अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२१. विज्ञानमयकोशविवेकः

बुद्धि­र्बु­द्धी­न्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञा­न­म­य­को­श­स्स्यात् पुंसः संसारकारणम् ॥१८६॥

१८६

बुद्धीन्द्रियैः पञ्चभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः सार्धं सह । सवृत्तिः वृत्त्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः कर्तृलक्षणः कर्तृलक्षणं ज्ञाने­च्छा­कृ­ति­मत्त्वं यस्य सः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् तत्संज्ञकः कोशो भवति । तस्य कार्यमाह पुंस इत्यादिना, पुंसः आत्मनः संसारकारणं ‘स समानस्सन्नुभौ लोकावनुसञ्चरति, सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव’(बृ.उ. ४.३७) इत्या­दि­श्रु­तिभ्यः एकमेवान्तःकरणं संश­या­त्म­क­वृ­त्ति­मत् मन इति, निश्च­या­त्म­क­वृ­त्ति­मत् बुद्धिरिति कथ्यते । तत्र मनसः करणत्वं बुद्धेः कर्तृत्वम् । निश्चित्य हि करोति । अतः पूर्वा­प­री­भा­व­व­त्त्वेन मनोबुध्योः बहिरन्तर्भाव इति मनोमयानन्तरं बुध्या­त्म­क­वि­ज्ञा­न­म­यस्य पार्थक्येन कथनम् । नो चेत् पञ्चानां ज्ञाने­न्द्रि­या­णाम् उभ­य­त्रा­वि­शि­ष्ट­त्वात् भेदानापत्तेरिति बोध्यम् ‘तस्माद्वा एत­स्मा­न्म­नो­म­यात्’ ‘अन्योन्तर आत्मा विज्ञानमयः’(तै.उ. २.४) इति श्रुतेश्च । तत्रा­प्य­य­मे­वा­भि­प्रायः ॥१८६॥

अनु­व्र­ज­च्चि­त्प्र­ति­बि­म्ब­शक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावान् अहमित्यजस्रं
देहे­न्द्रि­या­दि­ष्व­भि­म­न्यते भृशम् ॥१८७॥

१८७

भूत­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं प्रतिबिम्बत इति अनुव्रजन् यः चितेः चिद्रूपस्य परमात्मनः प्रतिबिम्बः जीवः तस्य शक्ति­र्भा­स­क­त्व­रूपा यस्य भास­क­प्र­ति­बि­म्ब­स्यापि भासकत्वात् , प्रसिद्धं हि लोके दर्प­णा­दि­बि­म्बि­त­सू­र्य­प्र­ति­बि­म्ब­स्या­पि­सू­र्य­प्र­वे­शा­यो­ग्या­न्ध­का­रा­वृ­त­भू­वि­व­रा­दि­ग­त­व­स्तु­भा­स­क­त्व­मिति । अनु­व्र­ज­च्चि­त्प्र­ति­बि­म्ब­शक्तिः चिद­नु­प्र­वे­शा­च्चि­च्छ­क्ति­वि­शिष्टः अत एव विज्ञानसंज्ञः विज्ञानमिति संज्ञा यस्य सः ‘विज्ञानं यज्ञं तनुते’(तै.उ. २.५) इति श्रुतेः । प्रकृतेः मूलप्रकृतेः अविद्यायाः विकारः सूक्ष्म­भू­त­प­ञ्च­क­स­त्त्व­स­म­ष्टि­का­र्य­त्वात् सूक्ष्म­भू­त­प­ञ्च­कस्य अविद्याकार्यतया परम्परया अवि­द्या­का­र्य­त्व­म­स्य­को­शस्य । ज्ञानक्रियावान् ज्ञानं च वृत्त्यात्मकं क्रिया च विष­य­वि­चा­र­ध्या­न­लो­का­न्त­र­ग­म­ना­दि­रूपा ज्ञानक्रिये ते अस्य स्त इति ज्ञानक्रियावान् देहे­न्द्रि­या­दिषु उक्तं हि पूर्वम् −

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥ (श्लो. १०५) इति ।

अतः जीवस्य योऽभिमानः देहादौ तस्य बुद्धिं विना असम्भवात् जीवत्वस्यापि बुद्ध्यु­पा­धि­नि­ब­न्ध­न­त्वात् अयं कोश एव आध्या­सि­क­ता­दा­त्म्या­प­न्न­तया जीवाभिन्नत्वेन विवक्षित इत्यजस्रं सर्वदा जाग्र­त्स्व­प्नयोः भृशम् अत्यन्तम् अहमित्यभिमन्यते । अहं मनुष्यः स्थूलः गच्छामि तिष्ठामि लङ्घयामि अहं पश्यामि अहं शृणोमि अहमुच्छ्वसिमि निश्व­सि­मी­त्या­दि­प्र­का­रेण तादा­त्म्या­भि­मा­न­वान् भवतीति ज्ञान­व­त्त्व­मु­प­पा­दि­तम् ॥१८७॥

क्रिया­व­त्त्व­मु­प­पा­द­यति अनादीत्यादिना −

अना­दि­का­लोऽ­य­म­हं­स्व­भावो
जीव­स्स­म­स्त­व्य­व­हा­र­वोढा ।
करोति कर्मा­ण्य­नु­पू­र्व­वा­सनः
पुण्या­न्य­पु­ण्यानि च तत्फलानि ॥१८८॥

१८८

भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्
आयाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्ना­द्य­वस्थाः सुखदुःखभोगः ॥१८९॥

१८९

यद्यपि प्रकृतेर्विकार इत्युक्तत्वात् सादित्वं वक्तव्यम् । अथापि महाप्रलयेऽपि कारणात्मना अव्यक्ततया वर्तमानत्वात् पूर्व­क­र्म­वा­स­ना­श्र­य­बुद्धेः अत्यन्तनाशे पुनः­सृ­ष्टे­र­नु­प­पत्तेः सृष्टिकाल एव ‘अनेन जीवेनात्मना’(छा.उ. ६.३.२) इति परदेवतया नाम­रू­प­व्या­क­र­णा­र्थ­मी­क्ष­ण­श्रु­तेश्च आविदेहकैवल्यम् आत्यन्तिकनाशो नास्तीति पुंसः संसा­र­का­र­ण­भू­तायाः बुद्धेरपि अनादित्वम् अवश्यं वक्तव्यमिति तत्प्र­यो­ज्य­दे­हे­न्द्रि­या­द्य­भि­मा­नोऽपि स्वप्रा­ग­भा­व­का­ल­त्व­व्या­प­क­स्व­स­जा­ती­य­क­त्व­रू­पा­ना­दि­त्व­वान् भवति । अनादिः कालः यस्य अनादिकालः इदमिदानीम् आरब्धमिति वक्तु­म­श­क्य­त्वात् । अयं देहे­न्द्रि­या­दिषु अहमिति स्वभावः अभिमानः वासना यस्य सः अहंस्वभावः जीवः सम­स्त­व्य­व­हा­र­वोढा ‘विज्ञानं यज्ञं तनुते’ ‘कर्माणि तनुतेऽपि च’(तै.उ. २.५) इति श्रुतेः लौकि­क­वै­दि­क­स­र्व­व्य­व­हा­र­कर्ता । तदुपपादयति अनुपूर्ववासनः अनुगताः पूर्ववासनाः यं सः अनुपूर्ववासनः ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’(बृ.उ. ४.४.२) इति श्रुतेः । ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ.उ. ३.२.१३) इति च श्रुतेः । पुण्यानि शास्त्रविहितानि अपुण्यानि तन्निषिद्धानि विहि­त­नि­षि­द्धा­न्यानि उदासीनानि भोजनस्वापादीनी च करोति । भोक्तृत्वं वक्ति − तत्फलानि तेषां कृत­वि­हि­त­नि­षि­द्ध­क­र्मणां फलानि । विचित्रासु देव­ति­र्य­ङ्म­नु­ष्यादि चतु­र­शी­ति­ल­क्ष­प्र­भे­दासु योनिषु व्रजन् भुङ्क्तेऽपि सुख­दुः­खा­नु­भ­व­वा­न्भ­व­त्यपि । तदर्थम् अधः नरकादौ आयाति आगच्छति, ऊर्ध्वं स्वर्गादौ निर्याति निर्गच्छति एष जीव इत्यर्थः । अहं जागर्मि अहं स्वपिमि अहमस्वाप्सम् , अहं सुखी दुःखी­त्या­दि­रीत्या आत्मनि प्रतीयमानधर्माः सर्वेऽपि एत­त्ता­दा­त्म्या­भि­मा­ना­दिति निर्ध­र्म­क­मा­त्मा­न­मितो विवेचयति । अस्यैव विज्ञानमयस्य जाग्र­त्स्व­प्ना­द्य­वस्थाः आदिपदेन सुषु­प्ति­स­मा­धि­प­रि­ग्रहः । सुखदुःखभोगः, अनुभवः भोगः ॥१८९॥

देहा­दि­नि­ष्ठा­श्र­म­ध­र्म­क­र्म­गु­णा­भि­मानः सततं ममेति ।
विज्ञा­न­को­शोऽ­य­म­ति­प्र­काशः प्रकृ­ष्ट­सा­न्नि­ध्य­व­शा­त्प­रा­त्मनः ।
अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥

१९०

देहादीति । आदिपदेन चक्षु­रा­दी­न्द्रि­य­प्रा­ण­प­रि­ग्रहः । तन्निष्ठाः ये आश्रमाः ब्रह्मचर्यादयः, धर्माः मनु­ष्य­त्व­ब्रा­ह्म­ण­त्वा­दयः कर्माणि स्थितिगत्यादीनि लौकिकानि मन्त्रो­च्चा­र­णा­दीनि वैदिकानि गुणाः ह्रस्व­त्व­दी­र्घ­त्वा­दयः सौगु­ण्य­वै­गु­ण्या­दयो वा एतेषु सततं ममेत्यभिमानः आत्म­प्र­ति­फ­ल­ना­नु­विद्धा बुद्धिः इन्द्रियेषु प्राणेषु देहे च सम्बध्यमाना, तदी­य­ध­र्मा­ना­त्म­न्या­रो­प­यति । स्वतो जडाया अप्यस्याः चेतनवदेव स्थितौ निमित्तमाह, परमात्मनः ‘चेत­न­श्चे­त­ना­नाम्’(क.उ. ५.१३) इति श्रुत्या केवल निर्म­ला­स­ङ्ग­चि­द्रू­पस्य परमात्मनः प्रकृ­ष्ट­सा­न्नि­ध्य­व­शात् पर­मु­ख­नि­र­पे­क्ष­प्र­ति­फ­ल­न­म­हिम्ना अयं विज्ञानकोशः बुद्धिरूपकोशः अतिप्रकाशः । इतरेषु इन्द्रियेषु साक्षा­च्चै­त­न्य­स­म्ब­न्धा­भा­वा­दि­त्य­भि­प्रायः । अतः प्रकृ­ष्ट­सा­न्नि­ध्यस्य सत्त्वात् अस्य आत्मनः एषः कोशः उपाधिः जीव इति भेदहेतुः भवति । कर्तृ­त्व­भो­क्तृ­त्व­नि­वा­स­भू­त­जी­व­त्व­ध­र्मा­श्र­य­मू­ल­हेतुः । यदात्मधीः यस्मिन्नुपाधौ आत्मधीः अहमिति मतिमान् भ्रमेण भ्रान्त्या संसरति कर्तृ­त्वा­दि­दुः­ख­म­नु­भ­वति ॥१९०॥

तदेवोपपादयति योऽयमित्यादिना त्रिभिः −

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुर­त्स्व­य­ञ्ज्योतिः ।
कूट­स्थ­स्स­न्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१९१॥

१९१

पाषाणे वृक्ष इतिवत् सामीप्यसप्तमी । प्राणेषु चक्षुरादिसमीपे । एतेन अहमिति प्रती­ति­वि­ष­य­त्वस्य बहुषु सत्त्वात् ‘कतम आत्मा’(बृ.उ. ४.३.७) इति जन­क­प्र­श्नो­त्त­र­वाक्ये ‘प्राणेषु’ इति पदेन प्राण­श­ब्द­बो­धि­ते­न्द्रि­य­मु­ख्य­प्रा­ण­त्व­मा­त्मनो नास्तीति कथितं भवति । प्राणसामीप्यं बिद्धेरप्यस्ति अतः व्यावर्तयति हृदि­स्फु­र­त्स्व­य­ञ्ज्यो­ति­रिति हृद­य­पु­ण्ड­री­का­व­च्छि­न्न­बुद्धौ प्रकाशमानं पराप्रकाश्यं यज्ज्योतिः चैतन्यं सर्वावभासकं तद्रूपः योऽयं विज्ञानमयः आमोक्षं बुद्ध्या न विना भूयतेऽनेनेति तत्प्रचुरत्वात् तन्मयत्वम् । स्वार्थे मयड्वा विज्ञानस्वरूप इत्यर्थः । ईदृगात्मा कूटस्थः कूटवत्तिष्ठतीति कूटस्थः अयोघनवत् निर्विकारः सन्नपीति अपि शब्दो योजनीयः । उपाधिस्थः उपाधौ ज्ञान­क्रि­या­वत्यां बुद्धौ तादात्म्येन आविद्यकेन वर्तमानः कर्ता भोक्ता भवति यथा स्फटिके लौहित्यं भ्रमात् तथा ॥१९१॥

तदेव स्फुटयति स्वयमिति −

स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्मदोषेण परं मृषात्मनः ।
सर्वा­त्म­क­स्स­न्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ॥१९२॥

१९२

मृषात्मनः मिथ्या­स्व­रू­प­वत्याः बुद्धेः, तादात्म्यदोषेण परं केवलं न तु स्वतः इत्यर्थः । स्वयं परिच्छेदम् अल्पत्वम् , उपेत्य प्राप्य स्वयं सर्वा­त्म­क­स्स­न्नपि ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘सर्वं खल्विदं ब्रह्म’(छा.उ. ३.१४.१) इत्यादिश्रुतेः । अकुशलमतिः मृदः पञ्चमी घटानिव यथा मृदुपादानकतया तदव्यतिरिक्तान् घटान् पृथक्पश्यति भिन्नत्वेन वीक्षते तथा सर्वोपादानतया स्वव्यतिरेकेण कस्याप्यभावेऽपि स्वतः पृथक्त्वेन भेदेन वीक्षते अहं सः इदं त्वम् इत्या­दि­भे­द­बु­द्धि­मा­न्भ­व­ती­त्यर्थः ॥१९२॥

इममर्थं निर्विकारस्य सविकारत्वं ‘कूटस्थस्सन् आत्मा’(श्लो. १९१) इत्यत्रोक्तं च सदृष्टान्तं कथयति उपाधीति −

उपा­धि­स­म्ब­न्ध­व­शा­त्प­रात्मा-
प्युपा­धि­ध­र्मा­न­नु­भाति तद्गुणः ।
अयो­वि­का­रा­न­वि­का­रि­व­ह्नि­वत्
सदैकरूपोऽपि परः स्वभावात् ॥१९३॥

१९३

अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घ­त्व­व­र्तु­ल­त्वा­दयः तान् अविकारिवह्निवत् वस्तुतः तादृ­श­ध­र्म­शू­न्य­व­ह्नि­रिव अयसि दीर्घे दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके । तथा परात्मापि परमात्मापि उपा­धि­स­म्ब­न्ध­व­शात् स्वप्र­का­श्ये­नापि उपाधिना अविद्यया कल्पितः यः तादा­त्म्य­रू­प­स­म्बन्धः तद्वशात् उपाधिधर्मान् कर्तृ­त्व­भो­क्तृ­त्वा­दीन् ‘ध्यायतीव लोलायतीव’(बृ.उ. ४.३.७) इति श्रुतेः, बुद्धौ ध्यायन्त्यां ध्यायतीव लेलायन्त्यां चलन्त्यां चलतीव इत्यर्थः श्रुतेः । अनुसृत्य तद्गुणः उपाधिधर्मवानिव भाति अहं करोमि सुखी दुःखी­त्या­दि­प्र­का­रेण । वस्तुतः सदा स्वभावात् स्वकी­य­स­च्चि­दा­न­न्द­स्व­रू­पतः परः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः । अतः एकरूपोऽपि विकार शून्योऽपीति पूर्वं योजनीयम् । प्रकाशके वह्नौ दृष्टान्ते परात्मनि च दार्ष्टान्तिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानम् ॥१९३॥

शिष्य उवाच −