निर्गच्छति एष जीव इत्यर्थः । अहं जागर्मि अहं स्वपिमि अहमस्वाप्सम् , अहं सुखी दुःखीत्यादिरीत्या आत्मनि प्रतीयमानधर्माः सर्वेऽपि एतत्तादात्म्याभिमानादिति निर्धर्मकमात्मानमितो विवेचयति । अस्यैव विज्ञानमयस्य जाग्रत्स्वप्नाद्यवस्थाः आदिपदेन सुषुप्तिसमाधिपरिग्रहः । सुखदुःखभोगः, अनुभवः भोगः ॥१८९॥
देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति ।
विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः ।
अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥
देहादीति । आदिपदेन चक्षुरादीन्द्रियप्राणपरिग्रहः । तन्निष्ठाः ये आश्रमाः ब्रह्मचर्यादयः, धर्माः मनुष्यत्वब्राह्मणत्वादयः कर्माणि स्थितिगत्यादीनि लौकिकानि मन्त्रोच्चारणादीनि वैदिकानि गुणाः ह्रस्वत्वदीर्घत्वादयः सौगुण्यवैगुण्यादयो वा एतेषु सततं ममेत्यभिमानः आत्मप्रतिफलनानुविद्धा बुद्धिः इन्द्रियेषु प्राणेषु देहे च सम्बध्यमाना, तदीयधर्मानात्मन्यारोपयति । स्वतो जडाया अप्यस्याः चेतनवदेव स्थितौ निमित्तमाह, परमात्मनः ‘चेतनश्चेतनानाम्’(क.उ. ५.१३) इति श्रुत्या केवल निर्मलासङ्गचिद्रूपस्य परमात्मनः प्रकृष्टसान्निध्यवशात् परमुखनिरपेक्षप्रतिफलनमहिम्ना अयं विज्ञानकोशः बुद्धिरूपकोशः अतिप्रकाशः । इतरेषु इन्द्रियेषु साक्षाच्चैतन्यसम्बन्धाभावादित्यभिप्रायः । अतः प्रकृष्टसान्निध्यस्य सत्त्वात् अस्य आत्मनः एषः कोशः उपाधिः जीव इति भेदहेतुः भवति । कर्तृत्वभोक्तृत्वनिवासभूतजीवत्वधर्माश्रयमूलहेतुः । यदात्मधीः यस्मिन्नुपाधौ आत्मधीः अहमिति मतिमान् भ्रमेण भ्रान्त्या संसरति कर्तृत्वादिदुःखमनुभवति ॥१९०॥
तदेवोपपादयति योऽयमित्यादिना त्रिभिः −
योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्स्वयञ्ज्योतिः ।
कूटस्थस्सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१९१॥
पाषाणे वृक्ष इतिवत् सामीप्यसप्तमी । प्राणेषु चक्षुरादिसमीपे । एतेन अहमिति प्रतीतिविषयत्वस्य बहुषु सत्त्वात् ‘कतम आत्मा’(बृ.उ. ४.३.७) इति जनकप्रश्नोत्तरवाक्ये ‘प्राणेषु’ इति पदेन प्राणशब्दबोधितेन्द्रियमुख्यप्राणत्वमात्मनो नास्तीति कथितं भवति । प्राणसामीप्यं बिद्धेरप्यस्ति अतः व्यावर्तयति हृदिस्फुरत्स्वयञ्ज्योतिरिति हृदयपुण्डरीकावच्छिन्नबुद्धौ प्रकाशमानं पराप्रकाश्यं यज्ज्योतिः चैतन्यं सर्वावभासकं तद्रूपः योऽयं विज्ञानमयः आमोक्षं बुद्ध्या न विना भूयतेऽनेनेति तत्प्रचुरत्वात् तन्मयत्वम् । स्वार्थे मयड्वा विज्ञानस्वरूप इत्यर्थः । ईदृगात्मा कूटस्थः कूटवत्तिष्ठतीति कूटस्थः अयोघनवत् निर्विकारः सन्नपीति अपि शब्दो योजनीयः । उपाधिस्थः उपाधौ ज्ञानक्रियावत्यां बुद्धौ तादात्म्येन आविद्यकेन वर्तमानः कर्ता भोक्ता भवति यथा स्फटिके लौहित्यं भ्रमात् तथा ॥१९१॥
तदेव स्फुटयति स्वयमिति −
स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्मदोषेण परं मृषात्मनः ।
सर्वात्मकस्सन्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२॥
मृषात्मनः मिथ्यास्वरूपवत्याः बुद्धेः, तादात्म्यदोषेण परं केवलं न तु स्वतः इत्यर्थः । स्वयं परिच्छेदम् अल्पत्वम् , उपेत्य प्राप्य स्वयं सर्वात्मकस्सन्नपि ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इत्यादिश्रुतेः । अकुशलमतिः मृदः पञ्चमी घटानिव यथा मृदुपादानकतया तदव्यतिरिक्तान् घटान् पृथक्पश्यति भिन्नत्वेन वीक्षते तथा सर्वोपादानतया स्वव्यतिरेकेण कस्याप्यभावेऽपि स्वतः पृथक्त्वेन भेदेन वीक्षते अहं सः इदं त्वम् इत्यादिभेदबुद्धिमान्भवतीत्यर्थः ॥१९२॥
इममर्थं निर्विकारस्य सविकारत्वं ‘कूटस्थस्सन् आत्मा’(श्लो. १९१) इत्यत्रोक्तं च सदृष्टान्तं कथयति उपाधीति −
उपाधिसम्बन्धवशात्परात्मा-
प्युपाधिधर्माननुभाति तद्गुणः ।
अयोविकारानविकारिवह्निवत्
सदैकरूपोऽपि परः स्वभावात् ॥१९३॥
अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घत्ववर्तुलत्वादयः तान् अविकारिवह्निवत् वस्तुतः तादृशधर्मशून्यवह्निरिव अयसि दीर्घे दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके । तथा परात्मापि परमात्मापि उपाधिसम्बन्धवशात् स्वप्रकाश्येनापि उपाधिना अविद्यया कल्पितः यः तादात्म्यरूपसम्बन्धः तद्वशात् उपाधिधर्मान् कर्तृत्वभोक्तृत्वादीन् ‘ध्यायतीव लोलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः, बुद्धौ ध्यायन्त्यां ध्यायतीव लेलायन्त्यां चलन्त्यां चलतीव इत्यर्थः श्रुतेः । अनुसृत्य तद्गुणः उपाधिधर्मवानिव भाति अहं करोमि सुखी दुःखीत्यादिप्रकारेण । वस्तुतः सदा स्वभावात् स्वकीयसच्चिदानन्दस्वरूपतः परः नित्यशुद्धबुद्धमुक्तस्वभावः । अतः एकरूपोऽपि विकार शून्योऽपीति पूर्वं योजनीयम् । प्रकाशके वह्नौ दृष्टान्ते परात्मनि च दार्ष्टान्तिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानम् ॥१९३॥
शिष्य उवाच −