विवेकचूडामणिः सव्याख्यः
२७. तत्त्वमसिमहावाक्यार्थः
तत्त्वम्पदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदित्थम् ।
श्रुत्या तयोस्तत्त्वमसीति सम्य −
गेकत्वमेव प्रतिपाद्यते मुहुः ॥२४३॥
‘तत्त्वमसि’(छा.उ. ६.८.७) इत्यत्र तत्पदेन त्वम्पदेन च जगत्कर्तृत्वादिविशिष्टत्वेन जाग्रदाद्यवस्थाविशिष्टत्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं पूर्वोक्तप्रकारेण शोधितयोः । ‘तत्त्वमसि’ इति श्रुत्या तयोः केवलचिन्मात्रयोः एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात् सम्यक्प्रतिपाद्यते, तदैक्यमिति उत्तरेण सम्बन्धः ॥२४३॥
ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः
निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥
किञ्चिज्ज्ञत्वसर्वज्ञत्वविषये दृष्टान्तः खद्योतभान्वोरिति अतिपरिच्छिन्नापरिच्छिन्नप्रकाशवत्त्वात् । नियम्यनियामकभावविषये राजभृत्ययोरिति दृष्टान्तः ‘भीषास्माद्’(तै.उ. २.८) इत्यादिश्रुतेः । आनन्दलेशापारानन्दविषये कूपाम्बुराश्योरिति । एकदेशगतत्वसर्वगतत्वविषये परमाणुमेर्वोरिति । एवम् अन्योन्यविरुद्धौ ऐक्यायोग्यौ यौ धर्मिणौ तयोः अन्योन्यविरुद्धधर्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते बाधितत्वात् । किन्तु लक्षितयोःलक्षणावृत्त्या बोधितयोः निगद्यते उपक्रमादिलिङ्गावगततात्पर्यानुसारेण कथ्यत इत्यर्थः ॥२४४॥
अन्योन्यविरोधे कारणमाह तयोरिति −
तयोर्विरोधोऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्च कोशाः ॥२४५॥
तयोर्वाच्ययोः अयं विरोधः ऐक्यायोग्यत्वरूपः उपाधिना कल्पितः । न वास्तवः स्वाभाविकः कश्चित् । क उपाधिरिति चेदाह उपाधिरेष इति । तत्र तत्पदार्थस्य उपाधिमाह ईशस्य माया । तत्स्वरूपमाह महदादिकारणं महत्तत्त्वाहङ्कारपञ्चतन्मात्रादिसकलजगत्कारणं माया ईश्वरस्य उपाधिः । जीवस्य त्वम्पदार्थस्य कार्यमुपाधिः । किं तदिति चेत् शृणु पञ्च कोशाः । ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’(शुकरहस्य ३.१२) इति श्रुतेः ॥२४५॥
एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः ।
राज्यं नरेन्द्रस्य भटस्य खेटकः
तयोरपोहे न भटो न राजा ॥२४६॥
जीवपरयोः एतावुपाधी माया पञ्चकोशाश्च । ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो नहि सज्जते’(बृ.उ. ३.९.२६) इत्यादिश्रुतिभिः तत्त्वम्पदार्थशोधिकाभिः तयोरुपाध्योः सम्यङ्निरासे, न परो न जीवः केवलचिन्मात्ररूपत्वात् भेदकाभावात् । तत्र दृष्टान्तमाह − नरेन्द्रस्य राज्यमुपाधिः । खेटकः आयुधविशेषः भटस्य उपाधिः भेदकधर्मः । तयोरपोहे अभावे, न भटो न राजा । स्पष्टम् ॥२४६॥
उपाधिनिरासः कथं करणीय इति चेदाह अथेति −
अथात आदेश इति श्रुतिस्स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुतिप्रमाणानुगृहीतयुक्त्या
तयोर्निरासः करणीय इत्थम् ॥२४७॥
‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६, ३.९.२६) इति श्रुतिः स्वयं ब्रह्मणि कल्पितं द्वयं द्वैतं वस्तु निषेधति । इतिशब्दस्य इदमित्यर्थः । वीप्सा सकलदृश्यवर्गनिषेधार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधिष्ठानव्यतिरेकेण नास्ति स्वतःसत्तास्फूर्तिशून्यम् । एवं श्रुत्यैव साक्षान्निषिध्यमानत्वात् सकलप्रमाणमूर्धन्यश्रुत्यनुगृहीतयुक्त्या तयोः मायाकोशपञ्चकरूपोपाध्योः । इत्थं वक्ष्यमाणरीत्या निरासःकरणीयः ॥२४७॥
नेदं नेदं कल्पितत्वान्न सत्यं
रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
नेदमिति । प्रथमेदं शब्देन ईशोपाधिर्माया, द्वितीयेदम्पदेन कोशपञ्चकं जीवोपाधिः ग्राह्यः प्रत्येकं निषेद्धुं नञ्द्वययोगः । कारणं वा माया, कार्यं वा कोशपञ्चकं कल्पितत्वात् न सत्यं ‘भूयश्चान्ते विश्व मायानिवृत्तिः’(श्वे.उ. १.३) इति मायानाशश्रवणात् । कोशपञ्चकस्य दृष्टनष्टस्वरूपत्वमुपपादितमेव अवस्थात्रयेऽनुवृत्त्यभावात् । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’(७.१४) इति गीता वचनाच्च । ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्’(श्वे.उ. १.३) इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं मायारूपोपाधिः न वस्तुतोऽस्ति, सत्त्वे निवृत्त्ययोगात् ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतावचनात् । एवं कोशपञ्चकमपि निपुणं विचारयतो नैवास्ति धीमता शिष्येण ‘सर्वाभावं विना किञ्चिन्न पश्यामि’(श्लो. २१४) इत्युक्तत्वात् । अतः पूर्वोक्तोपाधिद्वयमपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् । इत्थं दृश्यं साधुयुक्त्या श्रुत्यनुसारिण्या युक्त्या साधु व्यपोह्य निरस्य पश्चात् तयोःअनुपहितयोः केवलयोःचिन्मात्रयोः यः एकभावः भेदाभावः सः ज्ञेयः ॥२४८॥
ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोरखण्डैकरसत्वसिद्धये ।
नालं जहत्या न तथाऽजहत्या
किन्तूभयार्थैकतयैव भाव्यम् ॥२४९॥
तत इति । ततः यतः दृश्यव्यपोहानन्तरं शब्दादेव तयोः एकत्वं ज्ञेयं ततः तस्मात्कारणात् तौ शुद्धौ, लक्षणया शक्यसम्बन्धो लक्षणा तया अर्थस्मृत्यनुकूलपदपदार्थसम्बन्धरूपया वृत्त्या सुलक्ष्यौ सम्यगुपस्थापनीयौ । अत्र स्वात्मनिरूपणे,
मानान्तरोपरोधात् मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे या वृत्तिस्सैव लक्षणा प्रोक्ता ॥ (श्लो. ३२) इत्युक्तम् ।
प्रमाणान्तरविरोधवशात् मुख्यार्थस्य वाच्यार्थस्य अपरिग्रहे जाते वाच्यार्थविषयकान्वयबोधानुपपत्तौ सत्यामिति यावत् मुख्याविनाकृते वाच्यसम्बद्धेऽर्थे या वृत्तिः सा लक्षणा इत्यर्थः । प्रकृते विशिष्टयोरैक्यं बाधितमिति तत्त्वम्पदाभ्यां शुद्धौ आत्मानौ लक्षणीयौ तत्र विशिष्टतादात्म्यसम्बन्धस्य सत्त्वात् लक्षणा शक्यसम्बन्धरूपा निर्वहति । तदपि तत्र स्पष्टमुक्तम् −
देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।
कर्तृत्वाद्यभिमानी बोधस्स्यात् त्वम्पदस्य वाच्योर्थः ॥
देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।
प्रतिभाति योऽवबोधःप्रोक्तोऽसौ त्वम्पदस्य लक्ष्योऽर्थः ॥
वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।
सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।
अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ (स्वा.नि. २७-२८) इति ।
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
इतरेतरं विरुद्धं ततइह भवितव्यमेव लक्षणया ॥ (स्वा.नि. ३१) इति च ।
त्वम्पदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वम् अहमिति प्रतित्यभावात् , एवमीश्वरस्य परिपूर्णत्वं जीवस्य सद्वितीयत्वम् अल्पत्वमिति यावत् । इतरेतरं विरुद्धम् , कथं तयोरैक्यान्वयः इति मानान्तरोपरोधे प्राप्ते उपक्रमादिलिङ्गावधृततात्पर्यानुपत्त्या शुद्धौ लक्षणया बोधनीयौ । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । प्रकृते तु तृतीया ग्राह्या इत्याह । तयोरखण्डैकरसत्वसिद्धये संसर्गाविषयकप्रमाविषयत्वसिद्धये इत्यर्थः । उक्तं हि वाक्यवृत्तौ −
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ (३८) इति ।
तत्र जहल्लक्षणा नाम स्वात्मनिरूपणे लक्षिता −
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे । जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥ (३३)
इति । वाच्यार्थाविषयणी लक्ष्यार्थविषयणी या उपस्थितिः तादृशोपस्थितिजनिका शक्यसम्बन्धरूपा या वृत्तिः पदपदार्थसम्बन्धः सा जहल्लक्षणा । यथा ‘गङ्गायां घोष’ इत्यत्र घोषपदवाच्याभीरपल्ल्याः गङ्गापदवाच्यप्रवाहवृत्तित्वं न सम्भवतीति गङ्गापदस्य प्रवाहसंयुक्ततीरबोधकत्वम् । तत्रापि यदि गङ्गातीरे घोष इति बोधोऽभिप्रेतः तदा अजहल्लक्षणैव । तीरे घोष इति चेत् , बोधे तज्जनकोपस्थितौ च वाच्यार्थस्याप्रवेशात् जहल्लक्षणा । प्रकृते नालं जहत्या इत्युक्तं वाच्यैकदेशस्य विशेष्यस्य सङ्ग्रहात् ‘निखिलमपि वाच्यमर्थं त्यक्त्वा’ इत्युक्तलक्षणाभावात् । एवं न तथा अजहत्या अखण्डैकरसत्वसिद्धये अजहत्या लक्षणयापि नालं न पर्याप्तम् । तथा हि − अजहल्लक्षणा नाम वाच्यार्थविषयणी लक्ष्यार्थविषयणी च या उपस्थितिः तज्जनकशक्यसम्बन्धरूपा वृत्तिः । तदुक्तम् −
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ (स्वा.नि. ३४) इति ।
शोणशब्दस्य वाच्यस्य रक्तगुणस्य धावनकर्तृत्वान्वयासम्भवात् तद्गुणविशिष्टे अश्वे लक्षणा । तत्र शोणगुणविशिष्टाश्वविषयकोपस्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात् इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति । प्रकृते विशेषणांशस्य वाच्यार्थस्य परित्यज्यमानत्वात् नाजहल्लक्षणा किन्तु उभयार्थैकतयैव भाव्यम् उभयोरर्थयोः एकता यया लक्षणया तया जहदजहल्लक्षणया भाव्यं तयोरखण्डैकरसत्वसिद्धये । तल्लक्षणमुक्तम् −
जहदजहतीति सा स्यात् या वाच्यार्थैकदेशमपहाय । बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् । द्विजमात्रलक्षकत्वात् कथयत्यैक्यं पदार्थयोरुभयोः ॥
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ (स्वा.नि. ३५-३८) इति ।
तथा च किञ्चिद्वाच्यार्थाविषयणी किञ्चिद्वाच्यार्थविषयणी च या उपस्थितिःतादृशोपस्थितिजनकशक्यसम्बन्धरूपा वृत्तिः जहदजहल्लक्षणा । प्रकृते तया लक्षणया तत्त्वम्पदार्थयोःसंसर्गाविषयकयथार्थज्ञानविषयत्वसिद्धये भाव्यम् ॥२४९॥
तद्दृष्टान्तपुरस्सरमाह स इति −
स देवदत्तोऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये
विरुद्धधर्मानुभयत्र हित्वा ॥२५०॥
संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोरैक्यमखण्डभावः ॥२५१॥
सोऽयं देवदत्त इतीह तच्छब्दस्य तद्देशतत्कालवृत्तित्वविशिष्टोऽर्थः । अयमिति इदम्पदस्य एतद्देशैतत्कालवृतित्त्वविशिष्टः अर्थः । तत्र विशेषणयोः अत्यन्तभिन्नत्वात् विशिष्टैक्यमनुपपन्नम् । कालान्तरे देशान्तरे स्थितः देवदत्तः इदानीमत्रागतः इत्यप्यर्थस्य ज्ञातत्वात् व्यक्तिमात्रविषयकबोधतात्पर्येणोच्चरितादस्माद् वाक्यात् स्वघटकतदिदम्पदाभ्यामुभयत्र विरुद्धांशं तद्देशतत्कालैतद्देशैतत्कालरूपम् , अपास्य हित्वा देवदत्तरूपविशेष्यांशमात्रमुपस्थाप्यते । तत्र भेदो नास्तीति एकता यथा कथ्यते तथा तत्त्वमसि वाक्ये कारणोपाधिकार्योपाधिप्रत्यक्त्वपरोक्षत्वपरिपूर्णत्वसद्वितीयत्वादिरूपान् विरुद्धधर्मान् उभयत्र हित्वा चिन्मात्रतया ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तुपरिच्छेदशून्यत्वं बुधैः विद्वद्भिः परिचीयते अनुभूयत इत्यर्थः । एकत्र ऐक्यबोधप्रकारमुपदिश्य अन्यत्रातिदिशति, एवं महावाक्यशतेन ब्रह्मात्मनोरैक्यं तदर्थः अखण्डभावः कथ्यत इति ॥२५१॥
विधिमुखेन जीवब्रह्मैक्यबोधकं वाक्यमुदाहृत्य निषेधमुखेन तद्वोधकं वाक्यमुदाहरति अस्थूलमिति −
अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमात्मानमखण्डबोधम् ॥२५२॥
‘अस्थूलमनण्वह्रस्वमदीर्धम्’(बृ.उ. ३.८.८) इत्यादिवाक्यानि स्थूलशरीरादितादात्म्याभिमानेन तथा स्वात्मानं जानानं जीवं तद्रूपत्वं परिहाप्य ब्रह्मस्वरूपं बोधयन्ति । तदाह − एतत् दृश्यमानम् असत् स्थूलं शरीरादि, अस्थूलमिति निरस्य निषिध्य, सकलनिषेधसाक्षित्वेन स्वतः सिद्धम् , व्योमवत् आकाशवदप्रतर्क्यम् नह्याकाशस्य आयामः एतावानिति तर्कयितुं शक्यते, तथा शास्त्रमन्तरेण तर्कानधिगम्यमित्यर्थः । तादृशं ब्रह्म अहमित्येव विशुद्धबुद्ध्या मनननिदिध्यासनसंस्कृतबुद्ध्या, स्वम् आत्मानम् अखण्डबोधं विद्धि । अतः यत् स्वात्मतया गृहीतं स्थूलशरीरादिकम् इदं प्रतीतमज्ञानात् ज्ञातं मृषामात्रं मिथ्याभूतं, जहीहि परित्यज, इत्यन्वयः ॥२५२॥
छान्दोग्यषष्ठाध्याये श्वेतकेतुं प्रति उद्दालकेन कृतमुपदेशं शिष्यसुखबोधाय सङ्गृह्योपदिशति मृत्कार्यमिति −
मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभितः
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥
मृत्कार्यं मृदुपादानकं, घटादि घटशरावोदञ्चनादि सकलं, सततं कालत्रयेऽपि उत्पत्तेः प्राक् उत्पत्त्यनन्तरं नाशानन्तरं च, अभितःसर्वशः प्रागूर्ध्वं पश्चादधः पार्श्वयोः, मृन्मात्रमेव मृद्व्यतिरेकेण नास्ति । विस्तरेणेदमुपपादितमधस्तात् ‘मृत्कार्यभूत’(श्लो. २३०) इत्यादि श्लोकाभ्यां तद्वत् । ‘सदेव सोम्येदमग्र आसीत्’, ‘एकमेवाद्वितीयं’(छा.उ. ६.२.१) , ‘तदैक्षत, तत्तेजोऽसृजत, तदपोऽसृजत, तदन्नमसृजत’(छा.उ. ६.२.३...) इत्यादिना ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.उ. ६.८.४., ६) इत्यन्तं श्रुत्या बोधितप्रकारेण सज्जनितं घटः सन् पटः सन् इति सामानाधिकरण्यविषयकप्रतीत्या च सदात्मकमिदमखिलं सन्मात्रमेव । यस्मात् सतः परब्रह्मणःपरं भिन्नं किमपि नास्ति तत् सर्वोपादानभूतं, सत्यं कालत्रयाबाध्यं, सः आत्मा तव मुख्यं स्वरूपं स्वयं सत्तास्फूर्त्योः परनिरपेक्षं, तस्माद्धेतोः अद्वयं स्वसत्ताव्यतिरिक्तसत्ताकपदार्थशून्यं, प्रशान्तं निर्विकारम् , अमलम् अज्ञानाद्यस्पृष्टं, यत्परं ब्रह्म तदेव त्वमसि इत्यर्थः ॥२५३॥
निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते’(बृ.उ. ४.३.१०) इति श्रुत्या निद्रावशात् कल्पितः देशश्च कालश्च विषयाश्च ज्ञाता च देशकालविषयज्ञातारः ते आदयः यस्य सर्वस्य स्वप्ने भासमानवस्तुजातस्य शरीरकरणादेः तत्सर्वं प्रबोधे अप्रतीयमानत्वात् निद्रारूपदोषजन्यत्वात् दृष्टनष्टस्वरूपत्वाच्च यथा मिथ्या बाध्यं, तद्वदिह जाग्रत्यपि जगत् मिथ्या । तत्र हेतुः स्वाज्ञानकार्यत्वतः, स्वस्य अज्ञानं स्वाज्ञानं निष्प्रपञ्चस्वरूपावरकं मूलाज्ञानं तत्कार्यत्वात् । उक्तं हि − ‘यदबोधादिदं भाति यद्बोधाद्विनिवर्तते’ इति । ‘यत्र त्वस्य सर्वात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः ।
यदज्ञानप्रभावेन दृश्यते सकलं जगत् । यज्ज्ञानाल्लयमाप्नोति तस्मै ज्ञानात्मने नमः ॥
इति ‘ज्ञाते द्वैतं न विद्यते’(आगम. १८) इति माण्डूक्यकारिकायाश्च । यस्मादेवं जगत् मिथ्या, इदं शरीरकरणप्राणाहमाद्यपि त्वया पूर्वमात्मत्वेनाभिमतं शरीरेन्द्रियप्राणाहङ्कारादिकमपि असत् बाध्यं मिथ्याभूतम् । तस्मात् प्रशान्तममलम् अद्वयं यत्परं ब्रह्म तदेवासित्वम् इति पूर्ववत् ॥२५४॥
शब्दानुविद्धतया ब्रह्मानुसन्धानधारायै दशभिः श्लोकैः ब्रह्मतत्त्वं स्फुटयन् जीवब्रह्मैक्यमाविष्करोति जातिनीतीति −
जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥
ब्राह्मण्यादिजातेः, औचित्येन स्थितिरूपनीतेः, कुलस्य वंशस्य, गोत्रस्य च स्थूलसूक्ष्मशरीराश्रितत्वात् तेभ्यः दूरं गच्छतीति जातिनीति कुलगोत्रदूरगं ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’(१.६) इति मुण्डकश्रुतेः । ‘नामरूपगुणदोषवर्जितम् आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’(छा.उ. ८.१४.१) ‘केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः चकारान्निर्दोषश्च । देशकालविषयान् अतीत्य वर्तत इति देशकालविषयातिवर्ति आनन्त्यश्रुतेः परिच्छेदत्रयशून्यमित्यर्थः । ईदृशं यद् ब्रह्म तत्त्वमसि आत्मनि बुद्धौ ऐक्येन भावय अनुसन्धेहि ॥२५५॥
यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥
यदिति । यत्परं सर्वोत्कृष्टम् , सकलवागगोचरं ‘यतो वाचो निवर्तन्ते’(तै.उ. २.४.१) इति श्रुतेः उपनिषद्भिरपि लक्षणावृत्त्या प्रतिपाद्यमानत्वात् । विमलबोधरूपं यच्चक्षुः तस्य गोचरं ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेः । शुद्धा निर्विषया या चित् सैव घनः मूर्तिः यस्य, यद्वा शुद्धं च तत् चिद्घनं निरुपहितज्ञानस्वरूपम् , अनादि वस्तु नित्यं यथार्थं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥
षड्भिरूर्मिभिरयोगि योगिहृद्
भावितं न करणैर्विभावितम् ।
बुद्ध्यवेद्यमनवद्यभूति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥
षड्भिरिति । क्षुत्पिपासे शोकमोहौ जराम्रुत्यू ऊर्मिवत् तरङ्गवत् उपर्युपरि सम्भवन्तीति एते षडूर्मय इति कथ्यन्ते । तैः षड्भिः ऊर्मिभिः अयोगि योगरहितं सम्बन्धशून्यम् , क्रमेण प्राणमनःशरीराश्रितत्वात् तेषाम् । योगिहृद्भावितं विषयेभ्यो निरुद्धचित्ताः योगिनः तेषां हृदा मनसा भावितम् आदरेण ध्यातमित्यर्थः । न करणैर्विभावितं ‘न चक्षुषा गृह्यते नापि वाचा’(मु.उ ३.१.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति’(के.उ. १.३) इत्यादिश्रुतिभ्यः । शब्दस्पर्शरूपादिरहितत्वात् बुद्ध्यवेद्यं सौक्ष्म्याग्र्यत्व हीनबुद्ध्या वेत्तुमशक्यम् , अनवद्यभूति अनवद्या भूतिः महिमा यस्य निर्दोषैश्वर्यमित्यर्थः । ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१३४) इति सूत्रात् । ‘निरवद्यम्’(श्वे.उ. ६.१९) इति श्रुतेश्च । तादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥
भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरुपमानमृद्धिमत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
‘पादोऽस्य सर्वा भूतानि’(छा.उ. ३.१२.५) इति श्रुतेः भ्रान्त्या कल्पिता या जगद्रूपा कला अंशः तदाश्रयम् अधिष्ठानं, ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’(बृ.उ. ३.९) इति श्रुतेः स्वमाश्रयः यस्य अनाधारं सत्यमित्यर्थः । सदसद्विलक्षणं प्रत्यक्षपरोक्षपञ्चभूतविलक्षणं, निष्कलं निरवयवं, निरुपमानम् असदृशं ‘न तत्समश्चाभ्यधिकश्च दृश्यते’(श्वे.उ. ६.८) इति श्रुतेः । ऋद्धिमत् ‘एष सर्वेश्वरः’(बृ.उ. ४.४.२१) इत्यादिश्रुतेः । ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ. ८.१.५) इत्यादिश्रुतेश्च । एतादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥
जन्मवृद्धिपरिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् ।
विश्वसृष्ट्यवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥
जन्म उत्पत्तिः । तदनन्तरकालिकस्थितेरुपलक्षणम् । वृद्धिः अवयवोपचयः । परिणतिः विपरिणामः पाकादिना रूपान्तरोत्पत्तिः आम्रादिफलादिषु । अपक्षयः अवयवापचयः । व्याधिः रोगः । नाशनमन्त्यविकारः तैर्विहीनं षड्भावविकारशून्यमित्यर्थः । अत एव अव्ययं न व्येतीत्यव्ययं स्वतो वा परतो वा नाशरहितं नित्यम् । विश्वसृष्ट्यवनघातकारणं ‘यतो वा इमानि भूतानि जायन्ते ।’ ‘येन जातानि जीवन्ति ।’ ‘यत्प्रयन्त्यभिसंविशन्ति’(तै.उ. ३.१) ‘इदं सर्वमसृजत’(तै.उ. २.६, छां.उ. १.२.५) ‘आकाशः परायणम् आकाशं प्रत्यस्तं यन्ति’(छा.उ. १.९.१) इत्यादिश्रुतिभ्यः सकलप्रपञ्चसृष्टिस्थितिसंहारकारणं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥
अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥
अस्तभेदम् अस्तः गतः भेदः यस्मात् ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.१) ‘इदं सर्वं यदयमात्मा’(बृ.उ. २.४.६, ४.५.७) इति श्रुतेः, अनपास्तलक्षणम् अनपास्तमत्यक्तम् अनपायि सार्वदिकमित्यर्थः, लक्षणं सच्चिदानन्दस्वरूपं यस्य तत् , निर्गताः तरङ्गाः यस्मात् स चासौ जलराशिश्च समुद्रः तद्वन्निश्चलं, नित्यमुक्तं कदापि बन्धरहितम् , अविभक्तमूर्ति सच्चिदानन्दस्वरूपत्वेऽपि तत्पदलक्ष्याखण्डस्वरूपभेदाभावात् अविभक्ता भेदरहिता मूर्तिः स्वरूपं शरीरं यस्य तत् अविभक्तमूर्ति निरवयवमिति वा यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥
एकमेव सदनेककारणं कारणान्तरनिरासकारणम् ।
कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥
एकमेव सत् कल्पितानामनेकेषाम् अधिष्ठानत्वेन कारणम् , कारणान्तरनिरासकारणं ‘परास्य शक्तिर्विविधैव श्रूयते’(श्वे.उ. ६.८) इति श्रुतेः, स्वभिन्नकारणनिरपेक्षमित्यर्थः । सकलदृश्यनिषेधसाक्षित्वेन कारणान्तरस्य आकाशादेः निरासे नेति नेतीति निषेधे कारणमिति वा, कार्यकारणविलक्षणं ‘तदेतद् ब्रह्मापूर्वमनपरम्’(बृ.उ. २.५.१९) इति श्रुतेः कार्यं जगत् , कारणं माया, तद्विलक्षणम् । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’(१५.१७) इति गीतोक्तेश्च । यद्यप्येककारणम् , इति अस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्याकार्यनिरूपितत्वेन मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यं जगज्जन्मादिकारणत्वस्य तटस्थलक्षणत्वात् । यावल्लक्ष्यकालमनवस्थितं यद्व्यावर्तकं तदेव तटस्थलक्षणम् । स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि ॥२६१॥
निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥
निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यम् , अनल्पं ‘यो वै भूमा’(छा.उ. ७.२३.१, २४.२) ‘ज्यायानाकाशात्’(छा.उ. ३.१.४.३) इत्यादिश्रुतेः । अक्षरं न क्षरति अश्नुते व्याप्नोतीति वा अक्षरम् । यत्क्षराक्षरविलक्षणम् ,
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ (भ.गी. १५.१६)
इति स्मृतेः । पूर्वं कार्यकारणविलक्षणमित्युक्तं विवृतं पदान्तरेण, जगन्मायाविलक्षणं सत्यमित्यर्थः । अत एव परं सर्वोत्कृष्टं, नित्यम् अक्षरत्वान्नित्यं ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इति श्रुतेः । परं नित्यमिति वा अन्वयः । अव्ययसुखं ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’(छा.उ. ७.२४.१) इति श्रुतेः अखण्डसुखरूपं, निरञ्जनं तमश्शून्यं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥
यद्विभाति सदनेकधा भ्रमान्नामरूपगुणविक्रियात्मना ।
हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥
यथा एकं हेम सुवर्णं कटककुण्डलाद्यनेकात्मना विभाति स्वयमेकरूपं कारकव्यापारमात्रेण एवं यत् सद् ब्रह्मस्वयं सदा अविक्रियं, भ्रमात् नामरूपगुणविक्रियात्मना अनेकधा विभाति तद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥
यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४॥
‘तदेतद् ब्रह्मापूर्वमनपरम्’(बृ.उ. २.५.१९) इति श्रुतेः अनपरं न विद्यते परं कार्यं यस्य वस्तुभूतकार्यशून्यं, परात् हिरण्यगर्भादपि परं, यद्वा सर्वकार्यकारणात् अज्ञानात् परम् ‘अक्षरात्परतः परः’(मु.उ २.१.२) इति श्रुतेः ‘स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते’(प्रश्नो. ५.५) इति श्रुतेः, परशब्देन हिरण्यगर्भोऽपि ग्रहीतुं शक्यते । प्रत्यगेकरसं जीवाभिन्नं सर्वान्तरम् −
]यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । * यच्चास्य सन्ततो भावः तस्मादात्मा प्रकीर्तितः ॥
इत्युक्तात्मलक्षणोपेतं सत्यचित्सुखमनन्तमपरिच्छिन्नम् , अव्ययं नित्यं, ब्रह्म भावयात्मनि ॥२६४॥
उक्तमर्थमिममात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया ।
संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६५॥
उक्तमिति । इमम् ऐक्यरूपम् उक्तमर्थं प्रथितयुक्तिभिः युक्तिषु प्रथितत्वं श्रुत्यनुसारित्वम् । धिया निर्मलान्तःकरणेन आत्मनि बुद्धौ स्वयं भावय । तेन भावनेन कराम्बुवत् हस्तगतजलं यथा निस्संशयं स्पष्टं गृह्यते एवं तत्त्वनिगमः तत्त्वनिर्णयः, संशयादिरहितं यथा तथा भविष्यति । रहितपदस्य राहित्यमर्थः । संशयादीति विपर्ययः आदिपदेन गृह्यते असम्भावना च । असम्भावनासंशयविपर्ययभावनानां राहित्यं यस्मिन् कर्मणि तद्यथा भवति तथा इति भविष्यतीत्यत्र भवनक्रिया विशेषणम् ॥२६५॥
स्वं बोधमात्रं परिशुद्धतत्वं विज्ञाय सङ्घे नृपवच्च सैन्ये ।
तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥२६६॥
स्वमिति । सैन्ये बहुयोधघटिते सैन्ये छत्रादिचिन्ह्नेन नृपमिव सङ्घे शरीरेन्द्रियप्राणाहङ्काररूपकार्यकरणसङ्घाते, परिशुद्धतत्त्वं परिशुद्धं तत्त्वं याथात्म्यं यस्य सः परिशुद्धतत्त्वः तं स्वम् आत्मानं बोधमात्रं सर्वावभासकज्ञानमात्रं दृश्यसन्बन्धरहितं विज्ञाय विवेकेनानुभूय, तदात्मनैव ज्ञानात्मनैव सर्वदात्मनि स्थितः स्वरूपनिष्ठः, ब्रह्मणि दृश्यजातं विलापय −
पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ (ब्रह्म.चिन्त. १२)
इति रीत्या तत्तुदुपादेयानां स्वोपादानव्यतिरेकेण असद्भावं विनिश्चित्य सर्वस्य सर्वोपादानभूतब्रह्मव्यतिरेकेणाभावं निश्चिनुहि इत्यर्थः ॥२६६॥
बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६७॥
सदसद्विलक्षणं सत्यम् अद्वितीयं परं ब्रह्म गुहायां बुद्धौ अस्ति ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’(बृ.उ. ४.३.७) इति श्रुतेः ‘स वा एष आत्मा हृदि’(छा.उ. ८.३.३) इति च, ‘प्रतिबोधविदितं’(के.उ. २.४) ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः बुद्धिं विना वेत्तुमशक्यत्वात् दर्पणमिव मुखस्य बुद्धिवृत्तिरेव आवरणं भङ्क्त्वा ब्रह्म गृह्णातीति सर्वगतमपि बुद्धावस्तीति कथ्यते, सुषुप्तौ बुद्ध्यभावेन दुर्ग्रहत्वात् । सामीप्यसप्तमी पाषाणे वृक्ष इतिवत् स्वरूपस्य । यद्यपि पञ्चापि कोशाः गुहापदेन कथ्यन्ते तथापि तत्र मनोमयादीनां बुद्धिद्वारकसम्बन्धात् आनन्दमयकोशे बुद्धिं विना विवेक्तुमशक्यत्वात् प्राधान्येन सत्वप्रधानबुद्धावेव स्थितिरित्युक्तमिति बोध्यम् । तदात्मना ब्रह्मात्मना यः पुरुषः अत्र गुहायां स्थुलसूक्ष्मदेहात्मकगुहायां, वसेत् पुनः तस्य अङ्गगुहाप्रवेशः अङ्गमेव गुहा, अङ्गेति शिष्यसम्बोधनं वा, अत्र प्रवेशः तादात्म्याभिमानः न विद्यते । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः ।
आत्मानं चेद्विजानीयात् अयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४.१२)
इति च ॥२६७॥
एतावता ग्रन्थेन ‘आत्मानात्मविवेचनं स्वनुभवः’ इत्येतत्प्रदर्शितं ग्रन्थद्वितीयश्लोकोक्तम् , ब्रह्मात्मना संस्थितिर्मुक्तिरितीममर्थं सूत्रितं विशदयितुम् उपक्रमते ज्ञात इति −