विवेकचूडामणिः सव्याख्यः
२५. ब्रह्मणोऽद्वितीयत्वम्
ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।
येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥२२५॥
ब्रह्माभिन्नत्वविज्ञानम् अहं ब्रह्मास्मीत्यपरोक्षानुभवः भवमोक्षस्य संसारमुक्तेः कारणं येन विज्ञानेन अद्वितीयं निर्भेदम् आनन्दं सुखस्वरूपं ब्रह्म बुधः सम्पद्यते प्राप्नोति भवतीति वा अर्थः ‘ब्रह्मविदाप्नोति’(तै.उ. २.१) , ‘ब्रह्मविद् ब्रह्मैव भवति’(मु.उ ३.२.९) इति श्रुतेः । ‘असतो मा सद् गमय मृत्युर्वा असत् सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह’(बृ.उ. १.३.२८) इति श्रुतेः ब्रह्मभाव एव मोक्षः ॥२२५॥
ब्रह्मभावे भवमोक्षः कथमिति शङ्कमानं प्रत्याह ब्रह्मभूत इति −
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
विज्ञातव्यमतः सम्यग् ब्रह्माभिन्नत्वमात्मनः ॥२२६॥
ब्रह्मभूतः विद्वान् पुनः संसृत्यै नैवावर्तत इत्यर्थः । ‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुतेः । तुरवधारणे । अतः आत्मनः ब्रह्माभिन्नत्वं सम्यक् विज्ञातव्यम् ॥२२६॥
प्रपञ्चमिथ्यात्वकथनेन निष्प्रपञ्चत्वं ब्रह्मणो वक्तुमारभते सत्यं ज्ञानमिति −
सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् ।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२७॥
कालत्रयेऽपि बाधरहितं स्वयम्प्रकाशं देशतः कालतः वस्तुतश्च परिच्छेदशून्यं व्यापकत्वात् नित्यत्वात् अद्वितीयत्वात् ब्रह्म विशुद्धं स्वाभाविकागन्तुकसकलमलशून्यं परं मायातीतं स्वतस्सिद्धं सत्तायां स्फूर्तौ वा परनिरपेक्षम् । नित्यानन्दैकरसं दुःखास्पृष्टनित्यसुखस्वरूपं जीवाभिन्नं निर्भेदमखण्डं ब्रह्म सर्वोत्कर्षेण वर्तत इत्यर्थः । इति वस्तूपक्षेपः ॥२२७॥
तत्र अनन्तपदार्थैकदेशं वस्तुपरिच्छेदशून्यत्वमुपपादयति सदिदमिति −
सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
नह्यन्यदस्ति किञ्चित्सम्यक्परतत्वबोधसुदशायाम् ॥२२८॥
इदं प्रकृतं ब्रह्म सत् अस्तीति सत् । परमाद्वैतं परमं च तदद्वैतं च परमाद्वैतम् । अद्वैते परमत्वं गुणगुणिभावादिप्रयुक्ततादात्म्येनापि शून्यत्वं सदाप्यस्तीति । न विद्यते द्वैतं द्वयोर्भावः द्विता द्वितैव द्वैतं यत्र तत् भेदशून्यमित्यर्थः । तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोऽभावात् यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतम् । उच्चावचप्रपञ्चस्य बहूनां जीवानां च सत्त्वात् कथं स्वस्मादन्यस्याभावः इति चेत् , वस्तुपदेन तेषां परमार्थता नास्तीति ज्ञापितम् । कल्पितेन भेदाभावात् । नहि कल्पितसर्पेण सद्वितीयत्वं रज्ज्वाः । यदि जगदादेः परमार्थत्वं सदा भासेत, तदभावात् न वस्तुत्वम् । तदाह − सम्यक्परतत्त्वबोधसुदशायामिति । इदानीम् अन्यथा अविद्यया ज्ञातत्वात् सम्यगिति । ‘यत्र नान्यत्पश्यति’ इत्यादिश्रुत्या परतत्त्वविषयकसम्यग्ज्ञानं यदा तस्यां शोभनायामवस्थायाम् । हि यस्मात् अन्यत्किञ्चिन्नास्ति अतः स्वभिन्नवस्त्वभावात् इदं सत् परमाद्वैतमित्यन्वयः ॥२२८॥
अज्ञानावस्थायामपि ‘तदनन्यत्वामारम्भणशब्दादिभ्यः’(ब्र.सू. २.१.१४) इति न्यायनिर्णीतं प्रपञ्चस्य ब्रह्माव्यतिरेकमाह यदिदमित्यादिना −
यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥२२९॥
अज्ञानात् नानारूपं सकलं विश्वं यत् इदं प्रतीतं कल्पितं तत्सर्वं प्रत्यस्ताशेषभावनादोषम् अशेषाश्च ताः भावनाश्च अशेषभावनाः तद्रूपः दोषः प्रत्यस्तः निरस्तः यस्मात् तत् प्रत्यस्ताशेषभावनादोषं सकलकल्पनारूपदोषशून्यं ब्रह्मैव ॥२२९॥
तदुपपादयति मृदित्यादिना सदृष्टान्तम् −
मृत्कार्यभूतोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः ॥२३०॥
मृत्कार्यभूतोऽपि मृदुपादेयोऽपि कुम्भः मृदो भिन्नो नास्ति । सर्वत्र तु मूले अग्रे पार्श्वयोर्वा सर्वत्रापि मृत्स्वरूपात् मृदभिन्नत्वात् पृथुबुध्नोदराद्याकारविशेषविशिष्टा मृदेव कुम्भ इत्युच्यते । न कुम्भरूपं पृथगस्ति । मृद्रूपव्यतिरेकेण कुम्भस्य रूपं नीलादिकं नास्ति मृदाकारव्यतिरेकेण कुम्भस्याकारो नास्ति आकारविशेषविशिष्टा मृदेव कुम्भ इत्युच्यते न तु कुम्भस्य कश्चिदाकारः । ‘वाचारम्भणं विकारो नामधेयम्’(छा.उ. ६.१.४) इति श्रुत्या मृषाकल्पितनाममात्रः कुम्भः । कुतः कस्माद्धेतोः पृथगस्ति मृद्रूपभिन्नरूपं नास्ति मृदाकारव्यतिरिक्ताकारो नास्ति । कुम्भ इति शब्दः परं कल्पितः । तावता एक एव देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च यथा न भिद्यते तद्वत् कुम्भोऽपि मृद इत्यर्थः ॥२३०॥
स्फुटप्रतिपत्त्यर्थं पुनरुपपादयति केनापीत्यादिना −
केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहात्
मृदेव सत्यं परमार्थभूतम् ॥२३१॥
केनापि पुरुषेण ब्रह्मणापीति वा । घटस्य स्वरूपं मृद्भिन्नतया सन्दर्शयितुं न शक्यते यतः अतो घटः मोहात् भिन्नतया कल्पित एव । मृदेव सत्यं परमार्थभूतं घटशब्दस्य मुख्यार्थभूतम् ‘मृत्तिकेत्येव सत्यम्’ इति श्रुतेः आदावन्ते च वर्तमानत्वात् ॥२३१॥
एवं मृद्घटदृष्टान्तेन उपादानव्यतिरेकेण उपादेयं कार्यं नास्तीत्युक्त्वा दार्ष्टान्तिके तदाह सद्ब्रह्मेति −
सद्ब्रह्मकार्यं सकलं सदैव
सन्मात्रमेतन्न ततोऽन्यदस्ति ।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः ॥२३२॥
सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव । परमते सत्कपालादिकार्यं घटादि भिन्नमपि सदेवोच्यते । तद्वन्नेत्याह − सन्मात्रमेतत् । यथा घटो मृदेव एवं वियदादि ब्रह्मैव । न ततोऽन्यदस्ति । तत्तदुपादेयस्य तदुपादानव्यतिरेकेणासत्त्वात् सर्वोपादानत्वात् ब्रह्मणः तद्व्यतिरेकेण किमपि नास्तीत्यर्थः । अत एव श्रुतौ मृत्तिकेत्येव सत्यमिति इतिपदेन योगः । मृण्मयं सर्वं सत्यं चेत् मृत्तिकेत्येव मृत्तिकात्वेन सत्यं न स्वरूपत इत्यर्थः । एवं मृदः तदुपादानरूपेण तस्याः पञ्चीकृतभूतकार्यत्वात् तद्व्यतिरेकेणाभाव इति तद्रूपेण सत्यत्वम् । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य, अपागादग्नेरग्नित्वम्’ , ‘वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’(छा.उ. ६.४.३) इति श्रुत्यनुसारेण तेषां भूतानामपञ्चीकृतभूतरूपेण पृथक्करणे पृथिव्याः अब्रूपेण अपां तेजोरूपेण तस्य वायुरूपतया तस्य वियत्त्वेन तस्य सत्त्वेन इति सद्रूपब्रह्मभिन्नतया किमपि सत्यं नास्तीति सन्मात्रमेतदित्युक्तम् । ततोऽन्यन्नास्तीति तदेव स्पष्टीकृतम् । एवं स्थितेऽपि अस्तीति यो वक्ति ब्रह्मभिन्नतया वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न विनिर्गतः नष्टो नाभूत् निद्रितवत् निद्रितस्येव प्रजल्पः यथा सुप्तः अनन्वितार्थकं किं वा किं वा असम्बद्धं वदति तद्वत् विचारजन्यज्ञानमन्तरा कथनमुपादानव्यतिरेकेण कार्यमस्तीति ॥२३२॥
छान्दोग्यश्रुत्यनुसारेण कथितमर्थं गतिसामान्याय आथर्वणिकश्रुत्या आह ब्रह्मैवेदमित्यादिना −
ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥
श्रौती सामान्यतः वैदिकीति । विशेषत आह − अथर्वनिष्ठेति । अथर्वनिष्ठा अथर्ववेदघटकीभूता अथर्वाख्यब्रह्मज्येष्ठपुत्रनिष्ठा वा श्रौती वैदिकी अत्यन्तवरिष्ठा वाणी ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु.उ. २.१.१२) इति रूपा, इदं विश्वं सर्वं जगत् , ब्रह्मैव नातिरिक्तमित्येव एवकारेण पृथक् सत्तां निषिध्य ब्रूते यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वम् । हि निश्चयः आरोपितस्य कल्पितस्य अधिष्ठानाद् भिन्नता न । एतेन अज्ञानादेरनादेः ब्रह्मोपादानकत्वाभावात् भिन्नत्वशङ्का परास्ता ॥२३३॥
एवं श्रुत्या प्रपञ्चसत्यत्वं निरस्य युक्त्यापि तदनुसारिण्या निरस्यति सत्यमिति −
सत्यं यदि स्याज्जगदेतदात्मनोऽ-
नन्तत्वहानिर्निगमाप्रमाणता ।
असत्यवादित्वमपीशितुः स्यात्
नैतत्त्रयं साधु हितं महात्मनाम् ॥२३४॥
एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यम् अकल्पितं स्यात् आत्मनोऽनन्तत्वहानिः अन्योन्याभावाप्रतियोगित्वरूपवस्तुपरिच्छेदशून्यत्वं न स्यात् अकल्पितेन जगता वस्तुभूतेन परिच्छिद्यमानत्वात् । हीयतामनन्तत्वमिति चेत् , निगमाप्रमाणता ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति वेदस्य बाधितार्थबोधकता स्यात् । इष्टापत्तिरिति चेत् ईशितुरपि परमाप्तस्य सर्वज्ञस्य परमेश्वरस्य असत्यवादित्वम् अयथार्थवक्तृत्वं स्यात् । तदपि भवत्विति चेत् , महात्मनाम् आस्तिकानामित्यर्थः । महानात्मा येषां श्रुत्याचार्योपदेशेन परिच्छिन्नपञ्चकोशात्मबुद्धिं त्यक्त्वा कृतब्रह्मसाक्षात्कारतया अखण्डाकारवृत्तिमदन्तःकरणानां वा तेषाम् । नैतत्त्रयं साधु हितं सौमनस्यकरं सम्मतमित्यर्थः । स्वानुभवविरोधात् ॥२३४॥
प्रपञ्चमिथ्यात्वे भगवद्गीतां प्रमाणयति ईश्वर इति −
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥
अज्ञानाभावेन भ्रमादिदोषशून्यः वस्तुयाथात्म्यज्ञानवानीश्वरः −
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् (भ.गी. ९.४,५)
इत्येकस्मिन्वाक्ये मत्स्थानि सर्वभूतानि न च मत्स्थानीति प्रतियोग्यभावयोः एकत्र विरोधशङ्कायां पश्य मे योगमैश्वरम् इति ईश्वरस्य मम अघटितघटनोपायरूपं योगं मायाम् इत्यर्थः । पश्येति मायिकत्वमुक्तवान् । तदेव मिथ्यात्वम् , प्रतिपन्नोपाधौ अभावप्रतियोगित्वस्यैव मिथ्यात्वात् । मत्स्थानि न च मत्स्थानीति पदाभ्याम् अयमर्थः उक्तः । स्वाश्रयत्वेनाभिमतयावन्निष्ठाभावप्रतियोगित्वं स्वप्रकारकधीविशेष्यताव्यापकात्यन्ताभावप्रतियोगित्वपर्यवसितं प्रतिपन्नोपाधौ इत्यादेरर्थः । तथा च मत्स्थानीत्यत्र ईश्वरः भूतानामाश्रय इति ज्ञातः । न च मत्स्थानीत्यनेन भूतानां तन्निष्ठात्यन्ताभावप्रतियोगित्वमवगम्यते । तथा च −
सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥ (त.प्र. १.७)
इति चित्सुखाचार्यवचनेन पूर्वोक्तमिथ्यात्वं जगति सिद्धम् । घटवत्तया भ्रमविशेष्यनिष्ठाभावप्रतियोगित्वं परमतेऽप्यस्तीति अर्थान्तरवारणाय स्वप्रकारकधीविशेष्यताव्यापकेति । तथा च यत्रास्तीति प्रमा तत्रापि स्वरूपतः कल्पितत्वेन अभावात् यत्र यत्र स्वप्रकारकधीविशेष्यता तत्र सर्वत्र घटादेर्वस्तुतोऽभावात् तत्प्रतियोगित्वं सूपपादमिति बोध्यम् । ‘मया ततमिदं सर्वं जगदव्यक्तमूर्तिना’(भ.गी. ९.४) इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तम् , न तु तदधिष्ठानकत्वं मम ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि, यदि वा न महिम्नि’(छा.उ. ७.२४.१) इति निराधारत्वस्य कथितत्वात् । अतः जगदधिष्ठानकत्वभ्रमं निराकरोति ‘न चाहं तेष्ववस्थितः’(भ.गी. ९.४) इति । धूमेन व्याप्तं गृहमित्यादौ गृहाधिकरणकत्वं धूमे प्रतीयते तद्वदिदं ‘मया ततम्’(भ.गी. ९.४) इत्यादिना ज्ञेयमिति । तथा च नाधिष्ठानाद् भिन्नतारोपितस्येति ब्रह्माधिष्ठानकं तत्रारोपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्येव व्यचीकथत् अवोचदित्यर्थः ॥२३५॥
जगन्मिथ्यात्वे युक्तिमाह यदीति −
यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
यन्नोपलभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥२३६॥
सत्यस्य सदा भानमावश्यकं यथात्मनः । यदि विश्वं जगत् सत्यं भवेत् सुषुप्त्यवस्थायाम् उपलभ्यताम् । यत् यस्मात् किञ्चिदपि नोपलभ्यते ‘न किञ्चिदवेदिषम्’ इति स्मृतेः । अतः स्वप्नवत् जागरे अनुपलभ्यमानः स्वप्नः यथा असन् तथा । असदित्यस्यार्थः मृषेति, न तु शशविषाणवदसत्त्वम् । किन्तु दृष्टनष्टस्वरूपत्वात् मिथ्या इति भावः ॥२३६॥
इदानीं ब्रह्मव्यतिरेकेण जगतः अभावं निगमयति अत इति −
अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणाहिवत् ।
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ॥२३७॥
अतः स्वप्नवत् सदा उपलम्भाभावात् , जगत् , परात्मनः ब्रह्मणः, पृथक् नास्ति व्यवाहारदशायां पृथक्घटादिरूपेण प्रतीतिः गुणाहिवत् । गुणः रज्जुः, अहिः सर्पः, रज्ज्वामारोपितः यथा मृषा तथा जगदपि मृषा तु मृषैवेत्यर्थः । अर्थक्रियाकारित्वाभावादपि मृषात्मत्वमाह − आरोपितस्येति । आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थक्रियाकारित्वमिति यावत् अस्ति किम् ? नास्त्येवेति भावः । तर्हि कुतः प्रतीतिरत आह अधीति, अधिष्ठानमाभाति तथा भ्रमेण, नहि भ्रमस्थले प्रयोजनगवेषणा विफलप्रवृत्तेः सिद्धत्वात् ॥२३७॥
दृष्टान्तान्तरेण जगतः ब्रह्माव्यतिरेकं द्रढयति भ्रान्तस्येति −
भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदन्तया ब्रह्म सदेव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३८॥
भ्रान्तस्य भ्रमतः यद्यत्प्रतीतं तत्तत् अधिष्ठानभूतं ब्रह्मैव हि यस्मात् शुक्त्यज्ञानात् शुक्तौ भातं रजतं शुक्तिरेव तथा ब्रह्मण्यारोपितं वस्तुतः विचार्यमाणे ब्रह्म सदेव इदन्तया रूप्यते तत्तु नाममात्रम् । ‘वाचारम्भणश्रुतेः’(छा.उ. १.४) इत्यर्थः ॥२३८॥
प्रपञ्चस्य मिथ्यात्वेन तत्कारणत्वमपि तत्पदप्रवृत्तिनिमित्तं तादृशमेवेति शोधितं तत्पदार्थमुपसंहरति अत इति चतुर्भिः −
अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनन्निरञ्जनम् ।
प्रशान्तमाद्यन्तविहीनमक्रियं
निरन्तरानन्दरसस्वरूपम् ॥२३९॥
अतः जगतः पृथक्सत्ताशून्यत्वात् आरोपिततया नाममात्रत्वात् । परं ब्रह्म अबाध्यं विजातीयरहितं निर्विषयविज्ञानशरीरम् अज्ञानास्पृष्टम् अपरिणामि जन्मनाशरहितममूर्तमखण्डानन्दविग्रहम् ॥२३९॥
निरस्तमायाकृतसर्वभेदं
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरूपमव्यक्तमनाख्यमव्ययम्
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२४०॥
निरस्ताः मायाकृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजातीयस्वगतभेदशून्यम् आद्यन्तविहीनत्वान्नित्यम् अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयवम् अप्रमेयं ">°फलव्याप्तिरहितम् । अरूपम् ‘अशब्दमस्पर्शमरूपमव्ययम्’(क.उ. ३.१५) इति श्रुतेः ‘न चक्षुषा गृह्यते’(मु.उ १.३.८) इत्यादेश्च । अत एवाव्यक्तम् । वागगोचरतामाह अनाख्यमिति नामशून्यं प्रवृत्तिनिमित्तानां जातिगुणक्रियासम्बन्धानामभावात् । अव्ययं नव्येति इत्यव्ययम् अपक्षयरहितम् । ज्योतिः स्वयं पराप्रकाश्यम् । किञ्चिदिदम् अपरोक्षं चकास्ति प्रकाशते ॥२४०॥
निश्चलतायाः तत्र बुद्धेः स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह −