अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२७. तत्त्वमसिमहावाक्यार्थः

तत्त्व­म्प­दा­भ्या­म­भि­धी­य­मा­नयोः
ब्रह्मात्मनोः शोधि­त­यो­र्य­दि­त्थम् ।
श्रुत्या तयो­स्त­त्त्व­म­सीति सम्य −
गेकत्वमेव प्रतिपाद्यते मुहुः ॥२४३॥

२४३

‘तत्त्वमसि’(छा.उ. ६.८.७) इत्यत्र तत्पदेन त्वम्पदेन च जग­त्क­र्तृ­त्वा­दि­वि­शि­ष्ट­त्वेन जाग्र­दा­द्य­व­स्था­वि­शि­ष्ट­त्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं पूर्वो­क्त­प्र­का­रेण शोधितयोः । ‘तत्त्वमसि’ इति श्रुत्या तयोः केव­ल­चि­न्मा­त्रयोः एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात् सम्य­क्प्र­ति­पा­द्यते, तदैक्यमिति उत्तरेण सम्बन्धः ॥२४३॥

ऐक्यं तयो­र्ल­क्षि­त­योर्न वाच्ययोः
निग­द्य­तेऽ­न्यो­न्य­वि­रु­द्ध­ध­र्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥

२४४

किञ्चि­ज्ज्ञ­त्व­स­र्व­ज्ञ­त्व­वि­षये दृष्टान्तः खद्यो­त­भा­न्वो­रिति अति­प­रि­च्छि­न्ना­प­रि­च्छि­न्न­प्र­का­श­व­त्त्वात् । निय­म्य­नि­या­म­क­भा­व­वि­षये राजभृत्ययोरिति दृष्टान्तः ‘भीषास्माद्’(तै.उ. २.८) इत्यादिश्रुतेः । आन­न्द­ले­शा­पा­रा­न­न्द­वि­षये कूपा­म्बु­रा­श्यो­रिति । एक­दे­श­ग­त­त्व­स­र्व­ग­त­त्व­वि­षये पर­मा­णु­मे­र्वो­रिति । एवम् अन्यो­न्य­वि­रुद्धौ ऐक्यायोग्यौ यौ धर्मिणौ तयोः अन्यो­न्य­वि­रु­द्ध­ध­र्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते बाधितत्वात् । किन्तु लक्षि­त­योः­ल­क्ष­णा­वृत्त्या बोधितयोः निगद्यते उप­क्र­मा­दि­लि­ङ्गा­व­ग­त­ता­त्प­र्या­नु­सा­रेण कथ्यत इत्यर्थः ॥२४४॥

अन्योन्यविरोधे कारणमाह तयोरिति −

तयो­र्वि­रो­धोऽ­य­मु­पा­धि­क­ल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्च कोशाः ॥२४५॥

२४५

तयोर्वाच्ययोः अयं विरोधः ऐक्या­यो­ग्य­त्व­रूपः उपाधिना कल्पितः । न वास्तवः स्वाभाविकः कश्चित् । क उपाधिरिति चेदाह उपाधिरेष इति । तत्र तत्पदार्थस्य उपाधिमाह ईशस्य माया । तत्स्वरूपमाह महदादिकारणं मह­त्त­त्त्वा­ह­ङ्का­र­प­ञ्च­त­न्मा­त्रा­दि­स­क­ल­ज­ग­त्का­रणं माया ईश्वरस्य उपाधिः । जीवस्य त्वम्पदार्थस्य कार्यमुपाधिः । किं तदिति चेत् शृणु पञ्च कोशाः । ‘कार्योपाधिरयं जीवः कार­णो­पा­धि­री­श्वरः’(शुकरहस्य ३.१२) इति श्रुतेः ॥२४५॥

एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः ।
राज्यं नरेन्द्रस्य भटस्य खेटकः
तयोरपोहे न भटो न राजा ॥२४६॥

२४६

जीवपरयोः एतावुपाधी माया पञ्चकोशाश्च । ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो नहि सज्जते’(बृ.उ. ३.९.२६) इत्या­दि­श्रु­तिभिः तत्त्व­म्प­दा­र्थ­शो­धि­काभिः तयोरुपाध्योः सम्यङ्निरासे, न परो न जीवः केव­ल­चि­न्मा­त्र­रू­प­त्वात् भेदकाभावात् । तत्र दृष्टान्तमाह − नरेन्द्रस्य राज्यमुपाधिः । खेटकः आयुधविशेषः भटस्य उपाधिः भेदकधर्मः । तयोरपोहे अभावे, न भटो न राजा । स्पष्टम् ॥२४६॥

उपाधिनिरासः कथं करणीय इति चेदाह अथेति −

अथात आदेश इति श्रुतिस्स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुति­प्र­मा­णा­नु­गृ­ही­त­युक्त्या
तयोर्निरासः करणीय इत्थम् ॥२४७॥

२४७

‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६, ३.९.२६) इति श्रुतिः स्वयं ब्रह्मणि कल्पितं द्वयं द्वैतं वस्तु निषेधति । इतिशब्दस्य इदमित्यर्थः । वीप्सा सक­ल­दृ­श्य­व­र्ग­नि­षे­धार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधि­ष्ठा­न­व्य­ति­रे­केण नास्ति स्वतः­स­त्ता­स्फू­र्ति­शू­न्यम् । एवं श्रुत्यैव साक्षा­न्नि­षि­ध्य­मा­न­त्वात् सक­ल­प्र­मा­ण­मू­र्ध­न्य­श्रु­त्य­नु­गृ­ही­त­युक्त्या तयोः माया­को­श­प­ञ्च­क­रू­पो­पाध्योः । इत्थं वक्ष्यमाणरीत्या निरासःकरणीयः ॥२४७॥

नेदं नेदं कल्पितत्वान्न सत्यं
रज्जौ दृष्ट­व्या­ल­व­त्स्व­प्न­वच्च ।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चा­दे­क­भा­व­स्त­योर्यः ॥२४८॥

२४८

नेदमिति । प्रथमेदं शब्देन ईशोपाधिर्माया, द्वितीयेदम्पदेन कोशपञ्चकं जीवोपाधिः ग्राह्यः प्रत्येकं निषेद्धुं नञ्द्वययोगः । कारणं वा माया, कार्यं वा कोशपञ्चकं कल्पितत्वात् न सत्यं ‘भूयश्चान्ते विश्व मायानिवृत्तिः’(श्वे.उ. १.३) इति मायानाशश्रवणात् । कोशपञ्चकस्य दृष्ट­न­ष्ट­स्व­रू­प­त्व­मु­प­पा­दि­त­मेव अव­स्था­त्र­येऽ­नु­वृ­त्त्य­भा­वात् । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’(७.१४) इति गीता वचनाच्च । ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढाम्’(श्वे.उ. १.३) इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं मायारूपोपाधिः न वस्तुतोऽस्ति, सत्त्वे निवृत्त्ययोगात् ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतावचनात् । एवं कोशपञ्चकमपि निपुणं विचारयतो नैवास्ति धीमता शिष्येण ‘सर्वाभावं विना किञ्चिन्न पश्यामि’(श्लो. २१४) इत्युक्तत्वात् । अतः पूर्वो­क्तो­पा­धि­द्व­य­मपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् । इत्थं दृश्यं साधुयुक्त्या श्रुत्य­नु­सा­रिण्या युक्त्या साधु व्यपोह्य निरस्य पश्चात् तयोःअनुपहितयोः केव­ल­योः­चि­न्मा­त्रयोः यः एकभावः भेदाभावः सः ज्ञेयः ॥२४८॥

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये ।
नालं जहत्या न तथाऽजहत्या
किन्तू­भ­या­र्थै­क­त­यैव भाव्यम् ॥२४९॥

२४९

तत इति । ततः यतः दृश्य­व्य­पो­हा­न­न्तरं शब्दादेव तयोः एकत्वं ज्ञेयं ततः तस्मात्कारणात् तौ शुद्धौ, लक्षणया शक्यसम्बन्धो लक्षणा तया अर्थ­स्मृ­त्य­नु­कू­ल­प­द­प­दा­र्थ­स­म्ब­न्ध­रू­पया वृत्त्या सुलक्ष्यौ सम्य­गु­प­स्था­प­नीयौ । अत्र स्वात्मनिरूपणे,

माना­न्त­रो­प­रो­धात् मुख्या­र्थ­स्या­प­रि­ग्रहे जाते ।

मुख्या­वि­ना­कृ­तेऽर्थे या वृत्तिस्सैव लक्षणा प्रोक्ता ॥ (श्लो. ३२) इत्युक्तम् ।

प्रमा­णा­न्त­र­वि­रो­ध­व­शात् मुख्यार्थस्य वाच्यार्थस्य अपरिग्रहे जाते वाच्या­र्थ­वि­ष­य­का­न्व­य­बो­धा­नु­प­पत्तौ सत्यामिति यावत् मुख्याविनाकृते वाच्य­स­म्ब­द्धेऽर्थे या वृत्तिः सा लक्षणा इत्यर्थः । प्रकृते विशिष्टयोरैक्यं बाधितमिति तत्त्व­म्प­दाभ्यां शुद्धौ आत्मानौ लक्षणीयौ तत्र विशि­ष्ट­ता­दा­त्म्य­स­म्ब­न्धस्य सत्त्वात् लक्षणा शक्यसम्बन्धरूपा निर्वहति । तदपि तत्र स्पष्टमुक्तम् −

देहे­न्द्रि­या­दि­ध­र्मा­ना­त्म­न्या­रो­प­य­न्न­भे­देन ।

कर्तृ­त्वा­द्य­भि­मानी बोधस्स्यात् त्वम्पदस्य वाच्योर्थः ॥

देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।

प्रतिभाति योऽव­बो­धः­प्रो­क्तोऽसौ त्वम्पदस्य लक्ष्योऽर्थः ॥

वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।

सर्व­ज्ञ­ता­द्यु­पेतं चैतन्यं तत्पदस्य वाच्योऽर्थः॥

विवि­धो­पा­धि­वि­मुक्तं विश्वातीतं विशुद्धमद्वैतम् ।

अक्ष­र­म­नु­भ­व­वेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ (स्वा.नि. २७-२८) इति ।

प्रत्य­क्त्व­प­रो­क्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।

इतरेतरं विरुद्धं ततइह भवितव्यमेव लक्षणया ॥ (स्वा.नि. ३१) इति च ।

त्वम्पदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वम् अहमिति प्रतित्यभावात् , एवमीश्वरस्य परिपूर्णत्वं जीवस्य सद्वितीयत्वम् अल्पत्वमिति यावत् । इतरेतरं विरुद्धम् , कथं तयोरैक्यान्वयः इति मानान्तरोपरोधे प्राप्ते उप­क्र­मा­दि­लि­ङ्गा­व­धृ­त­ता­त्प­र्या­नु­पत्त्या शुद्धौ लक्षणया बोधनीयौ । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । प्रकृते तु तृतीया ग्राह्या इत्याह । तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये संस­र्गा­वि­ष­य­क­प्र­मा­वि­ष­य­त्व­सि­द्धये इत्यर्थः । उक्तं हि वाक्यवृत्तौ −

संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ (३८) इति ।

तत्र जहल्लक्षणा नाम स्वात्मनिरूपणे लक्षिता −

निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्ति­स्त­द­न्वि­तेऽ­न्यार्थे । जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥ (३३)

इति । वाच्या­र्था­वि­ष­यणी लक्ष्या­र्थ­वि­ष­यणी या उपस्थितिः तादृ­शो­प­स्थि­ति­ज­निका शक्यसम्बन्धरूपा या वृत्तिः पद­प­दा­र्थ­स­म्बन्धः सा जहल्लक्षणा । यथा ‘गङ्गायां घोष’ इत्यत्र घोष­प­द­वा­च्या­भी­र­पल्ल्याः गङ्गा­प­द­वा­च्य­प्र­वा­ह­वृ­त्तित्वं न सम्भवतीति गङ्गापदस्य प्रवा­ह­सं­यु­क्त­ती­र­बो­ध­क­त्वम् । तत्रापि यदि गङ्गातीरे घोष इति बोधोऽभिप्रेतः तदा अजहल्लक्षणैव । तीरे घोष इति चेत् , बोधे तज्जनकोपस्थितौ च वाच्या­र्थ­स्या­प्र­वे­शात् जहल्लक्षणा । प्रकृते नालं जहत्या इत्युक्तं वाच्यैकदेशस्य विशेष्यस्य सङ्ग्रहात् ‘निखिलमपि वाच्यमर्थं त्यक्त्वा’ इत्यु­क्त­ल­क्ष­णा­भा­वात् । एवं न तथा अजहत्या अख­ण्डै­क­र­स­त्व­सि­द्धये अजहत्या लक्षणयापि नालं न पर्याप्तम् । तथा हि − अजहल्लक्षणा नाम वाच्यार्थविषयणी लक्ष्या­र्थ­वि­ष­यणी च या उपस्थितिः तज्ज­न­क­श­क्य­स­म्ब­न्ध­रूपा वृत्तिः । तदुक्तम् −

वाच्या­र्थ­म­त्य­जन्त्या यस्या वृत्तेः प्रवृ­त्ति­र­न्यार्थे ।

इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ (स्वा.नि. ३४) इति ।

शोणशब्दस्य वाच्यस्य रक्तगुणस्य धाव­न­क­र्तृ­त्वा­न्व­या­स­म्भ­वात् तद्गुणविशिष्टे अश्वे लक्षणा । तत्र शोण­गु­ण­वि­शि­ष्टा­श्व­वि­ष­य­को­प­स्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात् इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति । प्रकृते विशेषणांशस्य वाच्यार्थस्य परि­त्य­ज्य­मा­न­त्वात् नाजहल्लक्षणा किन्तु उभयार्थैकतयैव भाव्यम् उभयोरर्थयोः एकता यया लक्षणया तया जहदजहल्लक्षणया भाव्यं तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये । तल्लक्षणमुक्तम् −

जहदजहतीति सा स्यात् या वाच्या­र्थै­क­दे­श­म­प­हाय । बोधयति चैकदेशं सोऽयं द्विज इति­व­दा­श्र­ये­दे­नाम् ॥ सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्य­क्प­रो­क्ष­दे­शा­द्यम् । द्विज­मा­त्र­ल­क्ष­क­त्वात् कथयत्यैक्यं पदार्थयोरुभयोः ॥

तद्व­त्त­त्त्व­म­सीति त्यक्त्वा प्रत्य­क्प­रो­क्ष­ता­दीनि ।

चिद्वस्तु लक्षयित्वा बोधयति स्पष्ट­म­सि­प­दे­नै­क्यम् ॥ (स्वा.नि. ३५-३८) इति ।

तथा च किञ्चि­द्वा­च्या­र्था­वि­ष­यणी किञ्चि­द्वा­च्या­र्थ­वि­ष­यणी च या उप­स्थि­तिः­ता­दृ­शो­प­स्थि­ति­ज­न­क­श­क्य­स­म्ब­न्ध­रूपा वृत्तिः जहदजहल्लक्षणा । प्रकृते तया लक्षणया तत्त्व­म्प­दा­र्थ­योः­सं­स­र्गा­वि­ष­य­क­य­था­र्थ­ज्ञा­न­वि­ष­य­त्व­सि­द्धये भाव्यम् ॥२४९॥

तद्दृ­ष्टा­न्त­पु­र­स्स­र­माह स इति −

स देवदत्तोऽयमितीह चैकता
विरु­द्ध­ध­र्मां­श­म­पास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये
विरु­द्ध­ध­र्मा­नु­भ­यत्र हित्वा ॥२५०॥

२५०

संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मा­त्म­नो­रै­क्य­म­ख­ण्ड­भावः ॥२५१॥

२५१

सोऽयं देवदत्त इतीह तच्छब्दस्य तद्दे­श­त­त्का­ल­वृ­त्ति­त्व­वि­शि­ष्टोऽर्थः । अयमिति इदम्पदस्य एत­द्दे­शै­त­त्का­ल­वृ­ति­त्त्व­वि­शिष्टः अर्थः । तत्र विशेषणयोः अत्य­न्त­भि­न्न­त्वात् विशि­ष्टै­क्य­म­नु­प­प­न्नम् । कालान्तरे देशान्तरे स्थितः देवदत्तः इदानीमत्रागतः इत्यप्यर्थस्य ज्ञातत्वात् व्यक्ति­मा­त्र­वि­ष­य­क­बो­ध­ता­त्प­र्ये­णो­च्च­रि­ता­द­स्माद् वाक्यात् स्वघ­ट­क­त­दि­द­म्प­दा­भ्या­मु­भ­यत्र विरुद्धांशं तद्दे­श­त­त्का­लै­त­द्दे­शै­त­त्का­ल­रू­पम् , अपास्य हित्वा देव­द­त्त­रू­प­वि­शे­ष्यां­श­मा­त्र­मु­प­स्था­प्यते । तत्र भेदो नास्तीति एकता यथा कथ्यते तथा तत्त्वमसि वाक्ये कार­णो­पा­धि­का­र्यो­पा­धि­प्र­त्य­क्त्व­प­रो­क्ष­त्व­प­रि­पू­र्ण­त्व­स­द्वि­ती­य­त्वा­दि­रू­पान् विरुद्धधर्मान् उभयत्र हित्वा चिन्मात्रतया ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तु­प­रि­च्छे­द­शू­न्यत्वं बुधैः विद्वद्भिः परिचीयते अनुभूयत इत्यर्थः । एकत्र ऐक्य­बो­ध­प्र­का­र­मु­प­दिश्य अन्य­त्रा­ति­दि­शति, एवं महावाक्यशतेन ब्रह्मा­त्म­नो­रैक्यं तदर्थः अखण्डभावः कथ्यत इति ॥२५१॥

विधिमुखेन जीव­ब्र­ह्मै­क्य­बो­धकं वाक्यमुदाहृत्य निषेधमुखेन तद्वोधकं वाक्यमुदाहरति अस्थूलमिति −

अस्थू­ल­मि­त्ये­त­द­स­न्नि­रस्य सिद्धं स्वतो व्योम­व­द­प्र­त­र्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमा­त्मा­न­म­ख­ण्ड­बो­धम् ॥२५२॥

२५२

‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्धम्’(बृ.उ. ३.८.८) इत्यादिवाक्यानि स्थूल­श­री­रा­दि­ता­दा­त्म्या­भि­मा­नेन तथा स्वात्मानं जानानं जीवं तद्रूपत्वं परिहाप्य ब्रह्मस्वरूपं बोधयन्ति । तदाह − एतत् दृश्यमानम् असत् स्थूलं शरीरादि, अस्थूलमिति निरस्य निषिध्य, सक­ल­नि­षे­ध­सा­क्षि­त्वेन स्वतः सिद्धम् , व्योमवत् आका­श­व­द­प्र­त­र्क्यम् नह्याकाशस्य आयामः एतावानिति तर्कयितुं शक्यते, तथा शास्त्रमन्तरेण तर्का­न­धि­ग­म्य­मि­त्यर्थः । तादृशं ब्रह्म अहमित्येव विशुद्धबुद्ध्या मन­न­नि­दि­ध्या­स­न­सं­स्कृ­त­बुद्ध्या, स्वम् आत्मानम् अखण्डबोधं विद्धि । अतः यत् स्वात्मतया गृहीतं स्थूलशरीरादिकम् इदं प्रतीतमज्ञानात् ज्ञातं मृषामात्रं मिथ्याभूतं, जहीहि परित्यज, इत्यन्वयः ॥२५२॥

छान्दो­ग्य­ष­ष्ठा­ध्याये श्वेतकेतुं प्रति उद्दालकेन कृतमुपदेशं शिष्यसुखबोधाय सङ्गृह्योपदिशति मृत्कार्यमिति −

मृत्कार्यं सकलं घटादि सततं मृन्मा­त्र­मे­वा­भितः
तद्वत्सज्जनितं सदात्मकमिदं सन्मा­त्र­मे­वा­खि­लम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥

२५३

मृत्कार्यं मृदुपादानकं, घटादि घटशरावोदञ्चनादि सकलं, सततं कालत्रयेऽपि उत्पत्तेः प्राक् उत्पत्त्यनन्तरं नाशानन्तरं च, अभितःसर्वशः प्रागूर्ध्वं पश्चादधः पार्श्वयोः, मृन्मात्रमेव मृद्व्यतिरेकेण नास्ति । विस्त­रे­णे­द­मु­प­पा­दि­त­म­ध­स्तात् ‘मृत्कार्यभूत’(श्लो. २३०) इत्यादि श्लोकाभ्यां तद्वत् । ‘सदेव सोम्येदमग्र आसीत्’, ‘एक­मे­वा­द्वि­तीयं’(छा.उ. ६.२.१) , ‘तदैक्षत, तत्तेजोऽसृजत, तदपोऽसृजत, तदन्नमसृजत’(छा.उ. ६.२.३...) इत्यादिना ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.उ. ६.८.४., ६) इत्यन्तं श्रुत्या बोधितप्रकारेण सज्जनितं घटः सन् पटः सन् इति सामा­ना­धि­क­र­ण्य­वि­ष­य­क­प्र­तीत्या च सदात्मकमिदमखिलं सन्मात्रमेव । यस्मात् सतः परब्रह्मणःपरं भिन्नं किमपि नास्ति तत् सर्वोपादानभूतं, सत्यं कालत्रयाबाध्यं, सः आत्मा तव मुख्यं स्वरूपं स्वयं सत्ता­स्फूर्त्योः परनिरपेक्षं, तस्माद्धेतोः अद्वयं स्वस­त्ता­व्य­ति­रि­क्त­स­त्ता­क­प­दा­र्थ­शून्यं, प्रशान्तं निर्विकारम् , अमलम् अज्ञा­ना­द्य­स्पृष्टं, यत्परं ब्रह्म तदेव त्वमसि इत्यर्थः ॥२५३॥

निद्रा­क­ल्पि­त­दे­श­का­ल­वि­ष­य­ज्ञा­त्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जग­त्स्वा­ज्ञा­न­का­र्य­त्वतः ।
यस्मादेवमिदं शरी­र­क­र­ण­प्रा­णा­ह­मा­द्य­प्य­सत्
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥

२५४

‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते’(बृ.उ. ४.३.१०) इति श्रुत्या निद्रावशात् कल्पितः देशश्च कालश्च विषयाश्च ज्ञाता च देश­का­ल­वि­ष­य­ज्ञा­तारः ते आदयः यस्य सर्वस्य स्वप्ने भास­मा­न­व­स्तु­जा­तस्य शरीरकरणादेः तत्सर्वं प्रबोधे अप्र­ती­य­मा­न­त्वात् निद्रा­रू­प­दो­ष­ज­न्य­त्वात् दृष्ट­न­ष्ट­स्व­रू­प­त्वाच्च यथा मिथ्या बाध्यं, तद्वदिह जाग्रत्यपि जगत् मिथ्या । तत्र हेतुः स्वाज्ञा­न­का­र्य­त्वतः, स्वस्य अज्ञानं स्वाज्ञानं निष्प्र­प­ञ्च­स्व­रू­पा­व­रकं मूलाज्ञानं तत्कार्यत्वात् । उक्तं हि − ‘यदबोधादिदं भाति यद्बो­धा­द्वि­नि­व­र्तते’ इति । ‘यत्र त्वस्य सर्वात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः ।

यदज्ञानप्रभावेन दृश्यते सकलं जगत् । यज्ज्ञा­ना­ल्ल­य­मा­प्नोति तस्मै ज्ञानात्मने नमः ॥

इति ‘ज्ञाते द्वैतं न विद्यते’(आगम. १८) इति माण्डू­क्य­का­रि­का­याश्च । यस्मादेवं जगत् मिथ्या, इदं शरी­र­क­र­ण­प्रा­णा­ह­मा­द्यपि त्वया पूर्व­मा­त्म­त्वे­ना­भि­मतं शरी­रे­न्द्रि­य­प्रा­णा­ह­ङ्का­रा­दि­क­मपि असत् बाध्यं मिथ्याभूतम् । तस्मात् प्रशान्तममलम् अद्वयं यत्परं ब्रह्म तदेवासित्वम् इति पूर्ववत् ॥२५४॥

शब्दानुविद्धतया ब्रह्मा­नु­स­न्धा­न­धा­रायै दशभिः श्लोकैः ब्रह्मतत्त्वं स्फुटयन् जीव­ब्र­ह्मै­क्य­मा­वि­ष्क­रोति जातिनीतीति −

जाति­नी­ति­कु­ल­गो­त्र­दू­रगं
नाम­रू­प­गु­ण­दो­ष­व­र्जि­तम् ।
देश­का­ल­वि­ष­या­ति­वर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥

२५५

ब्राह्म­ण्या­दि­जातेः, औचित्येन स्थितिरूपनीतेः, कुलस्य वंशस्य, गोत्रस्य च स्थूल­सू­क्ष्म­श­री­रा­श्रि­त­त्वात् तेभ्यः दूरं गच्छतीति जातिनीति कुलगोत्रदूरगं ‘यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्णम्’(१.६) इति मुण्डकश्रुतेः । ‘नाम­रू­प­गु­ण­दो­ष­व­र्जि­तम् आकाशो ह वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा.उ. ८.१४.१) ‘केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः चका­रा­न्नि­र्दो­षश्च । देशकालविषयान् अतीत्य वर्तत इति देश­का­ल­वि­ष­या­ति­वर्ति आनन्त्यश्रुतेः परि­च्छे­द­त्र­य­शू­न्य­मि­त्यर्थः । ईदृशं यद् ब्रह्म तत्त्वमसि आत्मनि बुद्धौ ऐक्येन भावय अनुसन्धेहि ॥२५५॥

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्ध­चि­द्घ­न­म­नादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥

२५६

यदिति । यत्परं सर्वोत्कृष्टम् , सकलवागगोचरं ‘यतो वाचो निवर्तन्ते’(तै.उ. २.४.१) इति श्रुतेः उपनिषद्भिरपि लक्षणावृत्त्या प्रति­पा­द्य­मा­न­त्वात् । विमलबोधरूपं यच्चक्षुः तस्य गोचरं ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेः । शुद्धा निर्विषया या चित् सैव घनः मूर्तिः यस्य, यद्वा शुद्धं च तत् चिद्घनं निरु­प­हि­त­ज्ञा­न­स्व­रू­पम् , अनादि वस्तु नित्यं यथार्थं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥

षड्भि­रू­र्मि­भि­र­योगि योगिहृद्
भावितं न करणैर्विभावितम् ।
बुद्ध्य­वे­द्य­म­न­व­द्य­भूति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥

२५७

षड्भिरिति । क्षुत्पिपासे शोकमोहौ जराम्रुत्यू ऊर्मिवत् तरङ्गवत् उपर्युपरि सम्भवन्तीति एते षडूर्मय इति कथ्यन्ते । तैः षड्भिः ऊर्मिभिः अयोगि योगरहितं सम्बन्धशून्यम् , क्रमेण प्राण­म­नः­श­री­रा­श्रि­त­त्वात् तेषाम् । योगिहृद्भावितं विषयेभ्यो निरुद्धचित्ताः योगिनः तेषां हृदा मनसा भावितम् आदरेण ध्यातमित्यर्थः । न करणैर्विभावितं ‘न चक्षुषा गृह्यते नापि वाचा’(मु.उ ३.१.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति’(के.उ. १.३) इत्या­दि­श्रु­तिभ्यः । शब्द­स्प­र्श­रू­पा­दि­र­हि­त­त्वात् बुद्ध्यवेद्यं सौक्ष्म्या­ग्र्यत्व हीनबुद्ध्या वेत्तुमशक्यम् , अनवद्यभूति अनवद्या भूतिः महिमा यस्य निर्दो­षै­श्व­र्य­मि­त्यर्थः । ‘वैष­म्य­नै­र्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१३४) इति सूत्रात् । ‘निरवद्यम्’(श्वे.उ. ६.१९) इति श्रुतेश्च । तादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥

भ्रान्ति­क­ल्पि­त­ज­ग­त्क­ला­श्रयं स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरु­प­मा­न­मृ­द्धि­मत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥

२५८

‘पादोऽस्य सर्वा भूतानि’(छा.उ. ३.१२.५) इति श्रुतेः भ्रान्त्या कल्पिता या जगद्रूपा कला अंशः तदाश्रयम् अधिष्ठानं, ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’(बृ.उ. ३.९) इति श्रुतेः स्वमाश्रयः यस्य अनाधारं सत्यमित्यर्थः । सदसद्विलक्षणं प्रत्य­क्ष­प­रो­क्ष­प­ञ्च­भू­त­वि­ल­क्षणं, निष्कलं निरवयवं, निरुपमानम् असदृशं ‘न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते’(श्वे.उ. ६.८) इति श्रुतेः । ऋद्धिमत् ‘एष सर्वेश्वरः’(बृ.उ. ४.४.२१) इत्यादिश्रुतेः । ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ. ८.१.५) इत्या­दि­श्रु­तेश्च । एतादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥

जन्म­वृ­द्धि­प­रि­ण­त्य­प­क्ष­य­व्या­धि­ना­श­न­वि­ही­न­म­व्य­यम् ।
विश्व­सृ­ष्ट्य­व­न­घा­त­का­रणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥

२५९

जन्म उत्पत्तिः । तद­न­न्त­र­का­लि­क­स्थि­ते­रु­प­ल­क्ष­णम् । वृद्धिः अवयवोपचयः । परिणतिः विपरिणामः पाकादिना रूपा­न्त­रो­त्पत्तिः आम्रादिफलादिषु । अपक्षयः अवयवापचयः । व्याधिः रोगः । नाश­न­म­न्त्य­वि­कारः तैर्विहीनं षड्भा­व­वि­का­र­शू­न्य­मि­त्यर्थः । अत एव अव्ययं न व्येतीत्यव्ययं स्वतो वा परतो वा नाशरहितं नित्यम् । विश्व­सृ­ष्ट्य­व­न­घा­त­का­रणं ‘यतो वा इमानि भूतानि जायन्ते ।’ ‘येन जातानि जीवन्ति ।’ ‘यत्प्र­य­न्त्य­भि­सं­वि­शन्ति’(तै.उ. ३.१) ‘इदं सर्वमसृजत’(तै.उ. २.६, छां.उ. १.२.५) ‘आकाशः परायणम् आकाशं प्रत्यस्तं यन्ति’(छा.उ. १.९.१) इत्या­दि­श्रु­तिभ्यः सक­ल­प्र­प­ञ्च­सृ­ष्टि­स्थि­ति­सं­हा­र­का­रणं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥

अस्त­भे­द­म­न­पा­स्त­ल­क्षणं निस्त­र­ङ्ग­ज­ल­रा­शि­नि­श्च­लम् ।
नित्य­मु­क्त­म­वि­भ­क्त­मूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥

२६०

अस्तभेदम् अस्तः गतः भेदः यस्मात् ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.१) ‘इदं सर्वं यदयमात्मा’(बृ.उ. २.४.६, ४.५.७) इति श्रुतेः, अनपास्तलक्षणम् अन­पा­स्त­म­त्य­क्तम् अनपायि सार्व­दि­क­मि­त्यर्थः, लक्षणं सच्चि­दा­न­न्द­स्व­रूपं यस्य तत् , निर्गताः तरङ्गाः यस्मात् स चासौ जलराशिश्च समुद्रः तद्वन्निश्चलं, नित्यमुक्तं कदापि बन्धरहितम् , अविभक्तमूर्ति सच्चि­दा­न­न्द­स्व­रू­प­त्वेऽपि तत्प­द­ल­क्ष्या­ख­ण्ड­स्व­रू­प­भे­दा­भा­वात् अविभक्ता भेदरहिता मूर्तिः स्वरूपं शरीरं यस्य तत् अविभक्तमूर्ति निरवयवमिति वा यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥

एकमेव सदनेककारणं कार­णा­न्त­र­नि­रा­स­का­र­णम् ।
कार्य­का­र­ण­वि­ल­क्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥

२६१

एकमेव सत् कल्पि­ता­ना­म­ने­के­षाम् अधिष्ठानत्वेन कारणम् , कार­णा­न्त­र­नि­रा­स­का­रणं ‘परास्य शक्तिर्विविधैव श्रूयते’(श्वे.उ. ६.८) इति श्रुतेः, स्वभि­न्न­का­र­ण­नि­र­पे­क्ष­मि­त्यर्थः । सक­ल­दृ­श्य­नि­षे­ध­सा­क्षि­त्वेन कारणान्तरस्य आकाशादेः निरासे नेति नेतीति निषेधे कारणमिति वा, कार्य­का­र­ण­वि­ल­क्षणं ‘तदेतद् ब्रह्मा­पू­र्व­म­न­प­रम्’(बृ.उ. २.५.१९) इति श्रुतेः कार्यं जगत् , कारणं माया, तद्विलक्षणम् । ‘उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः’(१५.१७) इति गीतोक्तेश्च । यद्यप्येककारणम् , इति अस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्या­का­र्य­नि­रू­पि­त­त्वेन मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यं जग­ज्ज­न्मा­दि­का­र­ण­त्वस्य तट­स्थ­ल­क्ष­ण­त्वात् । याव­ल्ल­क्ष्य­का­ल­म­न­व­स्थितं यद्व्यावर्तकं तदेव तटस्थलक्षणम् । स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि ॥२६१॥

निर्वि­क­ल्प­क­म­न­ल्प­म­क्षरं यत्क्ष­रा­क्ष­र­वि­ल­क्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥

२६२

निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यम् , अनल्पं ‘यो वै भूमा’(छा.उ. ७.२३.१, २४.२) ‘ज्याया­ना­का­शात्’(छा.उ. ३.१.४.३) इत्यादिश्रुतेः । अक्षरं न क्षरति अश्नुते व्याप्नोतीति वा अक्षरम् । यत्क्ष­रा­क्ष­र­वि­ल­क्ष­णम् ,

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ (भ.गी. १५.१६)

इति स्मृतेः । पूर्वं कार्य­का­र­ण­वि­ल­क्ष­ण­मि­त्युक्तं विवृतं पदान्तरेण, जग­न्मा­या­वि­ल­क्षणं सत्यमित्यर्थः । अत एव परं सर्वोत्कृष्टं, नित्यम् अक्ष­र­त्वा­न्नित्यं ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इति श्रुतेः । परं नित्यमिति वा अन्वयः । अव्ययसुखं ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’(छा.उ. ७.२४.१) इति श्रुतेः अखण्डसुखरूपं, निरञ्जनं तमश्शून्यं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥

यद्विभाति सदनेकधा भ्रमा­न्ना­म­रू­प­गु­ण­वि­क्रि­या­त्मना ।
हेम­व­त्स्व­य­म­वि­क्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥

२६३

यथा एकं हेम सुवर्णं कट­क­कु­ण्ड­ला­द्य­ने­का­त्मना विभाति स्वयमेकरूपं कार­क­व्या­पा­र­मा­त्रेण एवं यत् सद् ब्रह्मस्वयं सदा अविक्रियं, भ्रमात् नाम­रू­प­गु­ण­वि­क्रि­या­त्मना अनेकधा विभाति तद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥

यच्चकास्त्यनपरं परात्परं प्रत्य­गे­क­र­स­मा­त्म­ल­क्ष­णम् ।
सत्य­चि­त्सु­ख­म­न­न्त­म­व्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४॥

२६४

‘तदेतद् ब्रह्मा­पू­र्व­म­न­प­रम्’(बृ.उ. २.५.१९) इति श्रुतेः अनपरं न विद्यते परं कार्यं यस्य वस्तु­भू­त­का­र्य­शून्यं, परात् हिरण्यगर्भादपि परं, यद्वा सर्व­का­र्य­का­र­णात् अज्ञानात् परम् ‘अक्षरात्परतः परः’(मु.उ २.१.२) इति श्रुतेः ‘स एत­स्मा­ज्जी­व­घ­नात् परात्परं पुरिशयं पुरुषमीक्षते’(प्रश्नो. ५.५) इति श्रुतेः, परशब्देन हिरण्यगर्भोऽपि ग्रहीतुं शक्यते । प्रत्यगेकरसं जीवाभिन्नं सर्वान्तरम् −

]यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । * यच्चास्य सन्ततो भावः तस्मादात्मा प्रकीर्तितः ॥

इत्यु­क्ता­त्म­ल­क्ष­णो­पेतं सत्य­चि­त्सु­ख­म­न­न्त­म­प­रि­च्छि­न्नम् , अव्ययं नित्यं, ब्रह्म भावयात्मनि ॥२६४॥

उक्त­म­र्थ­मि­म­मा­त्मनि स्वयं भावय प्रथि­त­यु­क्ति­भि­र्धिया ।
संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६५॥

२६५

उक्तमिति । इमम् ऐक्यरूपम् उक्तमर्थं प्रथितयुक्तिभिः युक्तिषु प्रथितत्वं श्रुत्य­नु­सा­रि­त्वम् । धिया निर्म­ला­न्तः­क­र­णेन आत्मनि बुद्धौ स्वयं भावय । तेन भावनेन कराम्बुवत् हस्तगतजलं यथा निस्संशयं स्पष्टं गृह्यते एवं तत्त्वनिगमः तत्त्वनिर्णयः, संशयादिरहितं यथा तथा भविष्यति । रहितपदस्य राहित्यमर्थः । संशयादीति विपर्ययः आदिपदेन गृह्यते असम्भावना च । अस­म्भा­व­ना­सं­श­य­वि­प­र्य­य­भा­व­नानां राहित्यं यस्मिन् कर्मणि तद्यथा भवति तथा इति भविष्यतीत्यत्र भवनक्रिया विशेषणम् ॥२६५॥

स्वं बोधमात्रं परिशुद्धतत्वं विज्ञाय सङ्घे नृपवच्च सैन्ये ।
तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥२६६॥

२६६

स्वमिति । सैन्ये बहुयोधघटिते सैन्ये छत्रा­दि­चि­न्ह्नेन नृपमिव सङ्घे शरी­रे­न्द्रि­य­प्रा­णा­ह­ङ्का­र­रू­प­का­र्य­क­र­ण­स­ङ्घाते, परिशुद्धतत्त्वं परिशुद्धं तत्त्वं याथात्म्यं यस्य सः परिशुद्धतत्त्वः तं स्वम् आत्मानं बोधमात्रं सर्वा­व­भा­स­क­ज्ञा­न­मात्रं दृश्य­स­न्ब­न्ध­र­हितं विज्ञाय विवेकेनानुभूय, तदात्मनैव ज्ञानात्मनैव सर्वदात्मनि स्थितः स्वरूपनिष्ठः, ब्रह्मणि दृश्यजातं विलापय −

पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ (ब्रह्म.चिन्त. १२)

इति रीत्या तत्तु­दु­पा­दे­यानां स्वोपा­दा­न­व्य­ति­रे­केण असद्भावं विनिश्चित्य सर्वस्य सर्वो­पा­दा­न­भू­त­ब्र­ह्म­व्य­ति­रे­के­णा­भावं निश्चिनुहि इत्यर्थः ॥२६६॥

बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्या­ङ्ग­गु­हा­प्र­वेशः ॥२६७॥

२६७

सदसद्विलक्षणं सत्यम् अद्वितीयं परं ब्रह्म गुहायां बुद्धौ अस्ति ‘योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ.उ. ४.३.७) इति श्रुतेः ‘स वा एष आत्मा हृदि’(छा.उ. ८.३.३) इति च, ‘प्रति­बो­ध­वि­दितं’(के.उ. २.४) ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः बुद्धिं विना वेत्तु­म­श­क्य­त्वात् दर्पणमिव मुखस्य बुद्धिवृत्तिरेव आवरणं भङ्क्त्वा ब्रह्म गृह्णातीति सर्वगतमपि बुद्धावस्तीति कथ्यते, सुषुप्तौ बुद्ध्यभावेन दुर्ग्रहत्वात् । सामीप्यसप्तमी पाषाणे वृक्ष इतिवत् स्वरूपस्य । यद्यपि पञ्चापि कोशाः गुहापदेन कथ्यन्ते तथापि तत्र मनोमयादीनां बुद्धि­द्वा­र­क­स­म्ब­न्धात् आनन्दमयकोशे बुद्धिं विना विवे­क्तु­म­श­क्य­त्वात् प्राधान्येन सत्व­प्र­धा­न­बु­द्धा­वेव स्थिति­रि­त्यु­क्त­मिति बोध्यम् । तदात्मना ब्रह्मात्मना यः पुरुषः अत्र गुहायां स्थुल­सू­क्ष्म­दे­हा­त्म­क­गु­हायां, वसेत् पुनः तस्य अङ्गगुहाप्रवेशः अङ्गमेव गुहा, अङ्गेति शिष्यसम्बोधनं वा, अत्र प्रवेशः तादा­त्म्या­भि­मानः न विद्यते । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः ।

आत्मानं चेद्विजानीयात् अयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४.१२)

इति च ॥२६७॥

एतावता ग्रन्थेन ‘आत्मा­ना­त्म­वि­वे­चनं स्वनुभवः’ इत्ये­त­त्प्र­द­र्शितं ग्रन्थ­द्वि­ती­य­श्लो­को­क्तम् , ब्रह्मात्मना संस्थि­ति­र्मु­क्ति­रि­ती­म­मर्थं सूत्रितं विशदयितुम् उपक्रमते ज्ञात इति −