अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२६. ब्रह्मस्वरूपम्

ज्ञातृ­ज्ञा­न­ज्ञे­य­शू­न्य­म­नन्तं निर्विकल्पकम् ।
केव­ला­ख­ण्ड­चि­न्मात्रं परं तत्त्वं विदुर्बुधाः ॥२४१॥

२४१

ज्ञातृ­ज्ञा­न­ज्ञे­य­शून्यं त्रिपुटीरहितम् । तत्रहेतुः अनन्तं परि­च्छे­द­त्र­य­शू­न्य­मिति । अत एव निर्विकल्पकम् । केव­ला­ख­ण्ड­चि­न्मात्रं सर्वो­पा­धि­स­म्ब­न्ध­वि­धु­रा­प­रि­च्छिन्न ज्ञानैकरूपं परं तत्त्वं बुधाः विदुः ।

अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्र­मे­य­म­ना­द्यन्तं ब्रह्म पूर्णं महन्महः ॥२४२॥

२४२

स्वात्मत्वेन अहेयमनुपादेयं मनोवाचामगोचारं ‘यतो वाचः’(तै.उ. २.४,.२.९) इति श्रुतेः अप्रमेयं श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सं­स्कृ­त­म­नो­वृ­त्ति­व्या­प्तम् अनाद्यन्तं काल­दे­श­प­रि­च्छे­द­शू­न्यम् अतः पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनम् ॥

पदार्थौ शोधयित्वा वाक्यार्थं वक्तुमारभते तत्त्व­मि­त्या­दिना −