अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२३. आनन्दमयकोशविवेकः

आन­न्द­प्र­ति­बि­म्ब­चु­म्बि­त­तनुः वृत्ति­स्त­मो­जृ­म्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टा­र्थ­ला­भो­दयः ।
पुण्यस्यानुभवे विभाति कृति­ना­मा­न­न्द­रूपः स्वयं
भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०९॥

२०९

आनन्दस्य पर­मा­त्म­स्व­रू­पा­न­न्दस्य प्रतिबिम्बः प्रतिफलनं तेन चुम्बिता व्याप्ता तनुः शरीरं स्वरूपं यस्याः वृत्तेः सा आन­न्द­प्र­ति­बि­म्ब­चु­म्बि­त­तनुः, तमोजृम्भिता तमसा अविद्यया जृम्भिता जनिता अवि­द्या­प­रि­णा­म­रूपा वृत्तिः आनन्दमयकोशः स्यात् । स्फुटतया तं बुद्धावारोहयति प्रियादिगुणक इति । ‘तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।’(तै.उ. २.५) इति श्रुत्या इष्ट­व­स्तु­द­र्श­न­ला­भ­भो­ग­ज­न्य­सु­ख­वि­शे­षा­व­य­वकः प्रिया­दि­प्र­मो­दान्तः गुणः अवयवः यस्य स इति विग्रहः । तस्य कादाचित्कत्वमाह स्वेष्टेति । स्वस्य इष्टः स्वेष्टःस चासावर्थश्च स्वेष्टार्थः पुत्रमित्रादिः शब्दादिर्वा तस्य लाभे, लाभ इत्युपलक्षणं दर्शनभोगयोः, तदा उदयः उत्पत्तिः यस्य सः कोशः­स्वे­ष्टा­र्थ­ला­भो­दयः । कृतिनां धीमतां पुण्यस्य प्राक्कृतस्य फलोन्मुखस्य अनुभवे फलानुभवकाले विभाति विशेषेण भाति । तमेवार्थं स्पष्टयति यत्र यस्मिन्काले तनुभृन्मात्रः सर्वोऽपि शरीरी प्रयत्नं विना, तात्का­लि­क­प्र­यत्नं विना इत्यर्थः । पुण्यस्यानुभवे इति पूर्वप्रयत्नस्य हेतूकृतत्वात् । स्वयमानन्दरूपः भूत्वा यदा आनन्दरूपः भूत्वा साधु नन्दति तदा आनन्दमयकोशेन योगः अवगन्तव्य इति भावः । वक्ष्यति च −

देह­प्रा­णे­न्द्रि­य­म­नो­बु­द्ध्या­दि­भि­रु­पा­धिभिः । यैर्यै­र्वृ­त्ते­स्स­मा­योगः तत्तद्भावोऽस्य योगिनः ॥ (श्लो. ३७१) इति ।

तथा च पुण्यवशात् सुखाकारा जाग्र­त्स्व­प्नयोः सम्भवन्ती तामसी वृत्तिः­आ­न­न्द­म­य­कोशः इत्युक्तं भवति । तस्यापि स्वरू­पा­व­र­क­त्व­म­स्त्येव । न हि तद्योगे निरामयं सुखं नित्यं निरुपाधिकं सुज्ञानम् । अत एव ‘न प्रहृ­ष्ये­त्प्रियं प्राप्य’(भ.गी. ५.२०) , ‘आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।’, (दे.भा. ५.४.३८) ‘हृष्टो दृप्यति दृप्तो धर्म­म­ति­क्रा­मति’, (आ.ध.सू. १.१३.४) ‘हर्षा­म­र्ष­भ­यो­द्वेगैः मुक्तो यस्स च मे प्रियः’(भ.गी. १२.१५) इत्यादिप्रमाणैः हेयत्वं तस्य । अत्र पुण्यशब्देन काम्य­क­र्म­ज­न्य­म­पूर्वं ग्राह्यम् । ‘मुक्तिर्नो शत­को­टि­ज­न्म­सु­कृतैः पुण्यैर्विना लभ्यते’(श्लो. २) , इति ‘कर्म अशुक्लाकृष्णं योगिनः त्रिवि­ध­मि­त­रे­षाम्’(पा.यो. ४.७) इति −

वृत्ती­ना­म­नु­वृ­त्तिस्तु प्रय­त्ना­त्प्र­थ­मा­दपि । अदृ­ष्टा­द्वाऽ­स­कृ­द­भ्या­स­सं­स्का­र­स­चि­वा­द्भ­वेत् ॥ (पञ्चदशी १.५७)

इत्यादिना योगजपुण्यस्य ज्ञानद्वारा अना­वृ­ता­न­न्दा­भि­व्य­ञ्ज­क­त्वम् आन­न्दा­व­र­क­त­मो­भ­ञ्ज­क­त्वम् इति तादृशानन्दस्य कोशत्वाभावात् तदा तमो­जृ­म्भि­त­त्वा­भा­वात् वृत्तेरिति बोध्यम् ॥२०९॥

तामसी सुखाकारवृत्तिः आनन्दमयकोशः इतिकृत्वा सुषुप्तौ तस्य उत्कटत्वं दर्शयति । तदानीं पुण्याजन्यस्य स्वरूपसुखस्यैव अवि­द्या­वृ­त्ति­वि­ष­य­त्वात् । प्रत्यहम् आरब्धपुण्यक्षय एव दैन­न्दि­न­प्र­ल­य­रू­प­सु­षु­प्ति­स­म्भ­वात् । उक्तं हि सूत्रभाष्ये ‘उभयथापि न कर्मातस्तदभावः’(२.२.१२) इति सूत्रे ‘अदृष्टमपि भोग­प्र­सि­द्ध्यर्थं न प्रल­य­प्र­सि­द्ध्य­र्थ­मिति’ −

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।
स्वप्न­जा­ग­र­यो­री­ष­दि­ष्ट­स­न्द­र्श­ना­दिना ॥२१०॥

२१०

उत्कटा अधिका, स्फूर्तिः स्फुरणं, सुषुप्तौ आनन्दमयकोशस्य । तदा सुखस्य दुःखा­स­म्भि­न्न­त्वा­दिति भावः । तथा­प्य­ज्ञा­ने­ना­वृ­त­त्वात् न मुख्या­न­न्द­रू­प­त्वम् । स्वप्नजागरयोः, ईषत् स्वल्पा, स्फूर्तिः इष्ट­स­न्द­र्श­ना­दिना । आदिपदेन लाभभोगपरिग्रहः । तदा भिन्न­वि­ष­य­क­वृ­त्तिभिः अस्या वृत्तेः नाश्यमानत्वात् सुषुप्तौ वृत्त्य­न्त­रा­भा­वात् उत्कटत्वमिति भावः ॥२१०॥

तस्या­प्य­ना­त्मत्वं वदति नैवेति −

नैवायमानन्दमयः परात्मा
सोपाधिकत्वात् प्रकृ­ते­र्वि­का­रात् ।
कार्यत्वहेतोः सुकृतक्रियाया
विका­र­स­ङ्घा­त­स­मा­हि­त­त्वात् ॥२११॥

२११

अयमानन्दमयः, परात्मा मुख्यात्मा, नैव । तत्र हेतवः सोपाधिकत्वात् , सनिमित्त्वात् इत्यर्थः । इष्ट­स­न्द­र्श­ना­दि­ज­न्य­त्वात् प्रकृतेः मूल­प्र­कृ­ते­र­वि­द्यायाः विकारात् । विकारत्वात् इत्यर्थः । तमो­जृ­म्भि­त­वृत्तेः तथात्वात् । सुकृतक्रियायाः पुण्यकर्मणः, कार्यत्वहेतोः कार्यत्वात् । ‘पुण्यस्यानुभवे विभाति’(श्लो. २०९) इत्युक्ततया सुखाकारा विद्यावृत्तेरपि जाग­र­स्व­प्न­का­लि­कायाः पुण्यजन्यत्वात् । विका­र­स­ङ्घा­त­स­मा­हि­त­त्वात् प्रियादिगुणक इत्यनेन ‘तस्य प्रियमेव शिरः’(तै.उ. २.५) इत्यादिश्रुत्या दर्श­न­ला­भ­भो­ग­ज­न्य­सु­ख­रू­पा­व­य­व­स­मु­दा­य­स­ञ्ज­नि­त­त्वात् । पुण्यवशात् इष्टार्थदर्शने लाभे च तमो­मि­श्र­स­त्वो­द्भवे जायमानावृत्तिः सुखाकारा अहं सुखीतिरूपा एवं भोगे ‘कोन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये’(भ.गी. १६.१५) इत्यादिरूपा उत्कृष्यमाणा । तस्याः पुण्ये­ष्ट­वि­ष­या­दि­वि­का­र­ज­न्य­त्वा­दिति वा अर्थः ॥२११॥

कोश­प­ञ्च­क­वि­वे­का­न­न्त­र­कृ­त्य­माह पञ्चानामिति −