विवेकचूडामणिः सव्याख्यः
२८. वासनाक्षयोपायः
ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥
वस्तुनि आत्मनि ज्ञातेऽपि पञ्चकोशविलक्षणतया ब्रह्माभिन्नतया च शास्त्रतः युक्तितश्च ज्ञातेऽपि, या वासना अस्य संसारहेतुः कर्तृत्वभोक्तृत्वादिरूपसंसारकारणम् अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अनादिः बहुकालानुवृत्ता, एषा वासना बलवती, सम्यक्प्रबुद्धोऽपि स्वप्नेऽत्यन्तं भीतः कञ्चित्कालं निराकुलितान्तःकरणो न भवतीति दृश्यते हि । अतः आत्मनि ब्रह्मणि प्रत्यग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अन्तर्मुख\-तया निर्विकल्पकसमाधिनेत्येतत् , अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्नादपनेया नाशनीया । यतः वासनातानवं स्वकार्यानाधायकत्वम् अनुत्कटत्वं यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रार्थमननशीलाः मुक्तिं प्राहुः । अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढतमसाधनचतुष्टयसम्पत्तिं विना जन्मान्तरसुकृतवशात् ब्रह्मविदोऽपि वासनाक्षयमनोनाशार्थं प्रयत्नः निरन्तरसमाधिरूपः आवश्यक एवेत्युक्तं भवति ॥२६८॥
प्रतिबन्धे सति प्रत्यग्दृष्ट्या आत्मनि निवासः न सम्भवतीति तत्प्रतिबन्धं तन्निरासोपायं च करुणानिधिर्भगवान् विस्तरेणोपदिशति अहं ममेत्यादिना −
अह ममेति यो भावो देहाक्षादावनात्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६९॥
अनात्मनि देहाक्षादौ । अक्षाणि इन्द्रियाणि । आदिपदेन प्राणमनोबुद्ध्यादि । तत्र अहं मम इति यो भावः अहन्ता ममता इत्यर्थः । अयमध्यासः विदुषा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि नितरां स्थितिरूपनिदिध्यासनेन निरस्तव्यः समूलघातं हन्तव्य इत्यर्थः ॥२६९॥
तत्प्रकारमुपदिशति ज्ञात्वेति −
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
सोऽहमित्येव सद्वृत्याऽनात्मन्यात्ममतिं जहि ॥२७०॥
स्वं बुद्धितद्वृत्तिसाक्षिणं प्रत्यगात्मानं ज्ञात्वा सोऽहमित्येव सद्वृत्या कालत्रयेऽपि बाधायोग्यवस्त्वभेदज्ञानेन अनात्मनि बुद्ध्यादौ आत्ममतिम् अहन्तां जहि नाशय ॥२७०॥
भ्रान्तिपरम्पराहेतुत्याजनेन भ्रान्तिं त्याजयति लोकेति −
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७१॥
उक्तं हि साधनपञ्चके ‘जनकृपानैष्ठुर्यमुत्सृज्यताम्’ इति ‘देहेऽहम्मतिरुज्झ्यताम्’ इति च । शास्त्रानुवर्तनं नाम मोक्षप्रयोजकग्रन्थपरिशीलनं विना इतरग्रन्थाध्ययनादिकम् , दृढतरं कर्माशु सन्त्यज्यतामित्युपदेशानुसारेण शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु अहन्तां ममतां च नाशय ॥२७१॥
तत्कुत इत्यत आह लोकवासनयेति −
लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२७२॥
सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि इत्यभिनिवेशः लोकवासना । इयं वासना अत्यन्तं प्रतिबन्धिका, तथा केनापि स्थातुमशक्यत्वात् । इदन्तु जीवन्मुक्तिविवेके वासनाक्षयप्रकरणे विद्यारण्यगुरुचरणैः विस्तरेणोपपादितं ‘को लोकमाराधयितुं समर्थः’
विद्यते न खलु कश्चिदुपायः सर्वलोकपरितोषकरो यः । सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥ इति ।
अत एव ‘तुल्यनिन्दास्तुतिः’(१२.१९) भगवद्भक्त इत्युक्तं गीतायाम् ।
शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनम् अनुष्ठानव्यसनं चेति भरद्वाजदुर्वा\-सोदाशूरदृष्टान्तैः जीवन्मुक्तिविवेके सूपपादिता । एवं देहवासनापि आत्मत्वगुणाधानदोषापनयनभ्रान्तिभिः त्रिविधा इत्यादिना विवृता । तत एव विज्ञेया । तिसृभिरेताभिः वासनाभिः ज्ञानं यथावन्नैव जायते ॥२७२॥
एतत्त्रययमेव सम्यग्ज्ञानप्रतिबन्धकमित्याह प्रामाणिकोक्तिं मूलीकृत्य संसारेति −
संसारकारागृहमोक्षमिच्छोः
अयोमयं पादनिबद्धशृङ्खलम् ।
वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥२७३॥
तज्ज्ञाः ब्रह्मविदः, पटुवासनात्रयं तानवमयातं लोकशास्त्रदेहवासनात्रयं संसार एव कारागृहं तस्मान्मोक्षम् इच्छोः पुरुषस्य, अयोमयं बहुदृढं पादनिबद्धशृङ्खलं पादयोः निबद्धं शृङ्खलमितिरूपकम् । यथा आयसशृङ्खलाबद्धपादयुग्मः गन्तुं न शक्नोति एवं लोकादिवासनात्रययुतः विष्णोः परमं पदं नैव प्राप्तुं शक्नोतीत्यभिप्रायः । यो नरः अस्मात् पूर्वोक्तवासनात्रयात् विमुक्तः तनूकृतवासनः स मुक्तिं समुपैति यथावज्ज्ञानेनेति शेषः ॥२७३॥
तत्र प्रतिबन्धकवासनापनयने सदृष्टान्तम् आत्मवासनासमेधनं कारणमाह जलादीत्यादिना −
जलादिसम्पर्कवशात् प्रभूत-
दुर्गन्धधूतागरुदिव्यवासना ।
सङ्घर्षणेनैव विभाति सम्यक्
विधूयमाने सति बाह्यगन्धे ॥२७४॥
अगरोः जलादिसम्पर्कवशात् प्रभूतः बहुलः यः दुर्गन्धः तेन धूतागरुदिव्यवासना सौरभ्यं, सङ्घर्षणेन वाह्यगन्धे विधूयमाने अपनीयमाने तिरस्क्रियमाण एव सम्यग्विभाति इति दृष्टान्तः ॥२७४॥
अन्तश्श्रितानन्तदुरन्तवासना-
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञातिसङ्घर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत्स्फुटा ॥२७५॥
अन्तःश्रिता या अनन्ता बहुविधा दुरन्ता दुष्फलदा वासना अनात्मवासना सैव धूली तया विशेषेण लिप्ता अभिभूता परमात्मवासना, प्रज्ञया ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः’(बृ.उ. ४.४.२१) इति श्रुत्या −
ब्रह्मात्मनोः शोधितयोः एकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो .४२८)
इति वक्ष्यमाणया, यदतिसङ्घर्षणं मनसः कोशासम्पर्केण स्थापनं ततः विशुद्धा अनात्मवासनाऽसम्पृक्ता चन्दनगन्धवत् स्फुटा प्रतीयते इति दार्ष्टान्तिकम् ॥२७५॥
उक्तमर्थं सङ्गृह्णाति अनात्मेति −
अनात्मवासनाजालैः तिरोभूतात्मवासना ।
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥
अनात्मविषयिण्यः या वासनाः लोकदेहशास्त्रवासनाः ‘दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च’(भ.गी. १६.४) इत्यादिना आसुरसम्पत्त्वेन दर्श्यमानमानसवासनाश्च, तासां जालैः समूहैः आत्मवासना तिरोभूता न्यक्कृता । तेषाम् अनात्मवासनाजालानां नित्या या आत्मनिष्ठा ब्रह्मणि परिसमाप्तिः तया नाशो स्वयं स्फुटा विविक्ता भाति ॥२७६॥
‘अस्माल्लोकाप्रेत्य ।’, ‘एतमन्नमयमात्मानमुपसङ्क्रामति’(तै.उ. २.८) इत्यादिश्रुत्या,
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ (भ.गी. ६.२५)
इति स्मृत्या च कथितमर्थं वासनाक्षयोपायम् आह यथायथेति −
यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाः ।
निश्शेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥
यथा यथा प्रत्यक् अन्तः मनः अवस्थितम् अभ्यासवैराग्याभ्यां तथा तथा बाह्यवासनाः पुत्रादिषु ममताम् अन्नमयादौ अहन्तां च मुञ्चति । वासनानां निश्शेषमोक्षे निर्विकल्पकसमाधिनैरन्तर्येण वेदान्तार्थविचारपुरस्सरं क्रियमाणेन ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.४९) इति स्मृत्या निश्शेषं यथा सूक्ष्मात्मनापि न स्यात् तथा मूलाज्ञानेन आश्रयेण सह मोक्षे अत्यन्तं निवृत्तौ आत्मानुभूतिः प्रतिबन्धशून्या निरर्गला ॥२७७॥
कार्यनाशनद्वारा कारणं क्षपणीयम् इति वासनाकार्यभ्रान्तिनाशं वासनाक्षये कारण\-माह नवभिः श्लोकैः स्वात्मन्येवेत्यादिभिः −
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७८॥
योगिनः चित्तस्य राजसीः तामसीश्च वृत्तीः निरुन्धतः सत्वोत्कर्षेण स्वात्मन्येव ब्रह्मण्येव सदा स्थित्या निदिध्यासनेनेत्यर्थः । मनो नश्यति प्रदीपज्वालासन्तानवत् वृत्तिसन्तानरूपेण परिणममानम् अन्तःकरणं स्ववेगं त्यक्त्वा निरुद्धं भवति । ततः ब्रह्मसामीप्यबलेन शान्तिदान्तिरूपशुद्धवासनायां दृढायां भवन्त्यां बाह्यनिमित्ते सत्यपि क्रोधाद्यनुत्पत्तिः वासनानां क्षयः, पूर्वापरपरामर्शमन्तरेण सहसा उत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतोः चित्तगतसंस्कारविशेषस्यैव वासनाशब्दार्थत्वात् । अतः स्वाध्यासापनयं कुरु विपरीतभावनाः निवर्तय । पञ्चसु कोशेषु सम्यग्विचार्य आत्मबुद्धिं परित्यज ॥२७८॥
राजसतामसवृत्तिनिरोधरूपयोग एव कथमिति चेदाह तम इति −
तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति ।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥
द्वाभ्यां रजस्सत्त्वाभ्यां तमः नश्यति । प्रसिद्धं हि व्यायामादिना काव्यशास्त्रविनोदादिना वा आलस्यनिद्रादितामसधर्मान् नाशयन्तीति । रजः सत्त्वात् चित्तैकाग्र्यरूप सत्त्वकार्येण कर्मणि प्रवृत्तीश्च त्यजन्तीति रजः सत्त्वान्नश्यति । तदपि सत्त्वं शुद्धेन निर्गुणेन नश्यति । निर्गुणप्राप्तौ सत्त्ववृत्तेः ज्ञानस्यापि नाशात् । तस्मात्सत्त्वमवष्टभ्य अवलम्ब्य तमःकृतावरणकालिकरजःकृतविक्षेपरूपाणां स्वाध्यासानां भ्रमाणाम् अपनयं नाशं कुरु ॥२७९॥
ज्ञानसाधनत्वात् शरीरस्य तद्रक्षायै तदभिमान आवश्यकः इति चेदाह प्रारब्धमिति −
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥
प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चलः निर्विकारचित्तः धैर्यं विकारहेतावपि अविकृतचित्तत्वम् अवलम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥
तत्प्रकारं विशदयति नाहमिति −
नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् ।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥२८१॥
नाहं जीवः किन्तु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य बुद्धिमनःप्राणशरीरादेः व्यावृत्तिपूर्वकम् −
नाहं देहो नेन्द्रियाण्यन्तरङ्गं नाहङ्कारः प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ (अद्वै.पञ्च. १)
इति निषेधपुरस्सरं वासनावेगतः पूर्वं प्राप्ताः ये स्वाध्यासाः तेषाम् अपनयं कुरु । यद्वा वासनापदेन अनादिकालप्रवृत्तानात्मवासनाः ग्राह्याः तासां वेगतः प्राप्तस्वाध्यासानाम् अपनयम् अतद्व्यावृत्तिपूर्वकम् अहं परं ब्रह्मेति निरन्तरानुसन्धानेन कुरु इति योजनीयम् ॥२८१॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥२८२॥
श्रुत्येति । ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) इत्यादिश्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति तत्ततो नातिरिच्यते यथा मृदो घटः दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषा वा इति श्रुत्यनुसारिण्या युक्त्या ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१४) इति श्रुतेः, सर्वस्य आत्मभानभास्यत्वात् न तदतिरिक्तत्वं सकलकल्पनाधिष्ठानत्वाच्च ‘नाधिष्ठानाद् भिन्नताऽऽरोपितस्य’ इत्यादि युक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः चैतन्यप्रतिफलनमात्रात् प्राप्तस्वाध्यासापनयं कुरु अहन्तां नाशय ॥२८२॥
अन्नादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८३॥
अन्नादानेति । मुनेः सततं परमात्ममननशीलस्य अन्नादानविसर्गाभ्याम् अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन् परमात्मनि एका अनन्यतया या निष्ठा नितरां स्थितिः तस्मिन् एकस्मिन् निष्ठा वा तया स्वाध्यासापनयं कुरु ॥२८३॥
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥२८४॥
तत्त्वमसीति । तत्त्वमस्यादिवाक्येभ्यः उत्थः जातः, यः ब्रह्मात्मनोः एकत्वस्य बोधः ततः तद्बलेन, ब्रह्मण्यात्मत्वदार्ढ्याय दार्ढ्यं च देहात्मज्ञानवत् ब्रह्मात्मत्वज्ञानं तस्मै स्वाध्यासापनयं कुरु अनात्मभ्रान्तौ महावाक्येभ्यः बोधस्यैवाजननात् ॥२८४॥
कियत्कालं भ्रान्तिनिरासप्रयत्नः करणीय इति चेदाह अहमिति −
अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥
अस्मिन् स्थूलदेहे अहंभावस्य निश्शेषविलयावधि वासनया सह नाशपर्यन्तं, सावधानेन युक्तात्मा अप्रमत्तान्तःकरणः सन् स्वाध्यासापनयं कुरु ॥२८५॥
एवम् −
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥२८६॥
प्रतीतिरिति । यावता कालेन जीवस्य जगतश्च प्रतीतिः प्रबुद्धस्य स्वप्नवत् निश्चितमिथ्यात्वकं भाति तावत्कालपर्यन्तं निरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥२८६॥
एवं नवभिः श्लोकैः अनात्मभ्रान्त्यपनयमुपदिश्य आत्मनाशहेतोः विस्मृतेः किञ्चिदप्यवकाशो न देय इति विस्मृतिहेतुविशदनेन उपदिशति निद्राया इति −
निद्राया लोकवार्तायाश्शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥२८७॥
निद्रायाः पञ्चमी, एवं लोकवार्तायाः शब्दादेरपि विषयात् प्रसज्यमाना या विस्मृतिः आत्मविस्मरणं तस्याः, क्वचित् कदाचिदपि अवसरमवकाशम् अदत्त्वा आत्मानं परं स्वरूपम् , आत्मनि बुद्धौ चिन्तय । उक्तं हि − ‘दद्यान्नावसरं किञ्चित्कामादीनां मनागपि’ इति । यद्वा सर्वत्र षष्ठी निद्रायाः लोकवार्तायाः शब्दादेः विस्मृतेरपि क्वचिदप्यवसरमदत्त्वा चिन्तयात्मानमात्मनीत्यर्थः । उक्तं हि मोक्षधर्मेषु −
अप्राशनमसंस्पर्शमसन्दर्शनमेव च । पुरुषस्यैष नियमो मन्ये निःश्रेयसं वरम् ॥ (१७३.३१) इति ॥२८७॥
यदभिमाननिबन्धनाः सर्वे दोषाः तं स्थूलदेहं मा कदाचिदप्यात्मत्वेन मंस्था इत्याह मातापित्रोरिति −
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥२८८॥
मातापित्रोः मलोद्भूतं शुक्लशोणितजन्यं, मलमांसमयं हेतुतः स्वभावतश्च बीभत्समित्यर्थः, वपुः शरीरं चण्डालमिव दूरं त्यक्त्वा तत्रात्मत्वाभिमानमकृत्वा, ब्रह्मीभूय आज्ञानिकम् अब्रह्मत्वं विधूय स्वयं ब्रह्मेति विज्ञाय, कृती कृतकृत्यो भव । कृती धीमान्वा ॥२८८॥
त्यक्त्वा स्थूलाभिमानं तत्परिच्छेदात्परिच्छिन्नमिव भासमानं जीवमपि उपाधिप्रविलापनेन विलापयेत्याह घटेति −
घटाकाशं महाकाश इवात्मानं परात्मनि ।
विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥२८९॥
महाकाश एव घटेनावच्छिद्यमानः घटाकाश उच्यते । एवं बुद्ध्याद्युपाधिना परात्मा जीव उच्यते । धिया घटस्य पृथक्करणे घटाकाशो महाकाश एव । एवमुपाधीनां सर्वोपादानसर्वकल्पनाधिष्ठानब्रह्माव्यतिरिक्तत्वज्ञानेन स्वरूपतः निषेधे कृते अखण्डभावेन परिच्छेदापादकस्याभावात् अपरिच्छिन्नाकारतया सदा मुने तूष्णीं भव कर्तव्यान्तराभावात् । उक्तं हि गीतासु ‘एतद् बुद्ध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत’ । (१५.२०) इति ॥२८९॥
स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२९०॥
स्वप्रकाशमिति । स्वप्रकाशं चिद्रूपतया स्वतः सिद्धम् , अधिष्ठानं सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानम् , स्वयम्भूत्वा सदात्मना, ब्रह्माण्डं चतुर्दशभुवनात्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत् मलपूर्णघटवत् त्यज्यतां नैव स्मर्यतामित्यर्थः ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इति प्रमाणात् । सदात्मना त्यागो नाम नास्तित्वापादानमेव ॥२९०॥
चिदात्मनि सदानन्दे देहारूढामहन्धियम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९१॥
चिदात्मनीति । देहारूढामहन्धियम् अहमितिमतिं सदानन्दे चिदात्मनि स्वयम्प्रकाशनित्यानन्दस्वरूपे परमात्मनि निवेश्य आधाय, लिङ्गं सूक्ष्मशरीरम् उत्सृज्य तादात्म्येनानभिमत्य सर्वदा केवलो भव असङ्गो भव सजातीयविजातीयस्वगतभेदरहितो वा भव । भेदस्याज्ञानिकत्वात् परमात्माहमिति ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१॥
यत्रैष जगदाभासः दर्पणान्तः पुरं यथा ।
तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥
यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जनगिरिनदीप्रासादादिरूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥
यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानन्दमरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजैत-
च्छैलूषवद्वेषमुपात्तमात्मनः ॥२९३॥
यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दम् अरूपमक्रियं यदाद्यं सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्य प्राप्य ज्ञानमेवात्र प्राप्तिः कण्ठचामीकरवत् , एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहम्भावं कुरु । यथा शैलूषः नटः आत्मनः उपात्तं वेषमुत्सृजति तद्वत् ॥२९३॥
पुनरात्मानम् अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढर्याय सर्वात्मनेति −
सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यहं सर्वमितिप्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९४॥
अहंपदार्थः सत्यः नित्यश्च, इदं दृश्यं मृषैव क्षणिकत्वदर्शनात् क्षणे अहं पश्यामीति क्षणे अहं शृणोमीति एवम् अहं जिघ्रामि रसयामि गच्छामीत्यादिना यत्र यत्र अहंवृत्तिसम्बन्धः स सः अहमहमित्यभिलप्यते नहि बहूनाम् अहन्त्वं सम्भवति आत्मनः एकत्वात् । यदा अहंवृत्तिसम्बन्धः तदैषां भानं वृत्तेः क्षणिकत्वात् सम्बद्धानां च तथात्वमेव अभासमानस्य सत्त्वे प्रमाणाभावात् अतः जडत्वेन क्षणिकत्वेन सर्वात्मना सर्वप्रकारैश्च इदं दृश्यं मृषैव नैवाहमर्थः । तदुपपादयति अहं सर्वं जानामीति प्रतीतिः क्षणिकस्य अहमादेः कथं सिध्येत् इति । नहि चक्षुः रसं जानाति श्रोत्रं वा रूपम् । अतः ‘गन्धाय घ्राणं’(ब्र.सू.भा. २.३.१८) इत्यादिश्रुत्या तेषां रूपाद्याकारवृत्तिकरणत्वेऽपि नाहमर्थत्वम् । नहि मनो वा स्वकीयवृत्तीः ज्ञातुमीष्टे जडत्वात् कर्तृकर्मविरोधाच्च ॥२९४॥
अतः आत्मा अन्यः, तत्स्फुटयति अहमिति −
अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिस्स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥
अहमादेः दृश्यस्य अहंपदार्थत्वाभावे कस्य तथात्वमिति चेत् आह अहंपदार्थस्तु तु शब्दः दृश्यानाम् अहंपदार्थत्वव्यावर्तकः । अहमादिसाक्षी अहमादीनां सर्वेषाम् अज्ञानादिदृश्यानां साक्षी नित्यं वस्तु सुषुप्तावपि यदा अहंवृत्तेरभावः लयः तस्यां सुषुप्तावपि भावदर्शनात् ‘सुखमहमस्वाप्सम्’ इति । अनुभवे विवदमानमाह ब्रूत इति । ‘अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।’(कठ. २.१८) इत्यात्मा नित्य इति ब्रूते श्रुतिः स्वयम् , तत् तस्मात् कारणात् प्रत्यगात्मा सच्चिदानन्दरूपः आत्मा सदसद्विलक्षणः व्यक्ताव्यक्तभिन्न इत्यर्थः ॥२९५॥
विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनः दृष्टमसत्त्वमेतयोः ॥२९६॥
विकारिणां देहादीनां जन्मादिनाशान्ताः ये विकाराः तेषां सर्वेषां वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते । अनित्यत्वे सर्वविकारवेत्तृत्वासम्भवात् । स्वस्य विकारवत्वे कर्तृकर्मविरोधेन तज्ज्ञानासम्भवात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इतरविकारिविकारज्ञानासम्भवाच्च । अतः नित्यत्वमविकारत्वं च वक्तव्यम् । एतेन बुद्धिसुखदुःखादिमत्त्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति सूचितम् । पिण्डतदभिमानिनोः आत्मत्वं न सम्भवतीत्याह मनोरथेति । मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्डतदभिमानिनोः पुनःपुनरसत्त्वं स्फुटं दृष्टं प्रसिद्धम् धारावाहिक्यां कल्पनायां व्यासक्तमनसा वर्षवातातपादिबाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्त्वेऽपि तत्राभिमानाभावात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने शरीरान्तरस्यैव सृष्टेः तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः अत एवोक्तम् −
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मन एव सर्वम् । (श्लो. १७२) इति ।
सुषुप्तौ पिण्डाहङ्कारयोः अभावः सिद्ध एव इति स्फुटं दृष्टमित्युक्तम् । एतेन सर्वभावाभावसाक्षी नित्यः एकरूपः इत्युक्तं भवति ॥२९६॥
अतोऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्यपि बुद्धिकल्पिते ।
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपेहि शान्तिम् ॥२९७॥
अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डाभिमानिन्यपि चित्प्रतिबिम्बे अभिमानम् आत्मबुद्धिं त्यज । तह्यर्हं क इति चेत् कालत्रयाबाध्यं नित्यबोधं स्वम् आत्मानं ज्ञात्वा शान्तिम् आत्यन्तिकदुःखनिवृत्तिम् उपेहि मुक्तिं लभस्व ॥२९७॥
स्वाध्यासापनयं कुरु इत्यत्रोक्तमर्थं स्फुटयति त्यजेति −
त्यजाभिमानं कुलगोत्रनाम-
रूपाश्रमेष्वार्द्रशवाश्रितेषु ।
लिङ्गस्य धर्मानपि कर्तृतादीं-
स्त्यक्त्वा भवाखण्डसुखस्वरूपः ॥२९८॥
आर्द्रशवाश्रितेषु स्थूलदेहाश्रितेषु कुलगोत्रनामरूपाश्रमेषु अभिमानं ममतां त्यज । एवं लिङ्गस्य सूक्ष्मदेहस्य धर्मान् कर्तृतादीनपि त्यक्त्वा अनित्यत्वात् विकारित्वाच्च स्थूलसूक्ष्मयोः अखण्डसुखस्वरूपः भव इत्युपदेशः आशीश्च ॥२९८॥
सर्वानर्थहेतुम् आत्मानुभूतौ मुख्यं प्रतिबन्धकमाह यस्मिन्ननुन्मूलिते इतरन्नैव जायते ‘सन्त्यन्य’ इत्यादिभिः त्रयोदशभिः −
सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥२९९॥
पुंसः पुरुषस्य संसारहेतवः रागद्वेषादयः अन्ये अहङ्कारादन्ये प्रतिबन्धाः आत्मज्ञानानुत्पत्तिप्रयोजकाः दृष्टाः । तेषामेषाम् अज्ञानप्रथमविकारः अहङ्कारः मूलं भवति ॥२९९॥
यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥३००॥
दुरात्मना सकलबन्धहेतुतया दुष्टस्वभाववता अहङ्कारेण, यावत्स्वस्य पुंसः सम्बन्धः स्यात् तावत्पर्यन्तम् , विलक्षणा बन्धविरुद्धनित्यनिरतिशयसुखस्वरूपा या मुक्तिः तद्वार्ता लेशमात्रापि न सम्भवति । सर्वबन्धमूलभूताऽहङ्कारवान् न सुतरां मुक्तशब्दार्ह इति भावः ॥३००॥
तदभावे मुक्तिमाह अहङ्कारेति −
अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥३०१॥
अहङ्कार एव ग्रहः गृह्णातीति राहुः तस्मात्स्वरूपतिरोधायकान्मुक्तः चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत आह विमलः शुद्धः पूर्णः अपरिच्छिन्नः सदानन्दः नित्यसुखरुपः स्वयम्प्रभः चिद्रूपतया स्वयम्प्रकाशः इत्यर्थः । एतद्धर्मचतुष्टयं राहुमुक्ते चन्द्रेऽपि समानम् । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरूपप्राप्तेरेव मुक्तित्वात् अहङ्कारमोक्षे मुक्तिः सिद्ध्यतीत्युक्तम् ॥३०१॥
तस्य कल्पिततया नाशं सम्भावयति य इति −
यो वा पुरैषोऽहमिति प्रतीतः
बुद्ध्याऽविविक्तस्तमसातिमूढया ।
तस्यैव निश्शेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२॥
तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया बुद्ध्या अविविक्तः पुरा एषोऽहमिति यो वा । वेति प्रसिद्धौ । प्रतीतः परिच्छिन्नतया ज्ञातः । तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः । ब्रह्मात्मभावः प्रतिबन्धशून्यः । नो चेत् विपरीतभावना यावत्पर्यन्तं न तावदपरिच्छिन्नब्रह्मात्मत्वज्ञानं सुलभम् ॥३०२॥
तस्याहङ्कारस्य नाशः कथमिति चेदाह ब्रह्मेति −
ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः ।
विज्ञानाख्यमहासिना द्युतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥३०३॥
सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत् सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहङ्कार एव घोराहिः भयानकसर्पः तेन गुणमयैः सत्त्वरजस्तमोरूपैः त्रिभिः चण्डैः भीकरैः मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमनर्हः क्रियते । विज्ञानाख्यमहासिना निदिध्यासनजन्यानुभवनाम्ना महता खड्गेन द्युतिमता निशितेन स्वयम्प्रकाशात्मविषयकतया द्युतिमत्त्वम् , शीर्षत्रयं सत्त्वरजस्तमोगुणात्मकं विच्छिद्य अहिम् अहङ्कारसर्पं निर्मूल्य निरवशेषं कृत्वा, सुखकरम् इमं निधिं ब्रह्मानन्दाभिधं, धीरः वश्यात्मा अनुभोक्तुं क्षमः समर्थः । एतेन सम्यग्विवेकजनितविज्ञाननाश्यत्वम् अहङ्कारस्योक्तम् ॥३०३॥
वासनात्मनापि साहन्ता नावशेषणीयेत्याह । पूर्वश्लोके निर्मूल्येत्युक्तं विव्रियते यावदिति −
यावद्वा यत्किञ्चिद् विषदोषस्फूर्तिरस्ति चेद्देहे ।
कथमारोग्याय भवेत् तद्वदहन्तापि योगिनो मुक्त्यै ॥३०४॥
देहे यावद्वा यत्किञ्चित् ईषदपि इति पदद्वयस्यार्थः । विषदोषस्फूर्तिरस्ति चेत् कथमारोग्याय भवेत् । तद्वदहन्तापि वासनात्मना वा यावदस्ति तावद्योगिनो मुक्त्यै प्रतिबन्धिका इति भावः । अतः निरवशेषमुन्मूलनं कार्यं तस्याः ॥३०४॥
तदा तु −
अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।
प्रत्यक्तत्त्वविवेकादयमहमस्मीति विन्दते तत्त्वम् ॥३०५॥
अहमः अहङ्कारस्य अत्यन्तनिवृत्त्या अपुनरुत्पादं नाशेन, तत्कृतनानाविकल्पसंहृत्या निमित्तापायान्नैमित्तिकानाम् अपाय इति द्योतयति तत्कृतेति । प्रथमविकारभूताहङ्कारमूलकानां नानाविधानां कुलगोत्रनामरूपाश्रमाद्याश्रितानाम् अभिमानानां विविधकल्पनारूपाणां संहृत्या, अनेन सर्वभ्रान्तिनिरास उक्तः । तदा प्रत्यक्तत्त्वविवेकात् आत्मयाथात्म्यस्य विविच्य अनात्मासङ्कीर्णतया ज्ञानात् अयमहमस्मीति तत्त्वं विन्दते अपरोक्षतया जानाति ॥३०५॥
अहङ्कर्तर्यस्मिन् अहमितिमतिं मुञ्च सहसा
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥
अहमिति । प्रतीचः आन्तरस्य चिन्मूर्तेः ज्ञानशरीरस्य, सुखतनोः आनन्दघनस्य, तव आत्मनः यदध्यासात् यस्मिन्नहमिति तादात्म्यभ्रान्त्या, जनिमृतिजरादुःखवहुला स्पष्टम् , इयमनुभवसिद्धा संसृतिः, प्राप्ता प्राप्तेव भाति, अस्मिन् विकारात्मनि सूक्ष्मभूतकार्ये, आत्मप्रतिफलजुषि आत्मप्रतिबिम्बग्राहिणि, स्वस्थितिमुषि स्वस्य या सहजा स्थितिः चिदानन्दरूपता तां मुष्णातीति स्वस्थितिमुट् तस्मिन् पराक्त्वापादकत्वेन स्वस्वरूपच्यावके अहङ्कर्तरि अहङ्कारे, अनात्मनि अहमितिमतिम् , सहसा मुञ्च इति परमोपदेशः ॥३०६॥
उक्तमर्थं बुद्धौ सम्यगारोहाय कृपया पुनराह सदेति −
सदैकरूपस्य चिदात्मनो विभोरानन्दमूर्तेरनवद्यकीर्तेः ।
नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥३०७॥
सर्वाणि विशेषणानि हेतुगर्भाणि अहङ्काराध्यासेन नानारूपता जडता परिच्छिन्नता दुःखं दुर्यशस्त्वं च प्राप्तमिति द्योतयितुम् । सदा नित्यम् एकरूपस्य, सदेकरूपस्य इति वा पाठः कालत्रयाबाध्यैकस्वरूपस्येत्यर्थः । चिदात्मनो विभोः अपरिच्छिन्नस्य आनन्दमूर्तेः अनवद्यकीर्तेः श्रुतिशिखरेषु परब्रह्मस्वरूपतया बोद्ध्यमानतया नित्यशुद्धबुद्धमुक्तस्वरूपस्य अविकारिणः ते तव, अमुष्य पराचः अहङ्कारस्य, अहमध्यासं विना तादात्म्यभ्रान्तिमन्तरा अहङ्कारे अहमिति या बुद्धिः तां विनेति यावत् , अमुष्येति षष्ष्ठी सम्बन्धार्थिका संसृतिः जनिमृतिजरा दुःखजटिला अन्यथा प्रकारान्तरेण वस्तुत इति यावत् नैव सम्भवति ॥३०७॥
यस्मादेवम् ,
तस्मादहङ्कारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत्प्रतीतम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥३०८॥
भुञ्जानस्य कण्ठे कण्टकमिव प्रतिपन्नं स्वरूपानन्दानुभवप्रतिबन्धकतया स्वशत्रुम् इमं प्रत्यक्षसिद्धम् अहङ्कारं, तस्मादसंसारिणोऽपि संसारापादकत्वात् , विज्ञानमहासिना पञ्चकोशविवेकजनितविज्ञाननिशितखङ्गेन विच्छिद्य अपुनर्भवं विनाश्य आत्मसाम्राज्यसुखम् अनन्याधीननिरन्तराखण्डानन्दं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुङ्क्ष्व अनुभव ॥३०८॥
अनन्तरकर्तव्यमुपदिशति तत इति −
ततोऽहमादेर्विनिवर्त्य वृत्तिं
सन्त्यक्तरागः परमार्थलाभात् ।
तूष्णीं समास्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०९॥
ततः अहङ्कारादौ तादात्म्यभ्रान्तिनाशानन्तरम् , अहमादेः पञ्चमी, अहङ्कारादेः सकाशात् वृत्तिं विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थलाभात् नित्यस्वप्रकाशानन्दरूपोत्कृष्टप्रयोजनलाभात् , बहिः सन्त्यक्तरागः विषयविमुख इति यावत् , आत्मसुखानुभूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि तूष्णीं समास्स्व ॥३०९॥
पुनः पुनः उपदिष्टस्योपदेशे कारणमाह समूलकृत्तोऽपीति −
समूलकृत्तोऽपि महानहं पुन-
र्व्युल्लेखितस्स्याद्यदि चेतसा क्षणम् ।
सञ्जीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥३१०॥
महान् अनादिकालात् शाखोपशाखतया वृद्धः अहम् अहङ्कारः, समूलकृत्तोऽपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोऽपि पुनःचेतसा यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात् , सञ्जीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोऽपि नामावशेषतां नीतोऽपि वारिदः मेघः, प्रावृषि वर्षर्तौ नभस्वता वायुना नीतः सम्भृतसलिलः यथा वर्षति तथा ॥३१०॥
नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विषयानुचिन्तनमेव तत्र हेतुरिति सदृष्टान्तमाह निगृह्येति −
निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया ।
स एव सञ्जीवनहेतुरस्य
प्रक्षीणजम्बीरतरोरिवाम्बु ॥३११॥
निगृह्य निग्रहं कृत्वा शत्रोरहमः सर्वनाशहेतोः अहङ्कारस्य, विषयानुचिन्तया क्वचिदप्यवकाशो न देयः, स एव विषयानुचिन्तैव अस्य अहङ्कारस्य सञ्जीवनहेतुः । वक्ष्यति हि
न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा ॥ (श्लो. ३२३) इति ।
सञ्जीवनहेतुरिति विधेयप्राधान्यात् विषयानुचिन्तायाः स एवेति पुंलिङ्गव्यपदेशः । क्षीणस्य पुनर्वृद्धौ दृष्टान्तमाह प्रक्षीणेति । प्रक्षीणजम्बीरतरोः शुष्कस्यापि जम्बीरवृक्षस्य अम्बु जलं वृद्धिहेतुभूतं भवति । एवं विवेकविज्ञानेन नाशितोऽप्यहङ्कारः प्रमादाद्विषयानुचिन्ता यदि क्रियेत पुनः प्राप्तजीवनः संसारयतीति भावः । विषयानुचिन्तायामपि नष्टस्याहङ्कारस्य कथमुज्जीवनम् इति शङ्कायाम् −
विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् । सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ ततः स्वरूपविभ्रंशः विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह इष्यते ॥ (श्लो. ३२७-३२८)
इति प्रणालिकया विषयेषु कामः सङ्कल्पजन्यः सङ्कल्पश्च सम्यक्त्वबुद्धिः आनन्दजनकत्वज्ञानं, स चानन्दः वैषयिकः मनस एव । यदि सन्ततं स्वरूपनिष्ठः तदा कुतःविषयचिन्ता कुतस्तरां तेषु सङ्कल्पः कुतस्तमां कामः । ततः स्वरूपविस्मृतिः विषयचिन्तया भवति । यदा विस्मृतं स्वरूपं तदा अहङ्कारमेव आत्मत्वेन मन्यते तत्राहन्धियं विना देहानुकूलतया प्रतीयमानेषु विषयेषु कामानुत्पत्तेः । ततः अहङ्कारद्वारा मनःप्राणस्थूलदेहादिकम् आत्मत्वेन मत्वा पूर्ववत् विषयान्कामयमानः संसरति, तदिदमुक्तं पूर्वम् −
ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नात् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ (श्लो. २६८)
इति सूत्रेण श्लोकेन । अनन्तरग्रन्थः तद्विवरणरूपः ज्ञातवस्तुनः पुरुषस्य निरन्तरब्रह्मनिष्ठां द्रढयति ॥३११॥
तत्र याऽस्य संसारहेतुरित्यस्यार्थमाह देहात्मनेति −
देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽर्थसन्धानपरत्वमेव
भेदप्रसक्त्या भवबन्धहेतुः ॥३१२॥
देहात्मना संस्थित एव कामी, निरन्तरानन्दस्वरूपेण स्थितौ कुतः क्षणिकानन्दहेतुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तम् विलक्षणः कामयिता कथं स्यादिति ।
आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४१२)
इति श्रुतेः, ‘आप्तकामम् , आत्मकामम् , अकामं शोकान्तरम्’ इति च । अतोऽर्थसन्धानपरत्वमेव विषयानुचिन्तनसक्तत्वमेव स्वरूपविभ्रंशनद्वारा देहादौ अहन्तामाबध्य भेदप्रसक्त्या भेदप्रसञ्जनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्यकामयितृकामनादिभेदः कुतस्त्य इति भावः ॥३१२॥
तावतापि नष्टस्याहङ्कारस्य सञ्जीवनं कथमिति चेदाह कार्येति −
कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते ।
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥३१३॥
लोके कार्यप्रवर्धनात् कार्यस्याङ्कुरादेः प्रकर्षेण स्कन्धशाखोपशाखादिरूपेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः असम्भवात् कीटादिभक्षिते बीजे अङ्कुरादीनामनुत्पत्तेः । अत एकमपि बीजं धरणिसलिलसंयोगदोहदादिना सम्यक्प्रवृद्धम् अङ्कुरपत्रस्कन्धशाखापुष्पफलरूपेण वृद्धिं प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्यनाशात् बीजनाशोऽपि, अङ्कुरादिनिमित्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्त्या बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु प्रथमो योऽहङ्कारः तं विना नैव भवति, विषयानुचिन्तनवृद्ध्या बीजभूताहङ्कारो वृद्धो ज्ञेयः । एवं विवेकविज्ञाननाशितोप्यहङ्कारः अनादिकालप्रवृत्ततया वासनात्मना शिष्यमाणः सदा प्रत्यग्दृष्ट्या आत्मनि निष्ठाभावे वृद्धिं प्राप्य पुनः संसारमापादयेत् । अतः निरन्तरब्रह्मनिष्ठया अप्रमादेन स्थितौ विषयानुचिन्तनादेरनवकाशात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥३१३॥
तस्य संसारसम्पादकत्वमुपपादयति वासनेति −
वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४॥
यथा एकोऽपि स्फुलिङ्गः सूक्ष्मोऽपि शुष्कतृणसंयोगाद्वृद्धिं प्राप्य महानग्निर्भूत्वा सर्वं वनमेव दहेत् , एवं वासनात्मना स्थितोऽप्यहङ्कारः विषयानुचिन्तनेन आत्मानं स्वरूपतः प्राच्याव्य स्वयं तत्प्रतिफलनबलेन अनेकाकारेण परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रागिव भ्रान्तिपरम्परां कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्याह वासनावृद्धित इति । कार्यं विषयचिन्ता । स्वरूपानन्दविस्मृत्या विषयलाभार्थं प्रयत्नः, अलाभे दुःखम् , लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणम् , तेन धियो मालिन्यम् , तेन पुनरात्मग्रहणसामर्थ्याभावः, ततश्च सर्वदा देहाद्यात्मत्वम् , तेन जरामरणजन्मादिरूपसंसाराविच्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम् ॥३१४॥
तस्मात् −
संसारबन्धविच्छित्यै तद्द्वयं प्रदहेद्यतिः ।
वासना प्रेर्यते ह्यन्तः चिन्तया क्रियया बहिः ॥३१५॥
यतिः प्रयत्नशीलः पुमान् संसारबन्धविच्छित्यै संसारहेतुभूतः देहात्मत्वादिसकल बन्धविनाशाय तद्द्वयं वासनातत्कार्यरूपं द्वयं प्रदहेत् प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् । करुणया तद्वृद्धिनिमित्तं तन्नाशोपायं च कथयति वासनेति । वासना चिन्तया बहिः क्रियया च हि यस्मात् अन्तः प्रेर्यते अतः प्रदहेत् । पूर्वं कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति । अन्तश्चिन्ता बहिश्शरीरादिना क्रिया चित्प्रतिबिम्बबलाभावे जडस्य मनसः क्रियाजनकचिन्तासामर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहङ्कारद्वारैव । जडस्य शरीरस्य कर्मकरणसामर्थ्यमपि मन आदिद्वारा चिदनुप्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्षात्मना स्थितः अहङ्कारः वृद्धिं प्राप्त इति विज्ञेयम् ॥३१५॥
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयोपायस्सर्वावस्थासु सर्वदा ॥३१६॥
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् ।
सद्भाववासनादार्ढ्यात् तत्त्रयं लयमश्नुते ॥३१७॥
ताभ्यां चिन्ताक्रियाभ्यां प्रवर्धमाना सा वासना, आत्मनः संसृतिं सूते जनयति । पूर्वोक्तरीत्या त्रयाणां च वासनाचिन्ताक्रियारूपाणामपि क्षयोपायः सर्वावस्थासु सर्वदा सर्वत्र सर्वतः कालतः देशतः वस्तुतश्च, जाग्रदाद्यवस्थासु ब्रह्मव्यतिरेकेण किमपि नास्ति ‘इदं सर्वं यदयमात्मा ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) इत्यादिश्रुतिभिः, ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’(ब्र.सू. १.४.२३) ‘तदन्यत्वमारम्भणशब्दादिभ्यः’(ब्र.सू. २.१.१४) इत्यादिसूत्रैः मृल्लोहदुन्दुभ्यादिदृष्टान्तैश्च यश्चोरः स स्थाणुः यद्रजतं सा शुक्तिः इतिवत् सर्वत्र सर्वत्वं बाधित्वा केवलाधिष्ठानभूतब्रह्मव्यतिरेकेण किमपि नास्तीति सर्वब्रह्ममात्रावलोकनम् । एवं यदि ज्ञानं तदा ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्यनुसारेण, ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति स्मृत्या च क्व विषयाः क्वतरां तच्चिन्ता क्वतमां बहिःक्रिया । सर्वं ब्रह्ममात्रावलोकनेन सद्भाववासनादार्ढ्ये तत्त्रयं वासनाचिन्ताक्रियारूपं त्रयं लयं नाशमश्नुते प्राप्नोति ॥३१७॥
तथा सर्वं ब्रह्मेत्यवलोकनासमर्थं प्रत्युपायमाह कार्यनिरोधेन कारणं निरोद्धव्यमिति क्रियानाश इति −
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्षः सजीवन्मुक्तिरिष्यते ॥३१८॥
पूर्वपूर्वस्य उत्तरोत्तरज्ञापकत्वं वा । वासनां विना चिन्तायाः तां विना क्रियायाः अभावात् कार्यनाशात् कारणनाशोऽनुमेय इति भावः । तथा च नैष्कर्म्येणावस्थानपर्यन्तं प्रयत्नः पुरुषेण कर्तव्यः । तदा वासनानां प्रकर्षेण क्षयः सिध्यत्येव स एव मोक्षः स एव जीवन्मुक्तिरिष्यते अभिप्रेयते ब्रह्मविद्भिरिति शेषः । उक्तं हि ‘मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्’(श्लो. २६८) इति । वस्तुनः सूक्ष्मावस्थैव वासना तस्याः तानवं नाश एव ॥३१८॥
‘सद्भाववासनादार्ढ्ये तत्त्त्रयं लयमश्नुते’(श्लो. ३१७) इत्युक्तमर्थं सदृष्टान्तमाह सद्वासनेति −
सद्वासनास्फूर्तिविजृम्भणे सति
ह्यसौ विलीना त्वहमादिवासना ।
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा ॥३१९॥
सद्वासनास्फूर्तिविजृम्भणे सति श्रवणमनननिदिध्यासनसंस्कृतस्य मनसः सदा सर्वत्र सद्भावनया सत्संस्कारस्फुरणवृद्धौ सत्यां तु असौ विप्रकृष्टा अहमादिवासना आदिपदेन देहेन्द्रियविषयपरिग्रहः । हि निश्चयेन विलीना विशेषेण नष्टा भवतिति शेषः । तत्र दृष्टान्तः अतिप्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायाम् अरुणः सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः ॥३१९॥
ततः −
तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानन्दरसानुभूतौ
नैवास्ति बन्धो न च दुःखगन्धः ॥३२०॥
अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे सति तमः शार्वरं तमः अन्धकारः तत्कार्यम् अनर्थजालं चक्षुः पीडा चोरबाधामार्गस्स्वलनादिजातदुःखकदम्बं न दृश्यते यथा तथा अद्वयानन्दरसानुभूतौ सद्वासनास्फुरणवृद्धिवशात् सच्चिदानन्दैकरसप्रत्यग्ब्रह्मानुभवे सति नैवास्ति बन्धः अनात्मन्यात्मबुद्धिः न च दुःखगन्धः हेतोरध्यासस्य नाशात् । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई.उ. ७) इति श्रुतेः ॥३२०॥
यदि प्रारब्धवशात् जगद् भासेत, तदापि −
दृश्यं प्रतीतं प्रविलापयन्स्वयं
सन्मात्रमानन्दघनं विभावयन् ।
समाहितस्सन् बहिरन्तरं वा
कालं नयेथास्सति कर्मबन्धे ॥३२१॥
विपरीतार्थधीर्यावत् निश्शेषं विनिवर्तते । स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनर्गलम् । तावत् समाधिषट्केन नयेत् कालं निरन्तरम् ॥ (स.वे.सि. ९०१)
इत्युक्तत्वात् प्रतीतं दृश्यं नामरूपप्रविलापनेन केवलाधिष्ठानभूतं ब्रह्म भावयन् स्वयं च सन्मात्रमानन्दघनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।
इयं भूर्न सन्नापि तोयं न तेजो न वायुर्न खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८६)
इत्यादिरीत्या बहिः,
न देहो न चाक्षाणि न प्राणवायुः मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८९)
इत्यन्तः, शब्दानुविद्धदृश्यानुविद्धसविकल्पकनिर्विकल्पकभेदेन बहिरन्तर्वा समाहितमनसा त्वया कर्मबन्धे प्रारब्धाद्विक्षेपे प्रसक्ते कालो नेयः इत्यर्थः ॥३२१॥
कदापि कथञ्चिदपि शिष्यो दुःखभाक् माभूदित्यनुक्रोशेन जातविवेकस्यापि दुःखप्रसक्तिमार्गं पुनराह प्रमाद इत्यादिना विस्तरेण −