अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२५. ब्रह्मणोऽद्वितीयत्वम्

ब्रह्मा­भि­न्न­त्व­वि­ज्ञानं भवमोक्षस्य कारणम् ।
येना­द्वि­ती­य­मा­नन्दं ब्रह्म सम्पद्यते बुधः ॥२२५॥

२२५

ब्रह्मा­भि­न्न­त्व­वि­ज्ञा­नम् अहं ब्रह्मा­स्मी­त्य­प­रो­क्षा­नु­भवः भवमोक्षस्य संसारमुक्तेः कारणं येन विज्ञानेन अद्वितीयं निर्भेदम् आनन्दं सुखस्वरूपं ब्रह्म बुधः सम्पद्यते प्राप्नोति भवतीति वा अर्थः ‘ब्रह्म­वि­दा­प्नोति’(तै.उ. २.१) , ‘ब्रह्मविद् ब्रह्मैव भवति’(मु.उ ३.२.९) इति श्रुतेः । ‘असतो मा सद् गमय मृत्युर्वा असत् सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह’(बृ.उ. १.३.२८) इति श्रुतेः ब्रह्मभाव एव मोक्षः ॥२२५॥

ब्रह्मभावे भवमोक्षः कथमिति शङ्कमानं प्रत्याह ब्रह्मभूत इति −

ब्रह्मभूतस्तु संसृत्यै विद्वा­न्ना­व­र्तते पुनः ।
विज्ञातव्यमतः सम्यग् ब्रह्मा­भि­न्न­त्व­मा­त्मनः ॥२२६॥

२२६

ब्रह्मभूतः विद्वान् पुनः संसृत्यै नैवावर्तत इत्यर्थः । ‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुतेः । तुरवधारणे । अतः आत्मनः ब्रह्मा­भि­न्नत्वं सम्यक् विज्ञातव्यम् ॥२२६॥

प्रप­ञ्च­मि­थ्या­त्व­क­थ­नेन निष्प्रपञ्चत्वं ब्रह्मणो वक्तुमारभते सत्यं ज्ञानमिति −

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् ।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२७॥

२२७

कालत्रयेऽपि बाधरहितं स्वयम्प्रकाशं देशतः कालतः वस्तुतश्च परिच्छेदशून्यं व्यापकत्वात् नित्यत्वात् अद्वितीयत्वात् ब्रह्म विशुद्धं स्वाभा­वि­का­ग­न्तु­क­स­क­ल­म­ल­शून्यं परं मायातीतं स्वतस्सिद्धं सत्तायां स्फूर्तौ वा परनिरपेक्षम् । नित्यानन्दैकरसं दुःखा­स्पृ­ष्ट­नि­त्य­सु­ख­स्व­रूपं जीवाभिन्नं निर्भेदमखण्डं ब्रह्म सर्वोत्कर्षेण वर्तत इत्यर्थः । इति वस्तूपक्षेपः ॥२२७॥

तत्र अन­न्त­प­दा­र्थै­क­देशं वस्तु­प­रि­च्छे­द­शू­न्य­त्व­मु­प­पा­द­यति सदिदमिति −

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
नह्यन्यदस्ति किञ्चि­त्स­म्य­क्प­र­त­त्व­बो­ध­सु­द­शा­याम् ॥२२८॥

२२८

इदं प्रकृतं ब्रह्म सत् अस्तीति सत् । परमाद्वैतं परमं च तदद्वैतं च परमाद्वैतम् । अद्वैते परमत्वं गुण­गु­णि­भा­वा­दि­प्र­यु­क्त­ता­दा­त्म्ये­नापि शून्यत्वं सदाप्यस्तीति । न विद्यते द्वैतं द्वयोर्भावः द्विता द्वितैव द्वैतं यत्र तत् भेद­शू­न्य­मि­त्यर्थः । तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोऽभावात् यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतम् । उच्चा­व­च­प्र­प­ञ्चस्य बहूनां जीवानां च सत्त्वात् कथं स्वस्मा­द­न्य­स्या­भावः इति चेत् , वस्तुपदेन तेषां परमार्थता नास्तीति ज्ञापितम् । कल्पितेन भेदाभावात् । नहि कल्पितसर्पेण सद्वितीयत्वं रज्ज्वाः । यदि जगदादेः परमार्थत्वं सदा भासेत, तदभावात् न वस्तुत्वम् । तदाह − सम्य­क्प­र­त­त्त्व­बो­ध­सु­द­शा­या­मिति । इदानीम् अन्यथा अविद्यया ज्ञातत्वात् सम्यगिति । ‘यत्र नान्यत्पश्यति’ इत्यादिश्रुत्या पर­त­त्त्व­वि­ष­य­क­स­म्य­ग्ज्ञानं यदा तस्यां शोभ­ना­या­म­व­स्था­याम् । हि यस्मात् अन्य­त्कि­ञ्चि­न्नास्ति अतः स्वभि­न्न­व­स्त्व­भा­वात् इदं सत् पर­मा­द्वै­त­मि­त्य­न्वयः ॥२२८॥

अज्ञा­ना­व­स्था­या­मपि ‘तद­न­न्य­त्वा­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र.सू. २.१.१४) इति न्यायनिर्णीतं प्रपञ्चस्य ब्रह्मा­व्य­ति­रे­क­माह यदिदमित्यादिना −

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्य­स्ता­शे­ष­भा­व­ना­दो­षम् ॥२२९॥

२२९

अज्ञानात् नानारूपं सकलं विश्वं यत् इदं प्रतीतं कल्पितं तत्सर्वं प्रत्य­स्ता­शे­ष­भा­व­ना­दो­षम् अशेषाश्च ताः भावनाश्च अशेषभावनाः तद्रूपः दोषः प्रत्यस्तः निरस्तः यस्मात् तत् प्रत्य­स्ता­शे­ष­भा­व­ना­दोषं सक­ल­क­ल्प­ना­रू­प­दो­ष­शून्यं ब्रह्मैव ॥२२९॥

तदुपपादयति मृदित्यादिना सदृष्टान्तम् −

मृत्का­र्य­भू­तोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः ॥२३०॥

२३०

मृत्का­र्य­भू­तोऽपि मृदुपादेयोऽपि कुम्भः मृदो भिन्नो नास्ति । सर्वत्र तु मूले अग्रे पार्श्वयोर्वा सर्वत्रापि मृत्स्वरूपात् मृदभिन्नत्वात् पृथु­बु­ध्नो­द­रा­द्या­का­र­वि­शे­ष­वि­शिष्टा मृदेव कुम्भ इत्युच्यते । न कुम्भरूपं पृथगस्ति । मृद्रू­प­व्य­ति­रे­केण कुम्भस्य रूपं नीलादिकं नास्ति मृदा­का­र­व्य­ति­रे­केण कुम्भस्याकारो नास्ति आका­र­वि­शे­ष­वि­शिष्टा मृदेव कुम्भ इत्युच्यते न तु कुम्भस्य कश्चिदाकारः । ‘वाचारम्भणं विकारो नामधेयम्’(छा.उ. ६.१.४) इति श्रुत्या मृषा­क­ल्पि­त­ना­म­मात्रः कुम्भः । कुतः कस्माद्धेतोः पृथगस्ति मृद्रू­प­भि­न्न­रूपं नास्ति मृदा­का­र­व्य­ति­रि­क्ता­कारो नास्ति । कुम्भ इति शब्दः परं कल्पितः । तावता एक एव देवदत्तः सङ्को­चि­त­ह­स्त­पादः प्रसा­रि­त­ह­स्त­पा­दश्च यथा न भिद्यते तद्वत् कुम्भोऽपि मृद इत्यर्थः ॥२३०॥

स्फुट­प्र­ति­प­त्त्यर्थं पुनरुपपादयति केनापीत्यादिना −

केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहात्
मृदेव सत्यं परमार्थभूतम् ॥२३१॥

२३१

केनापि पुरुषेण ब्रह्मणापीति वा । घटस्य स्वरूपं मृद्भिन्नतया सन्दर्शयितुं न शक्यते यतः अतो घटः मोहात् भिन्नतया कल्पित एव । मृदेव सत्यं परमार्थभूतं घटशब्दस्य मुख्यार्थभूतम् ‘मृत्तिकेत्येव सत्यम्’ इति श्रुतेः आदावन्ते च वर्तमानत्वात् ॥२३१॥

एवं मृद्घ­ट­दृ­ष्टा­न्तेन उपा­दा­न­व्य­ति­रे­केण उपादेयं कार्यं नास्ती­त्युक्त्वा दार्ष्टान्तिके तदाह सद्ब्रह्मेति −

सद्ब्रह्मकार्यं सकलं सदैव
सन्मात्रमेतन्न ततोऽन्यदस्ति ।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रि­त­व­त्प्र­जल्पः ॥२३२॥

२३२

सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव । परमते सत्क­पा­ला­दि­कार्यं घटादि भिन्नमपि सदेवोच्यते । तद्वन्नेत्याह − सन्मात्रमेतत् । यथा घटो मृदेव एवं वियदादि ब्रह्मैव । न ततोऽन्यदस्ति । तत्तदुपादेयस्य तदु­पा­दा­न­व्य­ति­रे­के­णा­स­त्त्वात् सर्वो­पा­दा­न­त्वात् ब्रह्मणः तद्व्यतिरेकेण किमपि नास्तीत्यर्थः । अत एव श्रुतौ मृत्तिकेत्येव सत्यमिति इतिपदेन योगः । मृण्मयं सर्वं सत्यं चेत् मृत्तिकेत्येव मृत्तिकात्वेन सत्यं न स्वरूपत इत्यर्थः । एवं मृदः तदुपादानरूपेण तस्याः पञ्ची­कृ­त­भू­त­का­र्य­त्वात् तद्व्य­ति­रे­के­णा­भाव इति तद्रूपेण सत्यत्वम् । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य, अपा­गा­द­ग्ने­र­ग्नि­त्वम्’ , ‘वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’(छा.उ. ६.४.३) इति श्रुत्यनुसारेण तेषां भूता­ना­म­प­ञ्ची­कृ­त­भू­त­रू­पेण पृथक्करणे पृथिव्याः अब्रूपेण अपां तेजोरूपेण तस्य वायुरूपतया तस्य वियत्त्वेन तस्य सत्त्वेन इति सद्रू­प­ब्र­ह्म­भि­न्न­तया किमपि सत्यं नास्तीति सन्मा­त्र­मे­त­दि­त्यु­क्तम् । ततोऽ­न्य­न्ना­स्तीति तदेव स्पष्टीकृतम् । एवं स्थितेऽपि अस्तीति यो वक्ति ब्रह्मभिन्नतया वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न विनिर्गतः नष्टो नाभूत् निद्रितवत् निद्रितस्येव प्रजल्पः यथा सुप्तः अनन्वितार्थकं किं वा किं वा असम्बद्धं वदति तद्वत् विचा­र­ज­न्य­ज्ञा­न­म­न्तरा कथ­न­मु­पा­दा­न­व्य­ति­रे­केण कार्यमस्तीति ॥२३२॥

छान्दो­ग्य­श्रु­त्य­नु­सा­रेण कथितमर्थं गतिसामान्याय आथ­र्व­णि­क­श्रुत्या आह ब्रह्मै­वे­द­मि­त्या­दिना −

ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽ­थ­र्व­निष्ठा वरिष्ठा ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥

२३३

श्रौती सामान्यतः वैदिकीति । विशेषत आह − अथर्वनिष्ठेति । अथर्वनिष्ठा अथ­र्व­वे­द­घ­ट­की­भूता अथ­र्वा­ख्य­ब्र­ह्म­ज्ये­ष्ठ­पु­त्र­निष्ठा वा श्रौती वैदिकी अत्यन्तवरिष्ठा वाणी ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु.उ. २.१.१२) इति रूपा, इदं विश्वं सर्वं जगत् , ब्रह्मैव नाति­रि­क्त­मि­त्येव एवकारेण पृथक् सत्तां निषिध्य ब्रूते यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वम् । हि निश्चयः आरोपितस्य कल्पितस्य अधिष्ठानाद् भिन्नता न । एतेन अज्ञानादेरनादेः ब्रह्मो­पा­दा­न­क­त्वा­भा­वात् भिन्नत्वशङ्का परास्ता ॥२३३॥

एवं श्रुत्या प्रपञ्चसत्यत्वं निरस्य युक्त्यापि तदनुसारिण्या निरस्यति सत्यमिति −

सत्यं यदि स्याज्ज­ग­दे­त­दा­त्मनोऽ-
नन्त­त्व­हा­नि­र्नि­ग­मा­प्र­मा­णता ।
अस­त्य­वा­दि­त्व­म­पी­शितुः स्यात्
नैतत्त्रयं साधु हितं महात्मनाम् ॥२३४॥

२३४

एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यम् अकल्पितं स्यात् आत्म­नोऽ­न­न्त­त्व­हानिः अन्यो­न्या­भा­वा­प्र­ति­यो­गि­त्व­रू­प­व­स्तु­प­रि­च्छे­द­शू­न्यत्वं न स्यात् अकल्पितेन जगता वस्तुभूतेन परि­च्छि­द्य­मा­न­त्वात् । हीय­ता­म­न­न्त­त्व­मिति चेत् , निगमाप्रमाणता ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति वेदस्य बाधितार्थबोधकता स्यात् । इष्टापत्तिरिति चेत् ईशितुरपि परमाप्तस्य सर्वज्ञस्य परमेश्वरस्य असत्यवादित्वम् अय­था­र्थ­व­क्तृत्वं स्यात् । तदपि भवत्विति चेत् , महात्मनाम् आस्ति­का­ना­मि­त्यर्थः । महानात्मा येषां श्रुत्या­चा­र्यो­प­दे­शेन परि­च्छि­न्न­प­ञ्च­को­शा­त्म­बुद्धिं त्यक्त्वा कृत­ब्र­ह्म­सा­क्षा­त्का­र­तया अख­ण्डा­का­र­वृ­त्ति­म­द­न्तः­क­र­णानां वा तेषाम् । नैतत्त्रयं साधु हितं सौमनस्यकरं सम्मतमित्यर्थः । स्वानु­भ­व­वि­रो­धात् ॥२३४॥

प्रप­ञ्च­मि­थ्यात्वे भगवद्गीतां प्रमाणयति ईश्वर इति −

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥

२३५

अज्ञानाभावेन भ्रमा­दि­दो­ष­शून्यः वस्तु­या­था­त्म्य­ज्ञा­न­वा­नी­श्वरः −

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् (भ.गी. ९.४,५)

इत्ये­क­स्मि­न्वाक्ये मत्स्थानि सर्वभूतानि न च मत्स्थानीति प्रति­यो­ग्य­भा­वयोः एकत्र विरोधशङ्कायां पश्य मे योगमैश्वरम् इति ईश्वरस्य मम अघ­टि­त­घ­ट­नो­पा­य­रूपं योगं मायाम् इत्यर्थः । पश्येति मायि­क­त्व­मु­क्त­वान् । तदेव मिथ्यात्वम् , प्रतिपन्नोपाधौ अभा­व­प्र­ति­यो­गि­त्व­स्यैव मिथ्यात्वात् । मत्स्थानि न च मत्स्थानीति पदाभ्याम् अयमर्थः उक्तः । स्वाश्र­य­त्वे­ना­भि­म­त­या­व­न्नि­ष्ठा­भा­व­प्र­ति­यो­गित्वं स्वप्र­का­र­क­धी­वि­शे­ष्य­ता­व्या­प­का­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­प­र्य­व­सितं प्रतिपन्नोपाधौ इत्यादेरर्थः । तथा च मत्स्थानीत्यत्र ईश्वरः भूतानामाश्रय इति ज्ञातः । न च मत्स्थानीत्यनेन भूतानां तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­म­व­ग­म्यते । तथा च −

सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते । प्रति­यो­गि­त्व­म­त्य­न्ता­भावं प्रति मृषात्मता ॥ (त.प्र. १.७)

इति चित्सु­खा­चा­र्य­व­च­नेन पूर्वो­क्त­मि­थ्यात्वं जगति सिद्धम् । घटवत्तया भ्रम­वि­शे­ष्य­नि­ष्ठा­भा­व­प्र­ति­यो­गित्वं परमतेऽप्यस्तीति अर्थान्तरवारणाय स्वप्र­का­र­क­धी­वि­शे­ष्य­ता­व्या­प­केति । तथा च यत्रास्तीति प्रमा तत्रापि स्वरूपतः कल्पितत्वेन अभावात् यत्र यत्र स्वप्र­का­र­क­धी­वि­शे­ष्यता तत्र सर्वत्र घटा­दे­र्व­स्तु­तोऽ­भा­वात् तत्प्र­ति­यो­गित्वं सूपपादमिति बोध्यम् । ‘मया ततमिदं सर्वं जग­द­व्य­क्त­मू­र्तिना’(भ.गी. ९.४) इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तम् , न तु तदधिष्ठानकत्वं मम ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि, यदि वा न महिम्नि’(छा.उ. ७.२४.१) इति निराधारत्वस्य कथितत्वात् । अतः जग­द­धि­ष्ठा­न­क­त्व­भ्रमं निराकरोति ‘न चाहं तेष्ववस्थितः’(भ.गी. ९.४) इति । धूमेन व्याप्तं गृहमित्यादौ गृहाधिकरणकत्वं धूमे प्रतीयते तद्वदिदं ‘मया ततम्’(भ.गी. ९.४) इत्यादिना ज्ञेयमिति । तथा च नाधिष्ठानाद् भिन्न­ता­रो­पि­त­स्येति ब्रह्मा­धि­ष्ठा­नकं तत्रारोपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्येव व्यचीकथत् अवोचदित्यर्थः ॥२३५॥

जगन्मिथ्यात्वे युक्तिमाह यदीति −

यदि सत्यं भवेद्विश्वं सुषु­प्ता­वु­प­ल­भ्य­ताम् ।
यन्नोपलभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥२३६॥

२३६

सत्यस्य सदा भानमावश्यकं यथात्मनः । यदि विश्वं जगत् सत्यं भवेत् सुषु­प्त्य­व­स्था­याम् उपलभ्यताम् । यत् यस्मात् किञ्चिदपि नोपलभ्यते ‘न किञ्चिदवेदिषम्’ इति स्मृतेः । अतः स्वप्नवत् जागरे अनुपलभ्यमानः स्वप्नः यथा असन् तथा । असदित्यस्यार्थः मृषेति, न तु शश­वि­षा­ण­व­द­स­त्त्वम् । किन्तु दृष्ट­न­ष्ट­स्व­रू­प­त्वात् मिथ्या इति भावः ॥२३६॥

इदानीं ब्रह्म­व्य­ति­रे­केण जगतः अभावं निगमयति अत इति −

अतः पृथङ्नास्ति जगत्परात्मनः
पृथ­क्प्र­ती­तिस्तु मृषा गुणाहिवत् ।
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ॥२३७॥

२३७

अतः स्वप्नवत् सदा उपलम्भाभावात् , जगत् , परात्मनः ब्रह्मणः, पृथक् नास्ति व्यवाहारदशायां पृथक्घटादिरूपेण प्रतीतिः गुणाहिवत् । गुणः रज्जुः, अहिः सर्पः, रज्ज्वामारोपितः यथा मृषा तथा जगदपि मृषा तु मृषैवेत्यर्थः । अर्थ­क्रि­या­का­रि­त्वा­भा­वा­दपि मृषात्मत्वमाह − आरोपितस्येति । आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थ­क्रि­या­का­रि­त्व­मिति यावत् अस्ति किम् ? नास्त्येवेति भावः । तर्हि कुतः प्रतीतिरत आह अधीति, अधिष्ठानमाभाति तथा भ्रमेण, नहि भ्रमस्थले प्रयोजनगवेषणा विफलप्रवृत्तेः सिद्धत्वात् ॥२३७॥

दृष्टा­न्ता­न्त­रेण जगतः ब्रह्मा­व्य­ति­रेकं द्रढयति भ्रान्तस्येति −

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदन्तया ब्रह्म सदेव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३८॥

२३८

भ्रान्तस्य भ्रमतः यद्यत्प्रतीतं तत्तत् अधिष्ठानभूतं ब्रह्मैव हि यस्मात् शुक्त्यज्ञानात् शुक्तौ भातं रजतं शुक्तिरेव तथा ब्रह्म­ण्या­रो­पितं वस्तुतः विचार्यमाणे ब्रह्म सदेव इदन्तया रूप्यते तत्तु नाममात्रम् । ‘वाचा­र­म्भ­ण­श्रुतेः’(छा.उ. १.४) इत्यर्थः ॥२३८॥

प्रपञ्चस्य मिथ्यात्वेन तत्कारणत्वमपि तत्प­द­प्र­वृ­त्ति­नि­मित्तं तादृशमेवेति शोधितं तत्प­दा­र्थ­मु­प­सं­ह­रति अत इति चतुर्भिः −

अतः परं ब्रह्म सदद्वितीयं
विशु­द्ध­वि­ज्ञा­न­घ­न­न्नि­र­ञ्ज­नम् ।
प्रशा­न्त­मा­द्य­न्त­वि­ही­न­म­क्रियं
निर­न्त­रा­न­न्द­र­स­स्व­रू­पम् ॥२३९॥

२३९

अतः जगतः पृथ­क्स­त्ता­शू­न्य­त्वात् आरोपिततया नाममात्रत्वात् । परं ब्रह्म अबाध्यं विजातीयरहितं निर्वि­ष­य­वि­ज्ञा­न­श­री­रम् अज्ञा­ना­स्पृ­ष्टम् अपरिणामि जन्म­ना­श­र­हि­त­म­मू­र्त­म­ख­ण्डा­न­न्द­वि­ग्र­हम् ॥२३९॥

निर­स्त­मा­या­कृ­त­स­र्व­भेदं
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरू­प­म­व्य­क्त­म­ना­ख्य­म­व्य­यम्
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२४०॥

२४०

निरस्ताः मायाकृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजा­ती­य­स्व­ग­त­भे­द­शू­न्यम् आद्य­न्त­वि­ही­न­त्वा­न्नि­त्यम् अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयवम् अप्रमेयं ">°फल­व्या­प्ति­र­हि­तम् । अरूपम् ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क.उ. ३.१५) इति श्रुतेः ‘न चक्षुषा गृह्यते’(मु.उ १.३.८) इत्यादेश्च । अत एवाव्यक्तम् । वागगोचरतामाह अनाख्यमिति नामशून्यं प्रवृ­त्ति­नि­मि­त्तानां जाति­गु­ण­क्रि­या­स­म्ब­न्धा­ना­म­भा­वात् । अव्ययं नव्येति इत्यव्ययम् अपक्षयरहितम् । ज्योतिः स्वयं पराप्रकाश्यम् । किञ्चिदिदम् अपरोक्षं चकास्ति प्रकाशते ॥२४०॥

निश्चलतायाः तत्र बुद्धेः स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह −