अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२२. अनाद्यविद्यानाशोपपत्तिः

भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः ।
तदु­पा­धे­र­ना­दि­त्वात् नानादेर्नाश इष्यते ॥१९४॥

१९४

अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः ।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥१९५॥

१९५

परात्मनः असंसारितया सर्वोत्कृष्टस्य परमात्मनः जीवभावः जीवत्वं भ्रमेण वा भ्रान्त्या वा अन्यथापि वा वस्तुतो वा अस्तु, तदुपाधेः जीवभावः येनोपाधिना उच्यते तस्य उपाधेः विज्ञानमयकोशस्य ‘अना­दि­का­लोऽ­य­म­हं­स्व­भावः जीवः’(श्लो. १८८) इत्युक्ततया अनादित्वात् आत्मनः इव अनादेः नाशः कस्यापि नेष्यते अतः जीवभाव प्रयो­ज­को­पा­धे­र­ना­दि­त्वात् नाशासम्भवाच्च अस्य परात्मनः जीवभावोऽपि नित्यो भवति न नश्यति संसृतिः जीवभावनित्यत्वे नित्येति न निवर्तेत नैव नश्येत् तत् तस्मात् मोक्षः कथं मे मम संसारनिवृत्तिः कथं श्रीगुरो वद उपदिश ॥१९५॥

श्रीगुरुरुवाच −

सम्यक्पृष्टं त्वया विद्वन् सावधानेन तच्छृणु ।
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥१९६॥

१९६

हे विद्वन् बुद्धिमन् त्वया सम्यक्पृष्टम् । तत् पृष्टं यद्वस्तु तत् सावधानेन विष­या­न्त­र­स­ञ्चा­र­र­हि­त­म­नसा शृणु श्रुत्वा­व­धा­र­ये­त्यर्थः । भ्रान्त्या मोहितकल्पना मोहोऽस्य सञ्जातः मोहितः मोहश्च प्राप्त­ज्ञा­य­मा­न­ता­क­व­स्तुनः ज्ञानाभावः तामसः धर्मः । वस्तुतः निर्म­ल­ज्ञा­न­स्व­रू­प­त्वेऽपि अज्ञा­न­ज­नि­त­भ्रान्त्या दृढीभूतया मोहः पूर्वोक्तः तद्विशिष्टस्य पुरुषस्य या कल्पना स्वस्य असंसारिणोऽपि संसारित्वकल्पना सा प्रामाणिकी न भवति यथार्था न भवति प्रमाणसिद्धा न भव­ती­त्य­क्ष­रार्थः । भ्रम­प्र­यो­ज्य­मो­ह­मू­ल­क­त्वात् मुग्धस्य सम्य­ग्ज्ञा­ना­स­म­र्थ­त्वात् ॥१९६॥

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।
न घटे­ता­र्थ­स­म्बन्धो नभसो नीलतादिवत् ॥१९७॥

१९७

तुरवधारणार्थः नञा सम्बध्यते । असङ्गस्य वस्तुतः सङ्गशून्यस्य ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) इति श्रुतेः सुषु­प्ता­व­नु­भ­वाच्च । निष्क्रियस्य निर्विकारस्य ‘निष्कलं निष्क्रियम्’(श्वे.उ. ६.१९) इति श्रुतेः । ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽ­यम् अवि­का­र्योऽ­य­मु­च्यते’(भ.गी. २.२५) इति स्मृतेश्च । निराकृतेः ‘न तस्य कार्यं करणं च विद्यते’(श्वे.उ. ६.८) ‘अस्थूलमनणु’(बृ.उ. ३.८.८) इत्यादिश्रुतेः । भ्रान्तिं विना स्थूल­सू­क्ष्म­का­र­ण­श­री­रेषु तादा­त्म्या­भि­मानं विना अर्थसम्बन्धः दृश्यसम्बन्धः नैव घटेत । नभसः गगनस्य असङ्गस्य निष्क्रियस्य निराकृतेः नीलतादिवत् । उक्तं हि − ‘अप्रत्यक्षेऽपि ह्याकाशे बाला­स्त­ल­म­लि­न­ता­द्य­ध्य­स्यन्ति’(ब्र.सू.अध्यास.भा.) इति भाष्ये । अविवेकिनः गगनमपि नीलं पीतम् इन्द्रनीलकटाह इति कल्पयन्ति इति गगनस्य यथा नीलत्वादिकम् अप्रामाणिकं न घटते तथेत्यर्थः । एवं परमात्मन्यपि जीवभावः अप्रामाणिक इति भावः । नहि कल्पना मात्रात् गगनं नीलादिरूपं भवति एवं प्रकृतेऽपि इति बोध्यम् ॥१९७॥

तदेव स्फुटयन् संसा­र­नि­वृ­त्ति­मु­प­पा­द­यति द्वाभ्याम् , आत्मनः वास्तविकस्वरूपं श्रुतिसिद्धं विद्व­द­नु­भ­व­सिद्धं च कथयति । तत्र जीवस्य मिथ्या­त्व­सि­द्धये स्वस्येति −

स्वस्य­द्र­ष्टु­र्नि­र्गु­ण­स्या­क्रि­यस्य
प्रत्य­ग्बो­धा­न­न्द­रू­पस्य बुद्धेः ।
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तु स्वभावात् ॥१९८॥

१९८

द्रष्टुः साक्षिणः निर्गुणस्य केनापि धर्मेण रहितस्य अक्रियस्य निष्क्रियस्य विकारशून्यस्य प्रत्य­ग्बो­धा­न­न्द­रू­पस्य सर्वान्तरः यो बोधः सः प्रत्यग्बोधः स चासावानन्दश्च प्रत्य­ग्बो­धा­नन्दः स एव रूपं यस्य सः प्रत्य­ग्बो­धा­न­न्द­रूपः तस्य स्वस्य आत्मन बुद्धेः भ्रान्त्या तादा­त्म्या­भि­मा­नेन प्राप्तः कल्पितः जीवभावः न सत्यः अबाध्यः न भवति । स्वस्व­रू­प­वि­ष­य­क­सा­क्षा­त्कारे भ्रान्तेः नाशेन बाध्यत्वात् । तदेवाह − मोहापाये श्रुत्या­चा­र्यो­प­दे­श­ज­नि­त­त­त्त्व­सा­क्षा­त्का­रेण अज्ञाननाशे तज्ज­नि­त­भ्रा­न्ते­र­भा­वात् तदभावे मोहस्य दूरपलायितत्वात् तस्य अपाये अवस्तु यत्कल्पितं तत् स्वभावात् स्वधर्मतः कल्पनाविषयत्वेन नास्ति । यद्वा स्वभावात् कल्पितानां मोहापाये अप्रतीयमानतया नास्तित्वस्य स्वभावात् अयमेव स्वभावः आरोपितानां वस्तूनां भ्रान्त्यभावे पूर्व­व­द­प्र­ती­य­मा­न­त्वम् इत्यर्थः ॥१९८॥

पूर्व­श्लो­क­च­तु­र्थ­पा­दा­र्थ­मु­प­पा­द­यति यावदिति −

याव­द्भ्रा­न्ति­स्ता­व­दे­वास्य सत्ता
मिथ्या­ज्ञा­नो­ज्जृ­म्भि­तस्य प्रमादात् ।
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत् ॥१९९॥

१९९

कार्यस्य मिथ्यात्वं वक्तुं कारणं विशिनष्टि मिथ्येति । मिथ्या­ज्ञा­नो­ज्जृ­म्भि­तस्य मिथ्याभूतम् अधि­ष्ठा­न­सा­क्षा­त्का­र­नि­वर्त्यं यदज्ञानं तस्मा­दु­ज्जृ­म्भि­तस्य सञ्जनितस्य अस्य अवस्तुनः प्रमादात् अधि­ष्ठा­ना­रो­प्या­वि­वे­कात् । यावद्भ्रान्तिः विपरीतज्ञानं तावदेव सत्ता अस्तित्वेन प्रतीयमानत्वम् । तत्र दृष्टान्तः रज्ज्वां सर्पः रज्ज्वज्ञानात् रज्जु­सा­क्षा­त्का­र­बा­ध्यात् प्रमादात् पुरोव्यक्तौ नायं सर्प इति विवेकाभावात् उज्जृम्भितः भ्रान्तिकालीन एव यावत्पर्यन्तम् अयं सर्प इति भ्रान्तिः तावदेव अस्तितया प्रतीयते । नायं सर्पः किन्तु रज्जुरिति विशेषदर्शने भ्रान्तेः अयं सर्प इत्याकारिकाया नाशे बाधे नैव सर्पोऽस्ति । तद्वत् अहं ब्रह्मास्मीति साक्षा­त्का­र­प­र्यन्तं मूला­ज्ञा­न­ज­नि­त­प्र­मा­दात् संसा­रि­त्व­भ्रान्तिः । वस्तुतः संसारः कदापि नास्त्येव । रज्ज्वां सर्प इव पूर्वं भ्रान्त्या प्रतीयते स्म । जाते च ज्ञाने यथार्थे न प्रतीतिरपि तस्येति केवलं ब्रह्म­मा­त्र­म­व­शि­ष्यते स्वरू­प­सा­क्षा­त्का­रस्य अज्ञा­न­त­त्का­र्य­स­क­ल­ना­श­क­त्वात् अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः इति प्रमाणात् ॥१९९॥

एतावतापि ‘तदु­पा­धे­र­ना­दि­त्वा­न्ना­ना­दे­र्नाश इष्यते’(श्लो. १९४) इत्यस्य स्पष्ट­मु­त्त­र­म­ल­भ­मा­न­मिव शिष्यं ज्ञात्वा तदेवानूद्य समादधाति श्रीगुरुः सार्ध­श्लो­क­द्व­येन अनादित्वमिति −

अना­दि­त्व­म­वि­द्यायाः कार्यस्यापि तथेष्यते ।
उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्यपि ॥२००॥

२००

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ।
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥२०१॥

२०१

यदुक्तं त्वया उपा­धे­र­ना­दि­त्व­मिति तत्तथैव । अविद्यायाः कार्यस्यापि विज्ञानमयकोशस्य तथा अविद्याया इव अनादित्वमिष्यते । अविद्याया एकरूपत्वात् विचित्रसृष्टेः विचि­त्रो­पा­धि­नि­ब­न्ध­न­त्वात् सर्वसमस्य परमकृपालोः ईश्वरस्य विचि­त्र­क­र्मा­श्र­य­बु­द्धि­रू­पो­पा­ध्य­पे­क्षायाः आवश्यकत्वात् बुद्धेरपि तत्कारणभूतायाः अना­दि­त्व­म­का­मे­ना­प्य­ङ्गी­क­र्त­व्य­मिति भावः । इदानीं तस्य निवृत्तिमाह विद्या­या­मु­प­नि­ष­ज्ज­न्या­या­म­धि­ष्ठा­न­सा­क्षा­त्का­र­रू­पायां प्रमा­या­मु­त्प­न्नायां सत्यामिति शेषः । तु शब्दः पक्षं व्यावर्तयति अनादेर्नाशो नास्तीति रूपम् । आवि­द्य­क­म­वि­द्या­प्र­यो­ज्यम् । अनाद्यपि सृष्ट्या­दि­व्य­व­हा­र­सि­ध्य­र्थ­म­ना­दि­त्वे­ना­ङ्गी­कृ­त­मपि प्रबोधे निद्रां त्यक्त्वा जागरे प्राप्ते स्वप्नवत् सहमूलं विनश्यति । न केवलं स्वयमेव, स्वस्य मूलभूता याऽविद्या तया सह मूलभूतनिद्रया साकं स्वाप्नि­क­व­स्तु­जा­त­मिव जागरे सर्वं विनश्यति । तेजस्तमसोरिव विद्याऽ­वि­द्य­यो­रेव साक्षाद्विरोधः तथा निद्राजागरयोः । अविद्यायां विद्यया नाशितायां ‘तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः’(ई.वा.उ. ७) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. २.४.१३) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इत्यादि श्रुत्या तादृ­श­भू­म­वि­द्यायां संसा­र­हे­त्व­वि­द्यायाः समूलकाषं कषितत्वात् मूले छिन्ने वृक्षस्येव अविद्याकार्यस्य बुध्यादेर्विनाश एवेति भावः । नहि निद्रायां नष्टायां तत्का­ल­प्र­ति­प­न्न­सु­ख­दुः­खा­दिकं जाग्रतः । तथा सम्यग्ज्ञानवतः नाज्ञानकालिकं संसारित्वं निमित्तापायात् । अनादेरपि नाशोऽस्ति इत्यत्र परमतरीत्या दृष्टान्तमाह अनाद्यपीति । इद­म­वि­द्या­त­त्कार्यं च अनाद्यपि आदिरहितमपि नो नित्यं नैव नाशाप्रतियोगि इति स्फुटम् । यथा तार्किकैः उत्प­त्ति­शू­न्य­त्वेन अङ्गी­क्रि­य­मा­णोऽपि तत्प्रतियोगिनि कार्ये जाते नश्य­ती­त्य­ङ्गी­क्रि­यते एवं प्रकृतमपि । यद्यपि अनादिभावस्य नाशो नास्तीति दृष्टान्ते प्रागभावे वैष­म्य­मा­पा­द­यितुं शक्यम् अवि­द्या­त­त्का­र्यस्य अभा­व­रू­प­त्वा­भा­वात् तथापि प्रागवस्थायाः भावरूपतया तत्रैव कार्या­भि­व्य­क्त्य­न­न्त­र­म­दृ­श्य­मा­ना­या­मु­क्ता­र्थस्य वक्तुं शक्यत्वात् तार्किकैरपि प्राग­भा­व­नि­रू­प­णा­व­सरे ‘तथाप्यस्तु कश्चिदतिरिक्तः पदार्थः तथापि तस्य सप्रतियोगिकत्वे मानाभाव’ इति स्वीकराच्च । ‘नाभावो विद्यते सतः’(२.१६) इति गीतावचनात् । विना­शि­ना­म­वि­द्या­त­त्का­र्याणां सत्त्व­रू­प­भा­व­त्वस्य अनावश्यकत्वाच्च । श्रुत्यनुसारेण अवि­द्या­दि­क­म­ना­दि­त्वेन स्वीकुर्वतां लोक­प्र­सि­द्धे­र­ना­द­र­णी­य­त्वाच्च इति दिक् । कस्मिंश्चन पदार्थे उत्प­त्ति­शू­न्य­त्वस्य नाशा­प्र­ति­यो­गी­त्वस्य च शास्त्रमन्तरा ज्ञातु­म­श­क्य­त्वाच्च । दृष्टा­न्त­भू­ता­त्मनि तादृशत्वस्य शास्त्रेणैव ज्ञातत्वाच्च ‘जीवेशावाभासेन करोति’(नृ.उ.ता. ९.३) ‘मायाऽविद्या च स्वयमेव भवति’(नृ.उ.ता. ९.३) इत्यनादित्वस्य ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे.उ. १.१०) इति नाशस्य च अविद्यादौ श्रुत्यै­वा­व­ग­मि­त­त्वाच्च नात्र संशयप्रसक्तिः । एतावन्तं काल­म­ज्ञा­त­मि­द­मि­दानीं ज्ञातमिति व्यवहारात् कदा अज्ञातमिति प्रश्नाभावात् अज्ञा­ना­ना­दि­त्वस्य ज्ञाना­त्त­न्ना­शस्य च अनु­भ­व­सि­द्ध­त्वाच्च । अनादिभावत्वस्य अत्मनोऽन्यत्र कुत्रा­प्य­भा­वा­दिति सर्वमनाकुलम् । कार्योत्पत्तेः प्राक् कार्य­स­म­वा­यि­का­रणे इह कपाले घटो नास्तीति व्यवहारसाक्षिकः अभावः प्रागभाव इत्युच्यते । स च घटे उत्पन्ने नश्यति अतः अनादेरपि उत्पत्तेः प्रागनादितया स्थितस्य कार्यो­त्प­त्त्य­न­न्तरं प्रागभावस्य विध्वंसः वीक्षितः तथा ज्ञानोपत्तौ अज्ञानमनाद्यपि नश्यति । नष्टे तस्मिन् तत्कार्यं कुतस्त्यमिति भावः ॥२०१॥

उपाधेर्निवृत्तौ औपाधिकस्य जीवत्वस्यापि निवृत्तिमाह यदित्यादिना द्वाभ्याम् −

यद्बु­द्ध्यु­पा­धि­स­म्ब­न्धात् परि­क­ल्पि­त­मा­त्मनि ।
जीवत्वं न ततोऽन्यत्तु स्वरूपेण विलक्षणम् ॥२०२॥

२०२

आत्मनि परमात्मनि बुद्ध्यु­पा­धि­स­म्ब­न्धात् बुद्धिरेवोपाधिः बुद्ध्युपाधिः तस्य सम्बन्धः आज्ञा­नि­क­ता­दात्म्यं तस्मात् परिकल्पितं यत् जीवत्वं मिथ्याभूतं ततः अन्यत् सत्यभूतं, स्वरूपेण असं­सा­रि­त्वा­दि­रू­पेण विलक्षणं भिन्नं न तु नैवेत्यर्थः ।

‘भ्रमे­णा­प्य­न्यथा वास्तु जीवभावः परात्मनः’(श्लो. १९४) इति शिष्ये­णो­क्त­त्वात् अन्यथावास्तु इति वास्तविकं जीवत्वं यथा सुधायाः हरिद्रायाश्च योगे रक्तिमा वस्तुतः तथा इत्यभिप्रेत्य प्रश्नस्य कृतत्वात् तमभिप्रायं निरसितुम् आत्मनि बुद्ध्यु­पा­धि­स­म्ब­न्ध­व­शात् यत्परिकल्पितं जीवत्वं तद्विना स्वरूपेण विलक्षणं ततोऽ­न्य­न्ना­स्ती­त्युक्तं श्रीगुरुणा ॥२०२॥

‘असङ्गोह्ययं पुरुषः’(बृ.उ. ४.३.१५) इति श्रुत्या अवस्तुभूत एव सम्बन्धः बुध्द्या सह तस्य वक्तव्य इत्याह सम्बन्ध इति −

सम्बन्धः स्वात्मनो बुध्या मिथ्या­ज्ञा­न­पु­र­स्सरः ।
विनि­वृ­त्ति­र्भ­वे­त्तस्य सम्यग्ज्ञानेन नान्यथा ॥२०३॥

२०३

स्वात्मनः निरवयवतया संयो­गा­दे­र्व­क्तु­म­श­क्य­त्वात् संयोगस्थले परस्परधर्मस्य परस्परस्मिन् प्रतीत्यभावाच्च । अयोवह्न्योः संयोगसम्भवेऽपि अयो दहति वह्निर्दीर्घः इति व्यवहारस्य पर­स्प­रा­ध्या­से­नैव उप­पा­द्य­मा­न­त्वात् बुद्ध्यात्मनोः कर्तृ­त्व­चै­त­न्या­दि­ध­र्माणां प्रती­य­मा­ना­ना­म­न्यो­न्या­ध्या­स­मू­ल­क­त्व­स्यैव वक्तव्यतया धर्मि­ता­दा­त्म्या­ध्यासः धर्माणामध्यासे कार­ण­मि­त्या­ध्या­सि­क­ता­दा­त्म्य­मेव मिथ्या­भू­ता­ज्ञा­न­मू­लकं बुद्ध्या साकं सम्बन्ध इति भावः । तस्य अज्ञानमूलकस्य सम्बन्धस्य सम्यग्ज्ञानेन विनि­वृ­त्ति­र्भ­वेत् रज्ज्वादौ प्रती­त­स­र्प­ता­दा­त्म्यस्य रज्जुप्रमया बाधदर्शनात् । नान्यथा आज्ञा­नि­क­नि­वृत्तौ प्रकारान्तरं नास्तीत्यर्थः । मिथ्या­ज्ञा­न­पु­र­स्सर इत्यत्र मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्पुरस्सरं पूर्वभावि यस्य इति विग्रहे मिथ्या­ज्ञा­न­मू­ल­कत्वं लभ्यते सम्बन्धस्य । मिथ्याज्ञानपदेन भ्रमा­प­र­प­र्या­यस्य आध्या­सि­क­ता­दा­त्म्य­रू­प­स­म्बन्धे पूर्वमध्यासस्य घटकत्वात् सम्बन्धे तद्विशेषणं योजनीयम् । अर्थद्वयमपि सुवचम् ॥२०३॥

भ्रम­प्र­मा­दा­दि­दो­ष­दू­षितैः पुरुषैः इदमेव सम्यग्ज्ञानमिति ज्ञातु­म­श­क्य­त्वात् निर्दो­ष­श्रु­त्य­नु­सा­रेण सम्यग्ज्ञानं दर्शयति ब्रह्मेति −

ब्रह्मा­त्मै­क­त्व­वि­ज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥२०४॥

२०४

ब्रह्मा च अत्मा च ब्रह्मात्मानौ तयोरेकत्वं भेदाभावः तस्य विज्ञानमनुभवः सम्यग्ज्ञानम् इति श्रुतेर्मतम् । ‘तत्त्वमसि’(छा.उ. ६.८.७) ‘अहं ब्रह्मास्मि’(बृ.उ. १.४.१०) ‘अयमात्मा ब्रह्म’(मां.उ. २) ‘प्रज्ञानं ब्रह्म’(ऐ उ.३.३) ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ.उ. ३.१३) ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।’(तै.उ. २.८.५.३.१०.४) ‘एष त आत्मा अन्त­र्या­म्य­मृतः’(बृ.उ. ३.७.३) ‘एष त आत्मा सर्वान्तरः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता । स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ.उ. ३.४.१) इत्या­दि­श्रु­तिभ्यः जीव­ब्र­ह्म­भे­द­नि­रा­क­र­णात् ॥२०४॥

तत्र हेतुमाह तदात्मेति −

तदात्मानात्मनोः सम्यग्विवेकेनैव सिद्ध्यति ।
ततो विवेकः कर्तव्यः प्रत्य­गा­त्मा­स­दा­त्मनोः ॥२०५॥

२०५

तत् सम्यग्विज्ञानम् आत्मानात्मनोः आत्मा च अनात्मा च जात्येकवचनम् आत्मानात्मनौ तयो­रा­त्मा­ना­त्मनोः सम्यक् विवेकेन नीरक्षीरवत् विभेदग्रहणेनैव सिद्ध्यति । भेदग्रहे अध्यासव्यापकस्य भेदाग्रहस्य असम्भवात् तदभावे भ्रमरूपस्य अध्यासस्य व्याप्यस्य अभावात् तदभावे विक्षेपशून्यं मनः बहि­र्मु­ख­त्व­शून्यं सत् श्रव­ण­म­न­न­नि­दि­ध्या­सनैः सर्वान्तरं ब्रह्म साक्षात्करोतीति भावः । ततः विवेकस्य सम्य­ग्ज्ञा­न­हे­तु­त्वात् । प्रत्य­गा­त्मा­स­दा­त्मनोः असन् मिथ्याभूत आत्मा प्रत्यङ् सर्वान्तरः आत्मा परमात्मा प्रत्यगात्मा च असदात्मा च प्रत्य­गा­त्मा­स­दा­त्मानौ तयोः विवेकः श्रुत्या­चा­र्य­द­त्त­युक्त्या पृथक्तया ज्ञाना­नु­कू­ल­व्या­पारः मननरूपः कर्तव्यः ॥२०५॥

तथाकृते तस्य स्फुटभानं सदृष्टान्तमाह जलमिति −

जलं पङ्कवदस्पष्टं पङ्कापाये जलं स्फुटम् ।
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥२०६॥

२०६

पङ्कमस्यास्तीति पङ्कवत् पङ्किलं जलमस्पष्टं विजातीयेन पार्थिवेन पङ्केन मिश्रितत्वात् । पङ्कापाये पङ्कस्यापाये तत उद्धृत्यापनयने जलं स्फुटम् इतरामिश्रं शुद्धं यथा भाति तथा आत्मापि परमात्मापि दोषाभावे स्फुट­प्र­भः­स्फुटा प्रभा प्रकृष्टा भा प्रभा अख­ण्ड­चै­त­न्य­प्र­काशः यस्य सः स्फुटप्रभः ‘सलिल एको द्रष्टा’(बृ.उ. ४.३.३२) इत्या­दि­श्रु­तेः­नि­र्म­ल­ज­ल­वत् अनात्माविषयकतया भासत इत्यर्थः ॥२०६॥

तदेव स्फुटयन् अनात्माविषयकतया भानार्थं प्रय­ति­त­व्य­मि­त्याह अस­न्नि­वृ­त्ता­विति −

असन्निवृत्तौ तु सदात्मनः स्फुट­प्र­ती­ति­रे­तस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एवासदात्मनः साध्व­ह­मा­दि­व­स्तुनः ॥२०७॥

२०७

यतः एतस्य समीपतरवर्तिनः प्रतीचः सर्वान्तरस्य सदात्मनः काल­त्र­येऽ­प्य­बा­ध्यस्य आत्मनः परमात्मनः स्फुटप्रतीतिः इतरामिश्रणेन भानम् असन्निवृत्तौ तु अस­ता­म­न्न­म­या­दी­ना­म­ना­त्मनां निवृत्तौ तु निवृत्तावेव भवेत् न तु तेषामपि प्रतीयमानत्वे । ततः तस्मात् कारणात् असदात्मनः असन् मिथ्या आत्मा स्वरूपं यस्य सः असदात्मा तस्य अहमादिवस्तुनः अहम् अहङ्कारः आदिर्यस्य तदहमादि तच्च तद्वस्तु अहमादिवस्तु तस्य अहङ्कारादि देहान्तस्य आत्मत्वेन भ्रमविषयतया स्वरूपावरकस्य साधु यथा इतः परम् अहन्तास्पदतया न प्रतीयते तथा निरासः प्रतिकोशं नायमात्मेति दृढतमविवेचनेन निरासः बाधः करणीय एव । उक्तं हि पूर्वं −

पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥ (श्लो. १५३) इति ।

‘सर्वथा मुच्यतामयं जनः’ इति बहुप्रकारैः उपदिशति करुणानिधिः श्रीगुरुः । तत्र शैवालावृतजलं दृष्टान्ततया कथितम् । अत्र विज­ती­य­प­ङ्क­मिश्रं तत् सर्वप्रकारैः अनात्मभेदस्य प्रतीचि सिध्यर्थम् ॥२०७॥

इदानीं विज्ञानमयस्य अनात्मत्वं निगमयति अत इति −

अतो नायं परात्मास्यात् विज्ञा­न­म­य­श­ब्द­भाक् ।
विका­रि­त्वा­ज्ज­ड­त्वाच्च परि­च्छि­न्न­त्व­हे­तुतः ।
दृश्यत्वाद् व्यभि­चा­रि­त्वा­न्ना­नित्यो नित्य इष्यते ॥२०८॥

२०८

अतः वक्ष्य­मा­ण­हे­तुभ्यः विका­रि­त्व­ज­ड­त्व­प­रि­च्छि­न्न­त्व­दृ­श्य­त्व­व्य­भि­चा­रि­त्व­रू­पेभ्यः विज्ञा­न­म­य­श­ब्द­भाक् विज्ञानमय इति शब्दं भजत इति विज्ञा­न­म­य­श­ब्द­भाक् अयं कोशः परात्मा मुख्यात्मा न स्यात् । मरुतोयवत् आभा­स­मा­त्र­स­त्ता­श्र­य­त्वतः दृष्ट­न­ष्ट­स्व­रू­प­त्वात् । ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इत्यादिश्रुतेः, ‘नित्यत्वाच्च ताभ्यः’(ब्र.सू. २.३.१७) इति सूत्रेण नित्य­मु­क्त्य­न्व­यि­त्व­युक्त्या च नित्य आत्मा विका­रि­त्वा­दि­हे­तुभिः अनित्यः विज्ञानमयकोशः नेष्यते । विज्ञानमयकोशः आत्मभिन्नः विकारित्वात् जडत्वात् परि­च्छि­न्न­त्वात् दृश्यत्वात् व्यभिचारित्वात् स्थूलदेहवत् इति प्रयोगः । हेतुबाहुल्यम् अना­त्म­त्व­दा­र्ढ्या­र्थम् । एतावत्सु हेतुषु सत्स्वपि तत्र मोहादात्मत्वं कल्पितमिति पौनःपुन्येन बहुविधतया अनात्मत्वं द्रढनीयमिति वैभवम् । तत्र विकारित्वं जन्मनाशवत्त्वम् , जडत्वम् अस्वप्रकाशत्वम् , परिच्छिन्नत्वम् असर्वगतत्वम् , दृश्यत्वं चिद्विषयत्वम् , व्यभिचारित्वम् अभा­व­प्र­ति­यो­गि­त्व­मिति भेदः ॥२०८॥

इदा­नी­मा­न­न्द­म­य­कोशं निरूपयति आनन्देति −