अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२. नरजन्मप्रशंसा

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्मा­द्वै­दि­क­ध­र्म­मा­र्ग­प­रता विद्व­त्त्व­म­स्मात् परम् ।
आत्मा­ना­त्म­वि­वे­चनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥२॥

२

संसा­र­सा­ग­र­नि­म­ग्न­ज­नो­द्दि­धीर्षुः योऽवा­त­र­च्छि­व­नृ­सिं­ह­गु­रु­च्छ­लेन । जाड्या­न्ध­का­र­ह­रणं करुणासमुद्रं तं दक्षिणास्यमनिशं हृदि भावयामि ॥

ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते । चूडामणिं विवेकादिं व्याकुरुष्व मुखान्मम ॥

प्रसन्नानां गभीराणां वचसां देशिकेशितुः । भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥

रत्नगर्भ-गणेशान विघ्न­ध्वा­न्त-वि­भा­कर । निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥

चन्द्रमौलीश्वर विभो ब्रह्म­वि­द्या­स­मा­श्रित । स्वानुभूतिं प्रयच्छाशु चिन्मु­द्रा­वि­ल­स­त्कर ॥

भगवद्गीतासु –

अशो­च्या­न­न्व­शो­चस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ (२.११)

इति श्लोक­व­द्वि­वे­क­चू­डा­म­णि­प्र­क­र­ण­प्र­ति­पा­द्य­कृ­त्स्ना­र्थ­स­ङ्ग्रा­ह­कोऽयं श्लोकः जन्तू­ना­मि­त्यादिः ॥ आस्तिकस्यैव शास्त्रेऽ­धि­का­रात् प्रथमं नर­ज­न्म­प्रा­श­स्त्य­क­थ­न­मु­खेन शरी­र­व्य­ति­रि­क्ता­त्मा­स्तित्वं तावद् ध्वनयति – जन्तूनां नरजन्म दुर्लभमिति ।

उक्तं च शारीरकभाष्ये – ‘शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः पर­लो­क­स­म्ब­न्ध­म­धि­क्रि­यते’(१.१) इति ।

जन्तूनां जननशीलानां प्राणिनां नरजन्म मानुष्यकं दुर्लभमिति । तत्र एकेनैव बहुषु जन्मसु प्राप्तव्येषु किल नरजन्म दुर्लभमिति वक्तुं शक्यं, शरी­र­स­म्ब­न्ध­स्यैव जन्म­श­ब्दा­र्थ­त्वात् । यदा चैकस्य अनेकशरीरयोगः तदा शरी­र­व्य­ति­रि­क्त­त्व­मा­त्मनः सूचितमेव । प्रसिद्धं खल्वनेकैः कुसुमैः युज्यमानं सूत्रं तेभ्योऽतिरिच्यत इति, अनेकानि वासांसि क्रमेण युगपद्वा परिदधच्छरीरं तेभ्यो भिद्यत इति च । तथा च सुख­हे­तु­श­री­र­प्रा­प्तये दुःख­हे­तु­श­री­र­नि­वृ­त्तये च पुण्ये प्रवृत्तिः पापा­न्नि­वृ­त्तिश्च युज्यत इति विधि­नि­षे­धा­त्म­क­क­र्म­शास्त्रे आस्ति­क­स्यै­वा­धि­कारः । एवं ज्ञानेन सक­ल­क­र्म­नि­र्ह­र­णार्थं मोक्ष­शा­स्त्रेऽपि ।

यदि शरीरमेवात्मा स्यात् तस्य प्रत्य­क्ष­सि­द्ध­त्वात् , ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ.उ. २.४.५) इत्या­दि­द­र्श­न­सा­ध­न­वि­धानं कथमुपपद्येत ।

शुभैराप्नोति देवत्वं निषि­द्धै­र्ना­रकीं तनुम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ (नै.सि. १.४१)

इति चैकस्यैव शुभा­शु­भ­मि­श्र­क­र्मभिः विजातीयशरीरलाभं दर्शयति । कथमन्यथा लोकप्रसिद्धं सुख­दुः­खा­दि­वै­चि­त्र्य­मु­प­प­द्यते । यदि कर्मनिरपेक्षः ईश्वर एव कांश्चित् प्राणिनः सुखिनः कांश्चि­द­न्या­दृ­शांश्च सृजेत् , वैष­म्य­नै­र्घृण्ये भजेत । तथाचेश्वरत्वं हीयेत ।

तदुक्तं – ‘वैष­म्य­नै­र्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१.३४) तथाहि दर्शयति, ‘न कर्माविभागादिति चेन्ना­ना­दि­त्वात्’, ‘उपपद्यते चाप्युपलभ्यते च ।’(ब्र.सू. २.१.३५,३६) इति सूत्रैः ईश्वरस्य कर्मसापेक्षत्वं संसा­र­स्या­ना­दित्वं च । धर्मभूतः संसार एव अनादिश्चेत् तदाश्रयस्य संसा­रि­णोऽ­ना­दित्वं कैमु­ति­क­न्या­य­सि­द्धम् । तत्सिद्धमात्मनः शरी­र­व्य­ति­रि­क्तत्वं, शरी­रा­ति­रि­क्ता­त्मा­स्ति­त्व­वा­द्ये­वा­स्तिक इति । शास्त्र­व्य­व­हा­र­नि­दा­न­मा­स्ति­क्य­मिति जन्तूनां नरजन्म दुर्लभम् इत्यनेन सूचितम् ।

ततः पुंस्त्वं, स्त्रिया वेदेऽ­धि­का­रा­भा­वात् उप­नि­ष­दे­क­स­म­धि­गम्य आत्मा नैव ज्ञातुं शक्यत इत्यभिप्रायः । तत्रापि त्रैवर्णिकानां वेदा­धि­का­र­स­त्त्वेऽपि क्षत्रि­य­वै­श्ययोः राज्य­प­रि­पा­ल­न­कृ­ष्या­दि­रू­पाणां चित्त­वि­क्षे­प­हे­तु­भू­तानां बाह्य­व्या­पा­राणां सत्त्वा­दै­द­म्प­र्येण आत्मविचारः दुर्घट इति –

मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहु­जा­तो­रु­जा­तानां नायं धर्मो विधीयते ॥

इति स्मृत्य­नु­सा­रे­णै­द­म्प­र्येण ब्रह्म­वि­चा­र­सा­ध­न­सं­न्या­स­स्या­न­व­का­शाद् एकस्मिन्नेव जन्मनि ब्रह्माधिगमः तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं ततः इत्यनुक्त्वा ततो विप्र­ते­त्यु­क्तम् ।

ब्राह्मणस्य तु देहोऽयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्या­न­न्त­सु­खाय च ॥ (व.स्मृ. ६.३)

इति वसिष्ठस्मृत्या वेद­वि­हि­त­प्र­वृ­त्ति­नि­वृ­त्ति­ध­र्मा­नु­ष्ठा­नेन एकस्मिन्नेव जन्मनि ब्रह्माधिगन्तुं शक्यं ब्राह्मणेनेति भावः । अत एव तस्माद् वैदि­क­ध­र्म­मा­र्ग­प­र­ते­त्यु­क्तम् । न केवलं विप्रतया लब्धव्यं लभ्यते, अपि तु तां लब्ध्वा तदु­चि­त­ध­र्मा­नु­ष्ठा­ने­नेति भावः । ‘धर्मो विश्वस्य जगतः प्रतिष्ठा ... धर्मेण पापमपनुदति’(म.ना.उ. १७.६) इति श्रुत्या धर्मस्यैव सुखसाधनत्वं दुःख­हे­तु­पा­प­नि­व­र्त­कत्वं, तन्निवृत्त्या दुःखा­भा­व­हे­तु­त्व­ञ्चेति, ‘सुखं मे भूयात् , दुःखं मे माभूदि’ति सक­ल­ज­न­का­म­ना­वि­ष­य­सु­ख­दुः­खा­भा­व­रू­प­पु­रु­षा­र्थ­सा­ध­नत्वं तस्यैवेति द्योतयितुं ‘धरतीति धर्मः’ ‘ध्रियतेऽनेनेति वा धर्मः’ इति व्युत्पत्त्या जग­त्प्र­ति­ष्ठा­हे­तुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदि­क­क­र्म­मा­र्ग­प­र­ते­त्य­नुक्त्वा धर्म­मा­र्गे­त्युक्तं वैदिककर्मणः धर्मत्वेऽपि कर्मशब्देन विव­क्षि­ता­र्था­ला­भात् । यदि धर्मव्यतिरिक्तं किञ्चि­त्सु­ख­सा­धनं दुःख­नि­वृ­त्ति­सा­धनं च स्यात् तत्सा­ध­न­स­म्पा­द­नेन सर्वो लोकः सर्वदाऽपि सुखी, निवृत्तदुःखश्च स्यादेव । धर्मस्य तु अतीन्द्रियत्वेन शास्त्रै­क­स­म­धि­ग­म्य­त्वात् जनानां तज्ज्ञानस्य शास्त्र­म­न्त­राऽ­स­म्भ­वा­त्सा­ध­ना­ला­भात् फलालाभ इति प्रतिपादयितुं शक्यते । तदुक्तं वैदिकेति ।

धर्मस्य लक्षणं, ‘चोद­ना­ल­क्ष­णोऽर्थो धर्मः’(पू.मी. १.१.२) इति जैमिनिमहर्षिभिः सूत्रितं यत् वेदप्रमाणकत्वं तद्वैदिकेति विशेषणेन अवगमितम् । न हि वेदं विना प्रमाणान्तरं धर्मविषये पदमाधातुम् ईष्टे, तस्या­ती­न्द्रि­य­त्वेन प्रत्यक्षस्य तत्राप्रसरात् । अत एव नानुमानं तत्र प्रसरति, प्रत्य­क्ष­मू­ल­क­त्वा­द­नु­मा­न­प्र­वृत्तेः । अत एव वेद­व्य­ति­रि­क्त­श­ब्दोऽपि न तं बोधयितुं पारयति प्रत्य­क्षा­दि­नाऽ­व­धा­रि­त­स्यै­वा­र्थस्य लौकिकशब्देन बोधयितुं शक्यत्वात् । स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रम­प्र­मा­दा­दि­स­म्भ­वेन कर्तृ­दो­ष­नि­ब­न्ध­ना­प्रा­मा­ण्य­श­ङ्का­या­म­पौ­रु­षे­य­तया दोष­ग­न्धा­ना­ग­न्धि­त­श्रु­ति­मू­ल­क­त­यैव प्रामाण्यस्य वक्तव्यतया वेद­व्य­ति­रि­क्तस्य शब्दस्य धर्मे स्वतोऽ­प्र­मा­ण­त्वात् ।

किञ्च स्मृतिकर्तारो वा अतीन्द्रियं धर्मं कथं व्यजानन् ? योग­ज­सा­म­र्थ्ये­नेति चेत् , तत्सामर्थ्यं कथं तैः सम्पादितम् ? धर्मा­नु­ष्ठा­ने­नेति चेत् , स धर्मः कथं ज्ञातः ? अत एव –

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । (श्वे.उ. ६.१८)

इति प्रथमं सृज्यमानस्य हिर­ण्य­ग­र्भ­स्यापि ईश्व­रा­नु­गृ­ही­त­वे­द­मू­ल­क­मेव धर्मज्ञानमिति बोधयति श्रुतिः । किं वक्त­व्य­मि­त­रे­षाम् ! अतः सुष्ठूक्तं वैदिकेति ।

अब्भक्षा वायुभक्षा इति­व­द्वे­दै­क­मे­यत्वं धर्मस्य बोधयति । अत्र धर्मशब्देन प्रवृत्तिधर्मः निवृत्तिधर्मश्च कथ्येते । उक्तं हि गीताभाष्ये (पीठिकायाम्) – ‘द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृ­त्ति­ल­क्ष­णश्च’ इति ।

धर्म एव परमं साधनं नित्यसुखावाप्तौ नान्य­द­पे­क्ष्य­म­स्तीति कर्ममीमांसकाः । तान्कटाक्षयति मार्गेति । तेन पर­म­पु­रु­षा­र्थ­सा­ध­नी­भू­त­ब्र­ह्म­सा­क्षा­त्का­र­सा­ध­न­वे­दा­न्त­वि­चा­र­हे­तु­त्वेन संन्या­स­रू­प­नि­वृ­त्ति­ध­र्मस्य तत्सा­ध­न­वै­रा­ग्य­हे­तु­भू­त­चि­त्त­शु­द्धि­हे­तु­त्वेन निष्का­म­क­र्मा­नु­ष्ठा­न­रू­प­प्र­वृ­त्ति­ध­र्मस्य च अपेक्षितत्वं, न तु साक्षा­न्नि­र­ति­श­य­सु­ख­सा­ध­नत्वं तदुभयस्येति सूचितम् । तदुक्तं भगवता बादरायणेन –

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मः निवृत्तिश्च प्रकीर्तितः ॥ इति । (म.भा.शा.प. २४७.६)

तथा च ब्राह्मणेन उपनयनानन्तरम् –

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽ­नु­स­न्धी­य­ताम् आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥

सङ्गः सत्सु विधीयतां भगवतो भक्ति­र्दृ­ढाऽऽ­धी­य­ताम् । शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ॥

इति सोपा­न­प­ञ्च­को­प­दि­ष्ट­रीत्या ईश्व­रा­र्प­ण­बुद्ध्या कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्म­भ्य­स्स­मु­प­र­मि­त­व्य­मि­त्ये­त­द्बो­धि­तम् । तदुक्तं मोक्षधर्मेषु –

नैतादृशं ब्राह्म­ण­स्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थिति­र्द­ण्ड­नि­धा­न­मा­र्जवं ततस्ततश्चोपरतिः क्रियाभ्यः ॥ (म.भा.शा.प. २८३.३८) इति

विद्व­त्त्व­म­स्मा­त्प­रम् ।

तत्र प्रवृ­त्ति­ध­र्म­वि­षये एवं योजना । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.उ. १.१.१०) इति च्छान्दो­ग्य­श्रुत्या क्रियमाणं कर्म तद­ङ्ग­भू­त­म­न्त्रा­र्थ­ज्ञा­न­पु­र­स्सरं क्रियते चेत् भूयसे फलायेति बोधितं भवति । तदुक्तं तत्रैव भाष्ये ‘दृष्टं हि लोके वणिक्छबरयोः पद्म­रा­ग­म­णि­वि­क्रये वणिजो विज्ञा­ना­धि­क्या­त्फ­ला­धि­क्यम् इति’(छा.उ. १.१.१०) । निवृ­त्ति­ध­र्म­वि­षये ‘संन्यस्य श्रवणं कुर्यात्’ इति विधानात् संन्या­सो­त्त­र­का­लि­क­वे­दा­न्त­वा­क्य­श्र­व­ण­ज­न्य­प­रो­क्ष­ज्ञा­न­वत्त्वं विद्वत्त्वम् । अस्मा­त्प­र­मा­त्मा­ना­त्म­वि­वे­च­नम् । इदं ग्रन्थ एव उत्तरत्र स्पष्टयिष्यते । तेन मननं युक्तिभिः श्रुता­र्थ­दृ­ढी­क­र­णा­र्थ­म­नु­चि­न्त­न­रूपं संश­य­भा­व­ना­नि­रा­स­क­मुक्तं भवति ।

ततः स्वनुभवः, निदि­ध्या­स­न­पू­र्व­क­ब्र­ह्म­सा­क्षा­त्कारः कथितो भवति । अत एव स्वनुभव इत्युक्तम् , विप­री­त­भा­व­ना­नि­व­र्त­क­नि­दि­ध्या­स­ना­भावे श्रवणमननाभ्यां जायमानानुभवः सौष्ठवं नाश्नुत इति । एतेन शुभेच्छा विचारणा तनुमानसा सत्त्वा­प­त्ति­श्चेति ज्ञान­भू­मि­का­च­तु­ष्टयं कथितमासीत् ।

असंसक्तिः पदार्थाभावना तुर्यगा च, ‘ब्रह्मात्मना संस्थितिः मुक्तिः’ इत्यत्र संस्थितिशब्देन वास­ना­क्ष­य-म­नो­ना­श-स­ह­कृ­त­स्व­नु­भ­व­बो­ध­केन व्यञ्जिताः । तेन सालो­क्य-सा­मी­प्य-सा­रू­प्य-सा­यु­ज्यानां मुख्य­मु­क्ति­त्वा­भा­वश्च सूचितो भवति । सगुणविषयकतया तेषां चतुर्णामपि मिथ्यात्वात् , परि­च्छे­द­त्र­य­शू­न्य­त्व­रू­प­ब्र­ह्म­त्वस्य सगुणेऽसम्भवात् । ब्रह्मात्मना संस्थितिः कल्पि­त­स­क­ल­वि­धो­पा­धि­स­म्ब­न्ध­वि­धु­र­नि­त्य­शु­द्ध­बु­द्ध­मु­क्त­प्र­त्य­ग­भि­न्न­प­रि­पू­र्ण­स्व­रू­पे­णा­व­स्थानं कैवल्यमेव मुक्तिः, शतकोटिजन्मसु कृतैः पुण्यैर्विना नो लभ्यते इत्यन्वयः ॥२॥

दुर्लभं त्रयमेवैतद् दैवा­नु­ग्र­ह­हे­तु­कम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥

३

लब्ध्वा कथञ्चित् नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुति­पा­र­द­र्श­नम् ।
यस्स्वा­त्म­मुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनि­ह­न्त्य­स­द्ग्र­हात् ॥४॥

४

इतः कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥

५