विवेकचूडामणिः सव्याख्यः
२३. आनन्दमयकोशविवेकः
आनन्दप्रतिबिम्बचुम्बिततनुः वृत्तिस्तमोजृम्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः ।
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०९॥
आनन्दस्य परमात्मस्वरूपानन्दस्य प्रतिबिम्बः प्रतिफलनं तेन चुम्बिता व्याप्ता तनुः शरीरं स्वरूपं यस्याः वृत्तेः सा आनन्दप्रतिबिम्बचुम्बिततनुः, तमोजृम्भिता तमसा अविद्यया जृम्भिता जनिता अविद्यापरिणामरूपा वृत्तिः आनन्दमयकोशः स्यात् । स्फुटतया तं बुद्धावारोहयति प्रियादिगुणक इति । ‘तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।’(तै.उ. २.५) इति श्रुत्या इष्टवस्तुदर्शनलाभभोगजन्यसुखविशेषावयवकः प्रियादिप्रमोदान्तः गुणः अवयवः यस्य स इति विग्रहः । तस्य कादाचित्कत्वमाह स्वेष्टेति । स्वस्य इष्टः स्वेष्टःस चासावर्थश्च स्वेष्टार्थः पुत्रमित्रादिः शब्दादिर्वा तस्य लाभे, लाभ इत्युपलक्षणं दर्शनभोगयोः, तदा उदयः उत्पत्तिः यस्य सः कोशःस्वेष्टार्थलाभोदयः । कृतिनां धीमतां पुण्यस्य प्राक्कृतस्य फलोन्मुखस्य अनुभवे फलानुभवकाले विभाति विशेषेण भाति । तमेवार्थं स्पष्टयति यत्र यस्मिन्काले तनुभृन्मात्रः सर्वोऽपि शरीरी प्रयत्नं विना, तात्कालिकप्रयत्नं विना इत्यर्थः । पुण्यस्यानुभवे इति पूर्वप्रयत्नस्य हेतूकृतत्वात् । स्वयमानन्दरूपः भूत्वा यदा आनन्दरूपः भूत्वा साधु नन्दति तदा आनन्दमयकोशेन योगः अवगन्तव्य इति भावः । वक्ष्यति च −
देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः । यैर्यैर्वृत्तेस्समायोगः तत्तद्भावोऽस्य योगिनः ॥ (श्लो. ३७१) इति ।
तथा च पुण्यवशात् सुखाकारा जाग्रत्स्वप्नयोः सम्भवन्ती तामसी वृत्तिःआनन्दमयकोशः इत्युक्तं भवति । तस्यापि स्वरूपावरकत्वमस्त्येव । न हि तद्योगे निरामयं सुखं नित्यं निरुपाधिकं सुज्ञानम् । अत एव ‘न प्रहृष्येत्प्रियं प्राप्य’(भ.गी. ५.२०) , ‘आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।’, (दे.भा. ५.४.३८) ‘हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति’, (आ.ध.सू. १.१३.४) ‘हर्षामर्षभयोद्वेगैः मुक्तो यस्स च मे प्रियः’(भ.गी. १२.१५) इत्यादिप्रमाणैः हेयत्वं तस्य । अत्र पुण्यशब्देन काम्यकर्मजन्यमपूर्वं ग्राह्यम् । ‘मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यैर्विना लभ्यते’(श्लो. २) , इति ‘कर्म अशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम्’(पा.यो. ४.७) इति −
वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि । अदृष्टाद्वाऽसकृदभ्याससंस्कारसचिवाद्भवेत् ॥ (पञ्चदशी १.५७)
इत्यादिना योगजपुण्यस्य ज्ञानद्वारा अनावृतानन्दाभिव्यञ्जकत्वम् आनन्दावरकतमोभञ्जकत्वम् इति तादृशानन्दस्य कोशत्वाभावात् तदा तमोजृम्भितत्वाभावात् वृत्तेरिति बोध्यम् ॥२०९॥
तामसी सुखाकारवृत्तिः आनन्दमयकोशः इतिकृत्वा सुषुप्तौ तस्य उत्कटत्वं दर्शयति । तदानीं पुण्याजन्यस्य स्वरूपसुखस्यैव अविद्यावृत्तिविषयत्वात् । प्रत्यहम् आरब्धपुण्यक्षय एव दैनन्दिनप्रलयरूपसुषुप्तिसम्भवात् । उक्तं हि सूत्रभाष्ये ‘उभयथापि न कर्मातस्तदभावः’(२.२.१२) इति सूत्रे ‘अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमिति’ −
आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।
स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना ॥२१०॥
उत्कटा अधिका, स्फूर्तिः स्फुरणं, सुषुप्तौ आनन्दमयकोशस्य । तदा सुखस्य दुःखासम्भिन्नत्वादिति भावः । तथाप्यज्ञानेनावृतत्वात् न मुख्यानन्दरूपत्वम् । स्वप्नजागरयोः, ईषत् स्वल्पा, स्फूर्तिः इष्टसन्दर्शनादिना । आदिपदेन लाभभोगपरिग्रहः । तदा भिन्नविषयकवृत्तिभिः अस्या वृत्तेः नाश्यमानत्वात् सुषुप्तौ वृत्त्यन्तराभावात् उत्कटत्वमिति भावः ॥२१०॥
तस्याप्यनात्मत्वं वदति नैवेति −
नैवायमानन्दमयः परात्मा
सोपाधिकत्वात् प्रकृतेर्विकारात् ।
कार्यत्वहेतोः सुकृतक्रियाया
विकारसङ्घातसमाहितत्वात् ॥२११॥
अयमानन्दमयः, परात्मा मुख्यात्मा, नैव । तत्र हेतवः सोपाधिकत्वात् , सनिमित्त्वात् इत्यर्थः । इष्टसन्दर्शनादिजन्यत्वात् प्रकृतेः मूलप्रकृतेरविद्यायाः विकारात् । विकारत्वात् इत्यर्थः । तमोजृम्भितवृत्तेः तथात्वात् । सुकृतक्रियायाः पुण्यकर्मणः, कार्यत्वहेतोः कार्यत्वात् । ‘पुण्यस्यानुभवे विभाति’(श्लो. २०९) इत्युक्ततया सुखाकारा विद्यावृत्तेरपि जागरस्वप्नकालिकायाः पुण्यजन्यत्वात् । विकारसङ्घातसमाहितत्वात् प्रियादिगुणक इत्यनेन ‘तस्य प्रियमेव शिरः’(तै.उ. २.५) इत्यादिश्रुत्या दर्शनलाभभोगजन्यसुखरूपावयवसमुदायसञ्जनितत्वात् । पुण्यवशात् इष्टार्थदर्शने लाभे च तमोमिश्रसत्वोद्भवे जायमानावृत्तिः सुखाकारा अहं सुखीतिरूपा एवं भोगे ‘कोन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये’(भ.गी. १६.१५) इत्यादिरूपा उत्कृष्यमाणा । तस्याः पुण्येष्टविषयादिविकारजन्यत्वादिति वा अर्थः ॥२११॥
कोशपञ्चकविवेकानन्तरकृत्यमाह पञ्चानामिति −