विवेकचूडामणिः सव्याख्यः
२९. प्रमादत्यागः
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याह भगवान् ब्रह्मणस्सुतः ॥३२२॥
कदाचन कदापि, ब्रह्मनिष्ठायां प्रमादः अनवधानता च्युतिः न कर्तव्या नाश्रयणीया । यतः भगवान् सर्वज्ञः आजानसिद्धः ब्रह्मणः सुतः सनत्सुजातः धृतराष्ट्रम्प्रति ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति प्रमादो मृत्युरित्याह ॥३२२॥
तदुपपादयति न प्रमादादित्यादिना −
न प्रमादादनर्थोन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोहन्धीः ततो बन्धस्ततो व्यथा ॥३२३॥
ज्ञानिनः स्वस्वरूपतः प्रमादात् प्रच्युतेः अन्यः अनर्थः हानिः न विद्यते यस्मात् ततः स्वरूपप्रच्युतौ सत्यां मोहः विस्मरणं ततोऽनात्मनि अहङ्कारे अहन्धीः ततः बन्धः देहादावध्यासः ततो व्यथा जरामरणादि जन्या ॥३२३॥
अज्ञानिनः एवमस्तु ज्ञानिनोऽप्येवं किं स्यात् इति शङ्कायामाह विषयेति −
विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥३२४॥
योषा प्रियं जारमिव जारम् अन्यासक्तं प्रियमिव स्वपतिमिव वा विस्मृतिः ब्रह्मविस्मृतिः विद्वांसमपि विवेकिनमपि विषयाभिमुखं बहिर्मुखं दृष्ट्वा धीदोषैः ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः, ‘विषयेष्वाविशच्चेतः’(श्लो. ३२७) इत्यादिना वक्ष्यमाणदोषैः, विक्षेपयति नष्टात्मबोधं करोति विशेषेण चालयति दूरं नयति भ्रामयति ॥३२४॥
उक्तमर्थं दृष्टान्तान्तरेण आह सुष्ठुप्रतिपत्तये यथेति −
यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२५॥
पूर्वं कोशपञ्चकस्य शैवालदृष्टान्तेनैव आवारकत्वमुक्तं ‘तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम्’(श्लो. १५२) इति क्षणमात्रं शैवालमपकृष्टं यथा न तिष्ठति पुनरावृणोति सलिलं तथा माया प्राज्ञं वापि कृतकोशपञ्चकनिषेधमपि पराङ्मुखम् आवृणोति तिरोहितस्वरूपं करोति ॥३२५॥
‘न प्रमादादनर्थोऽन्यः’(श्लो. ३२३) इत्युक्तं दृष्टान्तान्तरेण स्फुटयति लक्ष्यच्युतमिति −
लक्ष्यच्युतं चेद् यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत् ततस्ततः ।
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ॥३२६॥
चित्तं यदीषत् लक्ष्यं ब्रह्म ततः च्युतं चेत् बहिर्मुखं सत् अनात्मप्रवणं सत् ततस्ततः अहङ्कारबुद्धिमनःप्राणेन्द्रियदेहविषयेषु निपतेत् यथा प्रमादतः क्रीडतः पुरुषस्य इच्छाभावेऽपि प्रमादतः अनवधानवशात् प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितः अधोऽधो गच्छति न ग्रहीतुं शक्यते तथा ॥३२६॥
प्रमादस्य मृत्युत्वं सुष्ठूपपादयति सार्धद्वयेन −
विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् ।
सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥३२७॥
ततःस्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्षते ।
सङ्कल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥३२८॥
अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥
३२८विषयेषु शब्दादिषु चेतः मनः आविशत् सत् सज्जमानं सत् तद्गुणान् तेषु भोगहेतुतया आनन्दजनकत्वादिगुणान् सङ्कल्पयति चिन्तयति । सम्यक्सङ्कल्पनात् कामः तेषु इच्छा जायते कामात् पुंसः प्रवर्तनं तत्सम्पादने यत्नः ।
‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य चेष्टितं’(म.स्मृ. २.४) इति स्मृतेः । ततस्स्वरूपविभ्रंशः स्वरूपात्प्रच्युतिः विस्मरणमित्यर्थः । विभ्रष्टस्तु अधः अनात्मसु कोशेषु तद्द्वारा दूरदूरेषु विषयेषु पतति गच्छति । पतितस्य अतिदूरं नीतस्य नाशं विना, स्वरूपादर्शनमेव नाशः स्वरूपादर्शने सर्वदा देहादिकम् आत्मत्वेन मन्यमानस्य तस्य मरणादिसत्वात् । अस्यापि सर्वमस्तीति भ्रान्त्या सन्ततसंसारलग्नत्वमेव । पुनर्नारोहः ब्रह्मलाभः ईक्ष्यते, सर्वानर्थस्य कारणं सङ्कल्पं तस्माद्वर्जयेत् न कुर्यात् यथा रोगग्रस्तः वस्तून्यपथ्यानि उत्सृजेत् तथा । स्वरूपच्युतौ महाननर्थः नाशपर्यन्तः ॥३२८॥
अतः प्रमादान्नपरोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ॥३२९॥
अतः विवेकिनः ब्रह्मविदः समाधौ प्रमादात्परः मृत्युर्नास्ति । सम्यक्समाहितः ब्रह्मसंस्थः सिद्धिं मुक्तिमुपैति । त्वमपि सावधानः प्रमादरहितः समाहितात्मा निरन्तरं ब्रह्मनिवेशितान्तःकरणो भव ॥३२९॥
जीवतो यस्य कैवल्यं विदेहे च स केवलः ।
यत्किञ्चित्पश्यतो भेदं भयं ब्रूते यजुश्श्रुतिः ॥३३०॥
यस्य पुंसः जीवतः प्राणान्धरतः कैवल्यं सर्वोपाधिसम्बन्धविनिर्मुक्तत्वम् , स पुरुषधौरेयः विदेहे च देहपातानन्तरमपि केवलः । यत्किञ्चिद्भेदं पश्यतः यजुश्श्रुतिः ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति भयं ब्रूते उत् अपि, अरं स्वल्पम् अन्तरं भेदं स्वल्पमपि भेदं कुरुते पश्यति अथ तदा तस्य भयं भवति इति । कैवल्ये हेतुश्च निर्विकल्पकसमाधिनिष्ठैव । वक्ष्यति ‘उपाधियोगात्स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेः विलयाय विद्वान् वसेत्सदाऽऽकल्पसमाधिनिष्ठया’(श्लो. ३५८) इति ॥३३०॥
‘तत्त्वेव भयं विदुषोऽमन्वानस्य’(तै.उ. २.७) इत्यन्तयजुश्श्रुत्यर्थमाह यदा कदावेति −
यदा कदा वापि विपश्चिदेषः ब्रह्मण्यनन्तेप्यणुमात्रभेदम् ।
पश्यत्यथामुष्य भयं तदेव यदीक्षितं भिन्नतया प्रमादात् ॥३३१॥
एषः विपश्चित् विवेकी ब्रह्मवित् अनन्ते त्रिविधपरिच्छेदशून्ये ब्रह्मणि अणुमात्रभेदमपि ईषदपि भेदम् , यदा यदीत्यर्थः, कदा वापि कदाचिदपि यदि पश्यति अथ तर्हि, प्रमादात् अनवधानात् भिन्नतया यदीक्षितं तदेवामुष्य विदुषः अमन्वानस्य भयं भयानकं ‘द्वितीयाद्वै भयं भवति’(बृ.उ. १.४.२) इति श्रुतेः, ‘सर्वं तं परादात् योन्यत्रात्मनः सर्वं वेद’(बृ.उ. ४.५७) , ‘येन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’(छा.उ. ७.२५.२) ति च ॥३३१॥
श्रुतिस्मृतिन्यायशतैर्निषिद्धे
दृश्येऽत्र यस्स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥३३२॥
‘नेति नेति’(बृ.उ. २.३.६) , ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) , ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इत्यादिश्रुतिभिः, तदनुसारिणीभिः स्मृतिभिः ‘अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’ इत्याद्याभिः, पञ्चकोशविवेचनसमये दर्शितैः न्यायैश्च परश्शतैः दृश्यं देहादिकम् अहङ्कारान्तं नात्मा इति निषिद्धे अत्र दृश्ये देहादौ यस्स्वात्ममतिम् अहमिति धियं करोति सः निषिद्धकर्ता पापी अत एव मलिम्लुचः मलिनान्तःकरणः यथा इतिकर्तव्यतामूढः दुःखोपरि दुःखजातम् उपैति तथा असज्जडदुःखात्मकानात्मात्मत्वबुद्ध्या दुःखोपरि दुःखजातम् उपैति ॥३३२॥
तत्स्फुटयति सत्येति −
सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् ।
मिथ्याभिसन्धानरतस्तु नश्येद्दृष्टं तदेतद्यदचोरचोरयोः ॥३३३॥
सत्याभिसन्धानरतः ऐदम्पर्येण सत्यनिष्ठायां रतः व्यग्रः, पुरुषः नित्यमात्मीयं महत्त्वं निर्विकारमनस्त्वं सर्वपूज्यत्वं च, उपैति । मिथ्यापदार्थाभिसन्धानरतस्तु नश्येत् यस्यावलम्बनं मिथ्याभूतमेव तस्य कथं सत्त्वम् , स नश्यत्येव । दृष्टं तदेतत् यदचोरचोरयोः, उक्तमिदं छान्दोग्ये षष्ठाध्याये तप्तपरशुग्रह्मणदृष्टान्तेन सत्यवादी आरोपितचोरत्वकः तप्तपरशुं गृह्णाति न्यायस्थाने, तथापि सत्यावलम्बनेन न दह्यते अथ मुच्यते । वस्तुतः चोरस्तु नाहं चोर इति अनृतमपि वदन् तदपरित्यजन् हस्तनिक्षिप्ततप्तपरशुः दह्यते अथ बध्यते इति । एतादृशः मलिम्लुचशब्दार्थः । चौर्यमेव निषिद्धं ततः अनृतवदनादिनिषिद्धपरम्परा, एवङ्कुर्वतः मिथ्याभिसन्धानरतस्य कथं सत्यप्रतिपत्तिः स्यात् । अतः दुःखोपरि दुःखजातम् उपैतीत्युक्तम् लोकद्वयादपि भ्रंशात् ॥३३३॥
तस्मात् −
यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वयमयमहमस्मीत्यात्मदृष्ट्र्यैव तिष्ठेत् ।
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम् ॥३३४॥
ब्रह्मसंस्थत्वस्य संन्यासिन एव सम्भवात् यतिः संन्यासी बन्धहेतुम् असदनुसन्धिम् अब्रह्मचिन्तां स्वयं विहाय अयं परमात्मा अहमस्मीति आत्मदृष्ट्यैव तिष्ठेत् । तत्र परमपुरुषार्थं फलमाह ननु यतः ब्रह्मणि निष्ठा अनन्यसक्ततया स्थितिः स्वानुभूत्या स्वस्वरूपस्वयम्प्रकाशसदानन्दानुभवेन सुखयति आनन्दयति । प्रतीतं पूर्वमनुभूतम् अविद्याकार्यदुःखम् अज्ञानतत्कार्यप्रयोज्यदुःखं यद्वा अविद्यायाः कार्यं यद्दुःखं तत् परम् अत्यन्तं हरति, ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) इति श्रुतेः ‘यत्र नान्यत्पश्यति........स भूमा’, (छा.उ. ७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.उ. ७.२३.१) इति च । तादृग्ब्रह्मणि सर्वदानिष्ठस्य कुतोऽविद्या कुतः तत्कार्यदुःखं वा ॥३३४॥
समूलघातं दुःखमपहन्तुं ब्रह्मणि समाधानाय पराङ्मुखत्वं शातयति बाह्येति −
बाह्याभिसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम् ॥३३५॥
बाह्याभिसन्धिः विषयसङ्गः, ततस्ततोधिकां दुर्वासनां पुनर्जन्मकरीं मलिनवासनामेव फलं परिवर्धयेत् । उक्तं हि पूर्वं ‘वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना’(श्लो. ३१३) इति । तज्ज्ञात्वा विवेकैः प्रमादस्य मृत्युताकथनावसरे कथितैः विषयसङ्गस्य महानर्थहेतुत्वबोधकैः हेतुभिः बाह्यमनात्मानं परिहृत्य बाधित्वा स्वात्मानुसन्धिं ब्रह्मानुचिन्तनं नित्यं सर्वदा विदधीत कुर्यात् ॥३३५॥
बाह्यानुसन्धेः बन्धकत्वमुक्त्वा तन्निरोधे क्रमेण परमपुरुषार्थं फलमाह बाह्य इति −
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबन्धनाशः बहिर्निरोधः पदवी विमुक्तेः ॥३३६॥
अत्यन्तं व्यवहरतोऽपि सुप्तोत्थितस्य मनः प्रसन्नं तिष्ठति । अत एव ‘सम्प्रसादः’ इत्युच्यते सुषुप्तिः सुषुप्तौ बाह्याभावात् । प्रयत्नपुरस्सरमेव बन्धके बाह्ये निरुद्धे आनन्दाविर्भावेन प्रसन्नतायां किमु वक्तव्यम् । मनःप्रसादे ‘प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते’(२.६५) इति गीतावचनात् दुःखमुक्तं निर्मलं मनः सूक्ष्मम् एकाग्रं, परमात्मदर्शनसमर्थं भवति । ‘मनसैवेदमाप्तव्यं, मनसैवानुद्रष्टव्यं, दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इत्यादिश्रुतेः । तस्मिन् सुदृष्टे अनन्यतया निरन्तरं साक्षात्क्रियमाणे, भवबन्धनाशः संसारहेतूनां सर्वेषामध्यासानां समूलघातः अतः बहिर्निरोधः वृत्तेर्बाह्यानालम्बनं विमुक्तेः पदवी प्रापिका ॥३३६॥
एवं बहुप्रकारैः विषयचिन्तायां दोषान् दर्शयित्वा ततस्सर्वात्मना निवर्तयितुं तादृशानां लज्जायै कुत्सां करोति कः पण्डित इति −
कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्यादसतोवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥३३७॥
परमार्थं द्रष्टुं शीलम् अस्यास्तीति परमार्थदर्शी अत एव श्रुतिप्रमाणः श्रुतिरेव प्रमाणं यस्य सः, अतीन्द्रियार्थे तस्या एव मानत्वात् , ततः ‘यो वै भूमा तदमृतम् अतोन्यदार्तम्’(छा.उ. ७.२४.१) इति श्रुत्या सदसद्विवेकी ब्रह्म सत्यं जगन्मिथ्येति ज्ञानवान् तेन पण्डितः पण्डा ज्ञानम् अस्य सञ्जातेति पण्डितः वस्तुयाथात्म्यज्ञानवान् , मुमुक्षुः बन्धनिवृत्तिं कामयमानः स्वपातहेतोः स्वस्य अधोधः, पतनार्थं हि निश्चयेन जानन् असतःअनात्मनः अवलम्बं समाश्रयणं कः कुर्यात् । तत्र दृष्टान्तः शिशुवदिति, शिशुर्हि अज्ञानात् उपरिभागादधः पतेत् सर्पदीपादिकं गृह्णीयात् । अयं तु ज्ञानी । अतः विवेकिना अप्रमादेन ब्रह्मसंस्थेन भवितव्यमिति भावः ॥३३७॥
पदार्थानवबोधावबोधरूपविभिन्नधर्माश्रययोः सुप्तिजागरणयोः यथा एकस्मिन् समा\-नकालिकत्वं नास्ति एवं देहाद्यभिमानमुक्त्योः इत्याह देहादीति −
देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥३३८॥
‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुत्या मुक्तस्य तु पुनः देहादावभिमानो नैव भवति । यदि भवति न स मुक्तः ‘विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न सविज्ञातब्रह्मभावो बहिर्मुखः’(श्लो. ४४३) इति हि वक्ष्यति । अन्वयः स्पष्टः ॥३३८॥
मुक्तस्वरूपमाह अन्तरिति −
अन्तर्बहिस्स्वं स्थिरजङ्गमेषु
ज्ञानात्मनाधारतया विलोक्य ।
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥
स्थिरजङ्गमेषु चराचरेषु वस्तुषु, अन्तर्बहिः ज्ञानात्मना आधारतया स्वं स्वात्मानं विलोक्य साक्षात्कृत्य त्यक्ताखिलोपाधिः त्यक्ताः बाधिताः अखिलाः उपाधयः अज्ञानतत्कार्यरूपाः येन सः त्यक्ताखिलोपाधिः । अत एवाखण्डरूपः देशकालवस्तुपरिच्छेदशून्यसच्चिदानन्दस्वरूपः पूर्णात्मना अपरिच्छिन्नात्मना यः स्थितः एषः मुक्तः । तेन परिच्छिन्नदेहाद्यभिमाने पूर्णात्मना स्थितिर्नास्तीति न स मुक्त इति भावः ॥३३९॥
मुक्तौ हेतुं तस्य हेतुं चाह सर्वात्मनेति −
सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्नपरोस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥३४०॥
‘यतो यतो निवर्तते ततस्ततो विमुच्यते, निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि’(विदु.नी. ४.१४) इत्युक्तरीत्या सर्वात्मना बन्धविमुक्तौ हेतुः सर्वात्मभाव एव । तस्मात् परः अन्यः कश्चिन्नास्ति ‘अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवाः तेषामात्मा भवेद्धि सः’(बृ.उ. १.४.१०) इत्युक्तेः । यद्बन्धकं तदपि स्वभिन्नं बध्नीयात् । नात्मानं कर्तृकर्मविरोधात् उक्तं हि ‘न हि नटः सुशिक्षितोऽपि स्वस्कन्धमधिरोक्ष्यति’(ब्र.सू.भा. ३.३.५४) इति ‘न ह्यग्निरात्मानं दहति’(ब्र.सू.भा. २.२.१०) इति च भाष्ये । (ऐकात्म्याधिकरणे − ३.३.५४) ततः सर्वात्मभावे प्राप्ते यद् बन्धकत्वेन मतं तदात्मत्वस्याप्यवर्जनीयतया कुतो बन्धः ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना’(१०) इति कैवल्यश्रुतेः इति भावः । सर्वभूतेषूपादानतया अधिष्ठानतया रज्जुसर्पे रज्जुमिव अनुस्यूतम् , सर्वभूतानि चात्मनि रज्ज्वां सर्प इव कल्पितानि सम्पश्यन्निति तदर्थः । तेन सर्वोपाधिसम्बन्धविनिर्मुक्ततया केवलीभाव एव सर्वात्मभावः । नह्युपाधिसम्बन्धेन परिच्छिन्नस्य सर्वात्मत्वं सम्भवति । यद्यपि मायायाः व्यापकत्वात् तद्विशिष्टस्य तत्कार्यसर्वाधिष्ठानत्वं सुवचं, तथापि मायायाः परिशिष्यमाणत्वात् तदधिष्ठानत्वं शुद्धस्य निरवच्छिन्नचैतन्यस्यैवेति कैवल्यमेव सर्वात्मभावः । तत्र हेतुः असौ सर्वात्मभावः अस्य ज्ञानिनः सदा निरन्तरम् आत्मनिष्ठया दृश्याग्रहे सत्युपपद्यत इति ॥३४०॥
सदात्मनिष्ठायामेव दृश्याग्रहणं नान्यथेत्युपपादयति दृश्यस्याग्रहणमित्यादिना −
दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसः तत्तत्क्रियां कुर्वतः ।
संन्यस्ताखिलधर्मकर्मविषयैः नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥३४१॥
देहात्मना तिष्ठतः अत एव बाह्यार्थानुभवप्रसक्तमनसः विषयानुभवे प्रकर्षेण सक्तमनसः, षष्ठीबहुव्रीहिः, तेन विषयचिन्तनं सङ्कल्पः कामश्च कथिताः । ततः तत्तत्क्रियां कुर्वतः विषयलाभाद्यर्थं व्याप्रियमाणस्य दृश्यस्याग्रहणं कथन्नु घटते युज्यते । अतः संन्यस्ताखिलधर्मकर्मविषयैः धर्मश्च कर्माणि च विषयाश्च धर्मकर्मविषयाः अखि\-लाश्च ते धर्मकर्मविषयाश्च संन्यस्ता यैस्तैः संन्यस्ताखिलधर्मकर्मविषयैः धर्मः वैदिकः कर्म लौकिकं विषयाश्च शब्दादयः । नित्यात्मनिष्ठापरैः नित्या या आत्मनिष्ठा तस्यां परैः आसक्तैः सा परा प्रधानभूता येषां तैः इति विग्रहेण वा तदासक्तैः । तत्र हेतुः आत्मनि सदानन्देच्छुभिरिति तैः तत्त्वज्ञैः, यत्नतः करणीयं दृश्याग्रहणमित्यन्वयः ॥३४१॥
नित्यात्मनिष्ठा सार्वात्म्यसिद्धिहेतुरित्यर्थः श्रुतिप्रमाणकः इत्याह सार्वेति −