अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२८. वासनाक्षयोपायः

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्य­ग्दृ­ष्ट्याऽऽ­त्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥

२६८

वस्तुनि आत्मनि ज्ञातेऽपि पञ्च­को­श­वि­ल­क्ष­ण­तया ब्रह्माभिन्नतया च शास्त्रतः युक्तितश्च ज्ञातेऽपि, या वासना अस्य संसारहेतुः कर्तृ­त्व­भो­क्तृ­त्वा­दि­रू­प­सं­सा­र­का­र­णम् अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अनादिः बहु­का­ला­नु­वृत्ता, एषा वासना बलवती, सम्य­क्प्र­बु­द्धोऽपि स्वप्नेऽत्यन्तं भीतः कञ्चित्कालं निरा­कु­लि­ता­न्तः­क­रणो न भवतीति दृश्यते हि । अतः आत्मनि ब्रह्मणि प्रत्य­ग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अन्तर्मुख\-तया निर्वि­क­ल्प­क­स­मा­धि­ने­त्ये­तत् , अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्नादपनेया नाशनीया । यतः वासनातानवं स्वका­र्या­ना­धा­य­क­त्वम् अनुत्कटत्वं यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रा­र्थ­म­न­न­शीलाः मुक्तिं प्राहुः । अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढ­त­म­सा­ध­न­च­तु­ष्ट­य­स­म्पत्तिं विना जन्मा­न्त­र­सु­कृ­त­व­शात् ब्रह्मविदोऽपि वास­ना­क्ष­य­म­नो­ना­शार्थं प्रयत्नः निर­न्त­र­स­मा­धि­रूपः आवश्यक एवेत्युक्तं भवति ॥२६८॥

प्रतिबन्धे सति प्रत्य­ग्दृष्ट्या आत्मनि निवासः न सम्भवतीति तत्प्रतिबन्धं तन्निरासोपायं च करु­णा­नि­धि­र्भ­ग­वान् विस्तरेणोपदिशति अहं ममेत्यादिना −

अह ममेति यो भावो देहा­क्षा­दा­व­ना­त्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६९॥

२६९

अनात्मनि देहाक्षादौ । अक्षाणि इन्द्रियाणि । आदिपदेन प्राण­म­नो­बु­द्ध्यादि । तत्र अहं मम इति यो भावः अहन्ता ममता इत्यर्थः । अयमध्यासः विदुषा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि नितरां स्थिति­रू­प­नि­दि­ध्या­स­नेन निरस्तव्यः समूलघातं हन्तव्य इत्यर्थः ॥२६९॥

तत्प्र­का­र­मु­प­दि­शति ज्ञात्वेति −

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धि­त­द्वृ­त्ति­सा­क्षि­णम् ।
सोऽहमित्येव सद्वृ­त्याऽ­ना­त्म­न्या­त्म­मतिं जहि ॥२७०॥

२७०

स्वं बुद्धि­त­द्वृ­त्ति­सा­क्षिणं प्रत्यगात्मानं ज्ञात्वा सोऽहमित्येव सद्वृत्या कालत्रयेऽपि बाधा­यो­ग्य­व­स्त्व­भे­द­ज्ञा­नेन अनात्मनि बुद्ध्यादौ आत्ममतिम् अहन्तां जहि नाशय ॥२७०॥

भ्रान्ति­प­र­म्प­रा­हे­तु­त्या­ज­नेन भ्रान्तिं त्याजयति लोकेति −

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रा­नु­व­र्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७१॥

२७१

उक्तं हि साधनपञ्चके ‘जन­कृ­पा­नै­ष्ठु­र्य­मु­त्सृ­ज्य­ताम्’ इति ‘देहेऽ­ह­म्म­ति­रु­ज्झ्य­ताम्’ इति च । शास्त्रा­नु­व­र्तनं नाम मोक्ष­प्र­यो­ज­क­ग्र­न्थ­प­रि­शी­लनं विना इत­र­ग्र­न्था­ध्य­य­ना­दि­कम् , दृढतरं कर्माशु सन्त्य­ज्य­ता­मि­त्यु­प­दे­शा­नु­सा­रेण शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु अहन्तां ममतां च नाशय ॥२७१॥

तत्कुत इत्यत आह लोकवासनयेति −

लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२७२॥

२७२

सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि इत्यभिनिवेशः लोकवासना । इयं वासना अत्यन्तं प्रतिबन्धिका, तथा केनापि स्थातु­म­श­क्य­त्वात् । इदन्तु जीव­न्मु­क्ति­वि­वेके वास­ना­क्ष­य­प्र­क­रणे विद्या­र­ण्य­गु­रु­च­रणैः विस्त­रे­णो­प­पा­दितं ‘को लोकमाराधयितुं समर्थः’

विद्यते न खलु कश्चिदुपायः सर्व­लो­क­प­रि­तो­ष­करो यः । सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥ इति ।

अत एव ‘तुल्य­नि­न्दा­स्तुतिः’(१२.१९) भगवद्भक्त इत्युक्तं गीतायाम् ।

शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनम् अनुष्ठानव्यसनं चेति भर­द्वा­ज­दु­र्वा\-सो­दा­शू­र­दृ­ष्टान्तैः जीव­न्मु­क्ति­वि­वेके सूपपादिता । एवं देहवासनापि आत्म­त्व­गु­णा­धा­न­दो­षा­प­न­य­न­भ्रा­न्तिभिः त्रिविधा इत्यादिना विवृता । तत एव विज्ञेया । तिसृभिरेताभिः वासनाभिः ज्ञानं यथावन्नैव जायते ॥२७२॥

एतत्त्रययमेव सम्य­ग्ज्ञा­न­प्र­ति­ब­न्ध­क­मि­त्याह प्रामाणिकोक्तिं मूलीकृत्य संसारेति −

संसा­र­का­रा­गृ­ह­मो­क्ष­मिच्छोः
अयोमयं पाद­नि­ब­द्ध­शृ­ङ्ख­लम् ।

२७२

वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्मा­द्वि­मुक्तः समुपैति मुक्तिम् ॥२७३॥

२७३

तज्ज्ञाः ब्रह्मविदः, पटुवासनात्रयं तानवमयातं लोक­शा­स्त्र­दे­ह­वा­स­ना­त्रयं संसार एव कारागृहं तस्मान्मोक्षम् इच्छोः पुरुषस्य, अयोमयं बहुदृढं पाद­नि­ब­द्ध­शृ­ङ्खलं पादयोः निबद्धं शृङ्ख­ल­मि­ति­रू­प­कम् । यथा आय­स­शृ­ङ्ख­ला­ब­द्ध­पा­द­युग्मः गन्तुं न शक्नोति एवं लोका­दि­वा­स­ना­त्र­य­युतः विष्णोः परमं पदं नैव प्राप्तुं शक्नो­ती­त्य­भि­प्रायः । यो नरः अस्मात् पूर्वो­क्त­वा­स­ना­त्र­यात् विमुक्तः तनूकृतवासनः स मुक्तिं समुपैति यथा­व­ज्ज्ञा­ने­नेति शेषः ॥२७३॥

तत्र प्रति­ब­न्ध­क­वा­स­ना­प­न­यने सदृष्टान्तम् आत्मवासनासमेधनं कारणमाह जलादीत्यादिना −

जला­दि­स­म्प­र्क­व­शात् प्रभूत-
दुर्ग­न्ध­धू­ता­ग­रु­दि­व्य­वा­सना ।
सङ्घर्षणेनैव विभाति सम्यक्
विधूयमाने सति बाह्यगन्धे ॥२७४॥

२७४

अगरोः जला­दि­स­म्प­र्क­व­शात् प्रभूतः बहुलः यः दुर्गन्धः तेन धूता­ग­रु­दि­व्य­वा­सना सौरभ्यं, सङ्घर्षणेन वाह्यगन्धे विधूयमाने अपनीयमाने तिरस्क्रियमाण एव सम्यग्विभाति इति दृष्टान्तः ॥२७४॥

अन्त­श्श्रि­ता­न­न्त­दु­र­न्त­वा­सना-
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञा­ति­स­ङ्घ­र्ष­णतो विशुद्धा
प्रतीयते चन्द­न­ग­न्ध­व­त्स्फुटा ॥२७५॥

२७५

अन्तःश्रिता या अनन्ता बहुविधा दुरन्ता दुष्फलदा वासना अनात्मवासना सैव धूली तया विशेषेण लिप्ता अभिभूता परमात्मवासना, प्रज्ञया ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः’(बृ.उ. ४.४.२१) इति श्रुत्या −

ब्रह्मात्मनोः शोधितयोः एकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो .४२८)

इति वक्ष्यमाणया, यदतिसङ्घर्षणं मनसः कोशासम्पर्केण स्थापनं ततः विशुद्धा अना­त्म­वा­स­नाऽ­स­म्पृक्ता चन्दनगन्धवत् स्फुटा प्रतीयते इति दार्ष्टान्तिकम् ॥२७५॥

उक्तमर्थं सङ्गृह्णाति अनात्मेति −

अना­त्म­वा­स­ना­जालैः तिरो­भू­ता­त्म­वा­सना ।
नित्या­त्म­नि­ष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥

२७६

अनात्मविषयिण्यः या वासनाः लोक­दे­ह­शा­स्त्र­वा­सनाः ‘दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च’(भ.गी. १६.४) इत्यादिना आसुरसम्पत्त्वेन दर्श्य­मा­न­मा­न­स­वा­स­नाश्च, तासां जालैः समूहैः आत्मवासना तिरोभूता न्यक्कृता । तेषाम् अना­त्म­वा­स­ना­जा­लानां नित्या या आत्मनिष्ठा ब्रह्मणि परिसमाप्तिः तया नाशो स्वयं स्फुटा विविक्ता भाति ॥२७६॥

‘अस्मा­ल्लो­का­प्रेत्य ।’, ‘एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै.उ. २.८) इत्या­दि­श्रुत्या,

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ (भ.गी. ६.२५)

इति स्मृत्या च कथितमर्थं वासनाक्षयोपायम् आह यथायथेति −

यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाः ।
निश्शेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥

२७७

यथा यथा प्रत्यक् अन्तः मनः अवस्थितम् अभ्या­स­वै­रा­ग्याभ्यां तथा तथा बाह्यवासनाः पुत्रादिषु ममताम् अन्नमयादौ अहन्तां च मुञ्चति । वासनानां निश्शेषमोक्षे निर्वि­क­ल्प­क­स­मा­धि­नै­र­न्त­र्येण वेदा­न्ता­र्थ­वि­चा­र­पु­र­स्सरं क्रियमाणेन ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.४९) इति स्मृत्या निश्शेषं यथा सूक्ष्मात्मनापि न स्यात् तथा मूलाज्ञानेन आश्रयेण सह मोक्षे अत्यन्तं निवृत्तौ आत्मानुभूतिः प्रतिबन्धशून्या निरर्गला ॥२७७॥

कार्यनाशनद्वारा कारणं क्षपणीयम् इति वास­ना­का­र्य­भ्रा­न्ति­नाशं वासनाक्षये कारण\-माह नवभिः श्लोकैः स्वात्म­न्ये­वे­त्या­दिभिः −

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७८॥

२७८

योगिनः चित्तस्य राजसीः तामसीश्च वृत्तीः निरुन्धतः सत्वोत्कर्षेण स्वात्मन्येव ब्रह्मण्येव सदा स्थित्या निदि­ध्या­स­ने­ने­त्यर्थः । मनो नश्यति प्रदी­प­ज्वा­ला­स­न्ता­न­वत् वृत्ति­स­न्ता­न­रू­पेण परिणममानम् अन्तःकरणं स्ववेगं त्यक्त्वा निरुद्धं भवति । ततः ब्रह्म­सा­मी­प्य­ब­लेन शान्ति­दा­न्ति­रू­प­शु­द्ध­वा­स­नायां दृढायां भवन्त्यां बाह्यनिमित्ते सत्यपि क्रोधा­द्य­नु­त्पत्तिः वासनानां क्षयः, पूर्वा­प­र­प­रा­म­र्श­म­न्त­रेण सहसा उत्पद्यमानस्य क्रोधा­दि­वृ­त्ति­वि­शे­षस्य हेतोः चित्त­ग­त­सं­स्का­र­वि­शे­ष­स्यैव वास­ना­श­ब्दा­र्थ­त्वात् । अतः स्वाध्यासापनयं कुरु विपरीतभावनाः निवर्तय । पञ्चसु कोशेषु सम्यग्विचार्य आत्मबुद्धिं परित्यज ॥२७८॥

राज­स­ता­म­स­वृ­त्ति­नि­रो­ध­रू­प­योग एव कथमिति चेदाह तम इति −

तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति ।
तस्मा­त्स­त्त्व­म­व­ष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥

२७९

द्वाभ्यां रज­स्स­त्त्वाभ्यां तमः नश्यति । प्रसिद्धं हि व्यायामादिना काव्य­शा­स्त्र­वि­नो­दा­दिना वा आल­स्य­नि­द्रा­दि­ता­म­स­ध­र्मान् नाशयन्तीति । रजः सत्त्वात् चित्तै­का­ग्र्य­रूप सत्त्वकार्येण कर्मणि प्रवृत्तीश्च त्यजन्तीति रजः सत्त्वान्नश्यति । तदपि सत्त्वं शुद्धेन निर्गुणेन नश्यति । निर्गुणप्राप्तौ सत्त्ववृत्तेः ज्ञानस्यापि नाशात् । तस्मा­त्स­त्त्व­म­व­ष्टभ्य अवलम्ब्य तमः­कृ­ता­व­र­ण­का­लि­क­र­जः­कृ­त­वि­क्षे­प­रू­पाणां स्वाध्यासानां भ्रमाणाम् अपनयं नाशं कुरु ॥२७९॥

ज्ञानसाधनत्वात् शरीरस्य तद्रक्षायै तदभिमान आवश्यकः इति चेदाह प्रारब्धमिति −

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥

२८०

प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चलः निर्विकारचित्तः धैर्यं विकारहेतावपि अवि­कृ­त­चि­त्त­त्वम् अवलम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥

तत्प्रकारं विशदयति नाहमिति −

नाहं जीवः परं ब्रह्मे­त्य­त­द्व्या­वृ­त्ति­पू­र्व­कम् ।
वासनावेगतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥२८१॥

२८१

नाहं जीवः किन्तु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य बुद्धि­म­नः­प्रा­ण­श­री­रादेः व्यावृ­त्ति­पू­र्व­कम् −

नाहं देहो नेन्द्रि­या­ण्य­न्त­रङ्गं नाहङ्कारः प्राणवर्गो न बुद्धिः । दारा­प­त्य­क्षे­त्र­वि­त्ता­दि­दूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ (अद्वै.पञ्च. १)

इति निषेधपुरस्सरं वासनावेगतः पूर्वं प्राप्ताः ये स्वाध्यासाः तेषाम् अपनयं कुरु । यद्वा वासनापदेन अना­दि­का­ल­प्र­वृ­त्ता­ना­त्म­वा­सनाः ग्राह्याः तासां वेगतः प्राप्त­स्वा­ध्या­सा­नाम् अपनयम् अत­द्व्या­वृ­त्ति­पू­र्व­कम् अहं परं ब्रह्मेति निर­न्त­रा­नु­स­न्धा­नेन कुरु इति योजनीयम् ॥२८१॥

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वा­त्म्य­मा­त्मनः ।
क्वचिदाभासतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥२८२॥

२८२

श्रुत्येति । ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) इत्या­दि­श्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति तत्ततो नातिरिच्यते यथा मृदो घटः दुन्दु­भि­श­ङ्ख­वी­णा­श­ब्द­सा­मा­न्य­वि­शेषा वा इति श्रुत्य­नु­सा­रिण्या युक्त्या ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१४) इति श्रुतेः, सर्वस्य आत्म­भा­न­भा­स्य­त्वात् न तदतिरिक्तत्वं सक­ल­क­ल्प­ना­धि­ष्ठा­न­त्वाच्च ‘नाधिष्ठानाद् भिन्न­ताऽऽ­रो­पि­तस्य’ इत्यादि युक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः चैत­न्य­प्र­ति­फ­ल­न­मा­त्रात् प्राप्त­स्वा­ध्या­सा­प­नयं कुरु अहन्तां नाशय ॥२८२॥

अन्ना­दा­न­वि­स­र्गा­भ्या­मी­ष­न्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८३॥

२८३

अन्नादानेति । मुनेः सततं पर­मा­त्म­म­न­न­शी­लस्य अन्ना­दा­न­वि­स­र्गा­भ्याम् अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन् परमात्मनि एका अनन्यतया या निष्ठा नितरां स्थितिः तस्मिन् एकस्मिन् निष्ठा वा तया स्वाध्यासापनयं कुरु ॥२८३॥

तत्त्व­म­स्या­दि­वा­क्यो­त्थ­ब्र­ह्मा­त्मै­क­त्व­बो­धतः ।
ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय स्वाध्यासापनयं कुरु ॥२८४॥

२८४

तत्त्वमसीति । तत्त्व­म­स्या­दि­वा­क्येभ्यः उत्थः जातः, यः ब्रह्मात्मनोः एकत्वस्य बोधः ततः तद्बलेन, ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय दार्ढ्यं च देहात्मज्ञानवत् ब्रह्मा­त्म­त्व­ज्ञानं तस्मै स्वाध्यासापनयं कुरु अनात्मभ्रान्तौ महावाक्येभ्यः बोधस्यैवाजननात् ॥२८४॥

कियत्कालं भ्रान्ति­नि­रा­स­प्र­यत्नः करणीय इति चेदाह अहमिति −

अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥

२८५

अस्मिन् स्थूलदेहे अहंभावस्य निश्शेषविलयावधि वासनया सह नाशपर्यन्तं, सावधानेन युक्तात्मा अप्र­म­त्ता­न्तः­क­रणः सन् स्वाध्यासापनयं कुरु ॥२८५॥

एवम् −

प्रती­ति­र्जी­व­ज­गतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥२८६॥

२८६

प्रतीतिरिति । यावता कालेन जीवस्य जगतश्च प्रतीतिः प्रबुद्धस्य स्वप्नवत् निश्चि­त­मि­थ्या­त्वकं भाति ताव­त्का­ल­प­र्यन्तं निरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥२८६॥

एवं नवभिः श्लोकैः अना­त्म­भ्रा­न्त्य­प­न­य­मु­प­दिश्य आत्मनाशहेतोः विस्मृतेः किञ्चिदप्यवकाशो न देय इति विस्मृ­ति­हे­तु­वि­श­द­नेन उपदिशति निद्राया इति −

निद्राया लोक­वा­र्ता­या­श्श­ब्दा­दे­रपि विस्मृतेः ।
क्वचिन्नावसरं दत्वा चिन्त­या­त्मा­न­मा­त्मनि ॥२८७॥

२८७

निद्रायाः पञ्चमी, एवं लोकवार्तायाः शब्दादेरपि विषयात् प्रसज्यमाना या विस्मृतिः आत्मविस्मरणं तस्याः, क्वचित् कदाचिदपि अवसरमवकाशम् अदत्त्वा आत्मानं परं स्वरूपम् , आत्मनि बुद्धौ चिन्तय । उक्तं हि − ‘दद्यान्नावसरं किञ्चि­त्का­मा­दीनां मनागपि’ इति । यद्वा सर्वत्र षष्ठी निद्रायाः लोकवार्तायाः शब्दादेः विस्मृतेरपि क्वचि­द­प्य­व­स­र­म­दत्त्वा चिन्त­या­त्मा­न­मा­त्म­नी­त्यर्थः । उक्तं हि मोक्षधर्मेषु −

अप्रा­श­न­म­सं­स्प­र्श­म­स­न्द­र्श­न­मेव च । पुरुषस्यैष नियमो मन्ये निःश्रेयसं वरम् ॥ (१७३.३१) इति ॥२८७॥

यद­भि­मा­न­नि­ब­न्धनाः सर्वे दोषाः तं स्थूलदेहं मा कदा­चि­द­प्या­त्म­त्वेन मंस्था इत्याह मातापित्रोरिति −

माता­पि­त्रो­र्म­लो­द्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥२८८॥

२८८

मातापित्रोः मलोद्भूतं शुक्ल­शो­णि­त­जन्यं, मलमांसमयं हेतुतः स्वभावतश्च बीभ­त्स­मि­त्यर्थः, वपुः शरीरं चण्डालमिव दूरं त्यक्त्वा तत्रा­त्म­त्वा­भि­मा­न­म­कृत्वा, ब्रह्मीभूय आज्ञानिकम् अब्रह्मत्वं विधूय स्वयं ब्रह्मेति विज्ञाय, कृती कृतकृत्यो भव । कृती धीमान्वा ॥२८८॥

त्यक्त्वा स्थूलाभिमानं तत्प­रि­च्छे­दा­त्प­रि­च्छि­न्न­मिव भासमानं जीवमपि उपा­धि­प्र­वि­ला­प­नेन विलापयेत्याह घटेति −

घटाकाशं महाकाश इवात्मानं परात्मनि ।
विला­प्या­ख­ण्ड­भा­वेन तूष्णीं भव सदा मुने ॥२८९॥

२८९

महाकाश एव घटे­ना­व­च्छि­द्य­मानः घटाकाश उच्यते । एवं बुद्ध्या­द्यु­पा­धिना परात्मा जीव उच्यते । धिया घटस्य पृथक्करणे घटाकाशो महाकाश एव । एवमुपाधीनां सर्वो­पा­दा­न­स­र्व­क­ल्प­ना­धि­ष्ठा­न­ब्र­ह्मा­व्य­ति­रि­क्त­त्व­ज्ञा­नेन स्वरूपतः निषेधे कृते अखण्डभावेन परि­च्छे­दा­पा­द­क­स्या­भा­वात् अप­रि­च्छि­न्ना­का­र­तया सदा मुने तूष्णीं भव कर्त­व्या­न्त­रा­भा­वात् । उक्तं हि गीतासु ‘एतद् बुद्ध्वा बुद्धि­मा­न्स्यात् कृतकृत्यश्च भारत’ । (१५.२०) इति ॥२८९॥

स्वप्र­का­श­म­धि­ष्ठानं स्वयम्भूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२९०॥

२९०

स्वप्रकाशमिति । स्वप्रकाशं चिद्रूपतया स्वतः सिद्धम् , अधिष्ठानं सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानम् , स्वयम्भूत्वा सदात्मना, ब्रह्माण्डं चतु­र्द­श­भु­व­ना­त्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत् मलपूर्णघटवत् त्यज्यतां नैव स्मर्य­ता­मि­त्यर्थः ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इति प्रमाणात् । सदात्मना त्यागो नाम नास्ति­त्वा­पा­दा­न­मेव ॥२९०॥

चिदात्मनि सदानन्दे देहा­रू­ढा­म­ह­न्धि­यम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९१॥

२९१

चिदात्मनीति । देहा­रू­ढा­म­ह­न्धि­यम् अहमितिमतिं सदानन्दे चिदात्मनि स्वय­म्प्र­का­श­नि­त्या­न­न्द­स्व­रूपे परमात्मनि निवेश्य आधाय, लिङ्गं सूक्ष्मशरीरम् उत्सृज्य तादा­त्म्ये­ना­न­भि­मत्य सर्वदा केवलो भव असङ्गो भव सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हितो वा भव । भेद­स्या­ज्ञा­नि­क­त्वात् परमात्माहमिति ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१॥

यत्रैष जगदाभासः दर्पणान्तः पुरं यथा ।
तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥

२९२

यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जन­गि­रि­न­दी­प्रा­सा­दा­दि­रूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥

यत्सत्यभूतं निजरूपमाद्यं
चिद­द्व­या­न­न्द­म­रू­प­म­क्रि­यम् ।
तदेत्य मिथ्या­व­पु­रु­त्सृ­जैत-
च्छैलू­ष­व­द्वे­ष­मु­पा­त्त­मा­त्मनः ॥२९३॥

२९३

यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दम् अरूपमक्रियं यदाद्यं सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्य प्राप्य ज्ञानमेवात्र प्राप्तिः कण्ठचामीकरवत् , एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहम्भावं कुरु । यथा शैलूषः नटः आत्मनः उपात्तं वेषमुत्सृजति तद्वत् ॥२९३॥

पुनरात्मानम् अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढर्याय सर्वात्मनेति −

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणि­क­त्व­द­र्श­नात् ।
जानाम्यहं सर्व­मि­ति­प्र­तीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९४॥

२९४

अहंपदार्थः सत्यः नित्यश्च, इदं दृश्यं मृषैव क्षणि­क­त्व­द­र्श­नात् क्षणे अहं पश्यामीति क्षणे अहं शृणोमीति एवम् अहं जिघ्रामि रसयामि गच्छामीत्यादिना यत्र यत्र अहं­वृ­त्ति­स­म्बन्धः स सः अह­म­ह­मि­त्य­भि­ल­प्यते नहि बहूनाम् अहन्त्वं सम्भवति आत्मनः एकत्वात् । यदा अहं­वृ­त्ति­स­म्बन्धः तदैषां भानं वृत्तेः क्षणिकत्वात् सम्बद्धानां च तथात्वमेव अभासमानस्य सत्त्वे प्रमाणाभावात् अतः जडत्वेन क्षणिकत्वेन सर्वात्मना सर्वप्रकारैश्च इदं दृश्यं मृषैव नैवाहमर्थः । तदुपपादयति अहं सर्वं जानामीति प्रतीतिः क्षणिकस्य अहमादेः कथं सिध्येत् इति । नहि चक्षुः रसं जानाति श्रोत्रं वा रूपम् । अतः ‘गन्धाय घ्राणं’(ब्र.सू.भा. २.३.१८) इत्यादिश्रुत्या तेषां रूपा­द्या­का­र­वृ­त्ति­क­र­ण­त्वेऽपि नाहमर्थत्वम् । नहि मनो वा स्वकीयवृत्तीः ज्ञातुमीष्टे जडत्वात् कर्तृ­क­र्म­वि­रो­धाच्च ॥२९४॥

अतः आत्मा अन्यः, तत्स्फुटयति अहमिति −

अहं­प­दा­र्थ­स्त्व­ह­मा­दि­साक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिस्स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥

२९५

अहमादेः दृश्यस्य अहं­प­दा­र्थ­त्वा­भावे कस्य तथात्वमिति चेत् आह अहंपदार्थस्तु तु शब्दः दृश्यानाम् अहं­प­दा­र्थ­त्व­व्या­व­र्तकः । अहमादिसाक्षी अहमादीनां सर्वेषाम् अज्ञा­ना­दि­दृ­श्यानां साक्षी नित्यं वस्तु सुषुप्तावपि यदा अहंवृत्तेरभावः लयः तस्यां सुषुप्तावपि भावदर्शनात् ‘सुख­म­ह­म­स्वा­प्सम्’ इति । अनुभवे विवदमानमाह ब्रूत इति । ‘अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।’(कठ. २.१८) इत्यात्मा नित्य इति ब्रूते श्रुतिः स्वयम् , तत् तस्मात् कारणात् प्रत्यगात्मा सच्चिदानन्दरूपः आत्मा सदसद्विलक्षणः व्यक्ता­व्य­क्त­भिन्न इत्यर्थः ॥२९५॥

विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनो­र­थ­स्व­प्न­सु­षु­प्तिषु स्फुटं
पुनः पुनः दृष्ट­म­स­त्त्व­मे­तयोः ॥२९६॥

२९६

विकारिणां देहादीनां जन्मा­दि­ना­शान्ताः ये विकाराः तेषां सर्वेषां वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते । अनित्यत्वे सर्व­वि­का­र­वे­त्तृ­त्वा­स­म्भ­वात् । स्वस्य विकारवत्वे कर्तृ­क­र्म­वि­रो­धेन तज्ज्ञा­ना­स­म्भ­वात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इत­र­वि­का­रि­वि­का­र­ज्ञा­ना­स­म्भ­वाच्च । अतः नित्य­त्व­म­वि­का­रत्वं च वक्तव्यम् । एतेन बुद्धि­सु­ख­दुः­खा­दि­म­त्त्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति सूचितम् । पिण्ड­त­द­भि­मा­निनोः आत्मत्वं न सम्भवतीत्याह मनोरथेति । मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्ड­त­द­भि­मा­निनोः पुनःपुनरसत्त्वं स्फुटं दृष्टं प्रसिद्धम् धारावाहिक्यां कल्पनायां व्यासक्तमनसा वर्ष­वा­ता­त­पा­दि­बाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्त्वेऽपि तत्रा­भि­मा­ना­भा­वात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने शरीरान्तरस्यैव सृष्टेः तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः अत एवोक्तम् −

स्वप्नेऽ­र्थ­शून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मन एव सर्वम् । (श्लो. १७२) इति ।

सुषुप्तौ पिण्डाहङ्कारयोः अभावः सिद्ध एव इति स्फुटं दृष्ट­मि­त्यु­क्तम् । एतेन सर्व­भा­वा­भा­व­साक्षी नित्यः एकरूपः इत्युक्तं भवति ॥२९६॥

अतोऽभिमानं त्यज मांसपिण्डे
पिण्डा­भि­मा­नि­न्यपि बुद्धिकल्पिते ।
काल­त्र­या­बा­ध्य­म­ख­ण्ड­बोधं
ज्ञात्वा स्वमा­त्मा­न­मु­पेहि शान्तिम् ॥२९७॥

२९७

अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डा­भि­मा­नि­न्यपि चित्प्रतिबिम्बे अभिमानम् आत्मबुद्धिं त्यज । तह्यर्हं क इति चेत् कालत्रयाबाध्यं नित्यबोधं स्वम् आत्मानं ज्ञात्वा शान्तिम् आत्य­न्ति­क­दुः­ख­नि­वृ­त्तिम् उपेहि मुक्तिं लभस्व ॥२९७॥

स्वाध्यासापनयं कुरु इत्य­त्रो­क्त­मर्थं स्फुटयति त्यजेति −

त्यजाभिमानं कुलगोत्रनाम-
रूपा­श्र­मे­ष्वा­र्द्र­श­वा­श्रि­तेषु ।
लिङ्गस्य धर्मानपि कर्तृतादीं-
स्त्यक्त्वा भवा­ख­ण्ड­सु­ख­स्व­रूपः ॥२९८॥

२९८

आर्द्र­श­वा­श्रि­तेषु स्थूल­दे­हा­श्रि­तेषु कुल­गो­त्र­ना­म­रू­पा­श्र­मेषु अभिमानं ममतां त्यज । एवं लिङ्गस्य सूक्ष्मदेहस्य धर्मान् कर्तृतादीनपि त्यक्त्वा अनित्यत्वात् विकारित्वाच्च स्थूलसूक्ष्मयोः अखण्डसुखस्वरूपः भव इत्युपदेशः आशीश्च ॥२९८॥

सर्वानर्थहेतुम् आत्मानुभूतौ मुख्यं प्रतिबन्धकमाह यस्मि­न्न­नु­न्मू­लिते इतरन्नैव जायते ‘सन्त्यन्य’ इत्यादिभिः त्रयोदशभिः −

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥२९९॥

२९९

पुंसः पुरुषस्य संसारहेतवः रागद्वेषादयः अन्ये अहङ्कारादन्ये प्रतिबन्धाः आत्म­ज्ञा­ना­नु­त्प­त्ति­प्र­यो­जकाः दृष्टाः । तेषामेषाम् अज्ञा­न­प्र­थ­म­वि­कारः अहङ्कारः मूलं भवति ॥२९९॥

याव­त्स्या­त्स्वस्य सम्ब­न्धोऽ­ह­ङ्का­रेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥३००॥

३००

दुरात्मना सकलबन्धहेतुतया दुष्टस्वभाववता अहङ्कारेण, यावत्स्वस्य पुंसः सम्बन्धः स्यात् तावत्पर्यन्तम् , विलक्षणा बन्ध­वि­रु­द्ध­नि­त्य­नि­र­ति­श­य­सु­ख­स्व­रूपा या मुक्तिः तद्वार्ता लेशमात्रापि न सम्भवति । सर्व­ब­न्ध­मू­ल­भू­ताऽ­ह­ङ्का­र­वान् न सुतरां मुक्तशब्दार्ह इति भावः ॥३००॥

तदभावे मुक्तिमाह अहङ्कारेति −

अह­ङ्का­र­ग्र­हा­न्मुक्तः स्वरूपमुपपद्यते ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥३०१॥

३०१

अहङ्कार एव ग्रहः गृह्णातीति राहुः तस्मा­त्स्व­रू­प­ति­रो­धा­य­का­न्मुक्तः चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत आह विमलः शुद्धः पूर्णः अपरिच्छिन्नः सदानन्दः नित्यसुखरुपः स्वयम्प्रभः चिद्रूपतया स्वयम्प्रकाशः इत्यर्थः । एत­द्ध­र्म­च­तु­ष्टयं राहुमुक्ते चन्द्रेऽपि समानम् । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरू­प­प्रा­प्ते­रेव मुक्तित्वात् अहङ्कारमोक्षे मुक्तिः सिद्ध्य­ती­त्यु­क्तम् ॥३०१॥

तस्य कल्पिततया नाशं सम्भावयति य इति −

यो वा पुरैषोऽहमिति प्रतीतः
बुद्ध्याऽ­वि­वि­क्त­स्त­म­सा­ति­मू­ढया ।
तस्यैव निश्शेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२॥

३०२

तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया बुद्ध्या अविविक्तः पुरा एषोऽहमिति यो वा । वेति प्रसिद्धौ । प्रतीतः परिच्छिन्नतया ज्ञातः । तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः । ब्रह्मात्मभावः प्रतिबन्धशून्यः । नो चेत् विपरीतभावना यावत्पर्यन्तं न ताव­द­प­रि­च्छि­न्न­ब्र­ह्मा­त्म­त्व­ज्ञानं सुलभम् ॥३०२॥

तस्याहङ्कारस्य नाशः कथमिति चेदाह ब्रह्मेति −

ब्रह्मा­न­न्द­नि­धि­र्म­हा­ब­ल­व­ताऽ­ह­ङ्का­र­घो­रा­हिना
संवेष्ट्यात्मनि रक्ष्यते गुण­म­यै­श्च­ण्डै­स्त्रि­भि­र्म­स्तकैः ।
विज्ञा­ना­ख्य­म­हा­सिना द्युतिमता विच्छिद्य शीर्षत्रयं
निर्मू­ल्या­हि­मिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥३०३॥

३०३

सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत् सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहङ्कार एव घोराहिः भयानकसर्पः तेन गुणमयैः सत्त्व­र­ज­स्त­मो­रूपैः त्रिभिः चण्डैः भीकरैः मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमनर्हः क्रियते । विज्ञा­ना­ख्य­म­हा­सिना निदि­ध्या­स­न­ज­न्या­नु­भ­व­नाम्ना महता खड्गेन द्युतिमता निशितेन स्वय­म्प्र­का­शा­त्म­वि­ष­य­क­तया द्युतिमत्त्वम् , शीर्षत्रयं सत्त्व­र­ज­स्त­मो­गु­णा­त्मकं विच्छिद्य अहिम् अहङ्कारसर्पं निर्मूल्य निरवशेषं कृत्वा, सुखकरम् इमं निधिं ब्रह्मा­न­न्दा­भिधं, धीरः वश्यात्मा अनुभोक्तुं क्षमः समर्थः । एतेन सम्य­ग्वि­वे­क­ज­नि­त­वि­ज्ञा­न­ना­श्य­त्वम् अह­ङ्का­र­स्यो­क्तम् ॥३०३॥

वासनात्मनापि साहन्ता नावशेषणीयेत्याह । पूर्वश्लोके निर्मू­ल्ये­त्युक्तं विव्रियते यावदिति −

यावद्वा यत्किञ्चिद् विष­दो­ष­स्फू­र्ति­रस्ति चेद्देहे ।
कथमारोग्याय भवेत् तद्वदहन्तापि योगिनो मुक्त्यै ॥३०४॥

३०४

देहे यावद्वा यत्किञ्चित् ईषदपि इति पदद्वयस्यार्थः । विष­दो­ष­स्फू­र्ति­रस्ति चेत् कथमारोग्याय भवेत् । तद्वदहन्तापि वासनात्मना वा यावदस्ति तावद्योगिनो मुक्त्यै प्रतिबन्धिका इति भावः । अतः निर­व­शे­ष­मु­न्मू­लनं कार्यं तस्याः ॥३०४॥

तदा तु −

अह­मोऽ­त्य­न्त­नि­वृत्त्या तत्कृ­त­ना­ना­वि­क­ल्प­सं­हृत्या ।
प्रत्य­क्त­त्त्व­वि­वे­का­द­य­म­ह­म­स्मीति विन्दते तत्त्वम् ॥३०५॥

३०५

अहमः अहङ्कारस्य अत्य­न्त­नि­वृत्त्या अपुनरुत्पादं नाशेन, तत्कृ­त­ना­ना­वि­क­ल्प­सं­हृत्या निमि­त्ता­पा­या­न्नै­मि­त्ति­का­नाम् अपाय इति द्योतयति तत्कृतेति । प्रथ­म­वि­का­र­भू­ता­ह­ङ्का­र­मू­ल­कानां नानाविधानां कुल­गो­त्र­ना­म­रू­पा­श्र­मा­द्या­श्रि­ता­नाम् अभिमानानां विवि­ध­क­ल्प­ना­रू­पाणां संहृत्या, अनेन सर्व­भ्रा­न्ति­नि­रास उक्तः । तदा प्रत्य­क्त­त्त्व­वि­वे­कात् आत्म­या­था­त्म्यस्य विविच्य अना­त्मा­स­ङ्की­र्ण­तया ज्ञानात् अयमहमस्मीति तत्त्वं विन्दते अपरोक्षतया जानाति ॥३०५॥

अह­ङ्क­र्त­र्य­स्मिन् अहमितिमतिं मुञ्च सहसा
विका­रा­त्म­न्या­त्म­प्र­ति­फ­ल­जुषि स्वस्थितिमुषि ।
यद­ध्या­सा­त्प्राप्ता जनि­मृ­ति­ज­रा­दुः­ख­ब­हुला
प्रती­च­श्चि­न्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥

३०६

अहमिति । प्रतीचः आन्तरस्य चिन्मूर्तेः ज्ञानशरीरस्य, सुखतनोः आनन्दघनस्य, तव आत्मनः यदध्यासात् यस्मिन्नहमिति तादा­त्म्य­भ्रान्त्या, जनि­मृ­ति­ज­रा­दुः­ख­व­हुला स्पष्टम् , इयमनुभवसिद्धा संसृतिः, प्राप्ता प्राप्तेव भाति, अस्मिन् विकारात्मनि सूक्ष्म­भू­त­कार्ये, आत्मप्रतिफलजुषि आत्म­प्र­ति­बि­म्ब­ग्रा­हिणि, स्वस्थितिमुषि स्वस्य या सहजा स्थितिः चिदानन्दरूपता तां मुष्णातीति स्वस्थितिमुट् तस्मिन् परा­क्त्वा­पा­द­क­त्वेन स्वस्व­रू­प­च्या­वके अहङ्कर्तरि अहङ्कारे, अनात्मनि अहमितिमतिम् , सहसा मुञ्च इति परमोपदेशः ॥३०६॥

उक्तमर्थं बुद्धौ सम्यगारोहाय कृपया पुनराह सदेति −

सदैकरूपस्य चिदात्मनो विभो­रा­न­न्द­मू­र्ते­र­न­व­द्य­कीर्तेः ।
नैवान्यथा क्वाप्य­वि­का­रि­णस्ते विना­ह­म­ध्या­स­म­मुष्य संसृतिः ॥३०७॥

३०७

सर्वाणि विशेषणानि हेतुगर्भाणि अहङ्काराध्यासेन नानारूपता जडता परिच्छिन्नता दुःखं दुर्यशस्त्वं च प्राप्तमिति द्योतयितुम् । सदा नित्यम् एकरूपस्य, सदेकरूपस्य इति वा पाठः काल­त्र­या­बा­ध्यै­क­स्व­रू­प­स्ये­त्यर्थः । चिदात्मनो विभोः अपरिच्छिन्नस्य आनन्दमूर्तेः अनवद्यकीर्तेः श्रुतिशिखरेषु पर­ब्र­ह्म­स्व­रू­प­तया बोद्ध्यमानतया नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­रू­पस्य अविकारिणः ते तव, अमुष्य पराचः अहङ्कारस्य, अहमध्यासं विना तादा­त्म्य­भ्रा­न्ति­म­न्तरा अहङ्कारे अहमिति या बुद्धिः तां विनेति यावत् , अमुष्येति षष्ष्ठी सम्बन्धार्थिका संसृतिः जनिमृतिजरा दुःखजटिला अन्यथा प्रकारान्तरेण वस्तुत इति यावत् नैव सम्भवति ॥३०७॥

यस्मादेवम् ,

तस्मा­द­ह­ङ्का­र­मिमं स्वशत्रुं
भोक्तुर्गले कण्ट­क­व­त्प्र­ती­तम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वा­त्म­सा­म्रा­ज्य­सुखं यथेष्टम् ॥३०८॥

३०८

भुञ्जानस्य कण्ठे कण्टकमिव प्रतिपन्नं स्वरू­पा­न­न्दा­नु­भ­व­प्र­ति­ब­न्ध­क­तया स्वशत्रुम् इमं प्रत्य­क्ष­सि­द्धम् अहङ्कारं, तस्मा­द­सं­सा­रि­णोऽपि संसा­रा­पा­द­क­त्वात् , विज्ञानमहासिना पञ्च­को­श­वि­वे­क­ज­नि­त­वि­ज्ञा­न­नि­शि­त­ख­ङ्गेन विच्छिद्य अपुनर्भवं विनाश्य आत्म­सा­म्रा­ज्य­सु­खम् अन­न्या­धी­न­नि­र­न्त­रा­ख­ण्डा­नन्दं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुङ्क्ष्व अनुभव ॥३०८॥

अन­न्त­र­क­र्त­व्य­मु­प­दि­शति तत इति −

ततोऽ­ह­मा­दे­र्वि­नि­वर्त्य वृत्तिं
सन्त्यक्तरागः परमार्थलाभात् ।
तूष्णीं समा­स्वा­त्म­सु­खा­नु­भूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०९॥

३०९

ततः अहङ्कारादौ तादा­त्म्य­भ्रा­न्ति­ना­शा­न­न्त­रम् , अहमादेः पञ्चमी, अहङ्कारादेः सकाशात् वृत्तिं विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थलाभात् नित्य­स्व­प्र­का­शा­न­न्द­रू­पो­त्कृ­ष्ट­प्र­यो­ज­न­ला­भात् , बहिः सन्त्यक्तरागः विषयविमुख इति यावत् , आत्म­सु­खा­नु­भूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि तूष्णीं समास्स्व ॥३०९॥

पुनः पुनः उप­दि­ष्ट­स्यो­प­देशे कारणमाह समूलकृत्तोऽपीति −

समूलकृत्तोऽपि महानहं पुन-
र्व्युल्ले­खि­त­स्स्या­द्यदि चेतसा क्षणम् ।
सञ्जीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥३१०॥

३१०

महान् अनादिकालात् शाखोपशाखतया वृद्धः अहम् अहङ्कारः, समूलकृत्तोऽपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोऽपि पुनःचेतसा यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात् , सञ्जीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोऽपि नामावशेषतां नीतोऽपि वारिदः मेघः, प्रावृषि वर्षर्तौ नभस्वता वायुना नीतः सम्भृतसलिलः यथा वर्षति तथा ॥३१०॥

नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विष­या­नु­चि­न्त­न­मेव तत्र हेतुरिति सदृष्टान्तमाह निगृह्येति −

निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया ।
स एव सञ्जीवनहेतुरस्य
प्रक्षी­ण­ज­म्बी­र­त­रो­रि­वाम्बु ॥३११॥

३११

निगृह्य निग्रहं कृत्वा शत्रोरहमः सर्वनाशहेतोः अहङ्कारस्य, विषयानुचिन्तया क्वचिदप्यवकाशो न देयः, स एव विषयानुचिन्तैव अस्य अहङ्कारस्य सञ्जीवनहेतुः । वक्ष्यति हि

न प्रमा­दा­द­न­र्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोह­स्त­तोऽ­ह­न्धी­स्ततो बन्धस्ततो व्यथा ॥ (श्लो. ३२३) इति ।

सञ्जीवनहेतुरिति विधे­य­प्रा­धा­न्यात् विष­या­नु­चि­न्तायाः स एवेति पुंलि­ङ्ग­व्य­प­देशः । क्षीणस्य पुनर्वृद्धौ दृष्टान्तमाह प्रक्षीणेति । प्रक्षी­ण­ज­म्बी­र­तरोः शुष्कस्यापि जम्बीरवृक्षस्य अम्बु जलं वृद्धिहेतुभूतं भवति । एवं विवेकविज्ञानेन नाशि­तोऽ­प्य­ह­ङ्कारः प्रमा­दा­द्वि­ष­या­नु­चिन्ता यदि क्रियेत पुनः प्राप्तजीवनः संसारयतीति भावः । विष­या­नु­चि­न्ता­या­मपि नष्ट­स्या­ह­ङ्का­रस्य कथमुज्जीवनम् इति शङ्कायाम् −

विष­ये­ष्वा­वि­श­च्चेतः सङ्कल्पयति तद्गुणान् । सम्य­क्स­ङ्क­ल्प­ना­त्कामः कामात्पुंसः प्रवर्तनम् ॥ ततः स्वरूपविभ्रंशः विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह इष्यते ॥ (श्लो. ३२७-३२८)

इति प्रणालिकया विषयेषु कामः सङ्कल्पजन्यः सङ्कल्पश्च सम्य­क्त्व­बुद्धिः आन­न्द­ज­न­क­त्व­ज्ञानं, स चानन्दः वैषयिकः मनस एव । यदि सन्ततं स्वरूपनिष्ठः तदा कुतःविषयचिन्ता कुतस्तरां तेषु सङ्कल्पः कुतस्तमां कामः । ततः स्वरूपविस्मृतिः विषयचिन्तया भवति । यदा विस्मृतं स्वरूपं तदा अहङ्कारमेव आत्मत्वेन मन्यते तत्राहन्धियं विना देहानुकूलतया प्रतीयमानेषु विषयेषु कामानुत्पत्तेः । ततः अहङ्कारद्वारा मनः­प्रा­ण­स्थू­ल­दे­हा­दि­कम् आत्मत्वेन मत्वा पूर्ववत् विषयान्कामयमानः संसरति, तदिदमुक्तं पूर्वम् −

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्य­ग्दृ­ष्ट्या­त्मनि निवसता सापनेया प्रयत्नात् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ (श्लो. २६८)

इति सूत्रेण श्लोकेन । अनन्तरग्रन्थः तद्विवरणरूपः ज्ञातवस्तुनः पुरुषस्य निर­न्त­र­ब्र­ह्म­निष्ठां द्रढयति ॥३११॥

तत्र याऽस्य संसा­र­हे­तु­रि­त्य­स्या­र्थ­माह देहात्मनेति −

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽ­र्थ­स­न्धा­न­प­र­त्व­मेव
भेदप्रसक्त्या भवबन्धहेतुः ॥३१२॥

३१२

देहात्मना संस्थित एव कामी, निर­न्त­रा­न­न्द­स्व­रू­पेण स्थितौ कुतः क्षणि­का­न­न्द­हे­तुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तम् विलक्षणः कामयिता कथं स्यादिति ।

आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४१२)

इति श्रुतेः, ‘आप्तकामम् , आत्मकामम् , अकामं शोकान्तरम्’ इति च । अतोऽ­र्थ­स­न्धा­न­प­र­त्व­मेव विष­या­नु­चि­न्त­न­स­क्त­त्व­मेव स्वरू­प­वि­भ्रं­श­न­द्वारा देहादौ अहन्तामाबध्य भेदप्रसक्त्या भेदप्रसञ्जनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्य­का­म­यि­तृ­का­म­ना­दि­भेदः कुतस्त्य इति भावः ॥३१२॥

तावतापि नष्ट­स्या­ह­ङ्का­रस्य सञ्जीवनं कथमिति चेदाह कार्येति −

कार्य­प्र­व­र्ध­ना­द्बी­ज­प्र­वृद्धिः परिदृश्यते ।
कार्य­ना­शा­द्बी­ज­ना­श­स्त­स्मा­त्कार्यं निरोधयेत् ॥३१३॥

३१३

लोके कार्य­प्र­व­र्ध­नात् कार्य­स्या­ङ्कु­रादेः प्रकर्षेण स्कन्ध­शा­खो­प­शा­खा­दि­रू­पेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः असम्भवात् कीटादिभक्षिते बीजे अङ्कु­रा­दी­ना­म­नु­त्पत्तेः । अत एकमपि बीजं धर­णि­स­लि­ल­सं­यो­ग­दो­ह­दा­दिना सम्य­क्प्र­वृ­द्धम् अङ्कु­र­प­त्र­स्क­न्ध­शा­खा­पु­ष्प­फ­ल­रू­पेण वृद्धिं प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्यनाशात् बीजनाशोऽपि, अङ्कु­रा­दि­नि­मि­त्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्त्या बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु प्रथमो योऽहङ्कारः तं विना नैव भवति, विष­या­नु­चि­न्त­न­वृद्ध्या बीजभूताहङ्कारो वृद्धो ज्ञेयः । एवं विवे­क­वि­ज्ञा­न­ना­शि­तो­प्य­ह­ङ्कारः अना­दि­का­ल­प्र­वृ­त्त­तया वासनात्मना शिष्यमाणः सदा प्रत्य­ग्दृष्ट्या आत्मनि निष्ठाभावे वृद्धिं प्राप्य पुनः संसारमापादयेत् । अतः निर­न्त­र­ब्र­ह्म­नि­ष्ठया अप्रमादेन स्थितौ विष­या­नु­चि­न्त­ना­दे­र­न­व­का­शात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥३१३॥

तस्य संसा­र­स­म्पा­द­क­त्व­मु­प­पा­द­यति वासनेति −

वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४॥

३१४

यथा एकोऽपि स्फुलिङ्गः सूक्ष्मोऽपि शुष्क­तृ­ण­सं­यो­गा­द्वृद्धिं प्राप्य महा­न­ग्नि­र्भूत्वा सर्वं वनमेव दहेत् , एवं वासनात्मना स्थितोऽ­प्य­ह­ङ्कारः विषयानुचिन्तनेन आत्मानं स्वरूपतः प्राच्याव्य स्वयं तत्प्रतिफलनबलेन अनेकाकारेण परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रागिव भ्रान्ति­प­र­म्परां कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्याह वासनावृद्धित इति । कार्यं विषयचिन्ता । स्वरू­पा­न­न्द­वि­स्मृत्या विषयलाभार्थं प्रयत्नः, अलाभे दुःखम् , लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणम् , तेन धियो मालिन्यम् , तेन पुन­रा­त्म­ग्र­ह­ण­सा­म­र्थ्या­भावः, ततश्च सर्वदा देहा­द्या­त्म­त्वम् , तेन जरा­म­र­ण­ज­न्मा­दि­रू­प­सं­सा­रा­वि­च्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम् ॥३१४॥

तस्मात् −

संसा­र­ब­न्ध­वि­च्छित्यै तद्द्वयं प्रदहेद्यतिः ।
वासना प्रेर्यते ह्यन्तः चिन्तया क्रियया बहिः ॥३१५॥

३१५

यतिः प्रयत्नशीलः पुमान् संसा­र­ब­न्ध­वि­च्छित्यै संसारहेतुभूतः देहा­त्म­त्वा­दि­स­कल बन्धविनाशाय तद्द्वयं वास­ना­त­त्का­र्य­रूपं द्वयं प्रदहेत् प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् । करुणया तद्वृ­द्धि­नि­मित्तं तन्नाशोपायं च कथयति वासनेति । वासना चिन्तया बहिः क्रियया च हि यस्मात् अन्तः प्रेर्यते अतः प्रदहेत् । पूर्वं कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति । अन्तश्चिन्ता बहिश्शरीरादिना क्रिया चित्प्र­ति­बि­म्ब­ब­ला­भावे जडस्य मनसः क्रिया­ज­न­क­चि­न्ता­सा­मर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहङ्कारद्वारैव । जडस्य शरीरस्य कर्म­क­र­ण­सा­म­र्थ्य­मपि मन आदिद्वारा चिदनुप्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्षात्मना स्थितः अहङ्कारः वृद्धिं प्राप्त इति विज्ञेयम् ॥३१५॥

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयो­पा­य­स्स­र्वा­व­स्थासु सर्वदा ॥३१६॥

३१६

सर्वत्र सर्वतः सर्व­ब्र­ह्म­मा­त्रा­व­लो­क­नम् ।
सद्भा­व­वा­स­ना­दा­र्ढ्यात् तत्त्रयं लयमश्नुते ॥३१७॥

३१७

ताभ्यां चिन्ता­क्रि­याभ्यां प्रवर्धमाना सा वासना, आत्मनः संसृतिं सूते जनयति । पूर्वोक्तरीत्या त्रयाणां च वास­ना­चि­न्ता­क्रि­या­रू­पा­णा­मपि क्षयोपायः सर्वावस्थासु सर्वदा सर्वत्र सर्वतः कालतः देशतः वस्तुतश्च, जाग्र­दा­द्य­व­स्थासु ब्रह्म­व्य­ति­रे­केण किमपि नास्ति ‘इदं सर्वं यदयमात्मा ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) इत्या­दि­श्रु­तिभिः, ‘प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात्’(ब्र.सू. १.४.२३) ‘तद­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र.सू. २.१.१४) इत्यादिसूत्रैः मृल्लो­ह­दु­न्दु­भ्या­दि­दृ­ष्टा­न्तैश्च यश्चोरः स स्थाणुः यद्रजतं सा शुक्तिः इतिवत् सर्वत्र सर्वत्वं बाधित्वा केव­ला­धि­ष्ठा­न­भू­त­ब्र­ह्म­व्य­ति­रे­केण किमपि नास्तीति सर्व­ब्र­ह्म­मा­त्रा­व­लो­क­नम् । एवं यदि ज्ञानं तदा ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्यनुसारेण, ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति स्मृत्या च क्व विषयाः क्वतरां तच्चिन्ता क्वतमां बहिःक्रिया । सर्वं ब्रह्म­मा­त्रा­व­लो­क­नेन सद्भा­व­वा­स­ना­दार्ढ्ये तत्त्रयं वास­ना­चि­न्ता­क्रि­या­रूपं त्रयं लयं नाशमश्नुते प्राप्नोति ॥३१७॥

तथा सर्वं ब्रह्मे­त्य­व­लो­क­ना­स­मर्थं प्रत्युपायमाह कार्यनिरोधेन कारणं निरोद्धव्यमिति क्रियानाश इति −

क्रियानाशे भवे­च्चि­न्ता­ना­शोऽ­स्मा­द्वा­स­ना­क्षयः ।
वासनाप्रक्षयो मोक्षः सजी­व­न्मु­क्ति­रि­ष्यते ॥३१८॥

३१८

पूर्वपूर्वस्य उत्त­रो­त्त­र­ज्ञा­प­कत्वं वा । वासनां विना चिन्तायाः तां विना क्रियायाः अभावात् कार्यनाशात् कारणनाशोऽनुमेय इति भावः । तथा च नैष्क­र्म्ये­णा­व­स्था­न­प­र्यन्तं प्रयत्नः पुरुषेण कर्तव्यः । तदा वासनानां प्रकर्षेण क्षयः सिध्यत्येव स एव मोक्षः स एव जीव­न्मु­क्ति­रि­ष्यते अभिप्रेयते ब्रह्म­वि­द्भि­रिति शेषः । उक्तं हि ‘मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्’(श्लो. २६८) इति । वस्तुनः सूक्ष्मावस्थैव वासना तस्याः तानवं नाश एव ॥३१८॥

‘सद्भा­व­वा­स­ना­दार्ढ्ये तत्त्त्रयं लयमश्नुते’(श्लो. ३१७) इत्युक्तमर्थं सदृष्टान्तमाह सद्वासनेति −

सद्वा­स­ना­स्फू­र्ति­वि­जृ­म्भणे सति
ह्यसौ विलीना त्वहमादिवासना ।
अति­प्र­कृ­ष्टा­प्य­रु­ण­प्र­भायां
विलीयते साधु यथा तमिस्रा ॥३१९॥

३१९

सद्वा­स­ना­स्फू­र्ति­वि­जृ­म्भणे सति श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सं­स्कृ­तस्य मनसः सदा सर्वत्र सद्भावनया सत्सं­स्का­र­स्फु­र­ण­वृद्धौ सत्यां तु असौ विप्रकृष्टा अहमादिवासना आदिपदेन देहे­न्द्रि­य­वि­ष­य­प­रि­ग्रहः । हि निश्चयेन विलीना विशेषेण नष्टा भवतिति शेषः । तत्र दृष्टान्तः अतिप्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायाम् अरुणः सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः ॥३१९॥

ततः −

तम­स्त­मः­का­र्य­म­न­र्थ­जालं
न दृश्यते सत्युदिते दिनेशे ।
तथाऽ­द्व­या­न­न्द­र­सा­नु­भूतौ
नैवास्ति बन्धो न च दुःखगन्धः ॥३२०॥

३२०

अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे सति तमः शार्वरं तमः अन्धकारः तत्कार्यम् अनर्थजालं चक्षुः पीडा चोर­बा­धा­मा­र्ग­स्स्व­ल­ना­दि­जा­त­दुः­ख­क­दम्बं न दृश्यते यथा तथा अद्व­या­न­न्द­र­सा­नु­भूतौ सद्वा­स­ना­स्फु­र­ण­वृ­द्धि­व­शात् सच्चि­दा­न­न्दै­क­र­स­प्र­त्य­ग्ब्र­ह्मा­नु­भवे सति नैवास्ति बन्धः अना­त्म­न्या­त्म­बुद्धिः न च दुःखगन्धः हेतोरध्यासस्य नाशात् । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई.उ. ७) इति श्रुतेः ॥३२०॥

यदि प्रारब्धवशात् जगद् भासेत, तदापि −

दृश्यं प्रतीतं प्रवि­ला­प­य­न्स्वयं
सन्मा­त्र­मा­न­न्द­घनं विभावयन् ।
समाहितस्सन् बहिरन्तरं वा
कालं नयेथास्सति कर्मबन्धे ॥३२१॥

३२१

विप­री­ता­र्थ­धी­र्या­वत् निश्शेषं विनिवर्तते । स्वरूपस्फुरणं यावन्न प्रसि­ध्य­त्य­न­र्ग­लम् । तावत् समाधिषट्केन नयेत् कालं निरन्तरम् ॥ (स.वे.सि. ९०१)

इत्युक्तत्वात् प्रतीतं दृश्यं नाम­रू­प­प्र­वि­ला­प­नेन केव­ला­धि­ष्ठा­न­भूतं ब्रह्म भावयन् स्वयं च सन्मा­त्र­मा­न­न्द­घनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।

इयं भूर्न सन्नापि तोयं न तेजो न वायुर्न खं नापि तत्कार्यजातम् । यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८६)

इत्यादिरीत्या बहिः,

न देहो न चाक्षाणि न प्राणवायुः मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः । यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८९)

इत्यन्तः, शब्दा­नु­वि­द्ध­दृ­श्या­नु­वि­द्ध­स­वि­क­ल्प­क­नि­र्वि­क­ल्प­क­भे­देन बहिरन्तर्वा समाहितमनसा त्वया कर्मबन्धे प्रार­ब्धा­द्वि­क्षेपे प्रसक्ते कालो नेयः इत्यर्थः ॥३२१॥

कदापि कथञ्चिदपि शिष्यो दुःखभाक् माभू­दि­त्य­नु­क्रो­शेन जातविवेकस्यापि दुःख­प्र­स­क्ति­मार्गं पुनराह प्रमाद इत्यादिना विस्तरेण −